अमुष्य हि सरोरुहः किमपि कारणं सम्भवे दितिस्म कृतनिश्चयः स खलु नाळरन्ध्राध्वना । स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कळेबरं दृष्टवान् ॥ 9.3 ॥
PADACHEDA
अमुष्य हि सरोरुहः किम् अपि कारणम् सम्भवे दिति-स्म कृत-निश्चयः स खलु नाळ-रन्ध्र-अध्वना । स्व-योग-बल-विद्यया समवरूढवान् प्रौढ-धीः त्वदीय-मति-मोहनम् न तु कळेबरम् दृष्टवान् ॥ ९।३ ॥
TRANSLITERATION
amuṣya hi saroruhaḥ kim api kāraṇam sambhave diti-sma kṛta-niścayaḥ sa khalu nāl̤a-randhra-adhvanā . sva-yoga-bala-vidyayā samavarūḍhavān prauḍha-dhīḥ tvadīya-mati-mohanam na tu kal̤ebaram dṛṣṭavān .. 9.3 ..