| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यद् अनाथवत् ॥ १ ॥
evaṃ putreṣu naṣṭeṣu devamātāditistadā . hṛte triviṣṭape daityaiḥ paryatapyad anāthavat .. 1 ..
एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ २ ॥
ekadā kaśyapastasyā āśramaṃ bhagavān agāt . nirutsavaṃ nirānandaṃ samādhervirataścirāt .. 2 ..
स पत्नीं दीनवदनां कृतासनपरिग्रहः । सभाजितो यथान्यायं इदमाह कुरूद्वह ॥ ३ ॥
sa patnīṃ dīnavadanāṃ kṛtāsanaparigrahaḥ . sabhājito yathānyāyaṃ idamāha kurūdvaha .. 3 ..
अप्यभद्रं न विप्राणां भद्रे लोकेऽधुनाऽऽगतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ ४ ॥
apyabhadraṃ na viprāṇāṃ bhadre loke'dhunā''gatam . na dharmasya na lokasya mṛtyośchandānuvartinaḥ .. 4 ..
अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्ययोगिनाम् ॥ ५ ॥
api vākuśalaṃ kiñcidgṛheṣu gṛhamedhini . dharmasyārthasya kāmasya yatra yogo hyayoginām .. 5 ..
अपि वा अतिथयोऽभ्येत्य कुटुंबासक्तया त्वया । गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥
api vā atithayo'bhyetya kuṭuṃbāsaktayā tvayā . gṛhādapūjitā yātāḥ pratyutthānena vā kvacit .. 6 ..
गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ ७ ॥
gṛheṣu yeṣvatithayo nārcitāḥ salilairapi . yadi niryānti te nūnaṃ pherurājagṛhopamāḥ .. 7 ..
अप्यग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥
apyagnayastu velāyāṃ na hutā haviṣā sati . tvayodvignadhiyā bhadre proṣite mayi karhicit .. 8 ..
यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । ब्राह्मणोऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ ९ ॥
yatpūjayā kāmadughān yāti lokān gṛhānvitaḥ . brāhmaṇo'gniśca vai viṣṇoḥ sarvadevātmano mukham .. 9 ..
अपि सर्वे कुशलिनः तव पुत्रा मनस्विनि । लक्षयेऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ १० ॥
api sarve kuśalinaḥ tava putrā manasvini . lakṣaye'svasthamātmānaṃ bhavatyā lakṣaṇairaham .. 10 ..
अदितिरुवाच -
भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ ११ ॥
bhadraṃ dvijagavāṃ brahman dharmasyāsya janasya ca . trivargasya paraṃ kṣetraṃ gṛhamedhin gṛhā ime .. 11 ..
अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन् अनुध्यानान्न रिष्यति ॥ १२ ॥
agnayo'tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ . sarvaṃ bhagavato brahman anudhyānānna riṣyati .. 12 ..
को नु मे भगवन् कामो न सम्पद्येत मानसः । यस्या भवान् प्रजाध्यक्ष एवं धर्मान् प्रभाषते ॥ १३ ॥
ko nu me bhagavan kāmo na sampadyeta mānasaḥ . yasyā bhavān prajādhyakṣa evaṃ dharmān prabhāṣate .. 13 ..
तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः । समो भवान् तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥ १४ ॥
tavaiva mārīca manaḥśarīrajāḥ prajā imāḥ sattvarajastamojuṣaḥ . samo bhavān tāsvasurādiṣu prabho tathāpi bhaktaṃ bhajate maheśvaraḥ .. 14 ..
(अनुष्टुप्)
तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ १५ ॥
tasmādīśa bhajantyā me śreyaścintaya suvrata . hṛtaśriyo hṛtasthānān sapatnaiḥ pāhi naḥ prabho .. 15 ..
परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ १६ ॥
parairvivāsitā sāhaṃ magnā vyasanasāgare . aiśvaryaṃ śrīryaśaḥ sthānaṃ hṛtāni prabalairmama .. 16 ..
यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ १७ ॥
yathā tāni punaḥ sādho prapadyeran mamātmajāḥ . tathā vidhehi kalyāṇaṃ dhiyā kalyāṇakṛttama .. 17 ..
श्रीशुक उवाच -
एवं अभ्यर्थितोऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णोः स्नेहबद्धं इदं जगत् ॥ १८ ॥
evaṃ abhyarthito'dityā kastāmāha smayanniva . aho māyābalaṃ viṣṇoḥ snehabaddhaṃ idaṃ jagat .. 18 ..
क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ १९ ॥
kva deho bhautiko'nātmā kva cātmā prakṛteḥ paraḥ . kasya ke patiputrādyā moha eva hi kāraṇam .. 19 ..
उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ २० ॥
upatiṣṭhasva puruṣaṃ bhagavantaṃ janārdanam . sarvabhūtaguhāvāsaṃ vāsudevaṃ jagadgurum .. 20 ..
स विधास्यति ते कामान् हरिर्दीनानुकंपनः । अमोघा भगवद्भक्तिः न इतरेति मतिर्मम ॥ २१ ॥
sa vidhāsyati te kāmān harirdīnānukaṃpanaḥ . amoghā bhagavadbhaktiḥ na itareti matirmama .. 21 ..
अदितिरुवाच -
केनाहं विधिना ब्रह्मन् उपस्थास्ये जगत्पतिम् । यथा मे सत्यसंकल्पो विदध्यात् स मनोरथम् ॥ २२ ॥
kenāhaṃ vidhinā brahman upasthāsye jagatpatim . yathā me satyasaṃkalpo vidadhyāt sa manoratham .. 22 ..
आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ।
ādiśa tvaṃ dvijaśreṣṭha vidhiṃ tadupadhāvanam . āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ .
कश्यप उवाच -
एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ २४ ॥
etanme bhagavān pṛṣṭaḥ prajākāmasya padmajaḥ . yadāha te pravakṣyāmi vrataṃ keśavatoṣaṇam .. 24 ..
फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेत् अरविन्दाक्षं भक्त्या परमयान्वितः ॥ २५ ॥
phālgunasyāmale pakṣe dvādaśāhaṃ payovratam . arcayet aravindākṣaṃ bhaktyā paramayānvitaḥ .. 25 ..
सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतसि एतं मंत्रं उदीरयेत् ॥ २६ ॥
sinīvālyāṃ mṛdālipya snāyāt kroḍavidīrṇayā . yadi labhyeta vai srotasi etaṃ maṃtraṃ udīrayet .. 26 ..
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ २७ ॥
tvaṃ devyādivarāheṇa rasāyāḥ sthānamicchatā . uddhṛtāsi namastubhyaṃ pāpmānaṃ me praṇāśaya .. 27 ..
निर्वर्तितात्मनियमो देवं अर्चेत् समाहितः । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥
nirvartitātmaniyamo devaṃ arcet samāhitaḥ . arcāyāṃ sthaṇḍile sūrye jale vahnau gurau api .. 28 ..
नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ २९ ॥
namastubhyaṃ bhagavate puruṣāya mahīyase . sarvabhūtanivāsāya vāsudevāya sākṣiṇe .. 29 ..
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥ ३० ॥
namo'vyaktāya sūkṣmāya pradhānapuruṣāya ca . caturviṃśadguṇajñāya guṇasaṃkhyānahetave .. 30 ..
नमो द्विशीर्ष्णे त्रिपदे चतुःश्रृंगाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ ३१ ॥
namo dviśīrṣṇe tripade catuḥśrṛṃgāya tantave . saptahastāya yajñāya trayīvidyātmane namaḥ .. 31 ..
नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नमः ॥ ३२ ॥
namaḥ śivāya rudrāya namaḥ śaktidharāya ca . sarvavidyādhipataye bhūtānāṃ pataye namaḥ .. 32 ..
नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ ३३ ॥
namo hiraṇyagarbhāya prāṇāya jagadātmane . yogaiśvaryaśarīrāya namaste yogahetave .. 33 ..
नमस्ते आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥
namaste ādidevāya sākṣibhūtāya te namaḥ . nārāyaṇāya ṛṣaye narāya haraye namaḥ .. 34 ..
नमो मरकतश्याम वपुषेऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ ३५ ॥
namo marakataśyāma vapuṣe'dhigataśriye . keśavāya namastubhyaṃ namaste pītavāsase .. 35 ..
त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीराः पादरेणुं उपासते ॥ ३६ ॥
tvaṃ sarvavaradaḥ puṃsāṃ vareṇya varadarṣabha . ataste śreyase dhīrāḥ pādareṇuṃ upāsate .. 36 ..
अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ ३७ ॥
anvavartanta yaṃ devāḥ śrīśca tatpādapadmayoḥ . spṛhayanta ivāmodaṃ bhagavān me prasīdatām .. 37 ..
एतैः मंत्रैः हृर्हृषीकेशं आवाहनपुरस्कृतम् । अर्चयेत् श्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ ३८ ॥
etaiḥ maṃtraiḥ hṛrhṛṣīkeśaṃ āvāhanapuraskṛtam . arcayet śraddhayā yuktaḥ pādyopasparśanādibhiḥ .. 38 ..
अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद् विभुम् । वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः ॥ ३९ ॥
arcitvā gandhamālyādyaiḥ payasā snapayed vibhum . vastropavītābharaṇa pādyopasparśanaistataḥ .. 39 ..
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया ॥ ३९५ ।
gandhadhūpādibhiścārced dvādaśākṣaravidyayā .. 395 .
श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ ४० ॥
śrṛtaṃ payasi naivedyaṃ śālyannaṃ vibhave sati . sasarpiḥ saguḍaṃ dattvā juhuyān mūlavidyayā .. 40 ..
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । दत्त्वाऽऽचमनमर्चित्वा तांबूलं च निवेदयेत् ॥ ४१ ॥
niveditaṃ tadbhaktāya dadyādbhuñjīta vā svayam . dattvā''camanamarcitvā tāṃbūlaṃ ca nivedayet .. 41 ..
जपेत् अष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद् दण्डवन्मुदा ॥ ४२ ॥
japet aṣṭottaraśataṃ stuvīta stutibhiḥ prabhum . kṛtvā pradakṣiṇaṃ bhūmau praṇamed daṇḍavanmudā .. 42 ..
कृत्वा शिरसि तच्छेषां देवं उद्वासयेत् ततः । द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् ॥ ४३ ॥
kṛtvā śirasi taccheṣāṃ devaṃ udvāsayet tataḥ . dvyavarān bhojayed viprān pāyasena yathocitam .. 43 ..
भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । ब्रह्मचार्यथ तद् रात्र्यां श्वो भूते प्रथमेऽहनि ॥ ४४ ॥
bhuñjīta tairanujñātaḥ seṣṭaḥ śeṣaṃ sabhājitaiḥ . brahmacāryatha tad rātryāṃ śvo bhūte prathame'hani .. 44 ..
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । पयसा स्नापयित्वार्चेद् यावद् व्रतसमापनम् ॥ ४५ ॥
snātaḥ śuciryathoktena vidhinā susamāhitaḥ . payasā snāpayitvārced yāvad vratasamāpanam .. 45 ..
पयोभक्षो व्रतमिदं चरेत् विष्णु अर्चनादृतः । पूर्ववत् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ ४६ ॥
payobhakṣo vratamidaṃ caret viṣṇu arcanādṛtaḥ . pūrvavat juhuyādagniṃ brāhmaṇāṃścāpi bhojayet .. 46 ..
एवं तु अहः अहः कुर्याद् द्वादशाहं पयोव्रतम् । हरेः आराधनं होमं अर्हणं द्विजतर्पणम् ॥ ४७ ॥
evaṃ tu ahaḥ ahaḥ kuryād dvādaśāhaṃ payovratam . hareḥ ārādhanaṃ homaṃ arhaṇaṃ dvijatarpaṇam .. 47 ..
प्रतिपत्-दिनं आरभ्य यावत् शुक्लत्रयोदशीम् । ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ ४८ ॥
pratipat-dinaṃ ārabhya yāvat śuklatrayodaśīm . brahmacaryamadhaḥsvapnaṃ snānaṃ triṣavaṇaṃ caret .. 48 ..
वर्जयेत् असद् आलापं भोगान् उच्चावचान् तथा । अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ ४९ ॥
varjayet asad ālāpaṃ bhogān uccāvacān tathā . ahiṃsraḥ sarvabhūtānāṃ vāsudevaparāyaṇaḥ .. 49 ..
त्रयोदश्यां अथो विष्णोः स्नपनं पञ्चकैर्विभोः । कारयेत् शास्त्रदृष्टेन विधिना विधिकोविदैः ॥ ५० ॥
trayodaśyāṃ atho viṣṇoḥ snapanaṃ pañcakairvibhoḥ . kārayet śāstradṛṣṭena vidhinā vidhikovidaiḥ .. 50 ..
पूजां च महतीं कुर्यात् वित्त शाठ्य विवर्जितः । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ ५१ ॥
pūjāṃ ca mahatīṃ kuryāt vitta śāṭhya vivarjitaḥ . caruṃ nirūpya payasi śipiviṣṭāya viṣṇave .. 51 ..
श्रृतेन तेन पुरुषं यजेत सुसमाहितः । नैवेद्यं चातिगुणवद् दद्यात् पुरुषतुष्टिदम् ॥ ५२ ॥
śrṛtena tena puruṣaṃ yajeta susamāhitaḥ . naivedyaṃ cātiguṇavad dadyāt puruṣatuṣṭidam .. 52 ..
आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । तोषयेत् ऋत्विजश्चैव तद् विद्धि आराधनं हरेः ॥ ५३ ॥
ācāryaṃ jñānasampannaṃ vastrābharaṇadhenubhiḥ . toṣayet ṛtvijaścaiva tad viddhi ārādhanaṃ hareḥ .. 53 ..
भोजयेत् तान्गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ॥ ५४ ॥
bhojayet tānguṇavatā sadannena śucismite . anyāṃśca brāhmaṇān śaktyā ye ca tatra samāgatāḥ .. 54 ..
दक्षिणां गुरवे दद्याद् ऋत्विग्भ्यश्च यथार्हतः । अन्नाद्येन अश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ ५५ ॥
dakṣiṇāṃ gurave dadyād ṛtvigbhyaśca yathārhataḥ . annādyena aśvapākāṃśca prīṇayet samupāgatān .. 55 ..
भुक्तवत्सु च सर्वेषु दीनान्ध कृपणादिषु । विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ ५६ ॥
bhuktavatsu ca sarveṣu dīnāndha kṛpaṇādiṣu . viṣṇostat prīṇanaṃ vidvān bhuñjīta saha bandhubhiḥ .. 56 ..
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । कारयेत् तत्कथाभिश्च पूजां भगवतोऽन्वहम् ॥ ५७ ॥
nṛtyavāditragītaiśca stutibhiḥ svastivācakaiḥ . kārayet tatkathābhiśca pūjāṃ bhagavato'nvaham .. 57 ..
एतत् पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ ५८ ॥
etat payovrataṃ nāma puruṣārādhanaṃ param . pitāmahenābhihitaṃ mayā te samudāhṛtam .. 58 ..
त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ ५९ ॥
tvaṃ cānena mahābhāge samyak cīrṇena keśavam . ātmanā śuddhabhāvena niyatātmā bhajāvyayam .. 59 ..
अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । तपःसारं इदं भद्रे दानं च ईश्वरतर्पणम् ॥ ६० ॥
ayaṃ vai sarvayajñākhyaḥ sarvavratamiti smṛtam . tapaḥsāraṃ idaṃ bhadre dānaṃ ca īśvaratarpaṇam .. 60 ..
ते एव नियमाः साक्षात् ते एव च यमोत्तमाः । तपो दानं व्रतं यज्ञो येन तुष्यति अधोक्षजः ॥ ६१ ॥
te eva niyamāḥ sākṣāt te eva ca yamottamāḥ . tapo dānaṃ vrataṃ yajño yena tuṣyati adhokṣajaḥ .. 61 ..
तस्मात् एतद्व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥ ६२ ॥
tasmāt etadvrataṃ bhadre prayatā śraddhayācara . bhagavān parituṣṭaste varānāśu vidhāsyati .. 62 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ १६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe aditi payovratakathanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In