| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच - (अनुष्टुप्)
मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । यस्मिन्कर्मणि ये येन नियुक्ताः तद् वदस्व मे ॥ १ ॥
मन्वन्तरेषु भगवन् यथा मनु-आदयः तु इमे । यस्मिन् कर्मणि ये येन नियुक्ताः तत् वदस्व मे ॥ १ ॥
manvantareṣu bhagavan yathā manu-ādayaḥ tu ime . yasmin karmaṇi ye yena niyuktāḥ tat vadasva me .. 1 ..
श्रीऋषिरुवाच -
मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ २ ॥
मनवः मनु-पुत्राः च मुनयः च महीपते । इन्द्राः सुर-गणाः च एव सर्वे पुरुष-शासनाः ॥ २ ॥
manavaḥ manu-putrāḥ ca munayaḥ ca mahīpate . indrāḥ sura-gaṇāḥ ca eva sarve puruṣa-śāsanāḥ .. 2 ..
यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । मन्वादयो जगद् यात्रां नयन्त्याभिः प्रचोदिताः ॥ ३ ॥
यज्ञ-आदयः याः कथिताः पौरुष्यः तनवः नृप । मनु-आदयः जगत् यात्राम् नयन्ति आभिः प्रचोदिताः ॥ ३ ॥
yajña-ādayaḥ yāḥ kathitāḥ pauruṣyaḥ tanavaḥ nṛpa . manu-ādayaḥ jagat yātrām nayanti ābhiḥ pracoditāḥ .. 3 ..
चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान्यथा । तपसा ऋषयोऽपश्यन् यतो धर्मः सनातनः ॥ ४ ॥
चतुर्-युग-अन्ते कालेन ग्रस्तान् श्रुति-गणान् यथा । तपसा ऋषयः अपश्यन् यतस् धर्मः सनातनः ॥ ४ ॥
catur-yuga-ante kālena grastān śruti-gaṇān yathā . tapasā ṛṣayaḥ apaśyan yatas dharmaḥ sanātanaḥ .. 4 ..
ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥
ततस् धर्मम् चतुष्पादम् मनवः हरिणा उदिताः । युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीम् नृप ॥ ५ ॥
tatas dharmam catuṣpādam manavaḥ hariṇā uditāḥ . yuktāḥ sañcārayanti addhā sve sve kāle mahīm nṛpa .. 5 ..
पालयन्ति प्रजापाला यावदन्तं विभागशः । यज्ञभागभुजो देवा ये च तत्र अन्विताश्च तैः ॥ ६ ॥
पालयन्ति प्रजापालाः यावत् अन्तम् विभागशः । यज्ञ-भाग-भुजः देवाः ये च तत्र अन्विताः च तैः ॥ ६ ॥
pālayanti prajāpālāḥ yāvat antam vibhāgaśaḥ . yajña-bhāga-bhujaḥ devāḥ ye ca tatra anvitāḥ ca taiḥ .. 6 ..
इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । भुञ्जानः पाति लोकान् त्रीन् कामं लोके प्रवर्षति ॥ ७ ॥
इन्द्रः भगवता दत्ताम् त्रैलोक्य-श्रियम् ऊर्जिताम् । भुञ्जानः पाति लोकान् त्रीन् कामम् लोके प्रवर्षति ॥ ७ ॥
indraḥ bhagavatā dattām trailokya-śriyam ūrjitām . bhuñjānaḥ pāti lokān trīn kāmam loke pravarṣati .. 7 ..
ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ ८ ॥
ज्ञानम् च अनुयुगम् ब्रूते हरिः सिद्ध-स्व-रूप-धृक् । ऋषि-रूप-धरः कर्म योगम् योगेश-रूप-धृक् ॥ ८ ॥
jñānam ca anuyugam brūte hariḥ siddha-sva-rūpa-dhṛk . ṛṣi-rūpa-dharaḥ karma yogam yogeśa-rūpa-dhṛk .. 8 ..
सर्गं प्रजेशरूपेण दस्यून् हन्यात् स्वराड्वपुः । कालरूपेण सर्वेषां अभावाय पृथग्गुणः ॥ ९ ॥
सर्गम् प्रजा-ईश-रूपेण दस्यून् हन्यात् स्वराज्-वपुः । काल-रूपेण सर्वेषाम् अभावाय पृथक् गुणः ॥ ९ ॥
sargam prajā-īśa-rūpeṇa dasyūn hanyāt svarāj-vapuḥ . kāla-rūpeṇa sarveṣām abhāvāya pṛthak guṇaḥ .. 9 ..
स्तूयमानो जनैरेभिः मायया नामरूपया । विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ १० ॥
स्तूयमानः जनैः एभिः मायया नाम-रूपया । विमोहित-आत्मभिः नाना दर्शनैः न च दृश्यते ॥ १० ॥
stūyamānaḥ janaiḥ ebhiḥ māyayā nāma-rūpayā . vimohita-ātmabhiḥ nānā darśanaiḥ na ca dṛśyate .. 10 ..
एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । यत्र मन्वन्तराण्याहुः चतुर्दश पुराविदः ॥ ११ ॥
एतत् कल्प-विकल्पस्य प्रमाणम् परिकीर्तितम् । यत्र मन्वन्तराणि आहुः चतुर्दश पुराविदः ॥ ११ ॥
etat kalpa-vikalpasya pramāṇam parikīrtitam . yatra manvantarāṇi āhuḥ caturdaśa purāvidaḥ .. 11 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In