| |
|

This overlay will guide you through the buttons:

रमाजाने जाने यदिह तव भक्तेषु विभवोन सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलंप्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ 89.1 ॥
रमा-जाने जाने यत् इह तव भक्तेषु विभवः न सम्पद्यः सद्यस् तत् इह मद-कृत्-त्वात् अशमिनाम् । प्रशान्तिम् कृत्वा एव प्रदिशसि ततस् कामम् अखिलम् प्रशान्तेषु क्षिप्रम् न खलु भवदीये च्युति-कथा ॥ ८९।१ ॥
ramā-jāne jāne yat iha tava bhakteṣu vibhavaḥ na sampadyaḥ sadyas tat iha mada-kṛt-tvāt aśaminām . praśāntim kṛtvā eva pradiśasi tatas kāmam akhilam praśānteṣu kṣipram na khalu bhavadīye cyuti-kathā .. 89.1 ..
सद्यःप्रसादरुषितान्विधिशङ्करादीन्कचिद्विभो निजगुणानुगुणं भजन्तः । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्यास्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ 89.2 ॥
सद्यस् प्रसाद-रुषितान् विधि-शङ्कर-आदीन् कचिद् विभो निज-गुण-अनुगुणम् भजन्तः । भ्रष्टाः भवन्ति बत कष्टम् अदीर्घ-दृष्ट्या अस्पष्टम् वृकासरे उदाहरणम् किल अस्मिन् ॥ ८९।२ ॥
sadyas prasāda-ruṣitān vidhi-śaṅkara-ādīn kacid vibho nija-guṇa-anuguṇam bhajantaḥ . bhraṣṭāḥ bhavanti bata kaṣṭam adīrgha-dṛṣṭyā aspaṣṭam vṛkāsare udāharaṇam kila asmin .. 89.2 ..
शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ 89.3 ॥
शकुनि-जः स हि नारदम् एकदा त्वरित-तोषम् अपृच्छत् अधीश्वरम् । स च दिदेश गिरीशम् उपासितुम् न तु भवन्तम् अबन्धुम् असाधुषु ॥ ८९।३ ॥
śakuni-jaḥ sa hi nāradam ekadā tvarita-toṣam apṛcchat adhīśvaram . sa ca dideśa girīśam upāsitum na tu bhavantam abandhum asādhuṣu .. 89.3 ..
तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिनेशिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनंजगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ 89.4 ॥
तपः तप्तु घोरम् स खलु कुपितः सप्तम-दिनेशिरः छित्त्वा सद्यस् पुरहरम् उपस्थाप्य पुरतस् । अति क्षुद्रम् रौद्रम् शिरसि कर-दानेन निधनम् जगन्नाथात् वव्रे भवति विमुखानाम् क्व शुभ-धीः ॥ ८९।४ ॥
tapaḥ taptu ghoram sa khalu kupitaḥ saptama-dineśiraḥ chittvā sadyas puraharam upasthāpya puratas . ati kṣudram raudram śirasi kara-dānena nidhanam jagannāthāt vavre bhavati vimukhānām kva śubha-dhīḥ .. 89.4 ..
मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रंदैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वंदूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ 89.5 ॥
मोक्तारम् बन्ध-मुक्तः हरिणपतिः इव प्राद्रवत् सः अथ रुद्रम् दैत्यात् भीत्या स्म देवः दिशि दिशि वलते पृष्ठतस् दत्त-दृष्टिः । तूष्णीके सर्व-लोके तव पदम् अधिरोक्ष्यन्तम् उद्वीक्ष्य शर्वं दूरात् एव अग्रतस् त्वम् पटु-वटु-वपुषा तस्थिषे दानवाय ॥ ८९।५ ॥
moktāram bandha-muktaḥ hariṇapatiḥ iva prādravat saḥ atha rudram daityāt bhītyā sma devaḥ diśi diśi valate pṛṣṭhatas datta-dṛṣṭiḥ . tūṣṇīke sarva-loke tava padam adhirokṣyantam udvīkṣya śarvaṃ dūrāt eva agratas tvam paṭu-vaṭu-vapuṣā tasthiṣe dānavāya .. 89.5 ..
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचासन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातंभ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ 89.6 ॥
भद्रम् ते शाकुनेय भ्रमसि किम् अधुना त्वम् पिशाचस्य वाचा असन्देहः चेद् मद्-उक्तौ तव किमु न करोषि अङ्गुलीम् अङ्ग मौलौ । इत्थम् त्वद्-वाक्य-मूढः शिरसि कृत-करः सः अपतत् छिन्न-पातम् भ्रंशः हि एवम् पर-उपासितुः अपि च गतिः शूलिनः अपि त्वम् एव ॥ ८९।६ ॥
bhadram te śākuneya bhramasi kim adhunā tvam piśācasya vācā asandehaḥ ced mad-uktau tava kimu na karoṣi aṅgulīm aṅga maulau . ittham tvad-vākya-mūḍhaḥ śirasi kṛta-karaḥ saḥ apatat chinna-pātam bhraṃśaḥ hi evam para-upāsituḥ api ca gatiḥ śūlinaḥ api tvam eva .. 89.6 ..
भृगुं किल सरस्वतीनिकटवासिनस्तापसास्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौहरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ 89.7 ॥
भृगुम् किल सरस्वती-निकट-वासिनः तापसाः त्रिमुर्तिषु समादिशन् अधिक-सत्त्वताम् वेदितुम् । अयम् पुनर् अनादरात् उदित-रुद्ध-रोषे विधौहरे अपि च गिरिजया धृते त्वाम् अगात् ॥ ८९।७ ॥
bhṛgum kila sarasvatī-nikaṭa-vāsinaḥ tāpasāḥ trimurtiṣu samādiśan adhika-sattvatām veditum . ayam punar anādarāt udita-ruddha-roṣe vidhauhare api ca girijayā dhṛte tvām agāt .. 89.7 ..
सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वांविप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत्सदा मेत्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ 89.8 ॥
सुप्तम् रमा-अङ्क-भुवि पङ्कज-लोचनम् त्वाम् विप्रे विनिघ्नति पदेन मुदा उत्थितः त्वम् । सर्वम् क्षमस्व मुनि-वर्य भवेत् सदा मा इत्वद्-पाद-चिह्नम् इह भूषणम् इति अवादीः ॥ ८९।८ ॥
suptam ramā-aṅka-bhuvi paṅkaja-locanam tvām vipre vinighnati padena mudā utthitaḥ tvam . sarvam kṣamasva muni-varya bhavet sadā mā itvad-pāda-cihnam iha bhūṣaṇam iti avādīḥ .. 89.8 ..
निश्चित्य ते च सुदृढं त्वयि बद्धभावाःसारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनंसत्त्वोच्चयैकतनुमेव वयं भजामः ॥ 89.9 ॥
निश्चित्य ते च सु दृढम् त्वयि बद्धभावाः सारस्वताः मुनि-वराः दधिरे विमोक्षम् । त्वाम् एवम् अच्युत पुनर् च्युति-दोष-हीनम् सत्त्व-उच्चया एक-तनुम् एव वयम् भजामः ॥ ८९।९ ॥
niścitya te ca su dṛḍham tvayi baddhabhāvāḥ sārasvatāḥ muni-varāḥ dadhire vimokṣam . tvām evam acyuta punar cyuti-doṣa-hīnam sattva-uccayā eka-tanum eva vayam bhajāmaḥ .. 89.9 ..
जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिवस्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपविनताभाग्यनिवहंपरीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ 89.10 ॥
जगत्-सृष्टि-आदौ त्वाम् निगम-निवहैः वन्दिभिः इव स्तुतम् विष्णो सच्चिद्-परम-रस-निर्द्वैत-वपुषम् । परात्मानम् भूमन् पशुप-विनता-भाग्य-निवहम् परीतप-श्रान्त्यै पवनपुर-वासिन् परिभजे ॥ ८९।१० ॥
jagat-sṛṣṭi-ādau tvām nigama-nivahaiḥ vandibhiḥ iva stutam viṣṇo saccid-parama-rasa-nirdvaita-vapuṣam . parātmānam bhūman paśupa-vinatā-bhāgya-nivaham parītapa-śrāntyai pavanapura-vāsin paribhaje .. 89.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In