| |
|

This overlay will guide you through the buttons:

आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वंजीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने । तत्रोद्वृद्धेन सत्त्वेन तु गणयुगळं भक्तिभावं गतेनछित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ 95.1 ॥
आदौ हैरण्यगर्भीम् तनुम् अविकल-जीव-आत्मिकाम् आस्थितः त्वम् जीव-त्वम् प्राप्य माया-गुण-गण-खचितः वर्तसे विश्वयोने । तत्र उद्वृद्धेन सत्त्वेन तु गण-युगळम् भक्ति-भावम् सत्त्वम् च हित्वा पुनर् अनुपहितः त्वम् एव ॥ ९५।१ ॥
ādau hairaṇyagarbhīm tanum avikala-jīva-ātmikām āsthitaḥ tvam jīva-tvam prāpya māyā-guṇa-gaṇa-khacitaḥ vartase viśvayone . tatra udvṛddhena sattvena tu gaṇa-yugal̤am bhakti-bhāvam sattvam ca hitvā punar anupahitaḥ tvam eva .. 95.1 ..
सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन्भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुंतुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसरूपी न्यगादीत् ॥ 95.2 ॥
सत्त्व-उन्मेषात् कदाचिद् खलु विषय-रसे दोष-बोधे अपि भूमन् भूयस् अपि एषु प्रवृत्तिः स तमसि रजसि प्रोद्धते दुर्निवारा । चित्तम् तावत् गुणाः च ग्रथितम् इह मिथस् तानि सर्वाणि रोद्धुम् तुर्ये त्वयि एक-भक्तिः शरणम् इति भवान् हंस-रूपी न्यगादीत् ॥ ९५।२ ॥
sattva-unmeṣāt kadācid khalu viṣaya-rase doṣa-bodhe api bhūman bhūyas api eṣu pravṛttiḥ sa tamasi rajasi proddhate durnivārā . cittam tāvat guṇāḥ ca grathitam iha mithas tāni sarvāṇi roddhum turye tvayi eka-bhaktiḥ śaraṇam iti bhavān haṃsa-rūpī nyagādīt .. 95.2 ..
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानिक्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः । त्वञ्चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकांत्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ 95.3 ॥
सन्ति श्रेयांसि भूयांसि अपि रुचि-भिदया कर्मिणाम् निर्मिताः अन् इक्षुद्र-आनन्दाः च सान्ताः बहुविध-गतयः कृष्ण तेभ्यः भवेयुः । त्वञ्च च आचख्य अथ सख्ये ननु महिततमाम् श्रेयसाम् भक्तिम् एकाम् त्वद्-भक्ति-आनन्द-तुल्यः खलु विषय-जुषाम् सम्मदः केन वा स्यात् ॥ ९५।३ ॥
santi śreyāṃsi bhūyāṃsi api ruci-bhidayā karmiṇām nirmitāḥ an ikṣudra-ānandāḥ ca sāntāḥ bahuvidha-gatayaḥ kṛṣṇa tebhyaḥ bhaveyuḥ . tvañca ca ācakhya atha sakhye nanu mahitatamām śreyasām bhaktim ekām tvad-bhakti-ānanda-tulyaḥ khalu viṣaya-juṣām sammadaḥ kena vā syāt .. 95.3 ..
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाःसर्वास्स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्यानाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ 95.4 ॥
त्वद्-भक्त्या तुष्ट-बुद्धेः सुखम् इह चरतः विच्युत-आशस्य च आशाः सर्वाः स्युः सौख्य-मय्यः सलिल-कुहर-गस्य इव तोय-एक-मय्यः । सः अयम् खलु इन्द्र-लोकम् कमल-ज-भवनम् योग-सिद्धीः च हृद्यान् आकाङ्क्षति एतत् आस्ताम् स्वयम् अनुपतिते मोक्ष-सौख्ये अपि अनीहः ॥ ९५।४ ॥
tvad-bhaktyā tuṣṭa-buddheḥ sukham iha carataḥ vicyuta-āśasya ca āśāḥ sarvāḥ syuḥ saukhya-mayyaḥ salila-kuhara-gasya iva toya-eka-mayyaḥ . saḥ ayam khalu indra-lokam kamala-ja-bhavanam yoga-siddhīḥ ca hṛdyān ākāṅkṣati etat āstām svayam anupatite mokṣa-saukhye api anīhaḥ .. 95.4 ..
त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतोर्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चंत्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ 95.5 ॥
त्वद्-भक्तः बाध्यमानः अपि च विषय-रसैः इन्द्रिय-अशान्ति-हेतोः भक्त्या एव आक्रम्यमाणैः पुनर् अपि खलु तैः दुर्बलैः न अभिजय्यः । सप्तार्चिः दीपित-अर्चिः दहति किल यथा भूरि-दारु-प्रपञ्चम् त्वद्-भक्ति-ओघे तथा एव प्रदहति दुरितम् दुर्मदः क्व इन्द्रियाणाम् ॥ ९५।५ ॥
tvad-bhaktaḥ bādhyamānaḥ api ca viṣaya-rasaiḥ indriya-aśānti-hetoḥ bhaktyā eva ākramyamāṇaiḥ punar api khalu taiḥ durbalaiḥ na abhijayyaḥ . saptārciḥ dīpita-arciḥ dahati kila yathā bhūri-dāru-prapañcam tvad-bhakti-oghe tathā eva pradahati duritam durmadaḥ kva indriyāṇām .. 95.5 ..
चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्पञ्च हित्वाचित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्माचक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ 95.6 ॥
चित्त-आर्द्रीभाववम् उच्चैस् वपुषि च पुलकम् हर्ष-बाष्पम् च हित्वा अचित्तम् शुद्ध्या इद् कथम् वा किमु बहु-तपसा विद्यया वीत-भक्तेः । त्वद्-गाथा-आस्वाद-सिद्ध-अञ्जन-सतत-मरी-मृज्यमानः अयम् आत्मा आ चक्षुः-वत् तत्त्व-सूक्ष्मम् भजति न तु तथा अभ्यस्तया तर्क-कोट्या ॥ ९५।६ ॥
citta-ārdrībhāvavam uccais vapuṣi ca pulakam harṣa-bāṣpam ca hitvā acittam śuddhyā id katham vā kimu bahu-tapasā vidyayā vīta-bhakteḥ . tvad-gāthā-āsvāda-siddha-añjana-satata-marī-mṛjyamānaḥ ayam ātmā ā cakṣuḥ-vat tattva-sūkṣmam bhajati na tu tathā abhyastayā tarka-koṭyā .. 95.6 ..
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्रन्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मन्त्ववाञ्चम् । ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनस्संविचिन्त्योपरिष्टात्तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमळाङ्गम् ॥ 95.7 ॥
ध्यानम् ते शीलयेयम् सम-तनु-सुख-बद्ध-आसनः नासिका-अग्र-न्यस्त-अक्षः पूरक-आद्यैः जित-पवन-पथः चित्त-पद्मन्तु-अवाञ्चम् । ऊर्ध्व-अग्रम् भावयित्वा रवि-विधु-शिखिनः संविचिन्त्य उपरिष्टात् तत्रस्थम् भावये त्वाम् स जल-जलधर-श्यामलम् कोमल-अङ्गम् ॥ ९५।७ ॥
dhyānam te śīlayeyam sama-tanu-sukha-baddha-āsanaḥ nāsikā-agra-nyasta-akṣaḥ pūraka-ādyaiḥ jita-pavana-pathaḥ citta-padmantu-avāñcam . ūrdhva-agram bhāvayitvā ravi-vidhu-śikhinaḥ saṃvicintya upariṣṭāt tatrastham bhāvaye tvām sa jala-jaladhara-śyāmalam komala-aṅgam .. 95.7 ..
आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहासस्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलंचारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ 95.8 ॥
आनील-श्लक्ष्ण-केशम् ज्वलित-मकर-सत्-कुण्डलम् मन्द-हास-स्यन्द-आर्द्रम् कौस्तुभ-श्री-परिगत-वनमाला-उरु-हार-अभिरामम् । श्रीवत्स-अङ्कम् सु बाहुम् मृदु-लसत्-उदरम् काञ्चन-छाय-चेलम् चारु-स्निग्ध-ऊरुम् अम्भोरुह-ललित-पदम् भावयेयम् भवन्तम् ॥ ९५।८ ॥
ānīla-ślakṣṇa-keśam jvalita-makara-sat-kuṇḍalam manda-hāsa-syanda-ārdram kaustubha-śrī-parigata-vanamālā-uru-hāra-abhirāmam . śrīvatsa-aṅkam su bāhum mṛdu-lasat-udaram kāñcana-chāya-celam cāru-snigdha-ūrum ambhoruha-lalita-padam bhāvayeyam bhavantam .. 95.8 ..
सर्वाङ्गेष्वङ्गरङ्गत्कुतुकमतिमुहुर्धारयन्नीश चित्तंतत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे । तत्रालीनन्तु चेतः परमसुखचिदद्वैतरूपे वितन्वन्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ 95.9 ॥
सर्व-अङ्गेषु अङ्ग-रङ्गत्-कुतुक-मति-मुहुर् धारयन् ईश चित्तम् तत्र अपि एकत्र युञ्जे वदन-सरसिजे सुन्दरे मन्द-हासे । तत्र आलीनम् तु चेतः परम-सुख-चित्-अद्वैत-रूपे वितन्वन् अन्यत् नो चिन्तयेयम् मुहुर् इति समुपारूढ-योगः भवेयम् ॥ ९५।९ ॥
sarva-aṅgeṣu aṅga-raṅgat-kutuka-mati-muhur dhārayan īśa cittam tatra api ekatra yuñje vadana-sarasije sundare manda-hāse . tatra ālīnam tu cetaḥ parama-sukha-cit-advaita-rūpe vitanvan anyat no cintayeyam muhur iti samupārūḍha-yogaḥ bhaveyam .. 95.9 ..
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्तादूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे । त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहंत्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् ॥ 95.10 ॥
इत्थम् त्वद्-ध्यान-योगे सति पुनर् अणिम-आदि-अष्ट-संसिद्धयः तादूर-श्रुति-आदयः अपि हि अहमहमिकया सम्पतेयुः मुरारे । त्वद्-सम्प्राप्तौ विलम्बौ अहम् अखिलम् इदम् न आद्रिये कामये अहम् त्वाम् एव आनन्द-पूर्णम् पवनपुर-पते पाहि माम् सर्व-तापात् ॥ ९५।१० ॥
ittham tvad-dhyāna-yoge sati punar aṇima-ādi-aṣṭa-saṃsiddhayaḥ tādūra-śruti-ādayaḥ api hi ahamahamikayā sampateyuḥ murāre . tvad-samprāptau vilambau aham akhilam idam na ādriye kāmaye aham tvām eva ānanda-pūrṇam pavanapura-pate pāhi mām sarva-tāpāt .. 95.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In