| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
इति दानवदैतेया नाविन्दन्नमृतं नृप । युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः १ ।
इति दानव-दैतेयाः न अविन्दन् अमृतम् नृप । युक्ताः कर्मणि यत्ताः च वासुदेव-पराङ्मुखाः ।
iti dānava-daiteyāḥ na avindan amṛtam nṛpa . yuktāḥ karmaṇi yattāḥ ca vāsudeva-parāṅmukhāḥ .
साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान् । पश्यतां सर्वभूतानां ययौ गरुडवाहनः २ ।
साधयित्वा अमृतम् राजन् पाययित्वा स्वकान् सुरान् । पश्यताम् सर्व-भूतानाम् ययौ गरुड-वाहनः ।
sādhayitvā amṛtam rājan pāyayitvā svakān surān . paśyatām sarva-bhūtānām yayau garuḍa-vāhanaḥ .
सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः । अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः ३ ।
सपत्नानाम् परामृद्धिम् दृष्ट्वा ते दिति-नन्दनाः । अ मृष्यमाणाः उत्पेतुः देवान् प्रत्युद्यत-आयुधाः ।
sapatnānām parāmṛddhim dṛṣṭvā te diti-nandanāḥ . a mṛṣyamāṇāḥ utpetuḥ devān pratyudyata-āyudhāḥ .
ततः सुरगणाः सर्वे सुधया पीतयैधिताः । प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ४ ।
ततस् सुर-गणाः सर्वे सुधया पीतया एधिताः । प्रतिसंयुयुधुः शस्त्रैः नारायण-पद-आश्रयाः ।
tatas sura-gaṇāḥ sarve sudhayā pītayā edhitāḥ . pratisaṃyuyudhuḥ śastraiḥ nārāyaṇa-pada-āśrayāḥ .
तत्र दैवासुरो नाम रणः परमदारुणः । रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः ५ ।
तत्र दैवासुरः नाम रणः परम-दारुणः । रोधसि उदन्वतः राजन् तुमुलः रोम-हर्षणः ।
tatra daivāsuraḥ nāma raṇaḥ parama-dāruṇaḥ . rodhasi udanvataḥ rājan tumulaḥ roma-harṣaṇaḥ .
तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे । समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ६ ।
तत्र अन्योन्यम् सपत्नाः ते संरब्ध-मनसः रणे । समासाद्य असिभिः बाणैः निजघ्नुः विविध-आयुधैः ।
tatra anyonyam sapatnāḥ te saṃrabdha-manasaḥ raṇe . samāsādya asibhiḥ bāṇaiḥ nijaghnuḥ vividha-āyudhaiḥ .
शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान् । हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत् ७ ।
शङ्ख-तूर्य-मृदङ्गानाम् भेरी-डमरिणाम् महान् । हस्ति-अश्व-रथ-पत्तीनाम् नदताम् निस्वनः अभवत् ।
śaṅkha-tūrya-mṛdaṅgānām bherī-ḍamariṇām mahān . hasti-aśva-ratha-pattīnām nadatām nisvanaḥ abhavat .
रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः । हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ८ ।
रथिनः रथिभिः तत्र पत्तिभिः सह पत्तयः । हयाः हयैः इभाः च इभैः समसज्जन्त संयुगे ।
rathinaḥ rathibhiḥ tatra pattibhiḥ saha pattayaḥ . hayāḥ hayaiḥ ibhāḥ ca ibhaiḥ samasajjanta saṃyuge .
उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ९ ।
उष्ट्रैः केचिद् इभैः केचिद् अपरे युयुधुः खरैः । केचिद् गौरमुखैः ऋक्षैः द्वीपिभिः हरिभिः भटाः ।
uṣṭraiḥ kecid ibhaiḥ kecid apare yuyudhuḥ kharaiḥ . kecid gauramukhaiḥ ṛkṣaiḥ dvīpibhiḥ haribhiḥ bhaṭāḥ .
गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः । शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः १० ।
गृध्रैः कङ्कैः बकैः अन्ये श्येन-भासैः तिमिङ्गिलैः । शरभैः महिषैः खड्गैः गोवृषैः गवय-अरुणैः ।
gṛdhraiḥ kaṅkaiḥ bakaiḥ anye śyena-bhāsaiḥ timiṅgilaiḥ . śarabhaiḥ mahiṣaiḥ khaḍgaiḥ govṛṣaiḥ gavaya-aruṇaiḥ .
शिवाभिराखुभिः केचित्कृकलासैः शशैर्नरैः । बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ११ ।
शिवाभिः आखुभिः केचिद् कृकलासैः शशैः नरैः । बस्तैः एके कृष्णसारैः हंसैः अन्ये च सूकरैः ।
śivābhiḥ ākhubhiḥ kecid kṛkalāsaiḥ śaśaiḥ naraiḥ . bastaiḥ eke kṛṣṇasāraiḥ haṃsaiḥ anye ca sūkaraiḥ .
अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः । सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रतः १२ ।
अन्ये जल-स्थल-खगैः सत्त्वैः विकृत-विग्रहैः । सेनयोः उभयोः राजन् विविशुः ते अग्रतस् अग्रतस् ।
anye jala-sthala-khagaiḥ sattvaiḥ vikṛta-vigrahaiḥ . senayoḥ ubhayoḥ rājan viviśuḥ te agratas agratas .
चित्रध्वजपटै राजन्नातपत्रैः सितामलैः । महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः १३ ।
राजन् आतपत्रैः सित-अमलैः । महाधनैः वज्र-दण्डैः व्यजनैः बार्ह-चामरैः ।
rājan ātapatraiḥ sita-amalaiḥ . mahādhanaiḥ vajra-daṇḍaiḥ vyajanaiḥ bārha-cāmaraiḥ .
वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः । स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः १४ ।
वात-उद्धूत-उत्तर-उष्णीषैः अर्चिर्भिः वर्म-भूषणैः । स्फुरद्भिः विशदैः शस्त्रैः सुतराम् सूर्य-रश्मिभिः ।
vāta-uddhūta-uttara-uṣṇīṣaiḥ arcirbhiḥ varma-bhūṣaṇaiḥ . sphuradbhiḥ viśadaiḥ śastraiḥ sutarām sūrya-raśmibhiḥ .
देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन । रेजतुर्वीरमालाभिर्यादसामिव सागरौ १५ ।
देव-दानव-वीराणाम् ध्वजिन्यौ पाण्डु-नन्दन । रेजतुः वीर-मालाभिः यादसाम् इव सागरौ ।
deva-dānava-vīrāṇām dhvajinyau pāṇḍu-nandana . rejatuḥ vīra-mālābhiḥ yādasām iva sāgarau .
वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः । यानं वैहायसं नाम कामगं मयनिर्मितम् १६ ।
वैरोचनः बलिः सङ्ख्ये सः असुराणाम् चमूपतिः । यानम् वैहायसम् नाम कामगम् मय-निर्मितम् ।
vairocanaḥ baliḥ saṅkhye saḥ asurāṇām camūpatiḥ . yānam vaihāyasam nāma kāmagam maya-nirmitam .
सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो । अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् १७ ।
सर्व-साङ्ग्रामिक-उपेतम् सर्व-आश्चर्य-मयम् प्रभो । अप्रतर्क्यम् अनिर्देश्यम् दृश्यमानम् अदर्शनम् ।
sarva-sāṅgrāmika-upetam sarva-āścarya-mayam prabho . apratarkyam anirdeśyam dṛśyamānam adarśanam .
आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः । बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये १८ ।
आस्थितः तत् विमान-अग्र्यम् सर्व-अनीक-अधिपैः वृतः । बाल-व्यजन-छत्र-अग्र्यैः रेजे चन्द्रः इव उदये ।
āsthitaḥ tat vimāna-agryam sarva-anīka-adhipaiḥ vṛtaḥ . bāla-vyajana-chatra-agryaiḥ reje candraḥ iva udaye .
तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुराः । नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः १९ ।
तस्य आसन् सर्वतस् यानैः यूथानाम् पतयः असुराः । नमुचिः शम्बरः बाणः विप्रचित्तिः अयोमुखः ।
tasya āsan sarvatas yānaiḥ yūthānām patayaḥ asurāḥ . namuciḥ śambaraḥ bāṇaḥ vipracittiḥ ayomukhaḥ .
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः । शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः २० ।
द्विमूर्धा कालनाभः अथ प्रहेतिः हेतिः इल्वलः । शकुनिः भूतसन्तापः वज्रदंष्ट्रः विरोचनः ।
dvimūrdhā kālanābhaḥ atha prahetiḥ hetiḥ ilvalaḥ . śakuniḥ bhūtasantāpaḥ vajradaṃṣṭraḥ virocanaḥ .
हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः । तारकश्चक्रदृक्शुम्भो निशुम्भो जम्भ उत्कलः २१ ।
हयग्रीवः शङ्कुशिराः कपिलः मेघदुन्दुभिः । तारकः चक्रदृश् शुम्भः निशुम्भः जम्भः उत्कलः ।
hayagrīvaḥ śaṅkuśirāḥ kapilaḥ meghadundubhiḥ . tārakaḥ cakradṛś śumbhaḥ niśumbhaḥ jambhaḥ utkalaḥ .
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः । अन्ये पौलोमकालेया निवातकवचादयः २२ ।
अरिष्टः अरिष्टनेमिः च मयः च त्रिपुराधिपः । अन्ये पौलोम-कालेयाः निवात-कवच-आदयः ।
ariṣṭaḥ ariṣṭanemiḥ ca mayaḥ ca tripurādhipaḥ . anye pauloma-kāleyāḥ nivāta-kavaca-ādayaḥ .
अलब्धभागाः सोमस्य केवलं क्लेशभागिनः । सर्व एते रणमुखे बहुशो निर्जितामराः २३ ।
अ लब्ध-भागाः सोमस्य केवलम् क्लेश-भागिनः । सर्वे एते रण-मुखे बहुशस् निर्जित-अमराः ।
a labdha-bhāgāḥ somasya kevalam kleśa-bhāginaḥ . sarve ete raṇa-mukhe bahuśas nirjita-amarāḥ .
सिंहनादान्विमुञ्चन्तः शङ्खान्दध्मुर्महारवान् । दृष्ट्वा सपत्नानुत्सिक्तान्बलभित्कुपितो भृशम् २४ ।
सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुः महा-रवान् । दृष्ट्वा सपत्नान् उत्सिक्तान् बलभिद् कुपितः भृशम् ।
siṃhanādān vimuñcantaḥ śaṅkhān dadhmuḥ mahā-ravān . dṛṣṭvā sapatnān utsiktān balabhid kupitaḥ bhṛśam .
ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट् । यथा स्रवत्प्रस्रवणमुदयाद्रि महर्पतिः २५ ।
ऐरावतम् दिक्करिणम् आरूढः शुशुभे स्वराज् । यथा स्रवत्-प्रस्रवणम् उदयाद्रि महर्पतिः ।
airāvatam dikkariṇam ārūḍhaḥ śuśubhe svarāj . yathā sravat-prasravaṇam udayādri maharpatiḥ .
तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः । लोकपालाः सहगणैर्वाय्वग्निवरुणादयः २६ ।
तस्य आसन् सर्वतस् देवाः नाना वाह-ध्वज-आयुधाः । लोकपालाः सह गणैः वायु-अग्नि-वरुण-आदयः ।
tasya āsan sarvatas devāḥ nānā vāha-dhvaja-āyudhāḥ . lokapālāḥ saha gaṇaiḥ vāyu-agni-varuṇa-ādayaḥ .
तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः । आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः २७ ।
ते अन्योन्यम् अभिसंसृत्य क्षिपन्तः मर्मभिः मिथस् । आह्वयन्तः विशन्तः अग्रे युयुधुः द्वन्द्व-योधिनः ।
te anyonyam abhisaṃsṛtya kṣipantaḥ marmabhiḥ mithas . āhvayantaḥ viśantaḥ agre yuyudhuḥ dvandva-yodhinaḥ .
युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत । वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना २८ ।
युयोध बलिः इन्द्रेण तारकेण गुहः अस्यत । वरुणः हेतिना अयुध्यत् मित्रः राजन् प्रहेतिना ।
yuyodha baliḥ indreṇa tārakeṇa guhaḥ asyata . varuṇaḥ hetinā ayudhyat mitraḥ rājan prahetinā .
यमस्तु कालनाभेन विश्वकर्मा मयेन वै । शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः २९ ।
यमः तु कालनाभेन विश्वकर्मा मयेन वै । शम्बरः युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ।
yamaḥ tu kālanābhena viśvakarmā mayena vai . śambaraḥ yuyudhe tvaṣṭrā savitrā tu virocanaḥ .
अपराजितेन नमुचिरश्विनौ वृषपर्वणा । सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ३० ।
अपराजितेन नमुचिः अश्विनौ वृषपर्वणा । सूर्यः बलि-सुतैः देवः बाण-ज्येष्ठैः शतेन च ।
aparājitena namuciḥ aśvinau vṛṣaparvaṇā . sūryaḥ bali-sutaiḥ devaḥ bāṇa-jyeṣṭhaiḥ śatena ca .
राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः । निशुम्भशुम्भयोर्देवी भद्र काली तरस्विनी ३१ ।
राहुणा च तथा सोमः पुलोम्ना युयुधे अनिलः । निशुम्भ-शुम्भयोः देवी भद्र काली तरस्विनी ।
rāhuṇā ca tathā somaḥ pulomnā yuyudhe anilaḥ . niśumbha-śumbhayoḥ devī bhadra kālī tarasvinī .
वृषाकपिस्तु जम्भेन महिषेण विभावसुः । इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ३२ ।
वृषाकपिः तु जम्भेन महिषेण विभावसुः । इल्वलः सह वातापिः ब्रह्म-पुत्रैः अरिन्दम ।
vṛṣākapiḥ tu jambhena mahiṣeṇa vibhāvasuḥ . ilvalaḥ saha vātāpiḥ brahma-putraiḥ arindama .
कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह । बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ३३ ।
कामदेवेन दुर्मर्षः उत्कलः मातृभिः सह । बृहस्पतिः च उशनसा नरकेण शनैश्चरः ।
kāmadevena durmarṣaḥ utkalaḥ mātṛbhiḥ saha . bṛhaspatiḥ ca uśanasā narakeṇa śanaiścaraḥ .
मरुतो निवातकवचैः कालेयैर्वसवोऽमराः । विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ३४ ।
मरुतः निवात-कवचैः कालेयैः वसवः अमराः । विश्वेदेवाः तु पौलोमैः रुद्राः क्रोध-वशैः सह ।
marutaḥ nivāta-kavacaiḥ kāleyaiḥ vasavaḥ amarāḥ . viśvedevāḥ tu paulomaiḥ rudrāḥ krodha-vaśaiḥ saha .
त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः । अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः ३५ ।
ते एवम् आजौ असुराः सुर-इन्द्राः द्वन्द्वेन संहत्य च युध्यमानाः । अन्योन्यम् आसाद्य निजघ्नुः ओजसा जिगीषवः तीक्ष्ण-शर-असि-तोमरैः ।
te evam ājau asurāḥ sura-indrāḥ dvandvena saṃhatya ca yudhyamānāḥ . anyonyam āsādya nijaghnuḥ ojasā jigīṣavaḥ tīkṣṇa-śara-asi-tomaraiḥ .
भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि । निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ३६ ।
भुशुण्डिभिः चक्र-गद-ऋष्टि-पट्टिशैः शक्ति-उल्मुकैः प्रास-परश्वधैः अपि । निस्त्रिंश-भल्लैः परिघैः स मुद्गरैः स भिन्दिपालैः च शिरांसि चिच्छिदुः ।
bhuśuṇḍibhiḥ cakra-gada-ṛṣṭi-paṭṭiśaiḥ śakti-ulmukaiḥ prāsa-paraśvadhaiḥ api . nistriṃśa-bhallaiḥ parighaiḥ sa mudgaraiḥ sa bhindipālaiḥ ca śirāṃsi cicchiduḥ .
गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः । निकृत्तबाहूरुशिरोधराङ्घ्रयश्छिन्नध्वजेष्वासतनुत्रभूषणाः ३७ ।
गजाः तुरङ्गाः स रथाः पदातयः स आरोह-वाहाः विविधाः विखण्डिताः । निकृत्त-बाहु-ऊरु-शिरोधरा-अङ्घ्रयः छिन्न-ध्वज-इष्वास-तनुत्र-भूषणाः ।
gajāḥ turaṅgāḥ sa rathāḥ padātayaḥ sa āroha-vāhāḥ vividhāḥ vikhaṇḍitāḥ . nikṛtta-bāhu-ūru-śirodharā-aṅghrayaḥ chinna-dhvaja-iṣvāsa-tanutra-bhūṣaṇāḥ .
तेषां पदाघातरथाङ्गचूर्णितादायोधनादुल्बण उत्थितस्तदा । रेणुर्दिशः खं द्युमणिं च छादयन्न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ३८ ।
तेषाम् पद-आघात-रथाङ्ग-चूर्णितात् आयोधनात् उल्बणः उत्थितः तदा । रेणुः दिशः खम् द्युमणिम् च छादयत् न्यवर्तत असृज्-स्रुतिभिः परिप्लुतात् ।
teṣām pada-āghāta-rathāṅga-cūrṇitāt āyodhanāt ulbaṇaḥ utthitaḥ tadā . reṇuḥ diśaḥ kham dyumaṇim ca chādayat nyavartata asṛj-srutibhiḥ pariplutāt .
शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः । महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ ३९ ।
शिरोभिः उद्धूत-किरीट-कुण्डलैः संरम्भ-दृग्भिः परिदष्ट-दच्छदैः । महा-भुजैः स आभरणैः सह आयुधैः सा प्रास्तृता भूः करभ-ऊरुभिः बभौ ।
śirobhiḥ uddhūta-kirīṭa-kuṇḍalaiḥ saṃrambha-dṛgbhiḥ paridaṣṭa-dacchadaiḥ . mahā-bhujaiḥ sa ābharaṇaiḥ saha āyudhaiḥ sā prāstṛtā bhūḥ karabha-ūrubhiḥ babhau .
कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः । उद्यतायुधदोर्दण्डैराधावन्तो भटान्मृधे ४० ।
कबन्धाः तत्र च उत्पेतुः पतित-स्व-शिरः-अक्षिभिः । उद्यत-आयुध-दोस्-दण्डैः आधावन्तः भटान् मृधे ।
kabandhāḥ tatra ca utpetuḥ patita-sva-śiraḥ-akṣibhiḥ . udyata-āyudha-dos-daṇḍaiḥ ādhāvantaḥ bhaṭān mṛdhe .
बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः । चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत् ४१ ।
बलिः महा-इन्द्रम् दशभिः त्रिभिः ऐरावतम् शरैः । चतुर्भिः चतुरः वाहान् एकेन आरोहम् आर्च्छयत् ।
baliḥ mahā-indram daśabhiḥ tribhiḥ airāvatam śaraiḥ . caturbhiḥ caturaḥ vāhān ekena āroham ārcchayat .
स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः । चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव ४२ ।
स तान् आपततः शक्रः तावद्भिः शीघ्र-विक्रमः । चिच्छेद निशितैः भल्लैः असम्प्राप्तान् हसन् इव ।
sa tān āpatataḥ śakraḥ tāvadbhiḥ śīghra-vikramaḥ . ciccheda niśitaiḥ bhallaiḥ asamprāptān hasan iva .
तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे । तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ४३ ।
तस्य कर्म उत्तमम् वीक्ष्य दुर्मर्षः शक्तिम् आददे । ताम् ज्वलन्तीम् महा-उल्का-आभाम् हस्त-स्थाम् अच्छिनत् हरिः ।
tasya karma uttamam vīkṣya durmarṣaḥ śaktim ādade . tām jvalantīm mahā-ulkā-ābhām hasta-sthām acchinat hariḥ .
ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः । यद्यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद्विभुः ४४ ।
ततस् शूलम् ततस् प्रासम् ततस् तोमर-मृष्टयः । यत् यत् शस्त्रम् समादद्यात् सर्वम् तत् अच्छिनत् विभुः ।
tatas śūlam tatas prāsam tatas tomara-mṛṣṭayaḥ . yat yat śastram samādadyāt sarvam tat acchinat vibhuḥ .
ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः । ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो ४५ ।
ससर्ज अथ आसुरीम् मायाम् अन्तर्धान-गतः असुरः । ततस् प्रादुरभूत् शैलः सुर-अनीक-उपरि प्रभो ।
sasarja atha āsurīm māyām antardhāna-gataḥ asuraḥ . tatas prādurabhūt śailaḥ sura-anīka-upari prabho .
ततो निपेतुस्तरवो दह्यमाना दवाग्निना । शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ४६ ।
ततस् निपेतुः तरवः दह्यमानाः दव-अग्निना । शिलाः स टङ्क-शिखराः चूर्णयन्त्यः द्विषत्-बलम् ।
tatas nipetuḥ taravaḥ dahyamānāḥ dava-agninā . śilāḥ sa ṭaṅka-śikharāḥ cūrṇayantyaḥ dviṣat-balam .
महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः । सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः ४७ ।
महा-उरगाः समुत्पेतुः दन्दशूकाः स वृश्चिकाः । सिंह-व्याघ्र-वराहाः च मर्दयन्तः महा-गजाः ।
mahā-uragāḥ samutpetuḥ dandaśūkāḥ sa vṛścikāḥ . siṃha-vyāghra-varāhāḥ ca mardayantaḥ mahā-gajāḥ .
यातुधान्यश्च शतशः शूलहस्ता विवाससः । छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ४८ ।
यातुधान्यः च शतशस् शूल-हस्ताः विवाससः । छिन्धि भिन्धि इति वादिन्यः तथा रक्षः-गणाः प्रभो ।
yātudhānyaḥ ca śataśas śūla-hastāḥ vivāsasaḥ . chindhi bhindhi iti vādinyaḥ tathā rakṣaḥ-gaṇāḥ prabho .
ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः । अङ्गारान्मुमुचुर्वातैराहताः स्तनयित्नवः ४९ ।
ततस् महा-घनाः व्योम्नि गम्भीर-परुष-स्वनाः । अङ्गारान् मुमुचुः वातैः आहताः स्तनयित्नवः ।
tatas mahā-ghanāḥ vyomni gambhīra-paruṣa-svanāḥ . aṅgārān mumucuḥ vātaiḥ āhatāḥ stanayitnavaḥ .
सृष्टो दैत्येन सुमहान्वह्निः श्वसनसारथिः । सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ५० ।
सृष्टः दैत्येन सु महान् वह्निः श्वसन-सारथिः । सांवर्तकः इव अति उग्रः विबुध-ध्वजिनीम् अधाक् ।
sṛṣṭaḥ daityena su mahān vahniḥ śvasana-sārathiḥ . sāṃvartakaḥ iva ati ugraḥ vibudha-dhvajinīm adhāk .
ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत । प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः ५१ ।
ततस् समुद्रः उद्वेलः सर्वतस् प्रत्यदृश्यत । प्रचण्ड-वातैः उद्धूत-तरङ्ग-आवर्त-भीषणः ।
tatas samudraḥ udvelaḥ sarvatas pratyadṛśyata . pracaṇḍa-vātaiḥ uddhūta-taraṅga-āvarta-bhīṣaṇaḥ .
एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे । सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ५२ ।
एवम् दैत्यैः महा-मायैः अलक्ष्य-गतिभिः रणे । सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः ।
evam daityaiḥ mahā-māyaiḥ alakṣya-gatibhiḥ raṇe . sṛjyamānāsu māyāsu viṣeduḥ sura-sainikāḥ .
न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप । ध्यातः प्रादुरभूत्तत्र भगवान्विश्वभावनः ५३ ।
न तद्-प्रतिविधिम् यत्र विदुः इन्द्र-आदयः नृप । ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ।
na tad-pratividhim yatra viduḥ indra-ādayaḥ nṛpa . dhyātaḥ prādurabhūt tatra bhagavān viśvabhāvanaḥ .
ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः । अदृश्यताष्टायुधबाहुरुल्लसच्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ५४ ।
ततस् सुपर्ण-अंस-कृत-अङ्घ्रि-पल्लवः पिशङ्ग-वासाः नव-कञ्ज-लोचनः । अदृश्यत अष्ट-आयुध-बाहुः उल्लसत्-श्री-कौस्तुभ-अनर्घ्य-किरीट-कुण्डलः ।
tatas suparṇa-aṃsa-kṛta-aṅghri-pallavaḥ piśaṅga-vāsāḥ nava-kañja-locanaḥ . adṛśyata aṣṭa-āyudha-bāhuḥ ullasat-śrī-kaustubha-anarghya-kirīṭa-kuṇḍalaḥ .
तस्मिन्प्रविष्टेऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः । स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् ५५ ।
तस्मिन् प्रविष्टे असुर-कूट-कर्म-जाः मायाः विनेशुः महिना महीयसः । स्वप्नः यथा हि प्रतिबोधे आगते हरि-स्मृतिः सर्व-विपद्-विमोक्षणम् ।
tasmin praviṣṭe asura-kūṭa-karma-jāḥ māyāḥ vineśuḥ mahinā mahīyasaḥ . svapnaḥ yathā hi pratibodhe āgate hari-smṛtiḥ sarva-vipad-vimokṣaṇam .
दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः । तल्लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्! यधीशः ५६ ।
दृष्ट्वा मृधे आविध्य शूलम् अहिना उदथ कालनेमिः । तत् लीलया गरुड-मूर्ध्नि पतत् गृहीत्वा तेन अहनत् नृप स वाहम् अरिम्! यधीशः ।
dṛṣṭvā mṛdhe āvidhya śūlam ahinā udatha kālanemiḥ . tat līlayā garuḍa-mūrdhni patat gṛhītvā tena ahanat nṛpa sa vāham arim! yadhīśaḥ .
माली सुमाल्यतिबलौ युधि पेततुर्यच्चक्रेण कृत्तशिरसावथ माल्यवांस्तम् । आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाद्यः ५७ ।
माली सुमाली अतिबलौ युधि पेततुः यत् चक्रेण कृत्त-शिरसौ अथ माल्यवान् तम् । आहत्य तिग्म-गदया अहनत् अण्डज-इन्द्रम् तावत् शिरः अच्छिनत् अरेः नदतः अरिणाद्यः ।
mālī sumālī atibalau yudhi petatuḥ yat cakreṇa kṛtta-śirasau atha mālyavān tam . āhatya tigma-gadayā ahanat aṇḍaja-indram tāvat śiraḥ acchinat areḥ nadataḥ ariṇādyaḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः । ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे देव-असुर-सङ्ग्रामे दशमः अध्यायः । ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe deva-asura-saṅgrāme daśamaḥ adhyāyaḥ . .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In