| |
|

This overlay will guide you through the buttons:

त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वंप्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ 97.1 ॥
त्रैगुण्यात् भिन्न-रूपम् भवति हि भुवने हीन-मध्य-उत्तमम् यत् ज्ञानम् श्रद्धा च कर्ता वसतिः अपि सुखम् कर्म च आहार-भेदाः । त्वद्-क्षेत्र-त्वद्-निषेवा-आदि तु यत् इह पुनर् त्वद्-परम् तत् तु सर्वम् प्राहुः नैर्गुण्य-निष्ठम् तद्-अनुभजनतः सिद्धः भवेयम् ॥ ९७।१ ॥
traiguṇyāt bhinna-rūpam bhavati hi bhuvane hīna-madhya-uttamam yat jñānam śraddhā ca kartā vasatiḥ api sukham karma ca āhāra-bhedāḥ . tvad-kṣetra-tvad-niṣevā-ādi tu yat iha punar tvad-param tat tu sarvam prāhuḥ nairguṇya-niṣṭham tad-anubhajanataḥ siddhaḥ bhaveyam .. 97.1 ..
त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थंत्वद्भक्तैस्सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमानस्पर्धासूयादिदोषः सततमखिलभूतेषु संपूजये त्वाम् ॥ 97.2 ॥
त्वयि एव न्यस्त-चित्तः सुखम् अयि विचरन् सर्व-चेष्टाः त्वद्-अर्थम् त्वद्-भक्तैः सेव्यमानान् अपि चरित-चरान् आश्रयन् पुंण्य-देशान् । दस्यौ विप्रे मृग-आदिषु अपि च सम-मतिः मुच्यमान-अवमान-स्पर्धा-असूया-आदि-दोषः सततम् अखिल-भूतेषु संपूजये त्वाम् ॥ ९७।२ ॥
tvayi eva nyasta-cittaḥ sukham ayi vicaran sarva-ceṣṭāḥ tvad-artham tvad-bhaktaiḥ sevyamānān api carita-carān āśrayan puṃṇya-deśān . dasyau vipre mṛga-ādiṣu api ca sama-matiḥ mucyamāna-avamāna-spardhā-asūyā-ādi-doṣaḥ satatam akhila-bhūteṣu saṃpūjaye tvām .. 97.2 ..
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिंकुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत्किमपि न भगवन् प्रस्तुतस्य प्रणाशस्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोझम् ॥ 97.3 ॥
त्वद्-भावः यावत् एषु स्फुरति न विशदम् तावत् एवम् हि उपास्तिम् कुर्वन् ऐकात्म्य-बोधे झटिति विकसति त्वद्-मयः अहम् चरेयम् । त्वद्-धर्मस्य अस्य तावत् किम् अपि न भगवन् प्रस्तुतस्य प्रणाशः तस्मात् सर्व-आत्मना एव प्रदिश मम विभो भक्ति-मार्गम् मनोझम् ॥ ९७।३ ॥
tvad-bhāvaḥ yāvat eṣu sphurati na viśadam tāvat evam hi upāstim kurvan aikātmya-bodhe jhaṭiti vikasati tvad-mayaḥ aham careyam . tvad-dharmasya asya tāvat kim api na bhagavan prastutasya praṇāśaḥ tasmāt sarva-ātmanā eva pradiśa mama vibho bhakti-mārgam manojham .. 97.3 ..
तञ्चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायुर्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैःसेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ 97.4 ॥
तत् च एनम् भक्तियोगम् द्रढयितुम् अयि मे साध्यम् आरोग्यम् आयुः-दिष्ट्या तत्र अपि सेव्यम् तव चरणम् अहो भेषजाय इव दुग्धम् । मार्कण्डेयः हि पूर्वम् गणक-निगदित-द्वादश-अब्द-आयुः उच्चैस् सेवित्वा वत्सरम् त्वाम् तव भट-निवहैः द्रावयामास मृत्युम् ॥ ९७।४ ॥
tat ca enam bhaktiyogam draḍhayitum ayi me sādhyam ārogyam āyuḥ-diṣṭyā tatra api sevyam tava caraṇam aho bheṣajāya iva dugdham . mārkaṇḍeyaḥ hi pūrvam gaṇaka-nigadita-dvādaśa-abda-āyuḥ uccais sevitvā vatsaram tvām tava bhaṭa-nivahaiḥ drāvayāmāsa mṛtyum .. 97.4 ..
मार्कण्डेयश्चिरायुस्स खलु पुनरपि त्वत्परः पुष्पभद्रातीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि । देवेन्द्रस्सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः ॥ 97.5 ॥
मार्कण्डेयः चिर-आयुः स खलु पुनर् अपि त्वद्-परः पुष्पभद्रा-तीरे निन्ये तपस्यन् अतुल-सुख-रतिः षड् तु मन्वन्तराणि । देव-इन्द्रः सप्तमः तम् सुर-युवति-मरुत्-मन्मथैः मोहयिष्यन् योग-ऊष्म-प्लुष्यमाणैः न तु पुनर् अशकत् त्वद्-जनम् निर्जयेत् कः ॥ ९७।५ ॥
mārkaṇḍeyaḥ cira-āyuḥ sa khalu punar api tvad-paraḥ puṣpabhadrā-tīre ninye tapasyan atula-sukha-ratiḥ ṣaḍ tu manvantarāṇi . deva-indraḥ saptamaḥ tam sura-yuvati-marut-manmathaiḥ mohayiṣyan yoga-ūṣma-pluṣyamāṇaiḥ na tu punar aśakat tvad-janam nirjayet kaḥ .. 97.5 ..
प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वंतुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मामायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ 97.6 ॥
प्रीत्या नारायण-आख्यः त्वम् अथ नर-सखः प्राप्तवान् अस्य पार्श्वंतुष्ट्या तोष्टूयमानः स तु विविध-वरैः लोभितः न अनुमेने । द्रष्टुम् मायाम् त्वदीयाम् किल पुनर् अवृणोत् भक्ति-तृप्त-अन्तरात्मा अ माया-दुःख-अनभिज्ञः तत् अपि मृगयते नूनम् आश्चर्य-हेतोः ॥ ९७।६ ॥
prītyā nārāyaṇa-ākhyaḥ tvam atha nara-sakhaḥ prāptavān asya pārśvaṃtuṣṭyā toṣṭūyamānaḥ sa tu vividha-varaiḥ lobhitaḥ na anumene . draṣṭum māyām tvadīyām kila punar avṛṇot bhakti-tṛpta-antarātmā a māyā-duḥkha-anabhijñaḥ tat api mṛgayate nūnam āścarya-hetoḥ .. 97.6 ..
याते त्वय्याशु वाताकुलजलदगळत्तोयपूर्णातिघूर्णत्सप्तार्णोराशि मग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः । दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालंत्वामेव श्यामळाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ 97.7 ॥
याते त्वयि आशु वात-आकुल-जलद-गळत्-तोय-पूर्ण-अति घूर्णत्-सप्तार्णः-राशि मग्ने जगति स तु जले सम्भ्रमन् वर्ष-कोटीः । दीनः प्रैक्षिष्ट दूरे वट-दल-शयनम् कञ्चिद् आश्चर्य-बालम् त्वाम् एव श्यामळ-अङ्गम् वदन-सरसिज-न्यस्त-पाद-अङ्गुलीकम् ॥ ९७।७ ॥
yāte tvayi āśu vāta-ākula-jalada-gal̤at-toya-pūrṇa-ati ghūrṇat-saptārṇaḥ-rāśi magne jagati sa tu jale sambhraman varṣa-koṭīḥ . dīnaḥ praikṣiṣṭa dūre vaṭa-dala-śayanam kañcid āścarya-bālam tvām eva śyāmal̤a-aṅgam vadana-sarasija-nyasta-pāda-aṅgulīkam .. 97.7 ..
दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रःश्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैर्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ 97.8 ॥
दृष्ट्वा त्वाम् हृष्ट-रोमा त्वरितम् अभिगतः स्प्रष्टु-कामः मुनि-इन्द्रः श्वासेन अन्तर् निविष्टः पुनर् इह सकलम् दृष्टवान् विष्टप-ओघम् । भूयस् अपि श्वास-वातैः बहिस् अनुपतितः वीक्षितः त्वद्-कटाक्षैः मोदात् आश्लेष्टु-कामः त्वयि पिहित-तनौ स्व-आश्रमे प्राग्वत् आसीत् ॥ ९७।८ ॥
dṛṣṭvā tvām hṛṣṭa-romā tvaritam abhigataḥ spraṣṭu-kāmaḥ muni-indraḥ śvāsena antar niviṣṭaḥ punar iha sakalam dṛṣṭavān viṣṭapa-ogham . bhūyas api śvāsa-vātaiḥ bahis anupatitaḥ vīkṣitaḥ tvad-kaṭākṣaiḥ modāt āśleṣṭu-kāmaḥ tvayi pihita-tanau sva-āśrame prāgvat āsīt .. 97.8 ..
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थीसिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मान्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ 97.9 ॥
गौर्या सार्धम् तद्-अग्रे गतः त्वद्-प्रिय-प्रेक्षण-अर्थी-सिद्धान् एव अस्य दत्त्वा स्वयम् अयम् अजर-मृत्यु-ता-आदीन् गतः अभूत् । एवम् त्वद्-सेवया एव स्मररिपुः अपि स प्रीयते येन तस्मात् मूर्ति-त्रयी-आत्मकः त्वम् ननु सकल-नियन्ता इति सु व्यक्तम् आसीत् ॥ ९७।९ ॥
gauryā sārdham tad-agre gataḥ tvad-priya-prekṣaṇa-arthī-siddhān eva asya dattvā svayam ayam ajara-mṛtyu-tā-ādīn gataḥ abhūt . evam tvad-sevayā eva smararipuḥ api sa prīyate yena tasmāt mūrti-trayī-ātmakaḥ tvam nanu sakala-niyantā iti su vyaktam āsīt .. 97.9 ..
त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वंतेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपीसच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥ 97.10 ॥
त्रि-अंशे अस्मिन् सत्य-लोके विधिहरि-पुर-भिद्-मन्दिराणि ऊर्ध्वम् ऊर्ध्वम् तेभ्यः अपि ऊर्ध्वम् तु माया-विकृति-विरहितः भाति वैकुण्ठ-लोकः । तत्र त्वम् कारण-अम्भसि अपि पशुप-कुले शुद्ध-सत्त्व-एक-रूपी-सच्चिद्-ब्रह्म-अद्वय-आत्मा पवनपुर-पते पाहि माम् सर्व-रोगात् ॥ ९७।१० ॥
tri-aṃśe asmin satya-loke vidhihari-pura-bhid-mandirāṇi ūrdhvam ūrdhvam tebhyaḥ api ūrdhvam tu māyā-vikṛti-virahitaḥ bhāti vaikuṇṭha-lokaḥ . tatra tvam kāraṇa-ambhasi api paśupa-kule śuddha-sattva-eka-rūpī-saccid-brahma-advaya-ātmā pavanapura-pate pāhi mām sarva-rogāt .. 97.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In