| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद् व्रतमिदं द्वादशाहं अतन्द्रिता ॥ १ ॥
इति उक्ता सा अदितिः राजन् स्व-भर्त्रा कश्यपेन वै । अन्वतिष्ठत् व्रतम् इदम् द्वादश-अहम् अतन्द्रिता ॥ १ ॥
iti uktā sā aditiḥ rājan sva-bhartrā kaśyapena vai . anvatiṣṭhat vratam idam dvādaśa-aham atandritā .. 1 ..
चिन्तयन्ति एकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥
चिन्तयन्ति एकया बुद्ध्या महापुरुषम् ईश्वरम् । प्रगृह्य इन्द्रिय-दुष्ट-अश्वान् मनसा बुद्धि-सारथिः ॥ २ ॥
cintayanti ekayā buddhyā mahāpuruṣam īśvaram . pragṛhya indriya-duṣṭa-aśvān manasā buddhi-sārathiḥ .. 2 ..
मनश्चैकाग्रया बुद्ध्या भगवति अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥
मनः च एकाग्रया बुद्ध्या भगवति अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥
manaḥ ca ekāgrayā buddhyā bhagavati akhilātmani . vāsudeve samādhāya cacāra ha payovratam .. 3 ..
तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीतवासाश्चतुर्बाहुः शंखचक्रगदाधरः ॥ ४ ॥
तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीत-वासाः चतुर्-बाहुः शंख-चक्र-गदा-धरः ॥ ४ ॥
tasyāḥ prādurabhūt tāta bhagavān ādipuruṣaḥ . pīta-vāsāḥ catur-bāhuḥ śaṃkha-cakra-gadā-dharaḥ .. 4 ..
तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥
तम् नेत्र-गोचरम् वीक्ष्य सहसा उत्थाय स आदरम् । ननाम भुवि कायेन दण्ड-वत् प्रीति-विह्वला ॥ ५ ॥
tam netra-gocaram vīkṣya sahasā utthāya sa ādaram . nanāma bhuvi kāyena daṇḍa-vat prīti-vihvalā .. 5 ..
सोत्थाय बद्धाञ्जलिरीडितुं स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृतिः तद् दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥
सा उत्थाय बद्धाञ्जलिः ईडितुम् स्थिता न उत्सेहे आनन्द-जल-आकुल-ईक्षणा । बभूव तूष्णीम् पुलक-आकुल-आकृतिः तत् दर्शन-अति उत्सव-गात्र-वेपथुः ॥ ६ ॥
sā utthāya baddhāñjaliḥ īḍitum sthitā na utsehe ānanda-jala-ākula-īkṣaṇā . babhūva tūṣṇīm pulaka-ākula-ākṛtiḥ tat darśana-ati utsava-gātra-vepathuḥ .. 6 ..
प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्यदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥
प्रीत्या शनैस् गद्गदया गिरा हरिम् तुष्टाव सा देवी अदितिः कुरु-उद्वह । उद्वीक्षती सा पिबती इव चक्षुषा रमापतिम् यज्ञपतिम् जगत्पतिम् ॥ ७ ॥
prītyā śanais gadgadayā girā harim tuṣṭāva sā devī aditiḥ kuru-udvaha . udvīkṣatī sā pibatī iva cakṣuṣā ramāpatim yajñapatim jagatpatim .. 7 ..
अदितिरुवाच -
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रवः श्रवणमंगलनामधेय । आपन्नलोकवृजिनोपशमोदयाद्य शं नः कृधीश भगवन् असि दीननाथः ॥ ८ ॥
यज्ञेश यज्ञपुरुष-अच्युत तीर्थ-पाद तीर्थ-श्रवः श्रवण-मंगल-नामधेय । आपन्न-लोक-वृजिन-उपशम-उदय-अद्य शम् नः कृधि ईश भगवन् असि दीन-नाथः ॥ ८ ॥
yajñeśa yajñapuruṣa-acyuta tīrtha-pāda tīrtha-śravaḥ śravaṇa-maṃgala-nāmadheya . āpanna-loka-vṛjina-upaśama-udaya-adya śam naḥ kṛdhi īśa bhagavan asi dīna-nāthaḥ .. 8 ..
विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितपूर्णबोध व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥
विश्वाय विश्व-भवन-स्थिति-संयमाय स्वैरम् गृहीत-पुरु-शक्ति-गुणाय भूम्ने । स्वस्थाय शश्वत् उपबृंहित-पूर्ण-बोध व्यापादित-आत्म-तमसे हरये नमः ते ॥ ९ ॥
viśvāya viśva-bhavana-sthiti-saṃyamāya svairam gṛhīta-puru-śakti-guṇāya bhūmne . svasthāya śaśvat upabṛṃhita-pūrṇa-bodha vyāpādita-ātma-tamase haraye namaḥ te .. 9 ..
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीः द्योभूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनन्त भवन्ति तुष्टात् त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ १० ॥
आयुः परम् वपुः अभीष्टम् अतुल्य-लक्ष्मीः द्यौः भू-रसाः सकल-योग-गुणाः त्रिवर्गः । ज्ञानम् च केवलम् अनन्त भवन्ति तुष्टात् त्वत्तः नृणाम् किमु सपत्न-जय-आदि-राशीः ॥ १० ॥
āyuḥ param vapuḥ abhīṣṭam atulya-lakṣmīḥ dyauḥ bhū-rasāḥ sakala-yoga-guṇāḥ trivargaḥ . jñānam ca kevalam ananta bhavanti tuṣṭāt tvattaḥ nṛṇām kimu sapatna-jaya-ādi-rāśīḥ .. 10 ..
श्रीशुक उवाच - (अनुष्टुप्)
अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्वभूतानां इति होवाच भारत ॥ ११ ॥
अदित्या एवम् स्तुतः राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्व-भूतानाम् इति ह उवाच भारत ॥ ११ ॥
adityā evam stutaḥ rājan bhagavān puṣkarekṣaṇaḥ . kṣetrajñaḥ sarva-bhūtānām iti ha uvāca bhārata .. 11 ..
श्रीभगवानुवाच -
देवमातर्भवत्या मे विज्ञातं चिरकांक्षितम् । यत् सपत्नैः हृतश्रीणां च्यावितानां स्वधामतः ॥ १२ ॥
देवमातर् भवत्या मे विज्ञातम् चिर-कांक्षितम् । यत् सपत्नैः हृत-श्रीणाम् च्यावितानाम् स्व-धाम् अतस् ॥ १२ ॥
devamātar bhavatyā me vijñātam cira-kāṃkṣitam . yat sapatnaiḥ hṛta-śrīṇām cyāvitānām sva-dhām atas .. 12 ..
तान्विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । प्रतिलब्धजयश्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥
तान् विनिर्जित्य समरे दुर्मदान् असुर-ऋषभान् । प्रतिलब्ध-जय-श्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥
tān vinirjitya samare durmadān asura-ṛṣabhān . pratilabdha-jaya-śrībhiḥ putraiḥ icchasi upāsitum .. 13 ..
इन्द्रज्येष्ठैः स्वतनयैः हतानां युधि विद्विषाम् । स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥
इन्द्र-ज्येष्ठैः स्व-तनयैः हतानाम् युधि विद्विषाम् । स्त्रियः रुदन्तीः आसाद्य द्रष्टुम् इच्छसि दुःखिताः ॥ १४ ॥
indra-jyeṣṭhaiḥ sva-tanayaiḥ hatānām yudhi vidviṣām . striyaḥ rudantīḥ āsādya draṣṭum icchasi duḥkhitāḥ .. 14 ..
आत्मजान् सुसमृद्धान् त्व प्रत्याहृतयशःश्रियः । नाकपृष्ठं अधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥
आत्मजान् सु समृद्धान् त्व प्रत्याहृत-यशः-श्रियः । नाक-पृष्ठम् अधिष्ठाय क्रीडतः द्रष्टुम् इच्छसि ॥ १५ ॥
ātmajān su samṛddhān tva pratyāhṛta-yaśaḥ-śriyaḥ . nāka-pṛṣṭham adhiṣṭhāya krīḍataḥ draṣṭum icchasi .. 15 ..
प्रायोऽधुना तेऽसुरयूथनाथा अपारणीया इति देवि मे मतिः । यत्तेऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥
प्रायस् अधुना ते असुर-यूथ-नाथाः अ पारणीयाः इति देवि मे मतिः । यत् ते अनुकूल-ईश्वर-विप्रगुप्ताः न विक्रमः तत्र सुखम् ददाति ॥ १६ ॥
prāyas adhunā te asura-yūtha-nāthāḥ a pāraṇīyāḥ iti devi me matiḥ . yat te anukūla-īśvara-vipraguptāḥ na vikramaḥ tatra sukham dadāti .. 16 ..
अथाप्युपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते । ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥
अथा अपि उपायः मम देवि चिन्त्यः सन्तोषितस्य व्रत-चर्यया ते । मम अर्चनम् न अर्हति गन्तुम् अन्यथा श्रद्धा-अनुरूपम् फल-हेतुक-त्वात् ॥ १७ ॥
athā api upāyaḥ mama devi cintyaḥ santoṣitasya vrata-caryayā te . mama arcanam na arhati gantum anyathā śraddhā-anurūpam phala-hetuka-tvāt .. 17 ..
त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं समीडितः । स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८ ॥
त्वया अर्चितः च अहम् अपत्य-गुप्तये पयोव्रतेन अनुगुणम् समीडितः । स्व-अंशेन पुत्र-त्वम् उपेत्य ते सुतान् गोप्तास्मि मारीच-तपसि अधिष्ठितः ॥ १८ ॥
tvayā arcitaḥ ca aham apatya-guptaye payovratena anuguṇam samīḍitaḥ . sva-aṃśena putra-tvam upetya te sutān goptāsmi mārīca-tapasi adhiṣṭhitaḥ .. 18 ..
(अनुष्टुप्)
उपधाव पतिं भद्रे प्रजापतिं अकल्मषम् । मां च भावयती पत्यौ एवं रूपमवस्थितम् ॥ १९ ॥
उपधाव पतिम् भद्रे प्रजापतिम् अकल्मषम् । माम् च भावयती पत्यौ एवम् रूपम् अवस्थितम् ॥ १९ ॥
upadhāva patim bhadre prajāpatim akalmaṣam . mām ca bhāvayatī patyau evam rūpam avasthitam .. 19 ..
नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं संपद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥
न एतत् परस्मै आख्येयम् पृष्टया अपि कथञ्चन । सर्वम् संपद्यते देवि देव-गुह्यम् सु संवृतम् ॥ २० ॥
na etat parasmai ākhyeyam pṛṣṭayā api kathañcana . sarvam saṃpadyate devi deva-guhyam su saṃvṛtam .. 20 ..
श्रीशुक उवाच -
एतावदुक्त्वा भगवान् तत्रैवान्तरधीयत । अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१ ॥
एतावत् उक्त्वा भगवान् तत्र एव अन्तरधीयत । अदितिः दुर्लभम् लब्ध्वा हरेः जन्म आत्मनि प्रभोः ॥ २१ ॥
etāvat uktvā bhagavān tatra eva antaradhīyata . aditiḥ durlabham labdhvā hareḥ janma ātmani prabhoḥ .. 21 ..
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२ ॥
उपाधावत् पतिम् भक्त्या परया कृतकृत्य-वत् । स वै समाधि-योगेन कश्यपः तत् अबुध्यत ॥ २२ ॥
upādhāvat patim bhaktyā parayā kṛtakṛtya-vat . sa vai samādhi-yogena kaśyapaḥ tat abudhyata .. 22 ..
प्रविष्टं आत्मनि हरेः अंशं हि अवितथेक्षणः । सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३ ॥
प्रविष्टम् आत्मनि हरेः अंशम् हि अवितथ-ईक्षणः । सः अदित्याम् वीर्यम् आधत्त तपसा चिर-सम्भृतम् । समाहित-मनाः राजन् दारुणि अग्निम् यथा अनिलः ॥ २३ ॥
praviṣṭam ātmani hareḥ aṃśam hi avitatha-īkṣaṇaḥ . saḥ adityām vīryam ādhatta tapasā cira-sambhṛtam . samāhita-manāḥ rājan dāruṇi agnim yathā anilaḥ .. 23 ..
अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥
अदितेः अधिष्ठितम् गर्भम् भगवन्तम् सनातनम् । हिरण्यगर्भः विज्ञाय समीडे गुह्य-नामभिः ॥ २४ ॥
aditeḥ adhiṣṭhitam garbham bhagavantam sanātanam . hiraṇyagarbhaḥ vijñāya samīḍe guhya-nāmabhiḥ .. 24 ..
श्रीब्रह्मोवाच -
जयोरुगाय भगवन् उरुक्रम नमोऽस्तु ते । नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५ ॥
जय उरु-गाय भगवन् उरुक्रम नमः अस्तु ते । नमः ब्रह्मण्यदेवाय त्रिगुणाय नमः नमः ॥ २५ ॥
jaya uru-gāya bhagavan urukrama namaḥ astu te . namaḥ brahmaṇyadevāya triguṇāya namaḥ namaḥ .. 25 ..
नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥
नमः ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे । त्रि-नाभाय त्रि-पृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥
namaḥ te pṛśni-garbhāya veda-garbhāya vedhase . tri-nābhāya tri-pṛṣṭhāya śipiviṣṭāya viṣṇave .. 26 ..
त्वमादिरन्तो भुवनस्य मध्यं अनन्तशक्तिं पुरुषं यमाहुः । कालो भवानाक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥ २७ ॥
त्वम् आदिः अन्तः भुवनस्य मध्यम् अनन्त-शक्तिम् पुरुषम् यम् आहुः । कालः भवान् आक्षिपति ईश विश्वम् स्रोतः यथा अन्तर् पतितम् गभीरम् ॥ २७ ॥
tvam ādiḥ antaḥ bhuvanasya madhyam ananta-śaktim puruṣam yam āhuḥ . kālaḥ bhavān ākṣipati īśa viśvam srotaḥ yathā antar patitam gabhīram .. 27 ..
त्वं वै प्रजानां स्थिरजंगमानां प्रजापतीनामसि सम्भविष्णुः । दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥
त्वम् वै प्रजानाम् स्थिर-जंगमानाम् प्रजापतीनाम् असि सम्भविष्णुः । दिवौकसाम् देव दिवः च्युतानाम् परायणम् नौः इव मज्जतः अप्सु ॥ २८ ॥
tvam vai prajānām sthira-jaṃgamānām prajāpatīnām asi sambhaviṣṇuḥ . divaukasām deva divaḥ cyutānām parāyaṇam nauḥ iva majjataḥ apsu .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामनप्रादुर्भावे सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmanaprādurbhāve saptadaśaḥ adhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In