| |
|

This overlay will guide you through the buttons:

त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकारस्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयोनागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥ 96.1 ॥
त्वम् हि ब्रह्मा एव साक्षात् परम् उरु-महिमन् नक्षराणाम् अकारः तारः मन्त्रेषु राज्ञाम् मनुः असि मुनिषु त्वम् भृगुः नारदः अपि । प्रह्लादः दानवानाम् पशुषु च सुरभिः पक्षिणाम् वैनतेयः नागानाम् असि अनन्तः सुरसरित् अपि च स्रोतसाम् विश्वमूर्ते ॥ ९६।१ ॥
tvam hi brahmā eva sākṣāt param uru-mahiman nakṣarāṇām akāraḥ tāraḥ mantreṣu rājñām manuḥ asi muniṣu tvam bhṛguḥ nāradaḥ api . prahlādaḥ dānavānām paśuṣu ca surabhiḥ pakṣiṇām vainateyaḥ nāgānām asi anantaḥ surasarit api ca srotasām viśvamūrte .. 96.1 ..
ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थोभक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेवत्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ 96.2 ॥
ब्रह्मण्यानाम् बलिः त्वम् क्रतुषु च जप-यज्ञः असः वीरेषु पार्थः भक्तानाम् उद्धवः त्वम् बलम् असि बलिनाम् धाम तेजस्विनाम् त्वम् । न अस्ति अन्तर् त्वद्-विभूतेः विकसत्-अतिशयम् वस्तु सर्वम् त्वम् एव त्वम् जीवः त्वम् प्रधानम् यत् इह भवत् ऋते तत् न किञ्चिद् प्रपञ्चे ॥ ९६।२ ॥
brahmaṇyānām baliḥ tvam kratuṣu ca japa-yajñaḥ asaḥ vīreṣu pārthaḥ bhaktānām uddhavaḥ tvam balam asi balinām dhāma tejasvinām tvam . na asti antar tvad-vibhūteḥ vikasat-atiśayam vastu sarvam tvam eva tvam jīvaḥ tvam pradhānam yat iha bhavat ṛte tat na kiñcid prapañce .. 96.2 ..
धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्याकुर्वन्तोऽन्तर्विरागे विकसति शनकैस्सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नंनिर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ 96.3 ॥
धर्मम् वर्ण-आश्रमाणाम् श्रुतिपथ-विहितम् त्वद्-पर-त्वेन भक्त्या अ कुर्वन्तः अन्तर् विरागे विकसति शनकैस् सन्त्यजन्तः लभन्ते । सत्ता-स्फूर्ति-प्रिय-त्व-आत्मकम् अखिल-पदार्थेषु भिन्नेषु अभिन्नम् निर्मूलम् विश्व-मूलम् परमम् अहम् इति त्वद्-विबोधम् विशुद्धम् ॥ ९६।३ ॥
dharmam varṇa-āśramāṇām śrutipatha-vihitam tvad-para-tvena bhaktyā a kurvantaḥ antar virāge vikasati śanakais santyajantaḥ labhante . sattā-sphūrti-priya-tva-ātmakam akhila-padārtheṣu bhinneṣu abhinnam nirmūlam viśva-mūlam paramam aham iti tvad-vibodham viśuddham .. 96.3 ..
ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावन्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्तानाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ 96.4 ॥
ज्ञानम् कर्म अपि भक्तिः त्रितयम् इह भवत्-प्रापकम् तत्र तावत् निर्विण्णानाम् अशेषे विषयः इह भवेत् ज्ञान-योगे अधिकारः । सक्तानाम् कर्म-योगः त्वयि हि विनिहितः ये तु न अत्यन्त-सक्ताः न अपि अत्यन्तम् विरक्ताः त्वयि च धृत-रसाः भक्ति-योगः हि अमीषाम् ॥ ९६।४ ॥
jñānam karma api bhaktiḥ tritayam iha bhavat-prāpakam tatra tāvat nirviṇṇānām aśeṣe viṣayaḥ iha bhavet jñāna-yoge adhikāraḥ . saktānām karma-yogaḥ tvayi hi vinihitaḥ ye tu na atyanta-saktāḥ na api atyantam viraktāḥ tvayi ca dhṛta-rasāḥ bhakti-yogaḥ hi amīṣām .. 96.4 ..
ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्तेतस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहेत्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ 96.5 ॥
ज्ञानम् त्वद्-भक्त-ताम् वा लघु सुकृत-वशात् मर्त्य-लोके लभन्ते तस्मात् तत्र एव जन्म स्पृहयति भगवत् नाक-गः नारकः वा । आविष्टम् माम् तु दैवात् भव-जलनिधि-पोतायिते मर्त्य-देहेत्वम् कृत्वा कर्णधारम् गुरुम् अनुगुण-वातायितः तारयेथाः ॥ ९६।५ ॥
jñānam tvad-bhakta-tām vā laghu sukṛta-vaśāt martya-loke labhante tasmāt tatra eva janma spṛhayati bhagavat nāka-gaḥ nārakaḥ vā . āviṣṭam mām tu daivāt bhava-jalanidhi-potāyite martya-dehetvam kṛtvā karṇadhāram gurum anuguṇa-vātāyitaḥ tārayethāḥ .. 96.5 ..
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाःक्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोगस्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥ 96.6 ॥
अव्यक्तम् मार्गयन्तः श्रुतिभिः अपि नयैः केवल-ज्ञान-लुब्धाः क्लिश्यन्ते अतीव सिद्धिम् बहुतर-जनुषाम् अन्तर् एव आप्नुवन्ति । दूर-स्थः कर्मयोगः अपि च परम-फले ननु अयम् भक्तियोगः त्वा मूलात् एव हृद्यः त्वरितम् अयि भवत्-प्रापकः वर्धताम् मे ॥ ९६।६ ॥
avyaktam mārgayantaḥ śrutibhiḥ api nayaiḥ kevala-jñāna-lubdhāḥ kliśyante atīva siddhim bahutara-januṣām antar eva āpnuvanti . dūra-sthaḥ karmayogaḥ api ca parama-phale nanu ayam bhaktiyogaḥ tvā mūlāt eva hṛdyaḥ tvaritam ayi bhavat-prāpakaḥ vardhatām me .. 96.6 ..
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श्रुण्वन्गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतोरभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ 96.7 ॥
ज्ञानाय एव अतियत्नम् मुनिः अपवदते ब्रह्म-तत्त्वम् तु श्रुण्वन् गाढम् त्वद्-पाद-भक्तिम् शरणम् अयति यः तस्य मुक्तिः कर-अग्रे । त्वद्-ध्याने अपि इह तुल्या पुनर् असुकर-ता चित्त-चाञ्चल्य-हेतोः अभ्यासात् आशु शक्यम् वशयितुम् त्वद्-कृपा-चारु-ताभ्याम् ॥ ९६।७ ॥
jñānāya eva atiyatnam muniḥ apavadate brahma-tattvam tu śruṇvan gāḍham tvad-pāda-bhaktim śaraṇam ayati yaḥ tasya muktiḥ kara-agre . tvad-dhyāne api iha tulyā punar asukara-tā citta-cāñcalya-hetoḥ abhyāsāt āśu śakyam vaśayitum tvad-kṛpā-cāru-tābhyām .. 96.7 ..
निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढंजातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ 96.8 ॥
निर्विण्णः कर्म-मार्गे खलु विषमतमे त्वद्-कथा-आदौ च गाढम् जात-श्रद्धः अपि कामान् अयि भुवन-पते ना एव शक्नोमि हातुम् । तत् भूयस् निश्चयेन त्वयि निहित-मनाः दोष-बुद्ध्या भजन् तान् पुष्णीयाम् भक्तिम् एव त्वयि हृदय-गते नङ्क्षु सङ्गाः ॥ ९६।८ ॥
nirviṇṇaḥ karma-mārge khalu viṣamatame tvad-kathā-ādau ca gāḍham jāta-śraddhaḥ api kāmān ayi bhuvana-pate nā eva śaknomi hātum . tat bhūyas niścayena tvayi nihita-manāḥ doṣa-buddhyā bhajan tān puṣṇīyām bhaktim eva tvayi hṛdaya-gate naṅkṣu saṅgāḥ .. 96.8 ..
कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैःप्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा । चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारीत्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥ 96.9 ॥
कश्चिद् क्लेश-अर्जित-अर्थ-क्षय-विमल-मतिः नुद्यमानः जन-ओधैः प्राक् एवम् प्राहि विप्रः न खलु मम जनः काल-कर्म-ग्रहाः वा । चेतः मे दुःख-हेतुः तत् इह गुण-गणम् भावयत् सर्वकारी इति उक्त्वा शान्तः गतः त्वाम् मम च कुरु विभो तादृशीम् चित्त-शान्तिम् ॥ ९६।९ ॥
kaścid kleśa-arjita-artha-kṣaya-vimala-matiḥ nudyamānaḥ jana-odhaiḥ prāk evam prāhi vipraḥ na khalu mama janaḥ kāla-karma-grahāḥ vā . cetaḥ me duḥkha-hetuḥ tat iha guṇa-gaṇam bhāvayat sarvakārī iti uktvā śāntaḥ gataḥ tvām mama ca kuru vibho tādṛśīm citta-śāntim .. 96.9 ..
ऐळः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तांगाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूत सङ्गंभक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धिरोगान् ॥ 96.10 ॥
ऐळः प्राक् उर्वशीम् प्रति अति विवश-मनाः सेवमानः चिरम् ताम् गाढम् निर्विद्य भूयस् युवति-सुखम् इदम् क्षुद्रम् एवा इति गायन् । त्वद्-भक्तिम् प्राप्य पूर्णः सुखतरम् अचरत् तद्वत् उद्धूत सङ्गम् भक्त-उत्तंसम् क्रिया माम् पवनपुर-पते हन्त मे रुन्धि-रोगान् ॥ ९६।१० ॥
ail̤aḥ prāk urvaśīm prati ati vivaśa-manāḥ sevamānaḥ ciram tām gāḍham nirvidya bhūyas yuvati-sukham idam kṣudram evā iti gāyan . tvad-bhaktim prāpya pūrṇaḥ sukhataram acarat tadvat uddhūta saṅgam bhakta-uttaṃsam kriyā mām pavanapura-pate hanta me rundhi-rogān .. 96.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In