नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसंन द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98.3 ॥
PADACHEDA
नो तिर्यञ्चन् न मर्त्यम् न च सुरम् असुरम् न स्त्रियम् नो पुमांसम् न द्रव्यम् कर्म जातिम् गुणम् अपि सत्-असत् वा अपि ते रूपम् आहुः । शिष्टम् यत् स्यात् निषेधे सति निगम-शतैः लक्षण-आवृत्तितः तत् कृच्छ्रेण आवेद्यमानम् परम-सुख-मयम् भाति तस्मै नमः ते ॥ ९८।३ ॥
TRANSLITERATION
no tiryañcan na martyam na ca suram asuram na striyam no pumāṃsam na dravyam karma jātim guṇam api sat-asat vā api te rūpam āhuḥ . śiṣṭam yat syāt niṣedhe sati nigama-śataiḥ lakṣaṇa-āvṛttitaḥ tat kṛcchreṇa āvedyamānam parama-sukha-mayam bhāti tasmai namaḥ te .. 98.3 ..
भूषासु स्वर्ण-वत् वा जगति घट-शराव-आदिके मृत्तिका-वत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तत् अधुना अपि अद्वितीयम् वपुः ते । स्वप्न-द्रष्टुः प्रबोधे तिमिर-लय-विधौ जीर्ण-रज्जोः च यद्वत् विद्या-लाभे तथा एव स्फुटम् अपि विकसेत् कृष्ण तस्मै नमः ते ॥ ९८।७ ॥
TRANSLITERATION
bhūṣāsu svarṇa-vat vā jagati ghaṭa-śarāva-ādike mṛttikā-vat tattve sañcintyamāne sphurati tat adhunā api advitīyam vapuḥ te . svapna-draṣṭuḥ prabodhe timira-laya-vidhau jīrṇa-rajjoḥ ca yadvat vidyā-lābhe tathā eva sphuṭam api vikaset kṛṣṇa tasmai namaḥ te .. 98.7 ..