| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीबादरायणिरुवाच - (अनुष्टुप्)
वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् । मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥
वृषध्वजः निशम्य इदम् योषित् रूपेण दानवान् । मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत् ॥ १ ॥
vṛṣadhvajaḥ niśamya idam yoṣit rūpeṇa dānavān . mohayitvā sura-gaṇān hariḥ somam apāyayat .. 1 ..
वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥
वृषम् आरुह्य गिरिशः सर्व-भूत-गणैः वृतः । सह देव्या ययौ द्रष्टुम् यत्र आस्ते मधुसूदनः ॥ २ ॥
vṛṣam āruhya giriśaḥ sarva-bhūta-gaṇaiḥ vṛtaḥ . saha devyā yayau draṣṭum yatra āste madhusūdanaḥ .. 2 ..
सभाजितो भगवता सादरं सोमया भवः । सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥
सभाजितः भगवता स आदरम् सोमया भवः । सु उपविष्टः उवाच इदम् प्रतिपूज्य स्मयन् हरिम् ॥ ३ ॥
sabhājitaḥ bhagavatā sa ādaram somayā bhavaḥ . su upaviṣṭaḥ uvāca idam pratipūjya smayan harim .. 3 ..
श्रीमहादेव उवाच -
देवदेव जगद्व्यापिन् जगदीश जगन्मय । सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥
देवदेव जगत्-व्यापिन् जगदीश जगत्-मय । सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः ॥ ४ ॥
devadeva jagat-vyāpin jagadīśa jagat-maya . sarveṣām api bhāvānām tvam ātmā hetuḥ īśvaraḥ .. 4 ..
आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः । यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान् ॥ ५ ॥
आदि-अन्तौ अस्य यत् मध्यम् इदम् अन्यत् अहम् बहिस् । यतस् अव्ययस्य न एतानि तत् सत्यम् ब्रह्म चित्-भवान् ॥ ५ ॥
ādi-antau asya yat madhyam idam anyat aham bahis . yatas avyayasya na etāni tat satyam brahma cit-bhavān .. 5 ..
तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । विसृज्योभयतः संगं मुनयः समुपासते ॥ ६ ॥
तव एव चरण-अम्भोजम् श्रेयस्कामाः । विसृज्य उभयतस् संगम् मुनयः समुपासते ॥ ६ ॥
tava eva caraṇa-ambhojam śreyaskāmāḥ . visṛjya ubhayatas saṃgam munayaḥ samupāsate .. 6 ..
त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं आनन्दमात्रमविकारमनन्यदन्यत् । विश्वस्य हेतुरुदयस्थितिसंयमानां आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७ ॥
त्वम् ब्रह्म पूर्णम् अमृतम् विगुणम् विशोकम् आनन्द-मात्रम् अविकारम् अनन्य-अन्यत् । विश्वस्य हेतुः उदय-स्थिति-संयमानाम् आत्म-ईश्वरः च तद्-अपेक्ष-तया अनपेक्षः ॥ ७ ॥
tvam brahma pūrṇam amṛtam viguṇam viśokam ānanda-mātram avikāram ananya-anyat . viśvasya hetuḥ udaya-sthiti-saṃyamānām ātma-īśvaraḥ ca tad-apekṣa-tayā anapekṣaḥ .. 7 ..
एकस्त्वमेव सदसद् द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः । अज्ञानतस्त्वयि जनैर्विहितो विकल्पो । यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥
एकः त्वम् एव सत्-असत् द्वयम् अद्वयम् च स्वर्णम् कृताकृतम् इव इह न वस्तु-भेदः । अज्ञानतः त्वयि जनैः विहितः । यस्मात् गुण-व्यतिकरः निरुपाधिकस्य ॥ ८ ॥
ekaḥ tvam eva sat-asat dvayam advayam ca svarṇam kṛtākṛtam iva iha na vastu-bhedaḥ . ajñānataḥ tvayi janaiḥ vihitaḥ . yasmāt guṇa-vyatikaraḥ nirupādhikasya .. 8 ..
त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम् । अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥
त्वाम् ब्रह्म केचिद् अवयन्ति उत धर्मम् एके एके परम् सत्-असतोः पुरुषम् पर-ईशम् । अन्ये अवयन्ति नव-शक्ति-युतम् परम् त्वाम् केचिद् महापुरुषम् अव्ययम् आत्मतन्त्रम् ॥ ९ ॥
tvām brahma kecid avayanti uta dharmam eke eke param sat-asatoḥ puruṣam para-īśam . anye avayanti nava-śakti-yutam param tvām kecid mahāpuruṣam avyayam ātmatantram .. 9 ..
नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः । यन्मायया मुषितचेतस ईश दैत्य मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १० ॥
न अहम् परायुः ऋषयः न मरीचि-मुख्याः जानन्ति यत् विरचितम् खलु सत्त्व-सर्गाः । यद्-मायया मुषित-चेतसः ईश दैत्य मर्त्य-आदयः किम् उत शश्वत् अभद्र-वृत्ताः ॥ १० ॥
na aham parāyuḥ ṛṣayaḥ na marīci-mukhyāḥ jānanti yat viracitam khalu sattva-sargāḥ . yad-māyayā muṣita-cetasaḥ īśa daitya martya-ādayaḥ kim uta śaśvat abhadra-vṛttāḥ .. 10 ..
स त्वं समीहितमदः स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ । वायुर्यथा विशति खं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥
स त्वम् समीहित-मदः स्थिति-जन्म-नाशम् भूत-ईहितम् च जगतः भव-बन्ध-मोक्षौ । वायुः यथा विशति खम् च चराचर-आख्यम् सर्वम् तद्-आत्मक-तया अवगमः अवरुन्त्से ॥ ११ ॥
sa tvam samīhita-madaḥ sthiti-janma-nāśam bhūta-īhitam ca jagataḥ bhava-bandha-mokṣau . vāyuḥ yathā viśati kham ca carācara-ākhyam sarvam tad-ātmaka-tayā avagamaḥ avaruntse .. 11 ..
(अनुष्टुप्)
अवतारा मया दृष्टा रममाणस्य ते गुणैः । सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम् ॥ १२ ॥
अवताराः मया दृष्टाः रममाणस्य ते गुणैः । सः अहम् तत् द्रष्टुम् इच्छामि यत् ते योषित् वपुः धृतम् ॥ १२ ॥
avatārāḥ mayā dṛṣṭāḥ ramamāṇasya te guṇaiḥ . saḥ aham tat draṣṭum icchāmi yat te yoṣit vapuḥ dhṛtam .. 12 ..
येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३ ॥
येन सम्मोहिताः दैत्याः पायिताः च अमृतम् सुराः । तत् दिदृक्षवः आयाताः परम् कौतूहलम् हि नः ॥ १३ ॥
yena sammohitāḥ daityāḥ pāyitāḥ ca amṛtam surāḥ . tat didṛkṣavaḥ āyātāḥ param kautūhalam hi naḥ .. 13 ..
श्रीशुक उवाच -
एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना । प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥
एवम् अभ्यर्थितः विष्णुः भगवान् शूलपाणिना । प्रहस्य भाव-गम्भीरम् गिरिशम् प्रत्यभाषत ॥ १४ ॥
evam abhyarthitaḥ viṣṇuḥ bhagavān śūlapāṇinā . prahasya bhāva-gambhīram giriśam pratyabhāṣata .. 14 ..
श्रीभगवानुवाच -
कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः । पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥
कौतूहलाय दैत्यानाम् योषित्-वेषः मया कृतः । पश्यता सुर-कार्याणि गते पीयूष-भाजने ॥ १५ ॥
kautūhalāya daityānām yoṣit-veṣaḥ mayā kṛtaḥ . paśyatā sura-kāryāṇi gate pīyūṣa-bhājane .. 15 ..
तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम । कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥ १६ ॥
तत् ते अहम् दर्शयिष्यामि दिदृक्षोः सुर-सत्तम । कामिनाम् बहु मन्तव्यम् संकल्प-प्रभव-उदयम् ॥ १६ ॥
tat te aham darśayiṣyāmi didṛkṣoḥ sura-sattama . kāminām bahu mantavyam saṃkalpa-prabhava-udayam .. 16 ..
श्रीशुक उवाच -
इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत । सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया ॥ १७ ॥
इति ब्रुवाणः भगवान् तत्र एव अन्तरधीयत । सर्वतस् चारयन् चक्षुः भवः आस्ते सह उमया ॥ १७ ॥
iti bruvāṇaḥ bhagavān tatra eva antaradhīyata . sarvatas cārayan cakṣuḥ bhavaḥ āste saha umayā .. 17 ..
ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे । विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥
ततस् ददर्श उपवने वर-स्त्रियम् विचित्र-पुष्प-अरुण-पल्लव-द्रुमे । विक्रीडतीम् कन्दुक-लीलया लसत् दुकूल-पर्यस्त-नितम्ब-मेखलाम् ॥ १८ ॥
tatas dadarśa upavane vara-striyam vicitra-puṣpa-aruṇa-pallava-drume . vikrīḍatīm kanduka-līlayā lasat dukūla-paryasta-nitamba-mekhalām .. 18 ..
आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे । प्रभज्यमानामिव मध्यतश्चलउ पदप्रवालं नयतीं ततस्ततः ॥ १९ ॥
आवर्तन-उद्वर्तन-कम्पित-स्तन प्रकृष्ट-हार-ऊरु-भरैः पदे पदे । प्रभज्यमानाम् इव मध्यतस् चलौ पद-प्रवालम् नयतीम् ततस् ततस् ॥ १९ ॥
āvartana-udvartana-kampita-stana prakṛṣṭa-hāra-ūru-bharaiḥ pade pade . prabhajyamānām iva madhyatas calau pada-pravālam nayatīm tatas tatas .. 19 ..
दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् । स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् ॥ २० ॥
दिक्षु भ्रमत्-कन्दुक-चापलैः भृशम् प्रोद्विग्न-तारा-आयत-लोल-लोचनाम् । स्व-कर्ण-विभ्राजित-कुण्डल-उल्लसत्-कपोल-नील-अलक-मण्डित-आननाम् ॥ २० ॥
dikṣu bhramat-kanduka-cāpalaiḥ bhṛśam prodvigna-tārā-āyata-lola-locanām . sva-karṇa-vibhrājita-kuṇḍala-ullasat-kapola-nīla-alaka-maṇḍita-ānanām .. 20 ..
श्लथद् दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना । विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥ २१ ॥
श्लथत् दुकूलम् कबरीम् च विच्युताम् सन्नह्यतीम् वाम-करेण वल्गुना । विनिघ्नतीम् अन्य-करेण कन्दुकम् विमोहयन्तीम् जगदात्म-मायया ॥ २१ ॥
ślathat dukūlam kabarīm ca vicyutām sannahyatīm vāma-kareṇa valgunā . vinighnatīm anya-kareṇa kandukam vimohayantīm jagadātma-māyayā .. 21 ..
तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
ताम् वीक्ष्य देवः इति कन्दुक-लीलया ईषत् व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः । स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥
tām vīkṣya devaḥ iti kanduka-līlayā īṣat vrīḍā-sphuṭa-smita-visṛṣṭa-kaṭākṣa-muṣṭaḥ . strī-prekṣaṇa-pratisamīkṣaṇa-vihvala-ātmā na ātmānam antike umām sva-gaṇān ca veda .. 22 ..
तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः । वासः ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः ॥ २३ ॥
तस्याः कर-अग्रात् स तु कन्दुकः यदा गतः विदूरम् तम् अनुव्रजत्-स्त्रियाः । वासः स सूत्रम् लघु मारुतः अहरत् भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥
tasyāḥ kara-agrāt sa tu kandukaḥ yadā gataḥ vidūram tam anuvrajat-striyāḥ . vāsaḥ sa sūtram laghu mārutaḥ aharat bhavasya devasya kila anupaśyataḥ .. 23 ..
(अनुष्टुप्)
एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् । दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४ ॥
एवम् ताम् रुचिर-अपाङ्गीम् दर्शनीयाम् मनोरमाम् । दृष्ट्वा तस्याम् मनः चक्रे विषज्जन्त्याम् भवः किल ॥ २४ ॥
evam tām rucira-apāṅgīm darśanīyām manoramām . dṛṣṭvā tasyām manaḥ cakre viṣajjantyām bhavaḥ kila .. 24 ..
तयापहृतविज्ञानः तत्कृतस्मरविह्वलः । भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥
तया अपहृत-विज्ञानः तद्-कृत-स्मर-विह्वलः । भवान्याः अपि पश्यन्त्याः गत-ह्रीः तत् पदम् ययौ ॥ २५ ॥
tayā apahṛta-vijñānaḥ tad-kṛta-smara-vihvalaḥ . bhavānyāḥ api paśyantyāḥ gata-hrīḥ tat padam yayau .. 25 ..
सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥
सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम् । निलीयमाना वृक्षेषु हसन्ती न अन्वतिष्ठत ॥ २६ ॥
sā tam āyāntam ālokya vivastrā vrīḍitā bhṛśam . nilīyamānā vṛkṣeṣu hasantī na anvatiṣṭhata .. 26 ..
तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः । कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७ ॥
ताम् अन्वगच्छत् भगवान् भवः प्रमुषित-इन्द्रियः । कामस्य च वशम् नीतः करेणुम् इव यूथपः ॥ २७ ॥
tām anvagacchat bhagavān bhavaḥ pramuṣita-indriyaḥ . kāmasya ca vaśam nītaḥ kareṇum iva yūthapaḥ .. 27 ..
सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥
सः अनुव्रज्य अतिवेगेन गृहीत्वा अन् इच्छतीम् स्त्रियम् । केश-बन्धे उपानीय बाहुभ्याम् परिषस्वजे ॥ २८ ॥
saḥ anuvrajya ativegena gṛhītvā an icchatīm striyam . keśa-bandhe upānīya bāhubhyām pariṣasvaje .. 28 ..
सोपगूढा भगवता करिणा करिणी यथा । इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥
सा उपगूढा भगवता करिणा करिणी यथा । इतस् ततस् प्रसर्पन्ती विप्रकीर्ण-शिरोरुहा ॥ २९ ॥
sā upagūḍhā bhagavatā kariṇā kariṇī yathā . itas tatas prasarpantī viprakīrṇa-śiroruhā .. 29 ..
आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् । प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥
आत्मानम् मोचयित्वा अङ्ग सुर-ऋषभ-भुजान्तरात् । प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता ॥ ३० ॥
ātmānam mocayitvā aṅga sura-ṛṣabha-bhujāntarāt . prādravat sā pṛthu-śroṇī māyā deva-vinirmitā .. 30 ..
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः । प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१ ॥
तस्य असौ पदवीम् रुद्रः विष्णोः अद्भुत-कर्मणः । प्रत्यपद्यत कामेन वैरिणा इव विनिर्जितः ॥ ३१ ॥
tasya asau padavīm rudraḥ viṣṇoḥ adbhuta-karmaṇaḥ . pratyapadyata kāmena vairiṇā iva vinirjitaḥ .. 31 ..
तस्यानुधावतो रेतः चस्कन्दामोघरेतसः । शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२ ॥
तस्य अनुधावतः रेतः चस्कन्द अमोघ-रेतसः । शुष्मिणः यूथपस्य इव वासि-ताम् अनुधावतः ॥ ३२ ॥
tasya anudhāvataḥ retaḥ caskanda amogha-retasaḥ . śuṣmiṇaḥ yūthapasya iva vāsi-tām anudhāvataḥ .. 32 ..
यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः । तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३ ॥
यत्र यत्र अपतत् मह्याम् रेतः तस्य महात्मनः । तानि रूप्यस्य हेम्नः च क्षेत्राणि आसन् महीपते ॥ ३३ ॥
yatra yatra apatat mahyām retaḥ tasya mahātmanaḥ . tāni rūpyasya hemnaḥ ca kṣetrāṇi āsan mahīpate .. 33 ..
सरित्सरःसु शैलेषु वनेषु उपवनेषु च । यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः ॥ ३४ ॥
सरित्-सरःसु शैलेषु वनेषु उपवनेषु च । यत्र क्व च आसन् ऋषयः तत्र सन्निहितः हरः ॥ ३४ ॥
sarit-saraḥsu śaileṣu vaneṣu upavaneṣu ca . yatra kva ca āsan ṛṣayaḥ tatra sannihitaḥ haraḥ .. 34 ..
स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया । जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥
स्कन्ने रेतसि सः अपश्यत् आत्मानम् देव-मायया । जडीकृतम् नृप-श्रेष्ठ सन् न्यवर्तत कश्मलात् ॥ ३५ ॥
skanne retasi saḥ apaśyat ātmānam deva-māyayā . jaḍīkṛtam nṛpa-śreṣṭha san nyavartata kaśmalāt .. 35 ..
अथ अवगतमाहात्म्य आत्मनो जगदात्मनः । अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥ ३६ ॥
अथ अवगत-माहात्म्यः आत्मनः जगदात्मनः । अ परिज्ञेय-वीर्यस्य न मेने तत् उ ह अद्भुतम् ॥ ३६ ॥
atha avagata-māhātmyaḥ ātmanaḥ jagadātmanaḥ . a parijñeya-vīryasya na mene tat u ha adbhutam .. 36 ..
तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः । उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३७ ॥
तम् अविक्लवम् अव्रीडम् आलक्ष्य मधुसूदनः । उवाच परम-प्रीतः बिभ्रत् स्वाम् पौरुषीम् तनुम् ॥ ३७ ॥
tam aviklavam avrīḍam ālakṣya madhusūdanaḥ . uvāca parama-prītaḥ bibhrat svām pauruṣīm tanum .. 37 ..
श्रीभगवानुवाच -
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः । यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया ॥ ३८ ॥
दिष्ट्या त्वम् विबुध-श्रेष्ठ स्वाम् निष्ठाम् आत्मना स्थितः । यत् मे स्त्री-रूपया स्वैरम् मोहितः अपि अङ्ग मायया ॥ ३८ ॥
diṣṭyā tvam vibudha-śreṣṭha svām niṣṭhām ātmanā sthitaḥ . yat me strī-rūpayā svairam mohitaḥ api aṅga māyayā .. 38 ..
को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् । तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९ ॥
कः नु मे अतितरेत् मायाम् विषक्तः त्वत् ऋते पुमान् । तान् तान् विसृजतीम् भावान् दुस्तराम् अकृतात्मभिः ॥ ३९ ॥
kaḥ nu me atitaret māyām viṣaktaḥ tvat ṛte pumān . tān tān visṛjatīm bhāvān dustarām akṛtātmabhiḥ .. 39 ..
सेयं गुणमयी माया न त्वां अभिभविष्यति । मया समेता कालेन कालरूपेण भागशः ॥ ४० ॥
सा इयम् गुण-मयी माया न त्वाम् अभिभविष्यति । मया समेता कालेन काल-रूपेण भागशस् ॥ ४० ॥
sā iyam guṇa-mayī māyā na tvām abhibhaviṣyati . mayā sametā kālena kāla-rūpeṇa bhāgaśas .. 40 ..
श्रीशुक उवाच -
एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः । आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१ ॥
एवम् भगवता राजन् श्रीवत्सांकेन सत्कृतः । आमंत्र्य तम् परिक्रम्य स गणः स्व-आलयम् ययौ ॥ ४१ ॥
evam bhagavatā rājan śrīvatsāṃkena satkṛtaḥ . āmaṃtrya tam parikramya sa gaṇaḥ sva-ālayam yayau .. 41 ..
आत्मांशभूतां तां मायां भवानीं भगवान् भवः । शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥
आत्म-अंश-भूताम् ताम् मायाम् भवानीम् भगवान् भवः । शंसताम् ऋषि-मुख्यानाम् प्रीत्या आचष्ट अथ भारत ॥ ४२ ॥
ātma-aṃśa-bhūtām tām māyām bhavānīm bhagavān bhavaḥ . śaṃsatām ṛṣi-mukhyānām prītyā ācaṣṭa atha bhārata .. 42 ..
अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः । अहं कलानां ऋषभो विमुह्ये ययावशोऽन्ये किमुतास्वतंत्राः ॥ ४३ ॥
अयि व्यपश्यः त्वम् अजस्य मायाम् परस्य पुंसः पर-देवतायाः । अहम् कलानाम् ऋषभः विमुह्ये ययौ अशः अन्ये किम् उत अस्वतंत्राः ॥ ४३ ॥
ayi vyapaśyaḥ tvam ajasya māyām parasya puṃsaḥ para-devatāyāḥ . aham kalānām ṛṣabhaḥ vimuhye yayau aśaḥ anye kim uta asvataṃtrāḥ .. 43 ..
यं मां अपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै । स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥ ४४ ॥
यम् माम् अपृच्छः त्वम् उपेत्य योगात् समा-सहस्र-अन्ते उपारतम् वै । सः एष साक्षात् पुरुषः पुराणः न यत्र कालः विशते न वेदः ॥ ४४ ॥
yam mām apṛcchaḥ tvam upetya yogāt samā-sahasra-ante upāratam vai . saḥ eṣa sākṣāt puruṣaḥ purāṇaḥ na yatra kālaḥ viśate na vedaḥ .. 44 ..
श्रीशुक उवाच -
इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः । सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५ ॥
इति ते अभिहितः तात विक्रमः शारंगधन्वनः । सिन्धोः निर्मथने येन धृतः पृष्ठे महा-अचलः ॥ ४५ ॥
iti te abhihitaḥ tāta vikramaḥ śāraṃgadhanvanaḥ . sindhoḥ nirmathane yena dhṛtaḥ pṛṣṭhe mahā-acalaḥ .. 45 ..
एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो न रिष्यते जातु समुद्यमः क्वचित् । यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥
एतत् मुहुर् कीर्तयतः अनुश्रृण्वतः न रिष्यते जातु समुद्यमः क्वचिद् । यत् उत्तमश्लोक-गुण-अनुवर्णनम् समस्त-संसार-परिश्रम-अपहम् ॥ ४६ ॥
etat muhur kīrtayataḥ anuśrṛṇvataḥ na riṣyate jātu samudyamaḥ kvacid . yat uttamaśloka-guṇa-anuvarṇanam samasta-saṃsāra-pariśrama-apaham .. 46 ..
असद् अविषयमङ्घ्रिं भावगम्यं प्रपन्नान् अमृतममरवर्यानाशयत् सिन्धुमथ्यम् । कपटयुवतिवेषो मोहयन् यः सुरारीन् तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥
असत् अविषयम् अङ्घ्रिम् भाव-गम्यम् प्रपन्नान् अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम् । कपट-युवति-वेषः मोहयन् यः सुरारीन् तम् अहम् उपसृतानाम् कामपूरम् नतः अस्मि ॥ ४७ ॥
asat aviṣayam aṅghrim bhāva-gamyam prapannān amṛtam amara-varyān āśayat sindhu-mathyam . kapaṭa-yuvati-veṣaḥ mohayan yaḥ surārīn tam aham upasṛtānām kāmapūram nataḥ asmi .. 47 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे शंकर-मोहनम् द्वादश-उध्या-अयः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe śaṃkara-mohanam dvādaśa-udhyā-ayaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In