| |
|

This overlay will guide you through the buttons:

विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीतेयस्यैवाङ्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् । योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायांतद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ 99.1 ॥
विष्णोः वीर्याणि कः वा कथयतु धरणेः कः च रेणून् मिमीते यस्य एव अङ्घ्रि-त्रयेण त्रिजगत् अभिमितम् मोदते पूर्ण-सम्पद् । यः असौ विश्वानि धत्ते प्रियम् इह परमम् धाम तस्य अभियायाम् तद्-भक्ताः यत्र माद्यन्ति अमृत-रस-मरन्दस्य यत्र प्रवाहः ॥ ९९।१ ॥
viṣṇoḥ vīryāṇi kaḥ vā kathayatu dharaṇeḥ kaḥ ca reṇūn mimīte yasya eva aṅghri-trayeṇa trijagat abhimitam modate pūrṇa-sampad . yaḥ asau viśvāni dhatte priyam iha paramam dhāma tasya abhiyāyām tad-bhaktāḥ yatra mādyanti amṛta-rasa-marandasya yatra pravāhaḥ .. 99.1 ..
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूतेर्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेवप्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं ते ॥ 99.2 ॥
आद्याय अशेष-कर्त्रे प्रतिनिमिष-नवीनाय भर्त्रे विभूतेः भक्त-आत्मा विष्णवे यः प्रदिशति हविः-आदीनि यज्ञ-अर्चन-आदौ । कृष्ण-आद्यम् जन्म वा महत् इह महतः वर्णयेत् सः अयम् एव प्रीतः पूर्णः यशोभिः त्वरितम् अभिसरेत् प्राप्यम् अन्ते पदम् ते ॥ ९९।२ ॥
ādyāya aśeṣa-kartre pratinimiṣa-navīnāya bhartre vibhūteḥ bhakta-ātmā viṣṇave yaḥ pradiśati haviḥ-ādīni yajña-arcana-ādau . kṛṣṇa-ādyam janma vā mahat iha mahataḥ varṇayet saḥ ayam eva prītaḥ pūrṇaḥ yaśobhiḥ tvaritam abhisaret prāpyam ante padam te .. 99.2 ..
हे स्तोतारः कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैवव्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वंहे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ 99.3 ॥
हे स्तोतारः कवि-इन्द्राः तम् इह खलु यथा चेतयध्वे तथा एव व्यक्तम् वेदस्य सारम् प्रणुवत जनन-उपात्त-लीला-कथाभिः । जानन्तः च अस्य नामानि अखिल-सुख-कराणि इति सङ्कीर्तयध्वम् हे विष्णो कीर्तन-आद्यैः तव खलु महतः तत्त्व-बोधम् भजेयम् ॥ ९९।३ ॥
he stotāraḥ kavi-indrāḥ tam iha khalu yathā cetayadhve tathā eva vyaktam vedasya sāram praṇuvata janana-upātta-līlā-kathābhiḥ . jānantaḥ ca asya nāmāni akhila-sukha-karāṇi iti saṅkīrtayadhvam he viṣṇo kīrtana-ādyaiḥ tava khalu mahataḥ tattva-bodham bhajeyam .. 99.3 ..
विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्ना/द्यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी । वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशंविप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ 99.4 ॥
विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मान् अबध्नाः/द्यानि इन्द्रस्य एष भृत्यः प्रिय-सखः इव च व्यातना-उत्क्षेम-कारी । वीक्षन्ते योग-सिद्धाः पर-पदम् अनिशम् यस्य सम्यक् प्रकाशम् विप्र-इन्द्राः जागरूकाः कृत-बहु-नुतयः यत् च निर्भासयन्ते ॥ ९९।४ ॥
viṣṇoḥ karmāṇi sampaśyata manasi sadā yaiḥ sa dharmān abadhnāḥ/dyāni indrasya eṣa bhṛtyaḥ priya-sakhaḥ iva ca vyātanā-utkṣema-kārī . vīkṣante yoga-siddhāḥ para-padam aniśam yasya samyak prakāśam vipra-indrāḥ jāgarūkāḥ kṛta-bahu-nutayaḥ yat ca nirbhāsayante .. 99.4 ..
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानंदेव श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्याप्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ 99.5 ॥
नो जातः जायमानः अपि च समधिगतः त्वद्-महिम्नः अवसानम् देव श्रेयांसि विद्वान् प्रतिमुहुर् अपि ते नाम शंसामि विष्णो । तम् त्वाम् संस्तौमि नानाविध-नुति-वचनैः अस्य लोकत्रयस्य अपि ऊर्ध्वम् विभ्राजमाने विरचित-वसतिम् तत्र वैकुण्ठ-लोके ॥ ९९।५ ॥
no jātaḥ jāyamānaḥ api ca samadhigataḥ tvad-mahimnaḥ avasānam deva śreyāṃsi vidvān pratimuhur api te nāma śaṃsāmi viṣṇo . tam tvām saṃstaumi nānāvidha-nuti-vacanaiḥ asya lokatrayasya api ūrdhvam vibhrājamāne viracita-vasatim tatra vaikuṇṭha-loke .. 99.5 ..
आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वांयत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत्पद्ममेकं हि नाभौदिक्पत्रं यत्किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् ॥ 99.6 ॥
आपः सृष्टि-आदि-जन्याः प्रथम-मयि विभो गर्भ-देशे त्वाम् यत्र त्वयि एव जीवाः जलशयन हरे सङ्गता ऐक्यम् आपन् । तस्य अजस्य प्रभो ते विनिहितम् अभवत् पद्मम् एकम् हि नाभौदिक्-पत्रम् यत् किल आहुः कनक-धरणि-भृत् कर्णिकम् लोक-रूपम् ॥ ९९।६ ॥
āpaḥ sṛṣṭi-ādi-janyāḥ prathama-mayi vibho garbha-deśe tvām yatra tvayi eva jīvāḥ jalaśayana hare saṅgatā aikyam āpan . tasya ajasya prabho te vinihitam abhavat padmam ekam hi nābhaudik-patram yat kila āhuḥ kanaka-dharaṇi-bhṛt karṇikam loka-rūpam .. 99.6 ..
हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयंयुष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैःप्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ 99.7 ॥
हे लोकाः विष्णुः एतत् भवनम् अजनयत् तत् न जानीथ यूयम् युष्माकम् हि अन्तर-स्थम् किम् अपि तत् अपरम् विद्यते विष्णु-रूपम् । नीहार-प्रख्य-माया-परिवृत-मनसः मोहिताः नाम-रूपैः प्राण-प्रीत्या एक-तृप्ताः चरथ मख-पराः हन्त ना इच्छा मुकुन्दे ॥ ९९।७ ॥
he lokāḥ viṣṇuḥ etat bhavanam ajanayat tat na jānītha yūyam yuṣmākam hi antara-stham kim api tat aparam vidyate viṣṇu-rūpam . nīhāra-prakhya-māyā-parivṛta-manasaḥ mohitāḥ nāma-rūpaiḥ prāṇa-prītyā eka-tṛptāḥ caratha makha-parāḥ hanta nā icchā mukunde .. 99.7 ..
मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वंतत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादिष्वाविष्टोप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ 99.8 ॥
मूर्ध्नाम् अक्षणाम् पदानाम् वहसि खलु सहस्राणि सम्पूर्य विश्वम् तत् प्रोत्क्रम्य अपि तिष्ठन् परिमित-विवरे भासि चित्त-अन्तरे अपि । भूतम् भव्यम् च सर्वम् पर-पुरुष भवान् किञ्च देह-इन्द्रिय-आदिषु आविष्टः अपि उद्गत-त्वात् अमृत-सुख-रसम् च अनुभुङ्क्षे त्वम् एव ॥ ९९।८ ॥
mūrdhnām akṣaṇām padānām vahasi khalu sahasrāṇi sampūrya viśvam tat protkramya api tiṣṭhan parimita-vivare bhāsi citta-antare api . bhūtam bhavyam ca sarvam para-puruṣa bhavān kiñca deha-indriya-ādiṣu āviṣṭaḥ api udgata-tvāt amṛta-sukha-rasam ca anubhuṅkṣe tvam eva .. 99.8 ..
यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्धज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पंभूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ 99.9 ॥
यत् तु त्रैलोक्य-रूपम् दधत् अपि च ततस् निर्गत-अनन्त-शुद्ध-ज्ञान-आत्मा वर्तसे त्वम् तव खलु महिमा सः अपि तावान् किम् अन्यत् । स्तोकः ते भागः एव अखिल-भुवन-तया दृश्यते त्रि-अंश-कल्पम् भूयिष्ठम् सान्द्र-मोद-आत्मकम् उपरि ततस् भाति तस्मै नमः ते ॥ ९९।९ ॥
yat tu trailokya-rūpam dadhat api ca tatas nirgata-ananta-śuddha-jñāna-ātmā vartase tvam tava khalu mahimā saḥ api tāvān kim anyat . stokaḥ te bhāgaḥ eva akhila-bhuvana-tayā dṛśyate tri-aṃśa-kalpam bhūyiṣṭham sāndra-moda-ātmakam upari tatas bhāti tasmai namaḥ te .. 99.9 ..
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वंव्यक्तञ्चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तींमूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥ 99.10 ॥
अव्यक्तम् ते स्वरूपम् दुरधिगमतमम् तत् तु शुद्ध-एक-सत्त्वम् व्यक्तम् च अपि एतत् एव स्फुटम् अमृत-रस-अम्भोधि-कल्लोल-तुल्यम् । सर्व-उत्कृष्टाम् अभीष्टाम् तत् इह गुण-रसेन एव चित्तम् हरन्तीम् मूर्तिम् ते संश्रये अहम् पवनपुर-पते पाहि माम् कृष्ण रोगात् ॥ ९९।१० ॥
avyaktam te svarūpam duradhigamatamam tat tu śuddha-eka-sattvam vyaktam ca api etat eva sphuṭam amṛta-rasa-ambhodhi-kallola-tulyam . sarva-utkṛṣṭām abhīṣṭām tat iha guṇa-rasena eva cittam harantīm mūrtim te saṃśraye aham pavanapura-pate pāhi mām kṛṣṇa rogāt .. 99.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In