| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच।
बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूतेश्वरः कृपणवल्लब्धार्थोऽपि बबन्ध तम् १ ।
बलेः पद-त्रयम् भूमेः कस्मात् हरिः अयाचत । भूतेश्वरः कृपण-वत् लब्ध-अर्थः अपि बबन्ध तम् ।
baleḥ pada-trayam bhūmeḥ kasmāt hariḥ ayācata . bhūteśvaraḥ kṛpaṇa-vat labdha-arthaḥ api babandha tam .
एतद्वेदितुमिच्छामो महत्कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्यनागसः २ ।
एतत् वेदितुम् इच्छामः महत् कौतूहलम् हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनम् च अपि अनागसः ।
etat veditum icchāmaḥ mahat kautūhalam hi naḥ . yajñeśvarasya pūrṇasya bandhanam ca api anāgasaḥ .
श्रीशुक उवाच।
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः । सर्वात्मना तानभजद्भृगून्बलिः शिष्यो महात्मार्थनिवेदनेन ३ ।
पराजित-श्रीः असुभिः च हापितः हि इन्द्रेण राजन् भृगुभिः स जीवितः । सर्व-आत्मना तान् अभजत् भृगून् बलिः शिष्यः महात्मा अर्थ-निवेदनेन ।
parājita-śrīḥ asubhiḥ ca hāpitaḥ hi indreṇa rājan bhṛgubhiḥ sa jīvitaḥ . sarva-ātmanā tān abhajat bhṛgūn baliḥ śiṣyaḥ mahātmā artha-nivedanena .
तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन्विश्वजिता त्रिणाकम् । जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ४ ।
तम् ब्राह्मणाः भृगवः प्रीयमाणाः अयाजयन् विश्वजिता त्रिणाकम् । जिगीषमाणम् विधिना अभिषिच्य महा-अभिषेकेण महा-अनुभावाः ।
tam brāhmaṇāḥ bhṛgavaḥ prīyamāṇāḥ ayājayan viśvajitā triṇākam . jigīṣamāṇam vidhinā abhiṣicya mahā-abhiṣekeṇa mahā-anubhāvāḥ .
ततो रथः काञ्चनपट्टनद्धो हयाश्च हर्यश्वतुरङ्गवर्णाः । ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ५ ।
ततस् रथः काञ्चन-पट्ट-नद्धः हयाः च हरि-अश्व-तुरङ्ग-वर्णाः । ध्वजः च सिंहेन विराजमानः हुताशनात् आस हविर्भिः इष्टात् ।
tatas rathaḥ kāñcana-paṭṭa-naddhaḥ hayāḥ ca hari-aśva-turaṅga-varṇāḥ . dhvajaḥ ca siṃhena virājamānaḥ hutāśanāt āsa havirbhiḥ iṣṭāt .
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् । पितामहस्तस्य ददौ च मालामम्लानपुष्पां जलजं च शुक्रः ६ ।
धनुः च दिव्यम् पुरट-उपनद्धम् तूण-अवरिक्तौ कवचम् च दिव्यम् । पितामहः तस्य ददौ च मालाम् अम्लान-पुष्पाम् जलजम् च शुक्रः ।
dhanuḥ ca divyam puraṭa-upanaddham tūṇa-avariktau kavacam ca divyam . pitāmahaḥ tasya dadau ca mālām amlāna-puṣpām jalajam ca śukraḥ .
एवं स विप्रार्जितयोधनार्थस्तैः कल्पितस्वस्त्ययनोऽथ विप्रान् । प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार ७ ।
एवम् स विप्र-अर्जित-योधन-अर्थः तैः कल्पित-स्वस्त्ययनः अथ विप्रान् । प्रदक्षिणीकृत्य कृत-प्रणामः प्रह्रादम् आमन्त्र्य नमश्चकार ।
evam sa vipra-arjita-yodhana-arthaḥ taiḥ kalpita-svastyayanaḥ atha viprān . pradakṣiṇīkṛtya kṛta-praṇāmaḥ prahrādam āmantrya namaścakāra .
अथारुह्य रथं दिव्यं भृगुदत्तं महारथः । सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ८ ।
अथा आरुह्य रथम् दिव्यम् भृगु-दत्तम् महा-रथः । सुस्रज्-धरः अथ सन् अह्य धन्वी खड्गी धृत-इषुधिः ।
athā āruhya ratham divyam bhṛgu-dattam mahā-rathaḥ . susraj-dharaḥ atha san ahya dhanvī khaḍgī dhṛta-iṣudhiḥ .
हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः । रराज रथमारूढो धिष्ण्यस्थ इव हव्यवाट् ९ ।
हेम-अङ्गद-लसत्-बाहुः स्फुरत्-मकर-कुण्डलः । रराज रथम् आरूढः धिष्ण्य-स्थः इव हव्यवाट् ।
hema-aṅgada-lasat-bāhuḥ sphurat-makara-kuṇḍalaḥ . rarāja ratham ārūḍhaḥ dhiṣṇya-sthaḥ iva havyavāṭ .
तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः । पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीनिव १० ।
तुल्य-ऐश्वर्य-बल-श्रीभिः स्व-यूथैः दैत्य-यूथपैः । पिबद्भिः इव खम् दृग्भिः दहद्भिः परिधीन् इव ।
tulya-aiśvarya-bala-śrībhiḥ sva-yūthaiḥ daitya-yūthapaiḥ . pibadbhiḥ iva kham dṛgbhiḥ dahadbhiḥ paridhīn iva .
वृतो विकर्षन्महतीमासुरीं ध्वजिनीं विभुः । ययाविन्द्र पुरीं स्वृद्धां कम्पयन्निव रोदसी ११ ।
वृतः विकर्षन् महतीम् आसुरीम् ध्वजिनीम् विभुः । ययौ इन्द्र पुरीम् सु ऋद्धाम् कम्पयन् इव रोदसी ।
vṛtaḥ vikarṣan mahatīm āsurīm dhvajinīm vibhuḥ . yayau indra purīm su ṛddhām kampayan iva rodasī .
रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः १२ ।
रम्याम् उपवन-उद्यानैः श्रीमद्भिः नन्दन-आदिभिः । कूजत्-विहङ्ग-मिथुनैः गायत्-मत्त-मधु-व्रतैः ।
ramyām upavana-udyānaiḥ śrīmadbhiḥ nandana-ādibhiḥ . kūjat-vihaṅga-mithunaiḥ gāyat-matta-madhu-vrataiḥ .
प्रवालफलपुष्पोरु भारशाखामरद्रुमैः । हंससारसचक्राह्व कारण्डवकुलाकुलाः । नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः १३ ।
प्रवाल-फल-पुष्प-उरु भार-शाखा-अमर-द्रुमैः । । नलिन्यः यत्र क्रीडन्ति प्रमदाः सुर-सेविताः ।
pravāla-phala-puṣpa-uru bhāra-śākhā-amara-drumaiḥ . . nalinyaḥ yatra krīḍanti pramadāḥ sura-sevitāḥ .
आकाशगङ्गया देव्या वृतां परिखभूतया । प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च १४ ।
आकाशगङ्गया देव्या वृताम् परिख-भूतया । प्राकारेण अग्नि-वर्णेन स अट्टालेन उन्नतेन च ।
ākāśagaṅgayā devyā vṛtām parikha-bhūtayā . prākāreṇa agni-varṇena sa aṭṭālena unnatena ca .
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः । जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् १५ ।
रुक्म-पट्ट-कपाटैः च द्वारैः स्फटिक-गोपुरैः । जुष्टाम् विभक्त-प्रपथाम् विश्व-कर्म-विनिर्मिताम् ।
rukma-paṭṭa-kapāṭaiḥ ca dvāraiḥ sphaṭika-gopuraiḥ . juṣṭām vibhakta-prapathām viśva-karma-vinirmitām .
सभाचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्युताम् । शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः १६ ।
सभा-चत्वर-रथ्या-आढ्याम् विमानैः न्यर्बुदैः युताम् । शृङ्गाटकैः मणि-मयैः वज्र-विद्रुम-वेदिभिः ।
sabhā-catvara-rathyā-āḍhyām vimānaiḥ nyarbudaiḥ yutām . śṛṅgāṭakaiḥ maṇi-mayaiḥ vajra-vidruma-vedibhiḥ .
यत्र नित्यवयोरूपाः श्यामा विरजवाससः । भ्राजन्ते रूपवन्नार्यो ह्यर्चिर्भिरिव वह्नयः १७ ।
यत्र नित्य-वयः-रूपाः श्यामाः विरज-वाससः । भ्राजन्ते रूपवत् नार्यः हि अर्चिर्भिः इव वह्नयः ।
yatra nitya-vayaḥ-rūpāḥ śyāmāḥ viraja-vāsasaḥ . bhrājante rūpavat nāryaḥ hi arcirbhiḥ iva vahnayaḥ .
सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् । यत्रामोदमुपादाय मार्ग आवाति मारुतः १८ ।
नव-सौगन्धिक-स्रजाम् । यत्र आमोदम् उपादाय मार्गः आवाति मारुतः ।
nava-saugandhika-srajām . yatra āmodam upādāya mārgaḥ āvāti mārutaḥ .
हेमजालाक्षनिर्गच्छद्धूमेनागुरुगन्धिना । पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः १९ ।
हेम-जाल-अक्ष-निर्गच्छत्-धूमेन अगुरु-गन्धिना । पाण्डुरेण मार्गे यान्ति सुर-प्रियाः ।
hema-jāla-akṣa-nirgacchat-dhūmena aguru-gandhinā . pāṇḍureṇa mārge yānti sura-priyāḥ .
मुक्तावितानैर्मणिहेमकेतुभिर्नानापताकावलभीभिरावृताम् । शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् २० ।
मुक्ता-वितानैः मणि-हेम-केतुभिः नाना पताका-वलभीभिः आवृताम् । शिखण्डि-पारावत-भृङ्ग-नादिताम् वैमानिक-स्त्री-कल-गीत-मङ्गलाम् ।
muktā-vitānaiḥ maṇi-hema-ketubhiḥ nānā patākā-valabhībhiḥ āvṛtām . śikhaṇḍi-pārāvata-bhṛṅga-nāditām vaimānika-strī-kala-gīta-maṅgalām .
मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः । नृत्यैः सवाद्यैरुपदेवगीतकैर्मनोरमां स्वप्रभया जितप्रभाम् २१ ।
मृदङ्ग-शङ्ख-आनक-दुन्दुभि-स्वनैः स ताल-वीणा-मुरज-इष्ट-वेणुभिः । नृत्यैः स वाद्यैः उपदेव-गीतकैः मनोरमाम् स्व-प्रभया जित-प्रभाम् ।
mṛdaṅga-śaṅkha-ānaka-dundubhi-svanaiḥ sa tāla-vīṇā-muraja-iṣṭa-veṇubhiḥ . nṛtyaiḥ sa vādyaiḥ upadeva-gītakaiḥ manoramām sva-prabhayā jita-prabhām .
यां न व्रजन्त्यधर्मिष्ठाः खला भूतद्रुहः शठाः । मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् २२ ।
याम् न व्रजन्ति अधर्मिष्ठाः खलाः भूत-द्रुहः शठाः । मानिनः कामिनः लुब्धाः एभिः हीनाः व्रजन्ति यत् ।
yām na vrajanti adharmiṣṭhāḥ khalāḥ bhūta-druhaḥ śaṭhāḥ . māninaḥ kāminaḥ lubdhāḥ ebhiḥ hīnāḥ vrajanti yat .
तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया । आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन्भयमिन्द्रयोषिताम् २३ ।
ताम् देव-धानीम् स वरूथिनीपतिः बहिस् समन्तात् रुरुधे पृतन्यया । आचार्य-दत्तम् जल-जम् महा-स्वनम् दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम् ।
tām deva-dhānīm sa varūthinīpatiḥ bahis samantāt rurudhe pṛtanyayā . ācārya-dattam jala-jam mahā-svanam dadhmau prayuñjan bhayam indra-yoṣitām .
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् । सर्वदेवगणोपेतो गुरुमेतदुवाच ह २४ ।
मघवान् तम् अभिप्रेत्य बलेः परमम् उद्यमम् । सर्व-देव-गण-उपेतः गुरुम् एतत् उवाच ह ।
maghavān tam abhipretya baleḥ paramam udyamam . sarva-deva-gaṇa-upetaḥ gurum etat uvāca ha .
भगवन्नुद्यमो भूयान्बलेर्नः पूर्ववैरिणः । अविषह्यमिमं मन्ये केनासीत्तेजसोर्जितः २५ ।
भगवन् उद्यमः भूयान् बलेः नः पूर्व-वैरिणः । अविषह्यम् इमम् मन्ये केन आसीत् तेजसा ऊर्जितः ।
bhagavan udyamaḥ bhūyān baleḥ naḥ pūrva-vairiṇaḥ . aviṣahyam imam manye kena āsīt tejasā ūrjitaḥ .
नैनं कश्चित्कुतो वापि प्रतिव्योढुमधीश्वरः । पिबन्निव मुखेनेदं लिहन्निव दिशो दश । दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः २६ ।
न एनम् कश्चिद् कुतस् वा अपि प्रतिव्योढुम् अधीश्वरः । पिबन् इव मुखेन इदम् लिहन् इव दिशः दश । दहन् इव दिशः दृग्भिः संवर्त-अग्निः इव उत्थितः ।
na enam kaścid kutas vā api prativyoḍhum adhīśvaraḥ . piban iva mukhena idam lihan iva diśaḥ daśa . dahan iva diśaḥ dṛgbhiḥ saṃvarta-agniḥ iva utthitaḥ .
ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः । ओजः सहो बलं तेजो यत एतत्समुद्यमः २७ ।
ब्रूहि कारणम् एतस्य दुर्धर्ष-त्वस्य मद्-रिपोः । ओजः सहः बलम् तेजः यतस् एतत् समुद्यमः ।
brūhi kāraṇam etasya durdharṣa-tvasya mad-ripoḥ . ojaḥ sahaḥ balam tejaḥ yatas etat samudyamaḥ .
श्रीगुरुरुवाच।
जानामि मघवञ्छत्रोरुन्नतेरस्य कारणम् । शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः २८ ।
जानामि मघवन् शत्रोः उन्नतेः अस्य कारणम् । शिष्याय उपभृतम् तेजः भृगुभिः ब्रह्म-वादिभिः ।
jānāmi maghavan śatroḥ unnateḥ asya kāraṇam . śiṣyāya upabhṛtam tejaḥ bhṛgubhiḥ brahma-vādibhiḥ .
ओजस्विनं बलिं जेतुं न समर्थोऽस्ति कश्चन । भवद्विधो भवान्वापि वर्जयित्वेश्वरं हरिम् २९ ।
ओजस्विनम् बलिम् जेतुम् न समर्थः अस्ति कश्चन । भवद्विधः भवान् वा अपि वर्जयित्वा ईश्वरम् हरिम् ।
ojasvinam balim jetum na samarthaḥ asti kaścana . bhavadvidhaḥ bhavān vā api varjayitvā īśvaram harim .
विजेष्यति न कोऽप्येनं ब्रह्मतेजःसमेधितम् । नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ३० ।
विजेष्यति न कः अपि एनम् ब्रह्म-तेजः-समेधितम् । न अस्य शक्तः पुरस् स्थातुम् कृतान्तस्य यथा जनाः ।
vijeṣyati na kaḥ api enam brahma-tejaḥ-samedhitam . na asya śaktaḥ puras sthātum kṛtāntasya yathā janāḥ .
तस्मान्निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ३१ ।
तस्मात् निलयम् उत्सृज्य यूयम् सर्वे त्रिविष्टपम् । यात कालम् प्रतीक्षन्तः यतस् शत्रोः विपर्ययः ।
tasmāt nilayam utsṛjya yūyam sarve triviṣṭapam . yāta kālam pratīkṣantaḥ yatas śatroḥ viparyayaḥ .
एष विप्रबलोदर्कः सम्प्रत्यूर्जितविक्रमः । तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ३२ ।
एष विप्र-बल-उदर्कः सम्प्रत्यूर्जित-विक्रमः । तेषाम् एव अपमानेन स अनुबन्धः विनङ्क्ष्यति ।
eṣa vipra-bala-udarkaḥ sampratyūrjita-vikramaḥ . teṣām eva apamānena sa anubandhaḥ vinaṅkṣyati .
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना । हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ३३ ।
एवम् सु मन्त्रित-अर्थाः ते गुरुणा अर्थ-अनुदर्शिना । हित्वा त्रिविष्टपम् जग्मुः गीर्वाणाः कामरूपिणः ।
evam su mantrita-arthāḥ te guruṇā artha-anudarśinā . hitvā triviṣṭapam jagmuḥ gīrvāṇāḥ kāmarūpiṇaḥ .
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् । देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ३४ ।
देवेषु अथ निलीनेषु बलिः वैरोचनः पुरीम् । देव-धानीम् अधिष्ठाय वशम् निन्ये जगत्त्रयम् ।
deveṣu atha nilīneṣu baliḥ vairocanaḥ purīm . deva-dhānīm adhiṣṭhāya vaśam ninye jagattrayam .
तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः । शतेन हयमेधानामनुव्रतमयाजयन् ३५ ।
तम् विश्व-जयिनम् शिष्यम् भृगवः शिष्य-वत्सलाः । शतेन हयमेधानाम् अनुव्रतम् अयाजयन् ।
tam viśva-jayinam śiṣyam bhṛgavaḥ śiṣya-vatsalāḥ . śatena hayamedhānām anuvratam ayājayan .
ततस्तदनुभावेन भुवनत्रयविश्रुताम् । कीर्तिं दिक्षु वितन्वानः स रेज उडुराडिव ३६ ।
ततस् तद्-अनुभावेन भुवन-त्रय-विश्रुताम् । कीर्तिम् दिक्षु वितन्वानः स रेजे उडुराज् इव ।
tatas tad-anubhāvena bhuvana-traya-viśrutām . kīrtim dikṣu vitanvānaḥ sa reje uḍurāj iva .
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् । कृतकृत्यमिवात्मानं मन्यमानो महामनाः ३७ ।
बुभुजे च श्रियम् सु ऋद्धाम् द्विजदेव-उपलम्भिताम् । कृतकृत्यम् इव आत्मानम् मन्यमानः महामनाः ।
bubhuje ca śriyam su ṛddhām dvijadeva-upalambhitām . kṛtakṛtyam iva ātmānam manyamānaḥ mahāmanāḥ .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पञ्चदशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे पञ्चदशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe pañcadaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In