भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैःकावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ 92.7 ॥
PADACHEDA
भक्ताः तावत् कलौ स्युः द्रमिळ-भुवि ततस् भूरिशस् तत्र च उच्चैस् कावेरीम् ताम्रपर्णीम् अनु किल धृत-मालाम् च पुण्याम् प्रतीचीम् । हा माम् अपि एतद्-अन्तर्भवम् अपि च विभो त्वयि आशा-पाशैः निबध्य भ्रमय न भगवन् पूरय त्वद्-निषेवाम् ॥ ९२।७ ॥
TRANSLITERATION
bhaktāḥ tāvat kalau syuḥ dramil̤a-bhuvi tatas bhūriśas tatra ca uccais kāverīm tāmraparṇīm anu kila dhṛta-mālām ca puṇyām pratīcīm . hā mām api etad-antarbhavam api ca vibho tvayi āśā-pāśaiḥ nibadhya bhramaya na bhagavan pūraya tvad-niṣevām .. 92.7 ..
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षिद्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ 92.8 ॥
PADACHEDA
दृष्ट्वा धर्म-द्रुहम् तम् कलिम् अपकरुणम् प्राक् महीक्षित्-परीक्षित् हन्तुम् व्याकृष्ट-खड्गः अपि न विनिहतवान् सार-वेदी गुण-अंशात् । त्वद्-सेवा अदि आशु सिध्येत् असत् इह न तथा त्वद्-परे च एष भीरुः यत् तु प्राक् एव रोग-आदिभिः अपहरते तत्र हा शिक्षय एनम् ॥ ९२।८ ॥
TRANSLITERATION
dṛṣṭvā dharma-druham tam kalim apakaruṇam prāk mahīkṣit-parīkṣit hantum vyākṛṣṭa-khaḍgaḥ api na vinihatavān sāra-vedī guṇa-aṃśāt . tvad-sevā adi āśu sidhyet asat iha na tathā tvad-pare ca eṣa bhīruḥ yat tu prāk eva roga-ādibhiḥ apaharate tatra hā śikṣaya enam .. 92.8 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.