| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादयस्तांस्तान्रणे यैरभिसंहताः पुरा १ ।
अथो सुराः प्रत्युपलब्ध-चेतसः परस्य पुंसः परया अनुकम्पया । जघ्नुः भृशम् शक्र-समीरण-आदयः तान् तान् रणे यैः अभिसंहताः पुरा ।
atho surāḥ pratyupalabdha-cetasaḥ parasya puṃsaḥ parayā anukampayā . jaghnuḥ bhṛśam śakra-samīraṇa-ādayaḥ tān tān raṇe yaiḥ abhisaṃhatāḥ purā .
वैरोचनाय संरब्धो भगवान्पाकशासनः । उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः २ ।
वैरोचनाय संरब्धः भगवान् पाकशासनः । उदयच्छत् यदा वज्रम् प्रजाः हा हा इति चुक्रुशुः ।
vairocanāya saṃrabdhaḥ bhagavān pākaśāsanaḥ . udayacchat yadā vajram prajāḥ hā hā iti cukruśuḥ .
वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ३ ।
वज्रपाणिः तम् आह इदम् तिरस्कृत्य पुरस् स्थितम् । मनस्विनम् सु सम्पन्नम् विचरन्तम् महा-मृधे ।
vajrapāṇiḥ tam āha idam tiraskṛtya puras sthitam . manasvinam su sampannam vicarantam mahā-mṛdhe .
नटवन्मूढ मायाभिर्मायेशान्नो जिगीषसि । जित्वा बालान्निबद्धाक्षान्नटो हरति तद्धनम् ४ ।
नट-वत् मूढ मायाभिः माया-ईशान् नः जिगीषसि । जित्वा बालान् निबद्ध-अक्षान् नटः हरति तत् धनम् ।
naṭa-vat mūḍha māyābhiḥ māyā-īśān naḥ jigīṣasi . jitvā bālān nibaddha-akṣān naṭaḥ harati tat dhanam .
आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः ५ ।
आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम् । तान् दस्यून् विधुनोमि अज्ञान् पूर्वस्मात् च पदात् अधस् ।
ārurukṣanti māyābhiḥ utsisṛpsanti ye divam . tān dasyūn vidhunomi ajñān pūrvasmāt ca padāt adhas .
सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा । शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ६ ।
सः अहम् दुर्मायिनः ते अद्य वज्रेण शतपर्वणा । शिरः हरिष्ये मन्द-आत्मन् घटस्व ज्ञातिभिः सह ।
saḥ aham durmāyinaḥ te adya vajreṇa śataparvaṇā . śiraḥ hariṣye manda-ātman ghaṭasva jñātibhiḥ saha .
श्रीबलिरुवाच।
सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् । कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ७ ।
सङ्ग्रामे वर्तमानानाम् काल-चोदित-कर्मणाम् । कीर्तिः जयः अजयः मृत्युः सर्वेषाम् स्युः अनुक्रमात् ।
saṅgrāme vartamānānām kāla-codita-karmaṇām . kīrtiḥ jayaḥ ajayaḥ mṛtyuḥ sarveṣām syuḥ anukramāt .
तदिदं कालरशनं जगत्पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ८ ।
तत् इदम् कालरशनम् जगत् पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ।
tat idam kālaraśanam jagat paśyanti sūrayaḥ . na hṛṣyanti na śocanti tatra yūyam apaṇḍitāḥ .
न वयं मन्यमानानामात्मानं तत्र साधनम् । गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ९ ।
न वयम् मन्यमानानाम् आत्मानम् तत्र साधनम् । गिरः वः साधु-शोच्यानाम् गृह्णीमः मर्म-ताडनाः ।
na vayam manyamānānām ātmānam tatra sādhanam . giraḥ vaḥ sādhu-śocyānām gṛhṇīmaḥ marma-tāḍanāḥ .
श्रीशुक उवाच।
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः । आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः १० ।
इति आक्षिप्य विभुम् वीरः नाराचैः वीर-मर्दनः । आकर्णपूर्णैः अहनत् आक्षेपैः आह तम् पुनर् ।
iti ākṣipya vibhum vīraḥ nārācaiḥ vīra-mardanaḥ . ākarṇapūrṇaiḥ ahanat ākṣepaiḥ āha tam punar .
एवं निराकृतो देवो वैरिणा तथ्यवादिना । नामृष्यत्तदधिक्षेपं तोत्राहत इव द्विपः ११ ।
एवम् निराकृतः देवः वैरिणा तथ्य-वादिना । न अमृष्यत् तद्-अधिक्षेपम् तोत्र-आहतः इव द्विपः ।
evam nirākṛtaḥ devaḥ vairiṇā tathya-vādinā . na amṛṣyat tad-adhikṣepam totra-āhataḥ iva dvipaḥ .
प्राहरत्कुलिशं तस्मा अमोघं परमर्दनः । सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः १२ ।
प्राहरत् कुलिशम् तस्मै अमोघम् पर-मर्दनः । स यानः न्यपतत् भूमौ छिन्न-पक्षः इव अचलः ।
prāharat kuliśam tasmai amogham para-mardanaḥ . sa yānaḥ nyapatat bhūmau chinna-pakṣaḥ iva acalaḥ .
सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् । अभ्ययात्सौहृदं सख्युर्हतस्यापि समाचरन् १३ ।
सखायम् पतितम् दृष्ट्वा जम्भः बलि-सखः सुहृद् । अभ्ययात् सौहृदम् सख्युः हतस्य अपि समाचरन् ।
sakhāyam patitam dṛṣṭvā jambhaḥ bali-sakhaḥ suhṛd . abhyayāt sauhṛdam sakhyuḥ hatasya api samācaran .
स सिंहवाह आसाद्य गदामुद्यम्य रंहसा । जत्रावताडयच्छक्रं गजं च सुमहाबलः १४ ।
स सिंहवाहः आसाद्य गदाम् उद्यम्य रंहसा । जत्रा अवताडयत् शक्रम् गजम् च सु महा-बलः ।
sa siṃhavāhaḥ āsādya gadām udyamya raṃhasā . jatrā avatāḍayat śakram gajam ca su mahā-balaḥ .
गदाप्रहारव्यथितो भृशं विह्वलितो गजः । जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ १५ ।
गदा-प्रहार-व्यथितः भृशम् विह्वलितः गजः । जानुभ्याम् धरणीम् स्पृष्ट्वा कश्मलम् परमम् ययौ ।
gadā-prahāra-vyathitaḥ bhṛśam vihvalitaḥ gajaḥ . jānubhyām dharaṇīm spṛṣṭvā kaśmalam paramam yayau .
ततो रथो मातलिना हरिभिर्दशशतैर्वृतः । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः १६ मातलि उपरि टिप्पणी ।
ततस् रथः मातलिना हरिभिः दश-शतैः वृतः । आनीतः द्विपम् उत्सृज्य रथम् आरुरुहे विभुः मातलि उपरि टिप्पणी ।
tatas rathaḥ mātalinā haribhiḥ daśa-śataiḥ vṛtaḥ . ānītaḥ dvipam utsṛjya ratham āruruhe vibhuḥ mātali upari ṭippaṇī .
तस्य तत्पूजयन्कर्म यन्तुर्दानवसत्तमः । शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे १७ ।
तस्य तत् पूजयन् कर्म यन्तुः दानव-सत्तमः । शूलेन ज्वलता तम् तु स्मयमानः अहनत् मृधे ।
tasya tat pūjayan karma yantuḥ dānava-sattamaḥ . śūlena jvalatā tam tu smayamānaḥ ahanat mṛdhe .
सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः । इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः १८ ।
सेहे रुजम् सु दुर्मर्षाम् सत्त्वम् आलम्ब्य मातलिः । इन्द्रः जम्भस्य सङ्क्रुद्धः वज्रेण अपाहरत् शिरः ।
sehe rujam su durmarṣām sattvam ālambya mātaliḥ . indraḥ jambhasya saṅkruddhaḥ vajreṇa apāharat śiraḥ .
जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः । नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः १९ ।
जम्भम् श्रुत्वा हतम् तस्य ज्ञातयः नारदात् ऋषेः । नमुचिः च बलः पाकः तत्र अपेतुः त्वरा-अन्विताः ।
jambham śrutvā hatam tasya jñātayaḥ nāradāt ṛṣeḥ . namuciḥ ca balaḥ pākaḥ tatra apetuḥ tvarā-anvitāḥ .
वचोभिः परुषैरिन्द्र मर्दयन्तोऽस्य मर्मसु । शरैरवाकिरन्मेघा धाराभिरिव पर्वतम् २० ।
वचोभिः परुषैः इन्द्र मर्दयन्तः अस्य मर्मसु । शरैः अवाकिरन् मेघाः धाराभिः इव पर्वतम् ।
vacobhiḥ paruṣaiḥ indra mardayantaḥ asya marmasu . śaraiḥ avākiran meghāḥ dhārābhiḥ iva parvatam .
हरीन्दशशतान्याजौ हर्यश्वस्य बलः शरैः । तावद्भिरर्दयामास युगपल्लघुहस्तवान् २१ ।
हरीन् दश-शतानि आजौ हर्यश्वस्य बलः शरैः । तावद्भिः अर्दयामास युगपद् लघु-हस्तवान् ।
harīn daśa-śatāni ājau haryaśvasya balaḥ śaraiḥ . tāvadbhiḥ ardayāmāsa yugapad laghu-hastavān .
शताभ्यां मातलिं पाको रथं सावयवं पृथक् । सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे २२ ।
शताभ्याम् मातलिम् पाकः रथम् स अवयवम् पृथक् । सकृत् सन्धान-मोक्षेण तत् अद्भुतम् अभूत् रणे ।
śatābhyām mātalim pākaḥ ratham sa avayavam pṛthak . sakṛt sandhāna-mokṣeṇa tat adbhutam abhūt raṇe .
नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः । आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः २३ ।
नमुचिः पञ्चदशभिः स्वर्ण-पुङ्खैः महा-इषुभिः । आहत्य व्यनदत् सङ्ख्ये स तोयः इव तोयदः ।
namuciḥ pañcadaśabhiḥ svarṇa-puṅkhaiḥ mahā-iṣubhiḥ . āhatya vyanadat saṅkhye sa toyaḥ iva toyadaḥ .
सर्वतः शरकूटेन शक्रं सरथसारथिम् । छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः २४ ।
सर्वतस् शर-कूटेन शक्रम् स रथ-सारथिम् । छादयामासुः असुराः प्रावृष्-सूर्यम् इव अम्बुदाः ।
sarvatas śara-kūṭena śakram sa ratha-sārathim . chādayāmāsuḥ asurāḥ prāvṛṣ-sūryam iva ambudāḥ .
अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः । अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे २५ ।
अ लक्षयन्तः तम् अतीव विह्वलाः विचुक्रुशुः देव-गणाः सह अनुगाः । अनायकाः शत्रु-बलेन निर्जिताः वणिक्पथा भिन्न-नवः यथा अर्णवे ।
a lakṣayantaḥ tam atīva vihvalāḥ vicukruśuḥ deva-gaṇāḥ saha anugāḥ . anāyakāḥ śatru-balena nirjitāḥ vaṇikpathā bhinna-navaḥ yathā arṇave .
ततस्तुराषाडिषुबद्धञ्जराद्विनिर्गतः साश्वरथध्वजाग्रणीः । बभौ दिशः खं पृथिवीं च रोचयन्स्वतेजसा सूर्य इव क्षपात्यये २६ ।
ततस् तुराषाड्-इषु-बद्धञ्जरात् विनिर्गतः स अश्व-रथ-ध्वज-अग्रणीः । बभौ दिशः खम् पृथिवीम् च रोचयन् स्व-तेजसा सूर्यः इव क्षपा-अत्यये ।
tatas turāṣāḍ-iṣu-baddhañjarāt vinirgataḥ sa aśva-ratha-dhvaja-agraṇīḥ . babhau diśaḥ kham pṛthivīm ca rocayan sva-tejasā sūryaḥ iva kṣapā-atyaye .
निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे । उदयच्छद्रि पुं हन्तुं वज्रं वज्रधरो रुषा २७ ।
निरीक्ष्य पृतनाम् देवः परैः अभ्यर्दिताम् रणे । उदयच्छद्रि पुम् हन्तुम् वज्रम् वज्रधरः रुषा ।
nirīkṣya pṛtanām devaḥ paraiḥ abhyarditām raṇe . udayacchadri pum hantum vajram vajradharaḥ ruṣā .
स तेनैवाष्टधारेण शिरसी बलपाकयोः । ज्ञातीनां पश्यतां राजन्जहार जनयन्भयम् २८ ।
स तेन एव अष्ट-धारेण शिरसी बल-पाकयोः । ज्ञातीनाम् पश्यताम् राजन् जहार जनयन् भयम् ।
sa tena eva aṣṭa-dhāreṇa śirasī bala-pākayoḥ . jñātīnām paśyatām rājan jahāra janayan bhayam .
नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः । जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् २९ ।
नमुचिः तद्-वधम् दृष्ट्वा शोक-अमर्ष-रुषा अन्वितः । जिघांसुः इन्द्रम् नृपते चकार परम-उद्यमम् ।
namuciḥ tad-vadham dṛṣṭvā śoka-amarṣa-ruṣā anvitaḥ . jighāṃsuḥ indram nṛpate cakāra parama-udyamam .
अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । प्रगृह्याभ्यद्र वत्क्रुद्धो हतोऽसीति वितर्जयन् । प्राहिणोद्देवराजाय निनदन्मृगराडिव ३० ।
अश्मसार-मयम् शूलम् घण्टा-वत् हेम-भूषणम् । प्रगृह्य अभ्यद्र वत् क्रुद्धः हतः असि इति वितर्जयन् । प्राहिणोत् देवराजाय निनदन् मृगराज् इव ।
aśmasāra-mayam śūlam ghaṇṭā-vat hema-bhūṣaṇam . pragṛhya abhyadra vat kruddhaḥ hataḥ asi iti vitarjayan . prāhiṇot devarājāya ninadan mṛgarāj iva .
तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा । तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ३१ ।
तदा अपतत् गगन-तले महा-जवम् विचिच्छिदे हरिः इषुभिः सहस्रधा । तम् आहनत् नृप कुलिशेन कन्धरे रुषा अन्वितः त्रिदश-पतिः शिरः हरन् ।
tadā apatat gagana-tale mahā-javam vicicchide hariḥ iṣubhiḥ sahasradhā . tam āhanat nṛpa kuliśena kandhare ruṣā anvitaḥ tridaśa-patiḥ śiraḥ haran .
न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः । तदद्भुतं परमतिवीर्यवृत्रभित्तिरस्कृतो नमुचिशिरोधरत्वचा ३२ ।
न तस्य हि त्वचम् अपि वज्रः ऊर्जितः बिभेद यः सुरपतिना ओजसा ईरितः । तत् अद्भुतम् परम् अति वीर्य-वृत्र-भिद्-तिरस्कृतः नमुचि-शिरोधर-त्वचा ।
na tasya hi tvacam api vajraḥ ūrjitaḥ bibheda yaḥ surapatinā ojasā īritaḥ . tat adbhutam param ati vīrya-vṛtra-bhid-tiraskṛtaḥ namuci-śirodhara-tvacā .
तस्मादिन्द्रो ऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः । किमिदं दैवयोगेन भूतं लोकविमोहनम् ३३ ।
तस्मात् इन्द्रः अबिभेत् शत्रोः वज्रः प्रतिहतः यतस् । किम् इदम् दैव-योगेन भूतम् लोक-विमोहनम् ।
tasmāt indraḥ abibhet śatroḥ vajraḥ pratihataḥ yatas . kim idam daiva-yogena bhūtam loka-vimohanam .
येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ३४ ।
येन मे पूर्वम् अद्रीणाम् पक्षच्छेदः प्रजा-अत्यये । कृतः निविशताम् भारैः पतत्त्रैः पतताम् भुवि ।
yena me pūrvam adrīṇām pakṣacchedaḥ prajā-atyaye . kṛtaḥ niviśatām bhāraiḥ patattraiḥ patatām bhuvi .
तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः । अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ३५ ।
तपः-सार-मयम् त्वाष्ट्रम् वृत्रः येन विपाटितः । अन्ये च अपि बल-उपेताः सर्व-अस्त्रैः अक्षत-त्वचः ।
tapaḥ-sāra-mayam tvāṣṭram vṛtraḥ yena vipāṭitaḥ . anye ca api bala-upetāḥ sarva-astraiḥ akṣata-tvacaḥ .
सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ३६ ।
सः अयम् प्रतिहतः वज्रः मया मुक्तः असुरे अल्पके । न अहम् तदा आददे दण्डम् ब्रह्म-तेजः अपि अकारणम् ।
saḥ ayam pratihataḥ vajraḥ mayā muktaḥ asure alpake . na aham tadā ādade daṇḍam brahma-tejaḥ api akāraṇam .
इति शक्रं विषीदन्तमाह वागशरीरिणी । नायं शुष्कैरथो नाद्रैर्वधमर्हति दानवः ३७ ।
इति शक्रम् विषीदन्तम् आह वाच् अशरीरिणी । न अयम् शुष्कैः अथो न अद्रैः वधम् अर्हति दानवः ।
iti śakram viṣīdantam āha vāc aśarīriṇī . na ayam śuṣkaiḥ atho na adraiḥ vadham arhati dānavaḥ .
मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्र शुष्कयोः । अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन्रिपोः ३८ ।
मया अस्मै यत् वरः दत्तः मृत्युः न एव आर्द्र शुष्कयोः । अतस् अन्यः चिन्तनीयः ते उपायः मघवन् रिपोः ।
mayā asmai yat varaḥ dattaḥ mṛtyuḥ na eva ārdra śuṣkayoḥ . atas anyaḥ cintanīyaḥ te upāyaḥ maghavan ripoḥ .
तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः । ध्यायन्फेनमथापश्यदुपायमुभयात्मकम् ३९ ।
ताम् दैवीम् गिरम् आकर्ण्य मघवान् सु समाहितः । ध्यायन् फेनम् अथ अपश्यत् उपायम् उभय-आत्मकम् ।
tām daivīm giram ākarṇya maghavān su samāhitaḥ . dhyāyan phenam atha apaśyat upāyam ubhaya-ātmakam .
न शुष्केण न चाद्रेर्ण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम् ४० ।
न शुष्केण न च अद्रेर्ण जहार नमुचेः शिरः । तम् तुष्टुवुः मुनि-गणाः माल्यैः च अवाकिरन् विभुम् ।
na śuṣkeṇa na ca adrerṇa jahāra namuceḥ śiraḥ . tam tuṣṭuvuḥ muni-gaṇāḥ mālyaiḥ ca avākiran vibhum .
गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू । देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ४१ ।
गन्धर्व-मुख्यौ जगतुः विश्वावसु-परावसू । देव-दुन्दुभयः नेदुः नर्तक्यः ननृतुः मुदा ।
gandharva-mukhyau jagatuḥ viśvāvasu-parāvasū . deva-dundubhayaḥ neduḥ nartakyaḥ nanṛtuḥ mudā .
अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादयः । सूदयामासुरसुरान्मृगान्केसरिणो यथा ४२ ।
अन्ये अपि एवम् । सूदयामासुः असुरान् मृगान् केसरिणः यथा ।
anye api evam . sūdayāmāsuḥ asurān mṛgān kesariṇaḥ yathā .
ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप । वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम् ४३ ।
ब्रह्मणा प्रेषितः देवान् देव-ऋषिः नारदः नृप । वारयामास विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ।
brahmaṇā preṣitaḥ devān deva-ṛṣiḥ nāradaḥ nṛpa . vārayāmāsa vibudhān dṛṣṭvā dānava-saṅkṣayam .
श्रीनारद उवाच।
भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः । श्रिया समेधिताः सर्व उपारमत विग्रहात् ४४ ।
भवद्भिः अमृतम् प्राप्तम् नारायण-भुज-आश्रयैः । श्रिया समेधिताः सर्वे उपारमत विग्रहात् ।
bhavadbhiḥ amṛtam prāptam nārāyaṇa-bhuja-āśrayaiḥ . śriyā samedhitāḥ sarve upāramata vigrahāt .
श्रीशुक उवाच।
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः । उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ४५ ।
संयम्य मन्यु-संरम्भम् मानयन्तः मुनेः वचः । उपगीयमान-अनुचरैः ययुः सर्वे त्रिविष्टपम् ।
saṃyamya manyu-saṃrambham mānayantaḥ muneḥ vacaḥ . upagīyamāna-anucaraiḥ yayuḥ sarve triviṣṭapam .
येऽवशिष्टा रणे तस्मिन्नारदानुमतेन ते । बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ४६ ।
ये अवशिष्टाः रणे तस्मिन् नारद-अनुमतेन ते । बलिम् विपन्नम् आदाय अस्तम् गिरिम् उपागमन् ।
ye avaśiṣṭāḥ raṇe tasmin nārada-anumatena te . balim vipannam ādāya astam girim upāgaman .
तत्राविनष्टावयवान्विद्यमानशिरोधरान् । उशना जीवयामास संजीवन्या स्वविद्यया ४७ ।
तत्र अ विनष्ट-अवयवान् विद्यमान-शिरोधरान् । उशनाः जीवयामास संजीवन्या स्व-विद्यया ।
tatra a vinaṣṭa-avayavān vidyamāna-śirodharān . uśanāḥ jīvayāmāsa saṃjīvanyā sva-vidyayā .
बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः । पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ४८ ।
बलिः च उशनसा स्पृष्टः प्रत्यापन्न-इन्द्रिय-स्मृतिः । पराजितः अपि न अखिद्यत् लोक-तत्त्व-विचक्षणः ।
baliḥ ca uśanasā spṛṣṭaḥ pratyāpanna-indriya-smṛtiḥ . parājitaḥ api na akhidyat loka-tattva-vicakṣaṇaḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे देव-असुर-संग्रामे एकादशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe deva-asura-saṃgrāme ekādaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In