| |
|

This overlay will guide you through the buttons:

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मासर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्भ्रान्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वाव्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ 93.1 ॥
बन्धु-स्नेहम् विजह्याम् तव हि करुणया त्वयि उपावेशित-आत्मा असर्वम् त्वक्त्वा चरेयम् सकलम् अपि जगत् वीक्ष्य माया-विलासम् । नानात्वात् भ्रान्ति-जन्यात् सति खलु गुण-दोष-अवबोधे विधिः वा अ व्यासेधः वा कथम् तौ त्वयि निहित-मतेः वीत-वैषम्य-बुद्धेः ॥ ९३।१ ॥
bandhu-sneham vijahyām tava hi karuṇayā tvayi upāveśita-ātmā asarvam tvaktvā careyam sakalam api jagat vīkṣya māyā-vilāsam . nānātvāt bhrānti-janyāt sati khalu guṇa-doṣa-avabodhe vidhiḥ vā a vyāsedhaḥ vā katham tau tvayi nihita-mateḥ vīta-vaiṣamya-buddheḥ .. 93.1 ..
क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवस्सन्त्यनन्तास्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेतास्तापोच्छित्तेरुपायं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥ 93.2 ॥
क्षुध्-तृष्णा-लोप-मात्रे सतत-कृत-धियः जन्तवः सन्ति अनन्ताः तेभ्यः विज्ञानवत्-त्वात् पुरुषः इह वरः तद्-जनिः दुर्लभा एव । तत्र अपि आत्मा आत्मनः स्यात् सुहृद् अपि च रिपुः यः त्वयि न्यस्त-चेताः ताप-उच्छित्तेः उपायम् स्मरति स हि सुहृद् स्व-आत्म-वैरी ततस् अन्यः ॥ ९३।२ ॥
kṣudh-tṛṣṇā-lopa-mātre satata-kṛta-dhiyaḥ jantavaḥ santi anantāḥ tebhyaḥ vijñānavat-tvāt puruṣaḥ iha varaḥ tad-janiḥ durlabhā eva . tatra api ātmā ātmanaḥ syāt suhṛd api ca ripuḥ yaḥ tvayi nyasta-cetāḥ tāpa-ucchitteḥ upāyam smarati sa hi suhṛd sva-ātma-vairī tatas anyaḥ .. 93.2 ..
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन्सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीराद्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ 93.3 ॥
त्वद्-कारुण्ये प्रवृत्ते कः इव न हि गुरुः लोक-वृत्ते अपि भूमन् सर्व-आक्रान्ता अपि भूमिः न हि चलति ततस् सत्-क्षमाम् शिक्षयेयम् । गृह्णीयाम् ईश तद्-तद्-विषय-परिचते अपि अप्रसक्तिम् समीरात् व्याप्त-त्वम् च आत्मनः मे गगन-गुरु-वशात् भातु निर्लेप-ता च ॥ ९३।३ ॥
tvad-kāruṇye pravṛtte kaḥ iva na hi guruḥ loka-vṛtte api bhūman sarva-ākrāntā api bhūmiḥ na hi calati tatas sat-kṣamām śikṣayeyam . gṛhṇīyām īśa tad-tad-viṣaya-paricate api aprasaktim samīrāt vyāpta-tvam ca ātmanaḥ me gagana-guru-vaśāt bhātu nirlepa-tā ca .. 93.3 ..
स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णांसर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यांतोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ 93.4 ॥
स्वच्छः स्याम् पावनः अहम् मधुरः उदक-वत् वह्नि-वत् मा स्म गृह्णाम् सर्वान्नीनः अपि दोषम् तरुषु तम् इव माम् सर्व-भूतेषु अवेयाम् । पुष्टिः नष्टिः कलानाम् शशिनः इव तनोः न आत्मनः अस्ति इति विद्याम् तोय-आदि-व्यस्त-मार्ताण्ड-वत् अपि च तनुषु एकताम् त्वद्-प्रसादात् ॥ ९३।४ ॥
svacchaḥ syām pāvanaḥ aham madhuraḥ udaka-vat vahni-vat mā sma gṛhṇām sarvānnīnaḥ api doṣam taruṣu tam iva mām sarva-bhūteṣu aveyām . puṣṭiḥ naṣṭiḥ kalānām śaśinaḥ iva tanoḥ na ātmanaḥ asti iti vidyām toya-ādi-vyasta-mārtāṇḍa-vat api ca tanuṣu ekatām tvad-prasādāt .. 93.4 ..
स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवंप्राप्त प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः । मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागीभूयासं किन्तु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥ 93.5 ॥
स्नेहात् व्याध-अस्त-पुत्र-प्रणय-मृत-कपोतायितः मा स्म भूवम् प्राप्त प्राश्नन् सहेय क्षुधम् अपि शयु-वत् सिन्धु-वत् स्याम् अगाधः । मा योषित्-आदौ शिखिनि शलभ-वत् भृङ्ग-वत् सार-भागीभूयासम् किन्तु तद्वत् धन-चयन-वशात् मा अहम् ईश प्रणेशम् ॥ ९३।५ ॥
snehāt vyādha-asta-putra-praṇaya-mṛta-kapotāyitaḥ mā sma bhūvam prāpta prāśnan saheya kṣudham api śayu-vat sindhu-vat syām agādhaḥ . mā yoṣit-ādau śikhini śalabha-vat bhṛṅga-vat sāra-bhāgībhūyāsam kintu tadvat dhana-cayana-vaśāt mā aham īśa praṇeśam .. 93.5 ..
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघंहर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । नात्यासज्जेय भोज्ये झष इव बिळिशे पिङ्गलावन्निराशःसुप्यां भर्तव्ययोगात्कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥ 93.6 ॥
मा बध्यासम् तरुण्या गजः इव वशया न अर्जयेयम् धन-ओघं हर्ता अन्यः तम् हि माध्वी-हरः इव मृग-वत् मा गुहम् ग्राम्य-गीतैः । न अत्यासज्जेय भोज्ये झषः इव बिळिशे पिङ्गला-वत् निराशः सुप्याम् भर्तव्य-योगात् कुररः इव विभो स आमिषः अन्यैः न हन्यै ॥ ९३।६ ॥
mā badhyāsam taruṇyā gajaḥ iva vaśayā na arjayeyam dhana-oghaṃ hartā anyaḥ tam hi mādhvī-haraḥ iva mṛga-vat mā guham grāmya-gītaiḥ . na atyāsajjeya bhojye jhaṣaḥ iva bil̤iśe piṅgalā-vat nirāśaḥ supyām bhartavya-yogāt kuraraḥ iva vibho sa āmiṣaḥ anyaiḥ na hanyai .. 93.6 ..
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयंकन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषंगेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ 93.7 ॥
वर्तेय त्यक्त-मानः सुखम् अति शिशु-वत् निस्सहायः चरेयम् कन्यायाः एक-शेषः वलयः इव विभो वर्जित-अन्योन्य-घोषः । त्वद्-चित्तः ना अवबुध्यै परम् इषुकृत् इव क्ष्माभृत्-आयान-घोषंगेहेषु अन्य-प्रणीतेषु अहिर् इव निवसानि उन्दुरोः मन्दिरेषु ॥ ९३।७ ॥
varteya tyakta-mānaḥ sukham ati śiśu-vat nissahāyaḥ careyam kanyāyāḥ eka-śeṣaḥ valayaḥ iva vibho varjita-anyonya-ghoṣaḥ . tvad-cittaḥ nā avabudhyai param iṣukṛt iva kṣmābhṛt-āyāna-ghoṣaṃgeheṣu anya-praṇīteṣu ahir iva nivasāni unduroḥ mandireṣu .. 93.7 ..
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयांत्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिंधत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ 93.8 ॥
त्वयि एव त्वद्-कृतम् त्वम् क्षपयसि जगत् इति ऊर्णनाभात् प्रतीयाम् त्वद्-चिन्ता त्वद्-स्वरूपम् कुरुते इति दृढम् शिक्षेये पेशकारात् । विष्-भस्म-आत्मा च देहि भवति गुरु-वरः यः विवेकम् विरक्तिम् धत्ते सञ्चिन्त्यमानः मम तु बहु-रुजा-पीडितः अयम् विशेषात् ॥ ९३।८ ॥
tvayi eva tvad-kṛtam tvam kṣapayasi jagat iti ūrṇanābhāt pratīyām tvad-cintā tvad-svarūpam kurute iti dṛḍham śikṣeye peśakārāt . viṣ-bhasma-ātmā ca dehi bhavati guru-varaḥ yaḥ vivekam viraktim dhatte sañcintyamānaḥ mama tu bahu-rujā-pīḍitaḥ ayam viśeṣāt .. 93.8 ..
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतोर्गेहे चित्ते कळत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्णत्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ 93.9 ॥
ही ही मे देह-मोहम् त्यज पवनपुर-अधीश यद्-प्रेम-हेतोः गेहे चित्ते कळत्र-आदिषु च विवशिताः त्वद्-पदम् विस्मरन्ति । सः अयम् वह्नेः शुनः वा परम् इह परतस् विकर्षन्ति अवशम् अतस् इतस् कः अपि न त्वद्-पद-अब्जे ॥ ९३।९ ॥
hī hī me deha-moham tyaja pavanapura-adhīśa yad-prema-hetoḥ gehe citte kal̤atra-ādiṣu ca vivaśitāḥ tvad-padam vismaranti . saḥ ayam vahneḥ śunaḥ vā param iha paratas vikarṣanti avaśam atas itas kaḥ api na tvad-pada-abje .. 93.9 ..
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष । नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहंक्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥ 93.10 ॥
दुर्वारः देह-मोहः यदि पुनर् अधुना तर्हि निश्शेष-रोगान् हृत्वा भक्तिम् द्रढिष्ठाम् कुरु तव पद-पङ्केरुहे पङ्कज-अक्ष । नूनर् नाना भव-अन्ते समधिगतम् इमम् मुक्ति-दम् विप्र-देहम् क्षुद्रे हा हन्त मा मा क्षिप विषय-रसे पाहि माम् मारुतेश ॥ ९३।१० ॥
durvāraḥ deha-mohaḥ yadi punar adhunā tarhi niśśeṣa-rogān hṛtvā bhaktim draḍhiṣṭhām kuru tava pada-paṅkeruhe paṅkaja-akṣa . nūnar nānā bhava-ante samadhigatam imam mukti-dam vipra-deham kṣudre hā hanta mā mā kṣipa viṣaya-rase pāhi mām māruteśa .. 93.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In