| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम्। चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः १।
इत्थम् विरिञ्च-स्तुत-कर्म-वीर्यः प्रादुर्बभूव अमृत-भूः अदित्याम्। चतुर्-भुजः शङ्ख-गदा-अब्ज-चक्रः पिशङ्ग-वासाः नलिन-आयत-ईक्षणः।
ittham viriñca-stuta-karma-vīryaḥ prādurbabhūva amṛta-bhūḥ adityām. catur-bhujaḥ śaṅkha-gadā-abja-cakraḥ piśaṅga-vāsāḥ nalina-āyata-īkṣaṇaḥ.
श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान्। श्रीवत्सवक्षा बलयाङ्गदोल्लसत्किरीटकाञ्चीगुणचारुनूपुरः २।
श्याम-अवदातः झष-राज-कुण्डल त्विषा उल्लसत्-श्री-वदन-अम्बुजः पुमान्। ।
śyāma-avadātaḥ jhaṣa-rāja-kuṇḍala tviṣā ullasat-śrī-vadana-ambujaḥ pumān. .
मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः। प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन्कण्ठनिविष्टकौस्तुभः ३।
मधु-व्रात-व्रत-विघुष्टया स्वया विराजितः श्री-वनमालया हरिः। प्रजापतेः वेश्म-तमः स्व-रोचिषा विनाशयन् कण्ठ-निविष्ट-कौस्तुभः।
madhu-vrāta-vrata-vighuṣṭayā svayā virājitaḥ śrī-vanamālayā hariḥ. prajāpateḥ veśma-tamaḥ sva-rociṣā vināśayan kaṇṭha-niviṣṭa-kaustubhaḥ.
दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः। द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ४।
दिशः प्रसेदुः सलिलाशयाः तदा प्रजाः प्रहृष्टाः ऋतवः गुण-अन्विताः। द्यौः अन्तरीक्षम् क्षितिः अग्नि-जिह्वाः गावः द्विजाः सञ्जहृषुः नगाः च।
diśaḥ praseduḥ salilāśayāḥ tadā prajāḥ prahṛṣṭāḥ ṛtavaḥ guṇa-anvitāḥ. dyauḥ antarīkṣam kṣitiḥ agni-jihvāḥ gāvaḥ dvijāḥ sañjahṛṣuḥ nagāḥ ca.
श्रोणायां श्रवणद्वादश्यां मुहूर्तेऽभिजिति प्रभुः। सर्वे नक्षत्रताराद्याश्चक्रुस्तज्जन्म दक्षिणम् ५।
श्रोणायाम् श्रवण-द्वादश्याम् मुहूर्ते अभिजिति प्रभुः। सर्वे नक्षत्र-तारा-आद्याः चक्रुः तद्-जन्म दक्षिणम्।
śroṇāyām śravaṇa-dvādaśyām muhūrte abhijiti prabhuḥ. sarve nakṣatra-tārā-ādyāḥ cakruḥ tad-janma dakṣiṇam.
द्वदश्यां सवितातिष्ठमध्यन्दिनगतो नृप। विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ६।
द्वदश्याम् सविता अतिष्ठम् अध्यन्दिन-गतः नृप। विजया-नाम सा प्रोक्ता यस्याम् जन्म विदुः हरेः।
dvadaśyām savitā atiṣṭham adhyandina-gataḥ nṛpa. vijayā-nāma sā proktā yasyām janma viduḥ hareḥ.
शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः। चित्रवादित्रतूर्याणां निर्घोषस्तुमुलोऽभवत् ७।
शङ्ख-दुन्दुभयः नेदुः मृदङ्ग-पणव-आनकाः। चित्र-वादित्र-तूर्याणाम् निर्घोषः तुमुलः अभवत्।
śaṅkha-dundubhayaḥ neduḥ mṛdaṅga-paṇava-ānakāḥ. citra-vāditra-tūryāṇām nirghoṣaḥ tumulaḥ abhavat.
प्रीताश्चाप्सरसोऽनृत्यन्गन्धर्वप्रवरा जगुः। तुष्टुवुर्मुनयो देवा मनवः पितरोऽग्नयः ८।
प्रीताः च अप्सरसः अनृत्यन् गन्धर्व-प्रवराः जगुः। तुष्टुवुः मुनयः देवाः मनवः पितरः अग्नयः।
prītāḥ ca apsarasaḥ anṛtyan gandharva-pravarāḥ jaguḥ. tuṣṭuvuḥ munayaḥ devāḥ manavaḥ pitaraḥ agnayaḥ.
सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः। चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ९।
सिद्ध-विद्याधर-गणाः स किम्पुरुष-किन्नराः। चारणाः यक्ष-रक्षांसि सुपर्णाः भुजग-उत्तमाः।
siddha-vidyādhara-gaṇāḥ sa kimpuruṣa-kinnarāḥ. cāraṇāḥ yakṣa-rakṣāṃsi suparṇāḥ bhujaga-uttamāḥ.
गायन्तोऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः। अदित्या आश्रमपदं कुसुमैः समवाकिरन् १०।
गायन्तः अतिप्रशंसन्तः नृत्यन्तः विबुध-अनुगाः। अदित्याः आश्रम-पदम् कुसुमैः समवाकिरन्।
gāyantaḥ atipraśaṃsantaḥ nṛtyantaḥ vibudha-anugāḥ. adityāḥ āśrama-padam kusumaiḥ samavākiran.
दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता। गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ११।
दृष्ट्वा अदितिः तम् निज-गर्भ-सम्भवम् परम् पुमांसम् मुदम् आप विस्मिता। गृहीत-देहम् निज-योग-मायया प्रजापतिः च आह जय इति विस्मितः।
dṛṣṭvā aditiḥ tam nija-garbha-sambhavam param pumāṃsam mudam āpa vismitā. gṛhīta-deham nija-yoga-māyayā prajāpatiḥ ca āha jaya iti vismitaḥ.
यत्तद्वपुर्भाति विभूषणायुधैरव्यक्तचिद्व्यक्तमधारयद्धरिः। बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः १२।
यत् तत् वपुः भाति विभूषण-आयुधैः अव्यक्त-चित्-व्यक्तम् अधारयत् हरिः। बभूव तेन एव स वामनः वटुः सम्पश्यतोः दिव्य-गतिः यथा नटः।
yat tat vapuḥ bhāti vibhūṣaṇa-āyudhaiḥ avyakta-cit-vyaktam adhārayat hariḥ. babhūva tena eva sa vāmanaḥ vaṭuḥ sampaśyatoḥ divya-gatiḥ yathā naṭaḥ.
तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः। कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् १३।
तम् वटुम् वामनम् दृष्ट्वा मोदमानाः महा-ऋषयः। कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम्।
tam vaṭum vāmanam dṛṣṭvā modamānāḥ mahā-ṛṣayaḥ. karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim.
तस्योपनीयमानस्य सावित्रीं सविताब्रवीत्। बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपोऽददात् १४।
तस्य उपनीयमानस्य सावित्रीम् सविता ब्रवीत्। बृहस्पतिः ब्रह्मसूत्रम् मेखलाम् कश्यपः अददात्।
tasya upanīyamānasya sāvitrīm savitā bravīt. bṛhaspatiḥ brahmasūtram mekhalām kaśyapaḥ adadāt.
ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः। कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः १५।
ददौ कृष्णाजिनम् भूमिः दण्डम् सोमः वनस्पतिः। कौपीन-आच्छादनम् माता द्यौः छत्रम् जगतः पतेः।
dadau kṛṣṇājinam bhūmiḥ daṇḍam somaḥ vanaspatiḥ. kaupīna-ācchādanam mātā dyauḥ chatram jagataḥ pateḥ.
कमण्डलुं वेदगर्भः कुशान्सप्तर्षयो ददुः। अक्षमालां महाराज सरस्वत्यव्ययात्मनः १६।
कमण्डलुम् वेदगर्भः कुशान् सप्तर्षयः ददुः। अक्षमालाम् महा-राज सरस्वती-अव्यय-आत्मनः।
kamaṇḍalum vedagarbhaḥ kuśān saptarṣayaḥ daduḥ. akṣamālām mahā-rāja sarasvatī-avyaya-ātmanaḥ.
तस्मा इत्युपनीताय यक्षराट्पात्रिकामदात्। भिक्षां भगवती साक्षादुमादादम्बिका सती १७।
तस्मै इति उपनीताय यक्षराट्पात्रिकाम् अदात्। भिक्षाम् भगवती साक्षात् उमा अदात् अम्बिका सती।
tasmai iti upanītāya yakṣarāṭpātrikām adāt. bhikṣām bhagavatī sākṣāt umā adāt ambikā satī.
स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः। ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः १८।
स ब्रह्मवर्चसेन एवम् सभाम् सम्भावितः वटुः। ब्रह्मर्षि-गण-सञ्जुष्टाम् अत्यरोचत मारिषः।
sa brahmavarcasena evam sabhām sambhāvitaḥ vaṭuḥ. brahmarṣi-gaṇa-sañjuṣṭām atyarocata māriṣaḥ.
समिद्धमाहितं वह्निं कृत्वा परिसमूहनम्। परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः १९।
समिद्धम् आहितम् वह्निम् कृत्वा परिसमूहनम्। परिस्तीर्य समभ्यर्च्य समिद्भिः अजुहोत् द्विजः।
samiddham āhitam vahnim kṛtvā parisamūhanam. paristīrya samabhyarcya samidbhiḥ ajuhot dvijaḥ.
श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः। जगाम तत्रालिसारसम्भृतो भारेण गां सन्नमयन्पदे पदे २०।
श्रुत्वा अश्वमेधैः यजमानम् ऊर्जितम् बलिम् भृगूणाम् उपकल्पितैः ततस्। जगाम तत्र अलि-सार-सम्भृतः भारेण गाम् सन्नमयन् पदे पदे।
śrutvā aśvamedhaiḥ yajamānam ūrjitam balim bhṛgūṇām upakalpitaiḥ tatas. jagāma tatra ali-sāra-sambhṛtaḥ bhāreṇa gām sannamayan pade pade.
तं नर्मदायास्तट उत्तरे बलेर्य ऋत्विजस्ते भृगुकच्छसंज्ञके। प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् २१।
तम् नर्मदायाः तटे उत्तरे बलेः ये ऋत्विजः ते भृगुकच्छ-संज्ञके। प्रवर्तयन्तः भृगवः क्रतु-उत्तमम् व्यचक्षत आरात् उदितम् यथा रविम्।
tam narmadāyāḥ taṭe uttare baleḥ ye ṛtvijaḥ te bhṛgukaccha-saṃjñake. pravartayantaḥ bhṛgavaḥ kratu-uttamam vyacakṣata ārāt uditam yathā ravim.
ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप। सूर्यः किलायात्युत वा विभावसुः सनत्कुमारोऽथ दिदृक्षया क्रतोः २२।
ते ऋत्विजः यजमानः सदस्याः हत-त्विषः वामन-तेजसा नृप। सूर्यः किल आयाति उत वा विभावसुः सनत्कुमारः अथ दिदृक्षया क्रतोः।
te ṛtvijaḥ yajamānaḥ sadasyāḥ hata-tviṣaḥ vāmana-tejasā nṛpa. sūryaḥ kila āyāti uta vā vibhāvasuḥ sanatkumāraḥ atha didṛkṣayā kratoḥ.
इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान्स वामनः। छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् २३।
इत्थम् स शिष्येषु भृगुषु अनेकधा वितर्क्यमाणः भगवान् स वामनः। छत्रम् स दण्डम् स जलम् कमण्डलुम् विवेश बिभ्रत् हयमेध-वाटम्।
ittham sa śiṣyeṣu bhṛguṣu anekadhā vitarkyamāṇaḥ bhagavān sa vāmanaḥ. chatram sa daṇḍam sa jalam kamaṇḍalum viveśa bibhrat hayamedha-vāṭam.
मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम्। जटिलं वामनं विप्रं मायामाणवकं हरिम् २४।
मौञ्ज्या मेखलया वीतम् उपवीत-अजिन-उत्तरम्। जटिलम् वामनम् विप्रम् मायामाणवकम् हरिम्।
mauñjyā mekhalayā vītam upavīta-ajina-uttaram. jaṭilam vāmanam vipram māyāmāṇavakam harim.
प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः। प्रत्यगृह्णन्समुत्थाय सङ्क्षिप्तास्तस्य तेजसा २५।
प्रविष्टम् वीक्ष्य भृगवः स शिष्याः ते सह अग्निभिः। प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्ताः तस्य तेजसा।
praviṣṭam vīkṣya bhṛgavaḥ sa śiṣyāḥ te saha agnibhiḥ. pratyagṛhṇan samutthāya saṅkṣiptāḥ tasya tejasā.
यजमानः प्रमुदितो दर्शनीयं मनोरमम्। रूपानुरूपावयवं तस्मा आसनमाहरत् २६।
यजमानः प्रमुदितः दर्शनीयम् मनोरमम्। रूप-अनुरूप-अवयवम् तस्मै आसनम् आहरत्।
yajamānaḥ pramuditaḥ darśanīyam manoramam. rūpa-anurūpa-avayavam tasmai āsanam āharat.
स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः। अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् २७।
स्वागतेन अभिनन्द्य अथ पादौ भगवतः बलिः। अवनिज्य अर्चयामास मुक्त-सङ्ग-मनोरमम्।
svāgatena abhinandya atha pādau bhagavataḥ baliḥ. avanijya arcayāmāsa mukta-saṅga-manoramam.
तत्पादशौचं जनकल्मषापहं स धर्मविन्मूर्त्यदधात्सुमङ्गलम्। यद्देवदेवो गिरिशश्चन्द्र मौलिर्दधार मूर्ध्ना परया च भक्त्या २८।
तद्-पाद-शौचम् जन-कल्मष-अपहम् स धर्म-विद् मूर्ति अदधात् सु मङ्गलम्। यत् देवदेवः गिरिशः चन्द्र मौलिः दधार मूर्ध्ना परया च भक्त्या।
tad-pāda-śaucam jana-kalmaṣa-apaham sa dharma-vid mūrti adadhāt su maṅgalam. yat devadevaḥ giriśaḥ candra mauliḥ dadhāra mūrdhnā parayā ca bhaktyā.
श्रीबलिरुवाच।
स्वागतं ते नमस्तुभ्यं ब्रह्मन्किं करवाम ते। ब्रह्मर्षीणां तपः साक्षान्मन्ये त्वार्य वपुर्धरम् २९।
स्वागतम् ते नमः तुभ्यम् ब्रह्मन् किम् करवाम ते। ब्रह्मर्षीणाम् तपः साक्षात् मन्ये त्वा आर्य वपुः-धरम्।
svāgatam te namaḥ tubhyam brahman kim karavāma te. brahmarṣīṇām tapaḥ sākṣāt manye tvā ārya vapuḥ-dharam.
अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम्। अद्य स्विष्टः क्रतुरयं यद्भवानागतो गृहान् ३०।
अद्य नः पितरः तृप्ताः अद्य नः पावितम् कुलम्। अद्य सु इष्टः क्रतुः अयम् यत् भवान् आगतः गृहान्।
adya naḥ pitaraḥ tṛptāḥ adya naḥ pāvitam kulam. adya su iṣṭaḥ kratuḥ ayam yat bhavān āgataḥ gṛhān.
अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः। हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ३१।
अद्य अग्नयः मे सु हुताः यथाविधि द्विज-आत्मज त्वद्-चरण-अवनेजनैः। हत-अंहसः वार्भिः इयम् च भूः अहो तथा पुनीता तनुभिः पदैः तव।
adya agnayaḥ me su hutāḥ yathāvidhi dvija-ātmaja tvad-caraṇa-avanejanaiḥ. hata-aṃhasaḥ vārbhiḥ iyam ca bhūḥ aho tathā punītā tanubhiḥ padaiḥ tava.
यद्यद्वटो वाञ्छसि तत्प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये। गां काञ्चनं गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान्समृद्धांस्तुरगान्गजान्वा रथांस्तथार्हत्तम सम्प्रतीच्छ ३२।
यत् यत् वटः वाञ्छसि तत् प्रतीच्छ मे त्वाम् अर्थिनम् विप्र-सुत अनुतर्कये। गाम् काञ्चनम् गुणवत् धाम मृष्टम् तथा अन्न-पेयम् उत वा विप्र-कन्याम् । ग्रामान् समृद्धान् तुरगान् गजान् वा रथान् तथा अर्हत्तम सम्प्रतीच्छ।
yat yat vaṭaḥ vāñchasi tat pratīccha me tvām arthinam vipra-suta anutarkaye. gām kāñcanam guṇavat dhāma mṛṣṭam tathā anna-peyam uta vā vipra-kanyām . grāmān samṛddhān turagān gajān vā rathān tathā arhattama sampratīccha.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादोऽष्टादशोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामनप्रादुर्भावे बलिवामनसंवादः अष्टादशः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmanaprādurbhāve balivāmanasaṃvādaḥ aṣṭādaśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In