| |
|

This overlay will guide you through the buttons:

शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं तेशुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते । नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं तेवह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ 94.1 ॥
शुद्धाः निष्काम-धर्मैः प्रवर-गुरु-गिरा तद्-स्व-रूपम् परम् ते शुद्धम् देह-इन्द्रिय-आदि-व्यपगतम् अखिल-व्याप्तम् आवेदयन्ते । नानात्व-स्थौल्य-कार्श्य-आदि तु गुण-ज-वपुः-सङ्गतः अध्यासितम् महत् अणु-ता-दीप्त-ता-शान्त-ता-आदि ॥ ९४।१ ॥
śuddhāḥ niṣkāma-dharmaiḥ pravara-guru-girā tad-sva-rūpam param te śuddham deha-indriya-ādi-vyapagatam akhila-vyāptam āvedayante . nānātva-sthaulya-kārśya-ādi tu guṇa-ja-vapuḥ-saṅgataḥ adhyāsitam mahat aṇu-tā-dīpta-tā-śānta-tā-ādi .. 94.1 ..
आचार्याख्याधरस्थारणिसमनुमिळच्छिष्यरूपोत्तरारण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरेदाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ 94.2 ॥
आचार्य-आख्या-अधर-स्थ-अरणि-समनुमिळत्-शिष्य-रूप-उत्तर-अरण्य-आवेध-उद्भासितेन स्फुटतर-परिबोध-अग्निना दह्यमाने । कर्म-आली-वासना-तद्-कृत-तनु-भुवन-भ्रान्ति-कान्तार-पूरे दाह्य-अभावेन विद्या-शिखिनि च विरते त्वद्-मयी खलु अवस्था ॥ ९४।२ ॥
ācārya-ākhyā-adhara-stha-araṇi-samanumil̤at-śiṣya-rūpa-uttara-araṇya-āvedha-udbhāsitena sphuṭatara-paribodha-agninā dahyamāne . karma-ālī-vāsanā-tad-kṛta-tanu-bhuvana-bhrānti-kāntāra-pūre dāhya-abhāvena vidyā-śikhini ca virate tvad-mayī khalu avasthā .. 94.2 ..
एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायोनैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषड्कर्मयोगाः । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्तामत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥ 94.3 ॥
एवम् त्वद्-प्राप्तितः अन्यः नहि खलु निखिल-क्लेश-हानेः उपायः न एकान्त-आत्यन्तिकाः ते कृषि-वत् अगद-षाड्गुण्य-षड्कर्म-योगाः । दुर्वैकल्यैः अकल्याः अपि निगम-पथाः तद्-फलानि अपि अवाप्त-अमत्ताः त्वाम् विस्मरन्तः प्रसजति पतने यान्ति अनन्तान् विषादान् ॥ ९४।३ ॥
evam tvad-prāptitaḥ anyaḥ nahi khalu nikhila-kleśa-hāneḥ upāyaḥ na ekānta-ātyantikāḥ te kṛṣi-vat agada-ṣāḍguṇya-ṣaḍkarma-yogāḥ . durvaikalyaiḥ akalyāḥ api nigama-pathāḥ tad-phalāni api avāpta-amattāḥ tvām vismarantaḥ prasajati patane yānti anantān viṣādān .. 94.3 ..
त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्तेत्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ । एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणांतन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो ॥ 94.4 ॥
त्वद्-लोकात् अन्य-लोकः क्वनु भय-रहितः यत् परार्ध-द्वय-अन्ते त्वद्-भीतः सत्य-लोके अपि न सुख-वसतिः पद्मभूः पद्मनाभ । एवम्भावे तु अधर्म-अर्जित-बहु-तमसाम् का कथा नारकाणाम् तत् मे त्वम् छिन्धि बन्धम् वर-द कृपण-बन्धो कृपा-पूर-सिन्धो ॥ ९४।४ ॥
tvad-lokāt anya-lokaḥ kvanu bhaya-rahitaḥ yat parārdha-dvaya-ante tvad-bhītaḥ satya-loke api na sukha-vasatiḥ padmabhūḥ padmanābha . evambhāve tu adharma-arjita-bahu-tamasām kā kathā nārakāṇām tat me tvam chindhi bandham vara-da kṛpaṇa-bandho kṛpā-pūra-sindho .. 94.4 ..
याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौमायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेकोभुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ 94.5 ॥
याथार्थ्यात् त्वद्-मयस्य एव हि मम न विभो वस्तुतस् बन्ध-मोक्षौ माया-अविद्या-तनुभ्याम् तव तु विरचितौ स्वप्न-बोध-उपमौ तौ । बद्धे जीवत्-विमुक्तिम् गतवति च भिदा तावती तावत् एकः भुङ्क्ते देह-द्रुम-स्थः विषय-फल-रसान् न अपरः निर्व्यथा आत्मा ॥ ९४।५ ॥
yāthārthyāt tvad-mayasya eva hi mama na vibho vastutas bandha-mokṣau māyā-avidyā-tanubhyām tava tu viracitau svapna-bodha-upamau tau . baddhe jīvat-vimuktim gatavati ca bhidā tāvatī tāvat ekaḥ bhuṅkte deha-druma-sthaḥ viṣaya-phala-rasān na aparaḥ nirvyathā ātmā .. 94.5 ..
जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरेतन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारंयेन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिळत्त्वत्प्रबोधस्त्वदात्मा ॥ 94.6 ॥
जीवन्मुक्त-त्वम् एवंविधम् इति वचसा किम् फलम् दूर-दूर-इतद्-नाम-अशुद्ध-बुद्धेः न च लघु मनसः शोधनम् भक्तितः अन्यत् । तत् मे विष्णो कृषीष्ठाः त्वयि कृत-सकल-प्रार्पणम् भक्ति-भारम् येन स्याम् किञ्चिद् गुरु-वचनम् इळत्-त्वद्-प्रबोधः त्वद्-आत्मा ॥ ९४।६ ॥
jīvanmukta-tvam evaṃvidham iti vacasā kim phalam dūra-dūra-itad-nāma-aśuddha-buddheḥ na ca laghu manasaḥ śodhanam bhaktitaḥ anyat . tat me viṣṇo kṛṣīṣṭhāḥ tvayi kṛta-sakala-prārpaṇam bhakti-bhāram yena syām kiñcid guru-vacanam il̤at-tvad-prabodhaḥ tvad-ātmā .. 94.6 ..
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराःसच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ 94.7 ॥
शब्दब्रह्मणि अपि इह प्रयतित-मनसः त्वाम् न जानन्ति केचिद् कष्टम् सकल-मल-आहराः दिव्य-लीलावताराः सत्-चित्-सान्द्रम् च रूपम् तव न निगदितम् ताम् न वाचम् भ्रियासम् ॥ ९४।७ ॥
śabdabrahmaṇi api iha prayatita-manasaḥ tvām na jānanti kecid kaṣṭam sakala-mala-āharāḥ divya-līlāvatārāḥ sat-cit-sāndram ca rūpam tava na nigaditam tām na vācam bhriyāsam .. 94.7 ..
यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां दर्शनस्पर्शनादिर्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ 94.8 ॥
यः यावान् यादृशः वा त्वम् इति किम् अपि ना एव अवगच्छामि भूमन् एवञ्च च अनन्य-भावः त्वद्-अनुभजनम् एव आद्रिये चैद्यवैरिन् । त्वद्-लिङ्गानाम् त्वद्-अङ्घ्रि-प्रिय-जन-सदसाम् दर्शन-स्पर्शन-आदिः भूयात् मे त्वद्-प्रपूजा-अनति-नुति-गुण-कर्म-अनुकीर्ति-आदरः अपि ॥ ९४।८ ॥
yaḥ yāvān yādṛśaḥ vā tvam iti kim api nā eva avagacchāmi bhūman evañca ca ananya-bhāvaḥ tvad-anubhajanam eva ādriye caidyavairin . tvad-liṅgānām tvad-aṅghri-priya-jana-sadasām darśana-sparśana-ādiḥ bhūyāt me tvad-prapūjā-anati-nuti-guṇa-karma-anukīrti-ādaraḥ api .. 94.8 ..
यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहंत्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वांत्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ 94.9 ॥
यत् यत् लभ्येत तत् तत् तव समुपहृतम् देव दासः अस्मि ते अहम् त्वद्-गेह-उन्मार्जन-आद्यम् भवतु मम मुहुर् कर्म निर्मायम् एव । सूर्य-अग्नि-ब्राह्मण-आत्म-आदिषु लसित-चतुर्-बाहुम् आराधये त्वाम् त्वद्-प्रेम-आर्द्र-त्व-रूपः मम सततम् अभिष्यन्दताम् भक्ति-योगः ॥ ९४।९ ॥
yat yat labhyeta tat tat tava samupahṛtam deva dāsaḥ asmi te aham tvad-geha-unmārjana-ādyam bhavatu mama muhur karma nirmāyam eva . sūrya-agni-brāhmaṇa-ātma-ādiṣu lasita-catur-bāhum ārādhaye tvām tvad-prema-ārdra-tva-rūpaḥ mama satatam abhiṣyandatām bhakti-yogaḥ .. 94.9 ..
ऐक्यं ते दानोहोमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापंत्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासांतन्मे त्वद्भक्तिमेव दृढय हर गदान्कृष्ण वातालयेश ॥ 94.10 ॥
ऐक्यम् ते दानः होम-व्रत-नियम-तपः-साङ्ख्य-योगैः दुरापम् त्वद्-सङ्गेन एव गोप्यः किल सुकृतितमाः प्रापुः आनन्द-सान्द्रम् । भक्तेषु अन्येषु भूयस्सु अपि बहु-मनुषे भक्तिम् एव त्वम् आसाम् तत् मे त्वद्-भक्तिम् एव दृढय हर गदान् कृष्ण वातालय-ईश ॥ ९४।१० ॥
aikyam te dānaḥ homa-vrata-niyama-tapaḥ-sāṅkhya-yogaiḥ durāpam tvad-saṅgena eva gopyaḥ kila sukṛtitamāḥ prāpuḥ ānanda-sāndram . bhakteṣu anyeṣu bhūyassu api bahu-manuṣe bhaktim eva tvam āsām tat me tvad-bhaktim eva dṛḍhaya hara gadān kṛṣṇa vātālaya-īśa .. 94.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In