| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु १।
मनुः विवस्वतः पुत्रः श्राद्धदेवः इति श्रुतः। सप्तमः वर्तमानः यः तद्-अपत्यानि मे शृणु।
manuḥ vivasvataḥ putraḥ śrāddhadevaḥ iti śrutaḥ. saptamaḥ vartamānaḥ yaḥ tad-apatyāni me śṛṇu.
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते २।
इक्ष्वाकुः नभगः च एव धृष्टः शर्यातिः एव च। नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते।
ikṣvākuḥ nabhagaḥ ca eva dhṛṣṭaḥ śaryātiḥ eva ca. nariṣyantaḥ atha nābhāgaḥ saptamaḥ diṣṭaḥ ucyate.
तरूषश्च पृषध्रश्च दशमो वसुमान्स्मृतः। मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ३।
तरूषः च पृषध्रः च दशमः वसुमान् स्मृतः। मनोः वैवस्वतस्य एते दश-पुत्राः परन्तप।
tarūṣaḥ ca pṛṣadhraḥ ca daśamaḥ vasumān smṛtaḥ. manoḥ vaivasvatasya ete daśa-putrāḥ parantapa.
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ४।
आदित्याः वसवः रुद्राः विश्वेदेवाः मरुत्-गणाः। अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः।
ādityāḥ vasavaḥ rudrāḥ viśvedevāḥ marut-gaṇāḥ. aśvinau ṛbhavaḥ rājan indraḥ teṣām purandaraḥ.
कश्यपोऽत्रिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः। जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ५।
कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः। जमदग्निः भरद्वाजः इति सप्तर्षयः स्मृताः।
kaśyapaḥ atriḥ vasiṣṭhaḥ ca viśvāmitraḥ atha gautamaḥ. jamadagniḥ bharadvājaḥ iti saptarṣayaḥ smṛtāḥ.
अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आदित्यानामवरजो विष्णुर्वामनरूपधृक् ६।
अत्रा अपि भगवत्-जन्म कश्यपात् अदितेः अभूत्। आदित्यानाम् अवरजः विष्णुः वामन-रूपधृक्।
atrā api bhagavat-janma kaśyapāt aditeḥ abhūt. ādityānām avarajaḥ viṣṇuḥ vāmana-rūpadhṛk.
सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते। भविष्याण्यथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ७।
सङ्क्षेपतः मया उक्तानि सप्त-मन्वन्तराणि ते। भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च।
saṅkṣepataḥ mayā uktāni sapta-manvantarāṇi te. bhaviṣyāṇi atha vakṣyāmi viṣṇoḥ śaktyā anvitāni ca.
विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे। संज्ञा छाया च राजेन्द्र ये प्रागभिहिते तव ८।
विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे। संज्ञा छाया च राज-इन्द्र ये प्राक् अभिहिते तव।
vivasvataḥ ca dve jāye viśvakarma-sute ubhe. saṃjñā chāyā ca rāja-indra ye prāk abhihite tava.
तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः। यमो यमी श्राद्धदेवश्छायायाश्च सुताञ्छृणु ९।
तृतीयाम् वडवाम् एके तासाम् संज्ञासुताः त्रयः। यमः यमी श्राद्धदेवः छायायाः च सुतान् शृणु।
tṛtīyām vaḍavām eke tāsām saṃjñāsutāḥ trayaḥ. yamaḥ yamī śrāddhadevaḥ chāyāyāḥ ca sutān śṛṇu.
सावर्णिस्तपती कन्या भार्या संवरणस्य या। शनैश्चरस्तृतीयोऽभूदश्विनौ वडवात्मजौ १०।
सावर्णिः तपती कन्या भार्या संवरणस्य या। शनैश्चरः तृतीयः अभूत् अश्विनौ वडवात्मजौ।
sāvarṇiḥ tapatī kanyā bhāryā saṃvaraṇasya yā. śanaiścaraḥ tṛtīyaḥ abhūt aśvinau vaḍavātmajau.
अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः। निर्मोकविरजस्काद्याः सावर्णितनया नृप ११।
अष्टमे अन्तरे आयाते सावर्णिः भविता मनुः। निर्मोक-विरजस्क-आद्याः सावर्णि-तनयाः नृप।
aṣṭame antare āyāte sāvarṇiḥ bhavitā manuḥ. nirmoka-virajaska-ādyāḥ sāvarṇi-tanayāḥ nṛpa.
तत्र देवाः सुतपसो विरजा अमृतप्रभाः। तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति १२।
तत्र देवाः सु तपसः विरजाः अमृत-प्रभाः। तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति।
tatra devāḥ su tapasaḥ virajāḥ amṛta-prabhāḥ. teṣām virocana-sutaḥ baliḥ indraḥ bhaviṣyati.
दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम्। राद्धमिन्द्र पदं हित्वा ततः सिद्धिमवाप्स्यति १३।
दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम्। राद्धम् इन्द्र पदम् हित्वा ततस् सिद्धिम् अवाप्स्यति।
dattvā imām yācamānāya viṣṇave yaḥ pada-trayam. rāddham indra padam hitvā tatas siddhim avāpsyati.
योऽसौ भगवता बद्धः प्रीतेन सुतले पुनः। निवेशितोऽधिके स्वर्गादधुनास्ते स्वराडिव १४।
यः असौ भगवता बद्धः प्रीतेन सु तले पुनर्। निवेशितः अधिके स्वर्गात् अधुना आस्ते स्वराज् इव।
yaḥ asau bhagavatā baddhaḥ prītena su tale punar. niveśitaḥ adhike svargāt adhunā āste svarāj iva.
गालवो दीप्तिमान्रामो द्रोणपुत्रः कृपस्तथा। ऋष्यशृङ्गः पितास्माकं भगवान्बादरायणः १५।
गालवः दीप्तिमान् रामः द्रोणपुत्रः कृपः तथा। ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः।
gālavaḥ dīptimān rāmaḥ droṇaputraḥ kṛpaḥ tathā. ṛṣyaśṛṅgaḥ pitā asmākam bhagavān bādarāyaṇaḥ.
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः। इदानीमासते राजन्स्वे स्व आश्रममण्डले १६।
इमे सप्तर्षयः तत्र भविष्यन्ति स्व-योगतः। इदानीम् आसते राजन् स्वे स्वे आश्रम-मण्डले।
ime saptarṣayaḥ tatra bhaviṣyanti sva-yogataḥ. idānīm āsate rājan sve sve āśrama-maṇḍale.
देवगुह्यात्सरस्वत्यां सार्वभौम इति प्रभुः। स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः १७।
देव-गुह्यात् सरस्वत्याम् सार्वभौमः इति प्रभुः। स्थानम् पुरन्दरात् हृत्वा बलये दास्यति ईश्वरः।
deva-guhyāt sarasvatyām sārvabhaumaḥ iti prabhuḥ. sthānam purandarāt hṛtvā balaye dāsyati īśvaraḥ.
नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः। भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप १८।
नवमः दक्षसावर्णिः मनुः वरुण-सम्भवः। भूतकेतुः दीप्तकेतुः इति आद्याः तद्-सुताः नृप।
navamaḥ dakṣasāvarṇiḥ manuḥ varuṇa-sambhavaḥ. bhūtaketuḥ dīptaketuḥ iti ādyāḥ tad-sutāḥ nṛpa.
पारा मरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः। द्युतिमत्प्रमुखास्तत्र भविष्यन्त्यृषयस्ततः १९।
पाराः मरीचिगर्भ-आद्याः देवाः इन्द्रः अद्भुतः स्मृतः। द्युतिमत्-प्रमुखाः तत्र भविष्यन्ति ऋषयः ततस्।
pārāḥ marīcigarbha-ādyāḥ devāḥ indraḥ adbhutaḥ smṛtaḥ. dyutimat-pramukhāḥ tatra bhaviṣyanti ṛṣayaḥ tatas.
आयुष्मतोऽम्बुधारायामृषभो भगवत्कला। भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः २०।
आयुष्मतः अम्बु-धारायाम् ऋषभः भगवत्-कला। भविता येन संराद्धाम् त्रिलोकीम् भोक्ष्यते अद्भुतः।
āyuṣmataḥ ambu-dhārāyām ṛṣabhaḥ bhagavat-kalā. bhavitā yena saṃrāddhām trilokīm bhokṣyate adbhutaḥ.
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः। तत्सुता भूरिषेणाद्या हविष्मत्प्रमुखा द्विजाः २१।
दशमः ब्रह्मसावर्णिः उपश्लोक-सुतः मनुः। तद्-सुताः भूरिषेण-आद्याः हविष्मत्-प्रमुखाः द्विजाः।
daśamaḥ brahmasāvarṇiḥ upaśloka-sutaḥ manuḥ. tad-sutāḥ bhūriṣeṇa-ādyāḥ haviṣmat-pramukhāḥ dvijāḥ.
हविष्मान्सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः। सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः २२।
हविष्मान् सुकृतः सत्यः जयः मूर्तिः तदा द्विजाः। सुवासन-विरुद्ध-आद्याः देवाः शम्भुः सुरेश्वरः।
haviṣmān sukṛtaḥ satyaḥ jayaḥ mūrtiḥ tadā dvijāḥ. suvāsana-viruddha-ādyāḥ devāḥ śambhuḥ sureśvaraḥ.
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति। जातः स्वांशेन भगवान्गृहे विश्वसृजो विभुः २३।
विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति। जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः।
viṣvaksenaḥ viṣūcyām tu śambhoḥ sakhyam kariṣyati. jātaḥ sva-aṃśena bhagavān gṛhe viśvasṛjaḥ vibhuḥ.
मनुर्वै धर्मसावर्णिरेकादशम आत्मवान्। अनागतास्तत्सुताश्च सत्यधर्मादयो दश २४।
मनुः वै धर्मसावर्णिः एकादशमः आत्मवान्। अनागताः तद्-सुताः च सत्यधर्म-आदयः दश।
manuḥ vai dharmasāvarṇiḥ ekādaśamaḥ ātmavān. anāgatāḥ tad-sutāḥ ca satyadharma-ādayaḥ daśa.
विहङ्गमाः कामगमा निर्वाणरुचयः सुराः। इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः २५।
विहङ्गमाः कामगमाः निर्वाण-रुचयः सुराः। इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः।
vihaṅgamāḥ kāmagamāḥ nirvāṇa-rucayaḥ surāḥ. indraḥ ca vaidhṛtaḥ teṣām ṛṣayaḥ ca aruṇa-ādayaḥ.
आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः। वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति २६।
आर्यकस्य सुतः तत्र धर्मसेतुः इति स्मृतः। वैधृतायाम् हरेः अंशः त्रिलोकीम् धारयिष्यति।
āryakasya sutaḥ tatra dharmasetuḥ iti smṛtaḥ. vaidhṛtāyām hareḥ aṃśaḥ trilokīm dhārayiṣyati.
भविता रुद्र सावर्णी राजन्द्वादशमो मनुः। देववानुपदेवश्च देवश्रेष्ठादयः सुताः २७।
भविता रुद्र सावर्णिः राजन् द्वादशमः मनुः। देववान् उपदेवः च देवश्रेष्ठ-आदयः सुताः।
bhavitā rudra sāvarṇiḥ rājan dvādaśamaḥ manuḥ. devavān upadevaḥ ca devaśreṣṭha-ādayaḥ sutāḥ.
ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः। ऋषयश्च तपोमूर्तिस्तपस्व्याग्नीध्रकादयः २८।
ऋतधामा च तत्र इन्द्रः देवाः च हरित-आदयः। ऋषयः च तपोमूर्तिः तपस्व्य-आग्नीध्रक-आदयः।
ṛtadhāmā ca tatra indraḥ devāḥ ca harita-ādayaḥ. ṛṣayaḥ ca tapomūrtiḥ tapasvya-āgnīdhraka-ādayaḥ.
स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः। अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः २९।
स्वधाम-आख्यः हरेः अंशः साधयिष्यति तत् मनोः। अन्तरम् सत्यसहसः सुनृतायाः सुतः विभुः।
svadhāma-ākhyaḥ hareḥ aṃśaḥ sādhayiṣyati tat manoḥ. antaram satyasahasaḥ sunṛtāyāḥ sutaḥ vibhuḥ.
मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान्। चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ३०।
मनुः त्रयोदशः भाव्यः देवसावर्णिः आत्मवान्। चित्रसेन-विचित्र-आद्याः देव-सावर्णि-देहजाः।
manuḥ trayodaśaḥ bhāvyaḥ devasāvarṇiḥ ātmavān. citrasena-vicitra-ādyāḥ deva-sāvarṇi-dehajāḥ.
देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः। निर्मोकतत्त्वदर्शाद्या भविष्यन्त्यृषयस्तदा ३१।
देवाः सुकर्म-सुत्राम संज्ञाः इन्द्रः दिवस्पतिः। निर्मोक-तत्त्व-दर्श-आद्याः भविष्यन्ति ऋषयः तदा।
devāḥ sukarma-sutrāma saṃjñāḥ indraḥ divaspatiḥ. nirmoka-tattva-darśa-ādyāḥ bhaviṣyanti ṛṣayaḥ tadā.
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः। योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ३२।
देवहोत्रस्य तनयः उपहर्ता दिवस्पतेः। योगेश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति।
devahotrasya tanayaḥ upahartā divaspateḥ. yogeśvaraḥ hareḥ aṃśaḥ bṛhatyām sambhaviṣyati.
मनुर्वा इन्द्र सावर्णिश्चतुर्दशम एष्यति। उरुगम्भीरबुधाद्या इन्द्र सावर्णिवीर्यजाः ३३।
मनुः वै इन्द्र सावर्णिः चतुर्दशमः एष्यति। उरु-गम्भीर-बुध-आद्याः इन्द्र सावर्णि-वीर्य-जाः।
manuḥ vai indra sāvarṇiḥ caturdaśamaḥ eṣyati. uru-gambhīra-budha-ādyāḥ indra sāvarṇi-vīrya-jāḥ.
पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति। अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ३४।
पवित्राः चाक्षुषाः देवाः शुचिः इन्द्रः भविष्यति। अग्निः बाहुः शुचिः शुद्धः मागध-आद्याः तपस्विनः।
pavitrāḥ cākṣuṣāḥ devāḥ śuciḥ indraḥ bhaviṣyati. agniḥ bāhuḥ śuciḥ śuddhaḥ māgadha-ādyāḥ tapasvinaḥ.
सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः। वितानायां महाराज क्रियातन्तून्वितायिता ३५।
सत्रायणस्य तनयः बृहद्भानुः तदा हरिः। वितानायाम् महा-राज क्रिया-तन्तून् वितायिता।
satrāyaṇasya tanayaḥ bṛhadbhānuḥ tadā hariḥ. vitānāyām mahā-rāja kriyā-tantūn vitāyitā.
राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते। प्रोक्तान्येभिर्मितः कल्पो युगसाहस्रपर्ययः ३६।
राजन् चतुर्दश एतानि त्रि-काल-अनुगतानि ते। प्रोक्तान् येभिः मितः कल्पः युग-साहस्र-पर्ययः।
rājan caturdaśa etāni tri-kāla-anugatāni te. proktān yebhiḥ mitaḥ kalpaḥ yuga-sāhasra-paryayaḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे मन्वन्तरानुवर्णनम् नाम त्रयोदशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe manvantarānuvarṇanam nāma trayodaśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In