| |
|

This overlay will guide you through the buttons:

वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्तेष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नंकिमपि यदवभातं तद्धि रूपं तवैव ॥ 90.1 ॥
वृक-भृगु-सुनि-मोहिनी-अम्बरीष-आदि-वृत्तेषु अयि तव हि महत्-त्वम् सर्व-शर्व-आदि-जैत्रम् । स्थितम् इह परमात्मन् निष्कल-अर्वाक् अभिन्नम् किम् अपि यत् अवभातम् तत् हि रूपम् तव एव ॥ ९०।१ ॥
vṛka-bhṛgu-suni-mohinī-ambarīṣa-ādi-vṛtteṣu ayi tava hi mahat-tvam sarva-śarva-ādi-jaitram . sthitam iha paramātman niṣkala-arvāk abhinnam kim api yat avabhātam tat hi rūpam tava eva .. 90.1 ..
मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ 90.2 ॥
मूर्ति-त्रय-ईश्वर-सदाशिव-पञ्चकम् यत् प्राहुः परात्म-वपुः एव सदाशिवः अस्मिन् । तत्र ईश्वरः तु स विकुण्ठ-पदः त्वम् एव त्रित्वम् पुनर् भजसि सत्य-पदे त्रि-भागे ॥ ९०।२ ॥
mūrti-traya-īśvara-sadāśiva-pañcakam yat prāhuḥ parātma-vapuḥ eva sadāśivaḥ asmin . tatra īśvaraḥ tu sa vikuṇṭha-padaḥ tvam eva tritvam punar bhajasi satya-pade tri-bhāge .. 90.2 ..
तत्रापि सात्त्विकतनुं तव विष्णुमाहुर्धाता तु सत्त्वविरळो रजसैव पूर्णः । सत्वोत्कटत्वमपि चास्ति तमोविकारचेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ 90.3 ॥
तत्र अपि सात्त्विक-तनुम् तव विष्णुम् आहुः धाता तु सत्त्व-विरळः रजसा एव पूर्णः । सत्व-उत्कट-त्वम् अपि च अस्ति तमः-विकार-चेष्टा-आदिकम् च तव शङ्कर-नाम्नि मूर्तौ ॥ ९०।३ ॥
tatra api sāttvika-tanum tava viṣṇum āhuḥ dhātā tu sattva-viral̤aḥ rajasā eva pūrṇaḥ . satva-utkaṭa-tvam api ca asti tamaḥ-vikāra-ceṣṭā-ādikam ca tava śaṅkara-nāmni mūrtau .. 90.3 ..
तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वांशर्वात्मनापि खलु सर्वमयत्वहेतोः । शंसन्त्युपासनाविधौ तदपि स्वतस्तुत्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ 90.4 ॥
तम् च त्रिमूर्ति-अतिगतम् पुरपूरुषम् त्वाम् शर्व-आत्मना अपि खलु सर्व-मय-त्व-हेतोः । शंसन्ति उपासना-विधौ तत् अपि स्वतस् तु त्वद्-रूपम् इति अति दृढम् बहु नः प्रमाणम् ॥ ९०।४ ॥
tam ca trimūrti-atigatam purapūruṣam tvām śarva-ātmanā api khalu sarva-maya-tva-hetoḥ . śaṃsanti upāsanā-vidhau tat api svatas tu tvad-rūpam iti ati dṛḍham bahu naḥ pramāṇam .. 90.4 ..
श्रीशङ्करोऽपि भगवान्सकलेषु तावत्त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादिव्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ 90.5 ॥
श्री-शङ्करः अपि भगवान् सकलेषु तावत् त्वाम् एव मानयति यः न हि पक्षपाती । त्वद्-निष्ठम् एव स हि नाम-सहस्रक-आदि-व्याख्यत् भवत्-स्तुति-परः च गतिम् गतः अन्ते ॥ ९०।५ ॥
śrī-śaṅkaraḥ api bhagavān sakaleṣu tāvat tvām eva mānayati yaḥ na hi pakṣapātī . tvad-niṣṭham eva sa hi nāma-sahasraka-ādi-vyākhyat bhavat-stuti-paraḥ ca gatim gataḥ ante .. 90.5 ..
मूर्तित्रयातिगमुवाच च मन्त्रशास्त्रस्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कळमसौ प्रणवे खलूक्त्वात्वामेव तत्र सकलं निजगाद नान्यम् ॥ 90.6 ॥
मूर्ति-त्रय-अतिगम् उवाच च मन्त्र-शास्त्रस्य आदौ कलाय-सुषमम् सकल-ईश्वरम् त्वाम् । ध्यानम् च निष्कळम् असौ प्रणवे खलु उक्त्वा त्वाम् एव तत्र सकलम् निजगाद न अन्यम् ॥ ९०।६ ॥
mūrti-traya-atigam uvāca ca mantra-śāstrasya ādau kalāya-suṣamam sakala-īśvaram tvām . dhyānam ca niṣkal̤am asau praṇave khalu uktvā tvām eva tatra sakalam nijagāda na anyam .. 90.6 ..
समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ 90.7 ॥
समस्त-सारे च पुराण-संग्रहे विसंशयम् त्वद्-महिमा एव वर्ण्यते । त्रिमूर्ति-युज्-सत्य-पद-त्रि-भागतः परम् पदम् ते कथितम् न शूलिनः ॥ ९०।७ ॥
samasta-sāre ca purāṇa-saṃgrahe visaṃśayam tvad-mahimā eva varṇyate . trimūrti-yuj-satya-pada-tri-bhāgataḥ param padam te kathitam na śūlinaḥ .. 90.7 ..
यद्ब्राह्मकल्प इह भागवतद्वितीयस्कन्धोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगादश्रीमाधवः शिवपरोऽपि पुराणसारे ॥ 90.8 ॥
यत् ब्राह्म-कल्पे इह भागवत-द्वितीय-स्कन्ध-उदितम् वपुः अनावृतम् ईश धात्रे । तस्य एव नाम हरि-शर्व-मुखम् जगाद श्री-माधवः शिव-परः अपि पुराणसारे ॥ ९०।८ ॥
yat brāhma-kalpe iha bhāgavata-dvitīya-skandha-uditam vapuḥ anāvṛtam īśa dhātre . tasya eva nāma hari-śarva-mukham jagāda śrī-mādhavaḥ śiva-paraḥ api purāṇasāre .. 90.8 ..
ये स्वप्रकृत्यनुगुणा गिरिशं भजन्तेतेषां फलं हि दृढयैव तदीयभक्त्या । व्यासो हि तेन कृतवानधिकारिहेतोःस्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ 90.9 ॥
ये स्व-प्रकृति-अनुगुणाः गिरिशम् भजन्त एतेषाम् फलम् हि दृढया एव तदीय-भक्त्या । व्यासः हि तेन कृतवान् अधिकारि-हेतोः स्कान्द-आदिकेषु तव हानि-वचः-अर्थवादैः ॥ ९०।९ ॥
ye sva-prakṛti-anuguṇāḥ giriśam bhajanta eteṣām phalam hi dṛḍhayā eva tadīya-bhaktyā . vyāsaḥ hi tena kṛtavān adhikāri-hetoḥ skānda-ādikeṣu tava hāni-vacaḥ-arthavādaiḥ .. 90.9 ..
भूतार्थकीर्तिरनुवादविरुद्धवादौत्रेधार्थवादगतयः खलु रोचनार्थाः । स्कान्दादिकेषु बहवोऽत्र विरुद्धवादास्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ 90.10 ॥
भूत-अर्थ-कीर्तिः अनुवाद-विरुद्ध-वाद-औत्रेध-अर्थवाद-गतयः खलु रोचन-अर्थाः । स्कान्द-आदिकेषु बहवः अत्र विरुद्ध-वादाः त्वद्-तामस-त्व-परिभूति-उपशिक्षण-आद्याः ॥ ९०।१० ॥
bhūta-artha-kīrtiḥ anuvāda-viruddha-vāda-autredha-arthavāda-gatayaḥ khalu rocana-arthāḥ . skānda-ādikeṣu bahavaḥ atra viruddha-vādāḥ tvad-tāmasa-tva-paribhūti-upaśikṣaṇa-ādyāḥ .. 90.10 ..
यत्किञ्चिदप्यविदुषापि विभो मयोक्तंतन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीतक्लेशान्विधूय कुरु भक्तिभरं परात्मन् ॥ 90.11 ॥
यत् किञ्चिद् अपि अविदुषा अपि विभो मया उक्तम् तत् मन्त्र-शास्त्र-वचन-आदि अभिदृष्टम् एव । व्यास-उक्ति-सार-मय-भागवत-उपगीत-क्लेशान् विधूय कुरु भक्ति-भरम् परात्मन् ॥ ९०।११ ॥
yat kiñcid api aviduṣā api vibho mayā uktam tat mantra-śāstra-vacana-ādi abhidṛṣṭam eva . vyāsa-ukti-sāra-maya-bhāgavata-upagīta-kleśān vidhūya kuru bhakti-bharam parātman .. 90.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In