| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥
एवम् पुत्रेषु नष्टेषु देवमाता अदितिः तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यत् अनाथ-वत् ॥ १ ॥
evam putreṣu naṣṭeṣu devamātā aditiḥ tadā . hṛte triviṣṭape daityaiḥ paryatapyat anātha-vat .. 1 ..
एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
एकदा कश्यपः तस्याः आश्रमम् भगवान् अगात् । निरुत्सवम् निरानन्दम् समाधेः विरतः चिरात् ॥ २ ॥
ekadā kaśyapaḥ tasyāḥ āśramam bhagavān agāt . nirutsavam nirānandam samādheḥ virataḥ cirāt .. 2 ..
स पत्नीं दीनवदनां कृतासनपरिग्रहः । सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥
स पत्नीम् दीन-वदनाम् कृत-आसन-परिग्रहः । सभाजितः यथान्यायम् इदम् आह कुरु-उद्वह ॥ ३ ॥
sa patnīm dīna-vadanām kṛta-āsana-parigrahaḥ . sabhājitaḥ yathānyāyam idam āha kuru-udvaha .. 3 ..
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥
अपि अभद्रम् न विप्राणाम् भद्रे लोके अधुना आगतम् । न धर्मस्य न लोकस्य मृत्योः छन्द-अनुवर्तिनः ॥ ४ ॥
api abhadram na viprāṇām bhadre loke adhunā āgatam . na dharmasya na lokasya mṛtyoḥ chanda-anuvartinaḥ .. 4 ..
अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
अपि वा अकुशलम् किञ्चिद् गृहेषु गृहमेधिनि । धर्मस्य अर्थस्य कामस्य यत्र योगः हि अयोगिनाम् ॥ ५ ॥
api vā akuśalam kiñcid gṛheṣu gṛhamedhini . dharmasya arthasya kāmasya yatra yogaḥ hi ayoginām .. 5 ..
अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया । गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
अपि वा अतिथयः अभ्येत्य कुटुम्ब-आसक्तया त्वया । गृहात् अपूजिताः याताः प्रत्युत्थानेन वा क्वचिद् ॥ ६ ॥
api vā atithayaḥ abhyetya kuṭumba-āsaktayā tvayā . gṛhāt apūjitāḥ yātāḥ pratyutthānena vā kvacid .. 6 ..
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥
गृहेषु येषु अतिथयः न अर्चिताः सलिलैः अपि । यदि निर्यान्ति ते नूनम् फेरु-राजगृह-उपमाः ॥ ७ ॥
gṛheṣu yeṣu atithayaḥ na arcitāḥ salilaiḥ api . yadi niryānti te nūnam pheru-rājagṛha-upamāḥ .. 7 ..
अप्यग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
अपि अग्नयः तु वेलायाम् न हुताः हविषा सति । त्वया उद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
api agnayaḥ tu velāyām na hutāḥ haviṣā sati . tvayā udvigna-dhiyā bhadre proṣite mayi karhicit .. 8 ..
यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥
यद्-पूजया कामदुघान् याति लोकान् गृह-अन्वितः । ब्राह्मणः अग्निः च वै विष्णोः सर्व-देव-आत्मनः मुखम् ॥ ९ ॥
yad-pūjayā kāmadughān yāti lokān gṛha-anvitaḥ . brāhmaṇaḥ agniḥ ca vai viṣṇoḥ sarva-deva-ātmanaḥ mukham .. 9 ..
अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि । लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
अपि सर्वे कुशलिनः तव पुत्राः मनस्विनि । लक्षये अस्वस्थम् आत्मानम् भवत्या लक्षणैः अहम् ॥ १० ॥
api sarve kuśalinaḥ tava putrāḥ manasvini . lakṣaye asvastham ātmānam bhavatyā lakṣaṇaiḥ aham .. 10 ..
अदितिरुवाच -
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥
भद्रम् द्विज-गवाम् ब्रह्मन् धर्मस्य अस्य जनस्य च । त्रिवर्गस्य परम् क्षेत्रम् गृहमेधिन् गृहाः इमे ॥ ११ ॥
bhadram dvija-gavām brahman dharmasya asya janasya ca . trivargasya param kṣetram gṛhamedhin gṛhāḥ ime .. 11 ..
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥
अग्नयः अतिथयः भृत्याः भिक्षवः ये च लिप्सवः । सर्वम् भगवतः ब्रह्मन् अनुध्यानात् न रिष्यति ॥ १२ ॥
agnayaḥ atithayaḥ bhṛtyāḥ bhikṣavaḥ ye ca lipsavaḥ . sarvam bhagavataḥ brahman anudhyānāt na riṣyati .. 12 ..
को नु मे भगवन् कामो न सम्पद्येत मानसः । यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥
कः नु मे भगवन् कामः न सम्पद्येत मानसः । यस्याः भवान् प्रजाध्यक्षः एवम् धर्मान् प्रभाषते ॥ १३ ॥
kaḥ nu me bhagavan kāmaḥ na sampadyeta mānasaḥ . yasyāḥ bhavān prajādhyakṣaḥ evam dharmān prabhāṣate .. 13 ..
तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः । समो भवान् तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥ १४ ॥
तव एव मारीच मनः-शरीर-जाः प्रजाः इमाः सत्त्व-रजः-तमः-जुषः । समः भवान् तासु असुर-आदिषु प्रभो तथा अपि भक्तम् भजते महेश्वरः ॥ १४ ॥
tava eva mārīca manaḥ-śarīra-jāḥ prajāḥ imāḥ sattva-rajaḥ-tamaḥ-juṣaḥ . samaḥ bhavān tāsu asura-ādiṣu prabho tathā api bhaktam bhajate maheśvaraḥ .. 14 ..
(अनुष्टुप्)
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ १५ ॥
तस्मात् ईश भजन्त्याः मे श्रेयः चिन्तय सुव्रत । हृत-श्रियः हृत-स्थानान् सपत्नैः पाहि नः प्रभो ॥ १५ ॥
tasmāt īśa bhajantyāḥ me śreyaḥ cintaya suvrata . hṛta-śriyaḥ hṛta-sthānān sapatnaiḥ pāhi naḥ prabho .. 15 ..
परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
परैः विवासिता सा अहम् मग्ना व्यसन-सागरे । ऐश्वर्यम् श्रीः यशः स्थानम् हृतानि प्रबलैः मम ॥ १६ ॥
paraiḥ vivāsitā sā aham magnā vyasana-sāgare . aiśvaryam śrīḥ yaśaḥ sthānam hṛtāni prabalaiḥ mama .. 16 ..
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
यथा तानि पुनर् साधो प्रपद्येरन् मम आत्मजाः । तथा विधेहि कल्याणम् धिया कल्याण-कृत्तम ॥ १७ ॥
yathā tāni punar sādho prapadyeran mama ātmajāḥ . tathā vidhehi kalyāṇam dhiyā kalyāṇa-kṛttama .. 17 ..
श्रीशुक उवाच -
एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥
एवम् अभ्यर्थितः अदित्या कः ताम् आह स्मयन् इव । अहो माया-बलम् विष्णोः स्नेह-बद्धम् इदम् जगत् ॥ १८ ॥
evam abhyarthitaḥ adityā kaḥ tām āha smayan iva . aho māyā-balam viṣṇoḥ sneha-baddham idam jagat .. 18 ..
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
क्व देहः भौतिकः अनात्मा क्व च आत्मा प्रकृतेः परः । कस्य के पति-पुत्र-आद्याः मोहः एव हि कारणम् ॥ १९ ॥
kva dehaḥ bhautikaḥ anātmā kva ca ātmā prakṛteḥ paraḥ . kasya ke pati-putra-ādyāḥ mohaḥ eva hi kāraṇam .. 19 ..
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥
उपतिष्ठस्व पुरुषम् भगवन्तम् जनार्दनम् । सर्व-भूत-गुहा-वासम् वासुदेवम् जगद्गुरुम् ॥ २० ॥
upatiṣṭhasva puruṣam bhagavantam janārdanam . sarva-bhūta-guhā-vāsam vāsudevam jagadgurum .. 20 ..
स विधास्यति ते कामान् हरिर्दीनानुकंपनः । अमोघा भगवद्भक्तिः न इतरेति मतिर्मम ॥ २१ ॥
स विधास्यति ते कामान् हरिः दीन-अनुकंपनः । अमोघा भगवत्-भक्तिः न इतरा इति मतिः मम ॥ २१ ॥
sa vidhāsyati te kāmān hariḥ dīna-anukaṃpanaḥ . amoghā bhagavat-bhaktiḥ na itarā iti matiḥ mama .. 21 ..
अदितिरुवाच -
केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् । यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥
केन अहम् विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् । यथा मे सत्य-संकल्पः विदध्यात् स मनोरथम् ॥ २२ ॥
kena aham vidhinā brahman upasthāsye jagatpatim . yathā me satya-saṃkalpaḥ vidadhyāt sa manoratham .. 22 ..
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ।
आदिश त्वम् द्विजश्रेष्ठ विधिम् तद्-उपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ।
ādiśa tvam dvijaśreṣṭha vidhim tad-upadhāvanam . āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ .
कश्यप उवाच -
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
एतत् मे भगवान् पृष्टः प्रजा-कामस्य पद्मजः । यत् आह ते प्रवक्ष्यामि व्रतम् केशव-तोषणम् ॥ २४ ॥
etat me bhagavān pṛṣṭaḥ prajā-kāmasya padmajaḥ . yat āha te pravakṣyāmi vratam keśava-toṣaṇam .. 24 ..
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥
फाल्गुनस्य अमले पक्षे द्वादश-अहम् पयः-व्रतम् । अर्चयेत् अरविन्द-अक्षम् भक्त्या परमया अन्वितः ॥ २५ ॥
phālgunasya amale pakṣe dvādaśa-aham payaḥ-vratam . arcayet aravinda-akṣam bhaktyā paramayā anvitaḥ .. 25 ..
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥
सिनीवाल्याम् मृदा आलिप्य स्नायात् क्रोड-विदीर्णया । यदि लभ्येत वै स्रोतसि एतम् मंत्रम् उदीरयेत् ॥ २६ ॥
sinīvālyām mṛdā ālipya snāyāt kroḍa-vidīrṇayā . yadi labhyeta vai srotasi etam maṃtram udīrayet .. 26 ..
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
त्वम् देवी-आदि-वराहेण रसायाः स्थानम् इच्छता । उद्धृता असि नमः तुभ्यम् पाप्मानम् मे प्रणाशय ॥ २७ ॥
tvam devī-ādi-varāheṇa rasāyāḥ sthānam icchatā . uddhṛtā asi namaḥ tubhyam pāpmānam me praṇāśaya .. 27 ..
निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥
निर्वर्तित-आत्म-नियमः देवम् अर्चेत् समाहितः । अर्चायाम् स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥
nirvartita-ātma-niyamaḥ devam arcet samāhitaḥ . arcāyām sthaṇḍile sūrye jale vahnau gurau api .. 28 ..
नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
नमः तुभ्यम् भगवते पुरुषाय महीयसे । सर्व-भूत-निवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
namaḥ tubhyam bhagavate puruṣāya mahīyase . sarva-bhūta-nivāsāya vāsudevāya sākṣiṇe .. 29 ..
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
नमः अव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च । चतुर्विंशत्-गुण-ज्ञाय गुण-संख्यान-हेतवे ॥ ३० ॥
namaḥ avyaktāya sūkṣmāya pradhāna-puruṣāya ca . caturviṃśat-guṇa-jñāya guṇa-saṃkhyāna-hetave .. 30 ..
नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
नमः द्वि-शीर्ष्णे त्रि-पदे चतुर्-श्रृंगाय तन्तवे । सप्त-हस्ताय यज्ञाय त्रयी-विद्या-आत्मने नमः ॥ ३१ ॥
namaḥ dvi-śīrṣṇe tri-pade catur-śrṛṃgāya tantave . sapta-hastāya yajñāya trayī-vidyā-ātmane namaḥ .. 31 ..
नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥
नमः शिवाय रुद्राय नमः शक्ति-धराय च । सर्व-विद्या-अधिपतये भूतानाम् पतये नमः ॥ ३२ ॥
namaḥ śivāya rudrāya namaḥ śakti-dharāya ca . sarva-vidyā-adhipataye bhūtānām pataye namaḥ .. 32 ..
नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
नमः हिरण्यगर्भाय प्राणाय जगत्-आत्मने । योग-ऐश्वर्य-शरीराय नमः ते योग-हेतवे ॥ ३३ ॥
namaḥ hiraṇyagarbhāya prāṇāya jagat-ātmane . yoga-aiśvarya-śarīrāya namaḥ te yoga-hetave .. 33 ..
नमस्ते आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
नमः ते आदिदेवाय साक्षि-भूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
namaḥ te ādidevāya sākṣi-bhūtāya te namaḥ . nārāyaṇāya ṛṣaye narāya haraye namaḥ .. 34 ..
नमो मरकतश्याम वपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
नमः मरकत-श्याम वपुषे अधिगत-श्रिये । केशवाय नमः तुभ्यम् नमः ते पीत-वाससे ॥ ३५ ॥
namaḥ marakata-śyāma vapuṣe adhigata-śriye . keśavāya namaḥ tubhyam namaḥ te pīta-vāsase .. 35 ..
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥
त्वम् सर्व-वर-दः पुंसाम् वरेण्य वर-द-ऋषभ । अतस् ते श्रेयसे धीराः पाद-रेणुम् उपासते ॥ ३६ ॥
tvam sarva-vara-daḥ puṃsām vareṇya vara-da-ṛṣabha . atas te śreyase dhīrāḥ pāda-reṇum upāsate .. 36 ..
अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥
अन्ववर्तन्त यम् देवाः श्रीः च तद्-पाद-पद्मयोः । स्पृहयन्तः इव आमोदम् भगवान् मे प्रसीदताम् ॥ ३७ ॥
anvavartanta yam devāḥ śrīḥ ca tad-pāda-padmayoḥ . spṛhayantaḥ iva āmodam bhagavān me prasīdatām .. 37 ..
एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् । अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥
एतैः मंत्रैः हृद् हृषीकेशम् आवाहन-पुरस्कृतम् । अर्चयेत् श्रद्धया युक्तः पाद्य-उपस्पर्शन-आदिभिः ॥ ३८ ॥
etaiḥ maṃtraiḥ hṛd hṛṣīkeśam āvāhana-puraskṛtam . arcayet śraddhayā yuktaḥ pādya-upasparśana-ādibhiḥ .. 38 ..
अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद् विभुम् । वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः ॥ ३९ ॥
अर्चित्वा गन्ध-माल्य-आद्यैः पयसा स्नपयेत् विभुम् । वस्त्र-उपवीत-आभरण-पाद्य-उपस्पर्शनैः ततस् ॥ ३९ ॥
arcitvā gandha-mālya-ādyaiḥ payasā snapayet vibhum . vastra-upavīta-ābharaṇa-pādya-upasparśanaiḥ tatas .. 39 ..
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९५ ।
गन्ध-धूप-आदिभिः च अर्चेत् द्वादश-अक्षर-विद्यया ॥ ३९५ ।
gandha-dhūpa-ādibhiḥ ca arcet dvādaśa-akṣara-vidyayā .. 395 .
श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥
श्रृतम् पयसि नैवेद्यम् शालि-अन्नम् विभवे सति । स सर्पिः स गुडम् दत्त्वा जुहुयात् मूलविद्यया ॥ ४० ॥
śrṛtam payasi naivedyam śāli-annam vibhave sati . sa sarpiḥ sa guḍam dattvā juhuyāt mūlavidyayā .. 40 ..
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥
निवेदितम् तत् भक्ताय दद्यात् भुञ्जीत वा स्वयम् । दत्त्वा आचमनम् अर्चित्वा तांबूलम् च निवेदयेत् ॥ ४१ ॥
niveditam tat bhaktāya dadyāt bhuñjīta vā svayam . dattvā ācamanam arcitvā tāṃbūlam ca nivedayet .. 41 ..
जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥
जपेत् अष्टोत्तरशतम् स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणम् भूमौ प्रणमेत् दण्ड-वत् मुदा ॥ ४२ ॥
japet aṣṭottaraśatam stuvīta stutibhiḥ prabhum . kṛtvā pradakṣiṇam bhūmau praṇamet daṇḍa-vat mudā .. 42 ..
कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः । द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥
कृत्वा शिरसि तद्-शेषाम् देवम् उद्वासयेत् ततस् । द्वि-अवरान् भोजयेत् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥
kṛtvā śirasi tad-śeṣām devam udvāsayet tatas . dvi-avarān bhojayet viprān pāyasena yathocitam .. 43 ..
भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥
भुञ्जीत तैः अनुज्ञातः स इष्टः शेषम् सभाजितैः । ब्रह्मचारी अथ तत् रात्र्याम् श्वस् भूते प्रथमे अहनि ॥ ४४ ॥
bhuñjīta taiḥ anujñātaḥ sa iṣṭaḥ śeṣam sabhājitaiḥ . brahmacārī atha tat rātryām śvas bhūte prathame ahani .. 44 ..
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥
स्नातः शुचिः यथा उक्तेन विधिना सु समाहितः । पयसा स्नापयित्वा अर्चेत् यावत् व्रत-समापनम् ॥ ४५ ॥
snātaḥ śuciḥ yathā uktena vidhinā su samāhitaḥ . payasā snāpayitvā arcet yāvat vrata-samāpanam .. 45 ..
पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः । पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥
पयः-भक्षः व्रतम् इदम् चरेत् विष्णु-अर्चन-आदृतः । पूर्ववत् जुहुयात् अग्निम् ब्राह्मणान् च अपि भोजयेत् ॥ ४६ ॥
payaḥ-bhakṣaḥ vratam idam caret viṣṇu-arcana-ādṛtaḥ . pūrvavat juhuyāt agnim brāhmaṇān ca api bhojayet .. 46 ..
एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् । हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥
एवम् तु अहर् अहर् कुर्यात् द्वादश-अहम् पयः-व्रतम् । हरेः आराधनम् होमम् अर्हणम् द्विज-तर्पणम् ॥ ४७ ॥
evam tu ahar ahar kuryāt dvādaśa-aham payaḥ-vratam . hareḥ ārādhanam homam arhaṇam dvija-tarpaṇam .. 47 ..
प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् । ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥
प्रतिपद्-दिनम् आरभ्य यावत् शुक्ल-त्रयोदशीम् । ब्रह्मचर्यम् अधःस्वप्नम् स्नानम् त्रिषवणम् चरेत् ॥ ४८ ॥
pratipad-dinam ārabhya yāvat śukla-trayodaśīm . brahmacaryam adhaḥsvapnam snānam triṣavaṇam caret .. 48 ..
वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा । अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥
वर्जयेत् असत् आलापम् भोगान् उच्चावचान् तथा । अहिंस्रः सर्व-भूतानाम् वासुदेव-परायणः ॥ ४९ ॥
varjayet asat ālāpam bhogān uccāvacān tathā . ahiṃsraḥ sarva-bhūtānām vāsudeva-parāyaṇaḥ .. 49 ..
त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः । कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥
त्रयोदश्याम् अथो विष्णोः स्नपनम् पञ्चकैः विभोः । कारयेत् शास्त्र-दृष्टेन विधिना विधि-कोविदैः ॥ ५० ॥
trayodaśyām atho viṣṇoḥ snapanam pañcakaiḥ vibhoḥ . kārayet śāstra-dṛṣṭena vidhinā vidhi-kovidaiḥ .. 50 ..
पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
पूजाम् च महतीम् कुर्यात् वित्त-शाठ्य-विवर्जितः । चरुम् निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
pūjām ca mahatīm kuryāt vitta-śāṭhya-vivarjitaḥ . carum nirūpya payasi śipiviṣṭāya viṣṇave .. 51 ..
श्रृतेन तेन पुरुषं यजेत सुसमाहितः । नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥
श्रृतेन तेन पुरुषम् यजेत सु समाहितः । नैवेद्यम् च अतिगुणवत् दद्यात् पुरुष-तुष्टि-दम् ॥ ५२ ॥
śrṛtena tena puruṣam yajeta su samāhitaḥ . naivedyam ca atiguṇavat dadyāt puruṣa-tuṣṭi-dam .. 52 ..
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥
आचार्यम् ज्ञान-सम्पन्नम् वस्त्र-आभरण-धेनुभिः । तोषयेत् ऋत्विजः च एव तत् विद्धि आराधनम् हरेः ॥ ५३ ॥
ācāryam jñāna-sampannam vastra-ābharaṇa-dhenubhiḥ . toṣayet ṛtvijaḥ ca eva tat viddhi ārādhanam hareḥ .. 53 ..
भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥
भोजयेत् तान् गुणवता सत्-अन्नेन शुचि-स्मिते । अन्यान् च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥
bhojayet tān guṇavatā sat-annena śuci-smite . anyān ca brāhmaṇān śaktyā ye ca tatra samāgatāḥ .. 54 ..
दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः । अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥
दक्षिणाम् गुरवे दद्यात् ऋत्विग्भ्यः च यथार्हतः । अन्नाद्येन अश्वपाकान् च प्रीणयेत् समुपागतान् ॥ ५५ ॥
dakṣiṇām gurave dadyāt ṛtvigbhyaḥ ca yathārhataḥ . annādyena aśvapākān ca prīṇayet samupāgatān .. 55 ..
भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु । विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥
भुक्तवत्सु च सर्वेषु दीन-अन्ध-कृपण-आदिषु । विष्णोः तत् प्रीणनम् विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥
bhuktavatsu ca sarveṣu dīna-andha-kṛpaṇa-ādiṣu . viṣṇoḥ tat prīṇanam vidvān bhuñjīta saha bandhubhiḥ .. 56 ..
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥
नृत्य-वादित्र-गीतैः च स्तुतिभिः स्वस्ति-वाचकैः । कारयेत् तद्-कथाभिः च पूजाम् भगवतः अन्वहम् ॥ ५७ ॥
nṛtya-vāditra-gītaiḥ ca stutibhiḥ svasti-vācakaiḥ . kārayet tad-kathābhiḥ ca pūjām bhagavataḥ anvaham .. 57 ..
एतत् पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥
एतत् पयोव्रतम् नाम पुरुष-आराधनम् परम् । पितामहेन अभिहितम् मया ते समुदाहृतम् ॥ ५८ ॥
etat payovratam nāma puruṣa-ārādhanam param . pitāmahena abhihitam mayā te samudāhṛtam .. 58 ..
त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥
त्वम् च अनेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्ध-भावेन नियत-आत्मा भज अव्ययम् ॥ ५९ ॥
tvam ca anena mahābhāge samyak cīrṇena keśavam . ātmanā śuddha-bhāvena niyata-ātmā bhaja avyayam .. 59 ..
अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥
अयम् वै सर्व-यज्ञ-आख्यः सर्व-व्रतम् इति स्मृतम् । तपः-सारम् इदम् भद्रे दानम् च ईश्वर-तर्पणम् ॥ ६० ॥
ayam vai sarva-yajña-ākhyaḥ sarva-vratam iti smṛtam . tapaḥ-sāram idam bhadre dānam ca īśvara-tarpaṇam .. 60 ..
ते एव नियमाः साक्षात् ते एव च यमोत्तमाः । तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥
ते एव नियमाः साक्षात् ते एव च यम-उत्तमाः । तपः दानम् व्रतम् यज्ञः येन तुष्यति अधोक्षजः ॥ ६१ ॥
te eva niyamāḥ sākṣāt te eva ca yama-uttamāḥ . tapaḥ dānam vratam yajñaḥ yena tuṣyati adhokṣajaḥ .. 61 ..
तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
तस्मात् एतत् व्रतम् भद्रे प्रयता श्रद्धया आचर । भगवान् परितुष्टः ते वरान् आशु विधास्यति ॥ ६२ ॥
tasmāt etat vratam bhadre prayatā śraddhayā ācara . bhagavān parituṣṭaḥ te varān āśu vidhāsyati .. 62 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे अदिति पयोव्रतकथनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe aditi payovratakathanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In