भक्तास्तावत्कलौ स्युर्द्रमिळभुवि ततो भूरिशस्तत्र चोच्चैःकावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्वय्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ 92.7 ॥
PADACHEDA
भक्ताः तावत् कलौ स्युः द्रमिळ-भुवि ततस् भूरिशस् तत्र च उच्चैस् कावेरीम् ताम्रपर्णीम् अनु किल धृत-मालाम् च पुण्याम् प्रतीचीम् । हा माम् अपि एतद्-अन्तर्भवम् अपि च विभो त्वयि आशा-पाशैः निबध्य भ्रमय न भगवन् पूरय त्वद्-निषेवाम् ॥ ९२।७ ॥
TRANSLITERATION
bhaktāḥ tāvat kalau syuḥ dramil̤a-bhuvi tatas bhūriśas tatra ca uccais kāverīm tāmraparṇīm anu kila dhṛta-mālām ca puṇyām pratīcīm . hā mām api etad-antarbhavam api ca vibho tvayi āśā-pāśaiḥ nibadhya bhramaya na bhagavan pūraya tvad-niṣevām .. 92.7 ..
दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षिद्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरुर्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ 92.8 ॥
PADACHEDA
दृष्ट्वा धर्म-द्रुहम् तम् कलिम् अपकरुणम् प्राक् महीक्षित्-परीक्षित् हन्तुम् व्याकृष्ट-खड्गः अपि न विनिहतवान् सार-वेदी गुण-अंशात् । त्वद्-सेवा अदि आशु सिध्येत् असत् इह न तथा त्वद्-परे च एष भीरुः यत् तु प्राक् एव रोग-आदिभिः अपहरते तत्र हा शिक्षय एनम् ॥ ९२।८ ॥
TRANSLITERATION
dṛṣṭvā dharma-druham tam kalim apakaruṇam prāk mahīkṣit-parīkṣit hantum vyākṛṣṭa-khaḍgaḥ api na vinihatavān sāra-vedī guṇa-aṃśāt . tvad-sevā adi āśu sidhyet asat iha na tathā tvad-pare ca eṣa bhīruḥ yat tu prāk eva roga-ādibhiḥ apaharate tatra hā śikṣaya enam .. 92.8 ..