| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् । निशम्य भगवान् प्रीन्प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ १ ॥
इति वैरोचनेः वाक्यम् धर्म-युक्तम् स सूनृतम् । निशम्य भगवान् प्रीन् प्रीतः प्रतिनन्द्य इदम् अब्रवीत् ॥ १ ॥
iti vairocaneḥ vākyam dharma-yuktam sa sūnṛtam . niśamya bhagavān prīn prītaḥ pratinandya idam abravīt .. 1 ..
श्रीभगवानुवाच -
वचस्तवैतत् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् । यस्य प्रमाणं भृगवः सांपराये पितामहः कुलवृद्धः प्रशान्तः ॥ २ ॥
वचः तव एतत् जनदेव सूनृतम् कुल-उचितम् धर्म-युतम् यशस्करम् । यस्य प्रमाणम् भृगवः सांपराये पितामहः कुल-वृद्धः प्रशान्तः ॥ २ ॥
vacaḥ tava etat janadeva sūnṛtam kula-ucitam dharma-yutam yaśaskaram . yasya pramāṇam bhṛgavaḥ sāṃparāye pitāmahaḥ kula-vṛddhaḥ praśāntaḥ .. 2 ..
(अनुष्टुप्)
न ह्येतस्मिन्कुले कश्चित् निःसत्त्वः कृपणः पुमान् । प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ ३ ॥
न हि एतस्मिन् कुले कश्चिद् निःसत्त्वः कृपणः पुमान् । प्रत्याख्याता प्रतिश्रुत्य यः वा अदाता द्विजातये ॥ ३ ॥
na hi etasmin kule kaścid niḥsattvaḥ kṛpaṇaḥ pumān . pratyākhyātā pratiśrutya yaḥ vā adātā dvijātaye .. 3 ..
न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृपाः । युष्मत्कुले यद् यशसामलेन प्रह्राद उद्भाति यथोडुपः खे ॥ ४ ॥
न सन्ति तीर्थे युधि च अर्थिना अर्थिताः पराङ्मुखाः ये तु अ मनस्विनः नृपाः । युष्मद्-कुले यत् यशसा अमलेन प्रह्रादः उद्भाति यथा उडुपः खे ॥ ४ ॥
na santi tīrthe yudhi ca arthinā arthitāḥ parāṅmukhāḥ ye tu a manasvinaḥ nṛpāḥ . yuṣmad-kule yat yaśasā amalena prahrādaḥ udbhāti yathā uḍupaḥ khe .. 4 ..
(अनुष्टुप्)
यतो जातो हिरण्याक्षः चरन्नेक इमां महीम् । प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ ५ ॥
यतस् जातः हिरण्याक्षः चरन् एकः इमाम् महीम् । प्रतिवीरम् दिग्विजये न अविन्दत गदा-आयुधः ॥ ५ ॥
yatas jātaḥ hiraṇyākṣaḥ caran ekaḥ imām mahīm . prativīram digvijaye na avindata gadā-āyudhaḥ .. 5 ..
यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् । आत्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन् ॥ ६ ॥
यम् विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मा-उद्धारे आगतम् । आत्मानम् जयिनम् मेने तत् वीर्यम् भूरि अनुस्मरन् ॥ ६ ॥
yam vinirjitya kṛcchreṇa viṣṇuḥ kṣmā-uddhāre āgatam . ātmānam jayinam mene tat vīryam bhūri anusmaran .. 6 ..
निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा । हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ ७ ॥
निशम्य तद्-वधम् भ्राता हिरण्यकशिपुः पुरा । हन्तुम् भ्रातृ-हणम् क्रुद्धः जगाम निलयम् हरेः ॥ ७ ॥
niśamya tad-vadham bhrātā hiraṇyakaśipuḥ purā . hantum bhrātṛ-haṇam kruddhaḥ jagāma nilayam hareḥ .. 7 ..
तं आयान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ ८ ॥
तम् आयान्तम् समालोक्य शूलपाणिम् कृतान्त-वत् । चिन्तयामास काल-ज्ञः विष्णुः मायाविनाम् वरः ॥ ८ ॥
tam āyāntam samālokya śūlapāṇim kṛtānta-vat . cintayāmāsa kāla-jñaḥ viṣṇuḥ māyāvinām varaḥ .. 8 ..
यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव । अतोऽहं अस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ ९ ॥
यतस् यतस् अहम् तत्र असौ मृत्युः प्राणभृताम् इव । अतस् अहम् अस्य हृदयम् प्रवेक्ष्यामि पराक्-दृशः ॥ ९ ॥
yatas yatas aham tatra asau mṛtyuḥ prāṇabhṛtām iva . atas aham asya hṛdayam pravekṣyāmi parāk-dṛśaḥ .. 9 ..
एवं स निश्चित्य रिपोः शरीरं आधावतो निर्विविशेऽसुरेन्द्र । श्वासानिलान्तर्हितसूक्ष्मदेहः तत्प्राणरन्ध्रेण विविग्नचेताः ॥ १० ॥
एवम् स निश्चित्य रिपोः शरीरम् आधावतः निर्विविशे असुर-इन्द्र । श्वास-अनिल-अन्तर्हित-सूक्ष्म-देहः तद्-प्राण-रन्ध्रेण विविग्न-चेताः ॥ १० ॥
evam sa niścitya ripoḥ śarīram ādhāvataḥ nirviviśe asura-indra . śvāsa-anila-antarhita-sūkṣma-dehaḥ tad-prāṇa-randhreṇa vivigna-cetāḥ .. 10 ..
स तन्निकेतं परिमृश्य शून्यमपश्यमानः कुपितो ननाद । क्ष्मां द्यां दिशः खं विवरान्समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥ ११ ॥
स तद्-निकेतम् परिमृश्य शून्यम् अपश्यमानः कुपितः ननाद । क्ष्माम् द्याम् दिशः खम् विवरान् समुद्रान् विष्णुम् विचिन्वन् न ददर्श वीरः ॥ ११ ॥
sa tad-niketam parimṛśya śūnyam apaśyamānaḥ kupitaḥ nanāda . kṣmām dyām diśaḥ kham vivarān samudrān viṣṇum vicinvan na dadarśa vīraḥ .. 11 ..
(अनुष्टुप्)
अपश्यन् इति होवाच मयान्विष्टमिदं जगत् । भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ १२ ॥
अपश्यन् इति ह उवाच मया अन्विष्टम् इदम् जगत् । भ्रातृ-हा मे गतः नूनम् यतस् न आवर्तते पुमान् ॥ १२ ॥
apaśyan iti ha uvāca mayā anviṣṭam idam jagat . bhrātṛ-hā me gataḥ nūnam yatas na āvartate pumān .. 12 ..
वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् । अज्ञानप्रभवो मन्युः अहंमानोपबृंहितः ॥ १३ ॥
वैर-अनुबन्धः एतावान् आमृत्योः इह देहिनाम् । अज्ञान-प्रभवः मन्युः अहंमान-उपबृंहितः ॥ १३ ॥
vaira-anubandhaḥ etāvān āmṛtyoḥ iha dehinām . ajñāna-prabhavaḥ manyuḥ ahaṃmāna-upabṛṃhitaḥ .. 13 ..
पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः । स्वमायुर्द्विजलिंगेभ्यो देवेभ्योऽदात् स याचितः ॥ १४ ॥
पिता प्रह्राद-पुत्रः ते तद्-विद्वान् द्विज-वत्सलः । स्वम् आयुः द्विजलिंगेभ्यः देवेभ्यः अदात् स याचितः ॥ १४ ॥
pitā prahrāda-putraḥ te tad-vidvān dvija-vatsalaḥ . svam āyuḥ dvijaliṃgebhyaḥ devebhyaḥ adāt sa yācitaḥ .. 14 ..
भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः । ब्राह्मणैः पूर्वजैः शूरैः अन्यैश्चोद्दामकीर्तिभिः ॥ १५ ॥
भवान् आचरितान् धर्मान् आस्थितः गृहमेधिभिः । ब्राह्मणैः पूर्वजैः शूरैः अन्यैः च उद्दाम-कीर्तिभिः ॥ १५ ॥
bhavān ācaritān dharmān āsthitaḥ gṛhamedhibhiḥ . brāhmaṇaiḥ pūrvajaiḥ śūraiḥ anyaiḥ ca uddāma-kīrtibhiḥ .. 15 ..
तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात् । पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ १६ ॥
तस्मात् त्वत्तः महीम् ईषत् वृणे अहम् वर-द-ऋषभात् । पदानि त्रीणि दैत्य-इन्द्र सम्मितानि पदाः मम ॥ १६ ॥
tasmāt tvattaḥ mahīm īṣat vṛṇe aham vara-da-ṛṣabhāt . padāni trīṇi daitya-indra sammitāni padāḥ mama .. 16 ..
न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात् । नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ १७ ॥
न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात् । न एनः प्राप्नोति वै विद्वान् यावत्-अर्थ-प्रतिग्रहः ॥ १७ ॥
na anyat te kāmaye rājan vadānyāt jagadīśvarāt . na enaḥ prāpnoti vai vidvān yāvat-artha-pratigrahaḥ .. 17 ..
अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः । त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा ॥ १८ ॥
अहो ब्राह्मण-दायाद वाचः ते वृद्ध-सम्मताः । त्वम् बालः बालिश-मतिः स्व-अर्थम् प्रत्यबुधः यथा ॥ १८ ॥
aho brāhmaṇa-dāyāda vācaḥ te vṛddha-sammatāḥ . tvam bālaḥ bāliśa-matiḥ sva-artham pratyabudhaḥ yathā .. 18 ..
मां वचोभिः समाराध्य लोकानां एकमीश्वरम् । पदत्रयं वृणीते यो अबुद्धिमान् द्वीपदाशुषम् ॥ १९ ॥
माम् वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम् । पद-त्रयम् वृणीते यः अबुद्धिमान् ॥ १९ ॥
mām vacobhiḥ samārādhya lokānām ekam īśvaram . pada-trayam vṛṇīte yaḥ abuddhimān .. 19 ..
न पुमान् मां उपव्रज्य भूयो याचितुमर्हति । तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ २० ॥
न पुमान् माम् उपव्रज्य भूयस् याचितुम् अर्हति । तस्मात् वृत्ति-करीम् भूमिम् वटो कामम् प्रतीच्छ मे ॥ २० ॥
na pumān mām upavrajya bhūyas yācitum arhati . tasmāt vṛtti-karīm bhūmim vaṭo kāmam pratīccha me .. 20 ..
श्रीभगवानुवाच -
यावन्तो विषयाः प्रेष्ठाः त्रिलोक्यां अजितेन्द्रियम् । न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ २१ ॥
यावन्तः विषयाः प्रेष्ठाः त्रिलोक्याम् अजित-इन्द्रियम् । न शक्नुवन्ति ते सर्वे प्रतिपूरयितुम् नृप ॥ २१ ॥
yāvantaḥ viṣayāḥ preṣṭhāḥ trilokyām ajita-indriyam . na śaknuvanti te sarve pratipūrayitum nṛpa .. 21 ..
त्रिभिः क्रमैः असन्तुष्टो द्वीपेनापि न पूर्यते । नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ २२ ॥
त्रिभिः क्रमैः असन्तुष्टः द्वीपेन अपि न पूर्यते । नव-वर्ष-समेतेन सप्त-द्वीप-वर-इच्छया ॥ २२ ॥
tribhiḥ kramaiḥ asantuṣṭaḥ dvīpena api na pūryate . nava-varṣa-sametena sapta-dvīpa-vara-icchayā .. 22 ..
सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः । अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ २३ ॥
सप्तद्वीपा-अधिपतयः नृपाः वैन्य-गय-आदयः । अर्थैः कामैः गताः न अन्तम् तृष्णायाः इति नः श्रुतम् ॥ २३ ॥
saptadvīpā-adhipatayaḥ nṛpāḥ vainya-gaya-ādayaḥ . arthaiḥ kāmaiḥ gatāḥ na antam tṛṣṇāyāḥ iti naḥ śrutam .. 23 ..
यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् । नासन्तुष्टः त्रिभिर्लोकैः अजितात्मोपसादितैः ॥ २४ ॥
यदृच्छया उपपन्नेन सन्तुष्टः वर्तते सुखम् । न अ सन्तुष्टः त्रिभिः लोकैः अजित-आत्म-उपसादितैः ॥ २४ ॥
yadṛcchayā upapannena santuṣṭaḥ vartate sukham . na a santuṣṭaḥ tribhiḥ lokaiḥ ajita-ātma-upasāditaiḥ .. 24 ..
पुंसोऽयं संसृतेर्हेतुः असन्तोषोऽर्थकामयोः । यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ २५ ॥
पुंसः अयम् संसृतेः हेतुः असन्तोषः अर्थ-कामयोः । यदृच्छया उपपन्नेन सन्तोषः मुक्तये स्मृतः ॥ २५ ॥
puṃsaḥ ayam saṃsṛteḥ hetuḥ asantoṣaḥ artha-kāmayoḥ . yadṛcchayā upapannena santoṣaḥ muktaye smṛtaḥ .. 25 ..
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते । तत्प्रशाम्यति असन्तोषाद् अम्भसेवाशुशुक्षणिः ॥ २६ ॥
यदृच्छा-लाभ-तुष्टस्य तेजः विप्रस्य वर्धते । तत् प्रशाम्यति असन्तोषात् अम्भसा इव आशुशुक्षणिः ॥ २६ ॥
yadṛcchā-lābha-tuṣṭasya tejaḥ viprasya vardhate . tat praśāmyati asantoṣāt ambhasā iva āśuśukṣaṇiḥ .. 26 ..
तस्मात्त्रीणि पदान्येव वृणे त्वद् वरदर्षभात् । एतावतैव सिद्धोऽहं वित्तं यावत् प्रयोजनम् ॥ २७ ॥
तस्मात् त्रीणि पदानि एव वृणे त्वत् वर-द-ऋषभात् । एतावता एव सिद्धः अहम् वित्तम् यावत् प्रयोजनम् ॥ २७ ॥
tasmāt trīṇi padāni eva vṛṇe tvat vara-da-ṛṣabhāt . etāvatā eva siddhaḥ aham vittam yāvat prayojanam .. 27 ..
श्रीशुक उवाच -
इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम् । वामनाय महीं दातुं जग्राह जलभाजनम् ॥ २८ ॥
इति उक्तः स हसन् आह वाञ्छातः प्रतिगृह्यताम् । वामनाय महीम् दातुम् जग्राह जल-भाजनम् ॥ २८ ॥
iti uktaḥ sa hasan āha vāñchātaḥ pratigṛhyatām . vāmanāya mahīm dātum jagrāha jala-bhājanam .. 28 ..
विष्णवे क्ष्मां प्रदास्यन्तं उशना असुरेश्वरम् । जानन् चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ २९ ॥
विष्णवे क्ष्माम् प्रदास्यन्तम् उशनाः असुर-ईश्वरम् । जानन् चिकीर्षितम् विष्णोः शिष्यम् प्राह विदाम् वरः ॥ २९ ॥
viṣṇave kṣmām pradāsyantam uśanāḥ asura-īśvaram . jānan cikīrṣitam viṣṇoḥ śiṣyam prāha vidām varaḥ .. 29 ..
श्रीशुक्र उवाच -
एष वैरोचने साक्षात् भगवान् विष्णुरव्ययः । कश्यपाद् अदितेर्जातो देवानां कार्यसाधकः ॥ ३० ॥
एष वैरोचने साक्षात् भगवान् विष्णुः अव्ययः । कश्यपात् अदितेः जातः देवानाम् कार्य-साधकः ॥ ३० ॥
eṣa vairocane sākṣāt bhagavān viṣṇuḥ avyayaḥ . kaśyapāt aditeḥ jātaḥ devānām kārya-sādhakaḥ .. 30 ..
प्रतिश्रुतं त्वयैतस्मै यद् अनर्थं अजानता । न साधु मन्ये दैत्यानां महानुपगतोऽनयः ॥ ३१ ॥
प्रतिश्रुतम् त्वया एतस्मै यत् अनर्थम् अ जानता । न साधु मन्ये दैत्यानाम् महान् उपगतः अनयः ॥ ३१ ॥
pratiśrutam tvayā etasmai yat anartham a jānatā . na sādhu manye daityānām mahān upagataḥ anayaḥ .. 31 ..
एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥ ३२ ॥
एष ते स्थानम् ऐश्वर्यम् श्रियम् तेजः यशः श्रुतम् । दास्यति आच्छिद्य शक्राय माया-माणवकः हरिः ॥ ३२ ॥
eṣa te sthānam aiśvaryam śriyam tejaḥ yaśaḥ śrutam . dāsyati ācchidya śakrāya māyā-māṇavakaḥ hariḥ .. 32 ..
त्रिभिः क्रमैः इमान् लोकान् विश्वकायः क्रमिष्यति । सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥
त्रिभिः क्रमैः इमान् लोकान् विश्वकायः क्रमिष्यति । सर्व-स्वम् विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम् ॥ ३३ ॥
tribhiḥ kramaiḥ imān lokān viśvakāyaḥ kramiṣyati . sarva-svam viṣṇave dattvā mūḍha vartiṣyase katham .. 33 ..
क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः । खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ ३४ ॥
क्रमतस् गाम् पदा एकेन द्वितीयेन दिवम् विभोः । खम् च कायेन महता तार्तीयस्य कुतस् गतिः ॥ ३४ ॥
kramatas gām padā ekena dvitīyena divam vibhoḥ . kham ca kāyena mahatā tārtīyasya kutas gatiḥ .. 34 ..
निष्ठां ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् । प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान् ॥ ३५ ॥
निष्ठाम् ते नरके मन्ये हि अप्रदातुः प्रतिश्रुतम् । प्रतिश्रुतस्य यः अनीशः प्रतिपादयितुम् भवान् ॥ ३५ ॥
niṣṭhām te narake manye hi apradātuḥ pratiśrutam . pratiśrutasya yaḥ anīśaḥ pratipādayitum bhavān .. 35 ..
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते । दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ ३६ ॥
न तत् दानम् प्रशंसन्ति येन वृत्तिः विपद्यते । दानम् यज्ञः तपः कर्म लोके वृत्तिमतः यतस् ॥ ३६ ॥
na tat dānam praśaṃsanti yena vṛttiḥ vipadyate . dānam yajñaḥ tapaḥ karma loke vṛttimataḥ yatas .. 36 ..
धर्माय यशसेऽर्थाय कामाय स्वजनाय च । पञ्चधा विभजन् वित्तं इहामुत्र च मोदते ॥ ३७ ॥
धर्माय यशसे अर्थाय कामाय स्व-जनाय च । पञ्चधा विभजन् वित्तम् इह अमुत्र च मोदते ॥ ३७ ॥
dharmāya yaśase arthāya kāmāya sva-janāya ca . pañcadhā vibhajan vittam iha amutra ca modate .. 37 ..
अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम । सत्यं ॐ इति यत्प्रोक्तं यत् नेति आहानृतं हि तत् ॥ ३८ ॥
अत्रा अपि बह्वृचैः गीतम् शृणु मे असुर-सत्तम । सत्यम् ओम् इति यत् प्रोक्तम् यत् न इति आह अनृतम् हि तत् ॥ ३८ ॥
atrā api bahvṛcaiḥ gītam śṛṇu me asura-sattama . satyam om iti yat proktam yat na iti āha anṛtam hi tat .. 38 ..
सत्यं पुष्पफलं विद्याद् आत्मवृक्षस्य गीयते । वृक्षेऽजीवति तन्न स्यात् अनृतं मूलमात्मनः ॥ ३९ ॥
सत्यम् पुष्प-फलम् विद्यात् आत्म-वृक्षस्य गीयते । वृक्षे अ जीवति तत् न स्यात् अनृतम् मूलम् आत्मनः ॥ ३९ ॥
satyam puṣpa-phalam vidyāt ātma-vṛkṣasya gīyate . vṛkṣe a jīvati tat na syāt anṛtam mūlam ātmanaḥ .. 39 ..
तद् यथा वृक्ष उन्मूलः शुष्यति उद्वर्ततेऽचिरात् । एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥ ४० ॥
तत् यथा वृक्षः उन्मूलः शुष्यति उद्वर्तते अचिरात् । एवम् नष्ट-अनृतः सद्यस् आत्मा शुष्येत् न संशयः ॥ ४० ॥
tat yathā vṛkṣaḥ unmūlaḥ śuṣyati udvartate acirāt . evam naṣṭa-anṛtaḥ sadyas ātmā śuṣyet na saṃśayaḥ .. 40 ..
पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति । यत्किञ्चित् ओमिति ब्रूयात् तेन रिच्येत वै पुमान् । भिक्षवे सर्वं ॐकुन् नालं कामेन चात्मने ॥ ४१ ॥
पराक् रिक्तम् अपूर्णम् वै अक्षरम् यत् तत् ओम् इति । यत् किञ्चिद् ओम् इति ब्रूयात् तेन रिच्येत वै पुमान् । भिक्षवे सर्वम् ओंकुद् न अलम् कामेन च आत्मने ॥ ४१ ॥
parāk riktam apūrṇam vai akṣaram yat tat om iti . yat kiñcid om iti brūyāt tena ricyeta vai pumān . bhikṣave sarvam oṃkud na alam kāmena ca ātmane .. 41 ..
अथैतत्पूर्णमभ्यात्मं यच्च नेति अनृतं वचः । सर्वं नेति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः ॥ ४२ ॥
अथ एतत् पूर्णम् अभ्यात्मम् यत् च न इति अनृतम् वचः । सर्वम् न इति अनृतम् ब्रूयात् स दुष्कीर्तिः श्वसत्-मृतः ॥ ४२ ॥
atha etat pūrṇam abhyātmam yat ca na iti anṛtam vacaḥ . sarvam na iti anṛtam brūyāt sa duṣkīrtiḥ śvasat-mṛtaḥ .. 42 ..
स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे । गोब्राह्मणार्थे हिंसायां नानृतं स्यात् जुगुप्सितम् ॥ ४३ ॥
स्त्रीषु नर्म-विवाहे च वृत्ति-अर्थे प्राण-संकटे । गो-ब्राह्मण-अर्थे हिंसायाम् न अनृतम् स्यात् जुगुप्सितम् ॥ ४३ ॥
strīṣu narma-vivāhe ca vṛtti-arthe prāṇa-saṃkaṭe . go-brāhmaṇa-arthe hiṃsāyām na anṛtam syāt jugupsitam .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामनप्रादुर्भावे एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmanaprādurbhāve ekonaviṃśaḥ adhyāyaḥ .. 19 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In