| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -
आसीद् गिरिवरो राजन् त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ १ ॥
आसीत् गिरि-वरः राजन् त्रिकूटः इति विश्रुतः । क्षीरोदेन आवृतः श्रीमान् योजन-अयुतम् उच्छ्रितः ॥ १ ॥
āsīt giri-varaḥ rājan trikūṭaḥ iti viśrutaḥ . kṣīrodena āvṛtaḥ śrīmān yojana-ayutam ucchritaḥ .. 1 ..
तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ २ ॥
तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्गैः पयोनिधिम् । दिशः खम् रोचयन् आस्ते रौप्य-आयस-हिरण्मयैः ॥ २ ॥
tāvatā vistṛtaḥ paryaktribhiḥ śrṛṅgaiḥ payonidhim . diśaḥ kham rocayan āste raupya-āyasa-hiraṇmayaiḥ .. 2 ..
अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः । नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम् ॥ ३ ॥
अन्यैः च ककुभः सर्वाः रत्न-धातु-विचित्रितैः । नाना द्रुम-लता-गुल्मैः निर्घोषैः निर्झर-अम्भसाम् ॥ ३ ॥
anyaiḥ ca kakubhaḥ sarvāḥ ratna-dhātu-vicitritaiḥ . nānā druma-latā-gulmaiḥ nirghoṣaiḥ nirjhara-ambhasām .. 3 ..
स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः । करोति श्यामलां भूमिं हरिन् मरकताश्मभिः ॥ ४ ॥
स च अवनिज्यमान-अङ्घ्रिः समन्तात् पयः-ऊर्मिभिः । करोति श्यामलाम् भूमिम् हरित् मरकत-अश्मभिः ॥ ४ ॥
sa ca avanijyamāna-aṅghriḥ samantāt payaḥ-ūrmibhiḥ . karoti śyāmalām bhūmim harit marakata-aśmabhiḥ .. 4 ..
सिद्धचारणगन्धर्व विद्याधरमहोरगैः । किन्नरैः अप्सरोभिश्च क्रीडद्भिः जुष्टकन्दरः ॥ ५ ॥
सिद्ध-चारण-गन्धर्व-विद्याधर-महा-उरगैः । किन्नरैः अप्सरोभिः च क्रीडद्भिः जुष्ट-कन्दरः ॥ ५ ॥
siddha-cāraṇa-gandharva-vidyādhara-mahā-uragaiḥ . kinnaraiḥ apsarobhiḥ ca krīḍadbhiḥ juṣṭa-kandaraḥ .. 5 ..
यत्र सङ्गीतसन्नादैः नदद्गुहममर्षया । अभिगर्जन्ति हरयः श्लाघिनः परशंकया ॥ ६ ॥
यत्र सङ्गीत-सत्-नादैः नदत्-गुहम् अमर्षया । अभिगर्जन्ति हरयः श्लाघिनः पर-शंकया ॥ ६ ॥
yatra saṅgīta-sat-nādaiḥ nadat-guham amarṣayā . abhigarjanti harayaḥ ślāghinaḥ para-śaṃkayā .. 6 ..
नानारण्यपशुव्रात संकुलद्रोण्यलंकृतः । चित्रद्रुमसुरोद्यान कलकण्ठविहंगमः ॥ ७ ॥
नाना अरण्य-पशु-व्रात संकुल-द्रोणी-अलंकृतः । ॥ ७ ॥
nānā araṇya-paśu-vrāta saṃkula-droṇī-alaṃkṛtaḥ . .. 7 ..
सरित्सरोभिरच्छोदैः पुलिनैः मणिवालुकैः । देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ ८ ॥
सरित्-सरोभिः अच्छोदैः पुलिनैः मणि-वालुकैः । ॥ ८ ॥
sarit-sarobhiḥ acchodaiḥ pulinaiḥ maṇi-vālukaiḥ . .. 8 ..
तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः । उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥
तस्य द्रोण्याम् भगवतः वरुणस्य महात्मनः । उद्यानम् ऋतुमत् नाम आक्रीडम् सुर-योषिताम् ॥ ९ ॥
tasya droṇyām bhagavataḥ varuṇasya mahātmanaḥ . udyānam ṛtumat nāma ākrīḍam sura-yoṣitām .. 9 ..
सर्वतोऽलंकृतं दिव्यैः नित्यपुष्पफलद्रुमैः । मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ १० ॥
सर्वतस् अलंकृतम् दिव्यैः नित्य-पुष्प-फल-द्रुमैः । मन्दारैः पारिजातैः च पाटला-अशोक-चम्पकैः ॥ १० ॥
sarvatas alaṃkṛtam divyaiḥ nitya-puṣpa-phala-drumaiḥ . mandāraiḥ pārijātaiḥ ca pāṭalā-aśoka-campakaiḥ .. 10 ..
चूतैः पियालैः पनसैः आम्रैः आम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैः बीजपूरकैः ॥ ११ ॥
चूतैः पियालैः पनसैः आम्रैः आम्रातकैः अपि । क्रमुकैः नारिकेलैः च खर्जूरैः बीजपूरकैः ॥ ११ ॥
cūtaiḥ piyālaiḥ panasaiḥ āmraiḥ āmrātakaiḥ api . kramukaiḥ nārikelaiḥ ca kharjūraiḥ bījapūrakaiḥ .. 11 ..
मधुकैः शालतालैश्च तमालै रसनार्जुनैः । अरिष्टोडुम्बरप्लक्षैः वटैः किंशुकचन्दनैः ॥ १२ ॥
मधुकैः शाल-तालैः च रसन-अर्जुनैः । अरिष्ट-उडुम्बर-प्लक्षैः वटैः किंशुक-चन्दनैः ॥ १२ ॥
madhukaiḥ śāla-tālaiḥ ca rasana-arjunaiḥ . ariṣṭa-uḍumbara-plakṣaiḥ vaṭaiḥ kiṃśuka-candanaiḥ .. 12 ..
पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । द्राक्षेक्षु रम्भाजम्बुभिः बदर्यक्षाभयामलैः ॥ १३ ॥
पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । ॥ १३ ॥
picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ . .. 13 ..
बिल्वैः कपित्थैर्जम्बीरैः वृतो भल्लातकादिभिः । तस्मिन्सरः सुविपुलं लसत्काञ्चनपंकजम् ॥ १४ ॥
बिल्वैः कपित्थैः जम्बीरैः वृतः भल्लातक-आदिभिः । तस्मिन् सरः सु विपुलम् लसत्-काञ्चन-पंकजम् ॥ १४ ॥
bilvaiḥ kapitthaiḥ jambīraiḥ vṛtaḥ bhallātaka-ādibhiḥ . tasmin saraḥ su vipulam lasat-kāñcana-paṃkajam .. 14 ..
कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ १५ ॥
कुमुद-उत्पल-कह्लार शतपत्र-श्रिया ऊर्जितम् । मत्त-षट्पद-निर्घुष्टम् शकुन्तैः च कल-स्वनैः ॥ १५ ॥
kumuda-utpala-kahlāra śatapatra-śriyā ūrjitam . matta-ṣaṭpada-nirghuṣṭam śakuntaiḥ ca kala-svanaiḥ .. 15 ..
हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ १६ ॥
हंस-कारण्डव-आकीर्णम् चक्राह्वैः सारसैः अपि । जल-कुक्कुट-कोयष्टि दात्यूह-कुल-कूजितम् ॥ १६ ॥
haṃsa-kāraṇḍava-ākīrṇam cakrāhvaiḥ sārasaiḥ api . jala-kukkuṭa-koyaṣṭi dātyūha-kula-kūjitam .. 16 ..
मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः । कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ १७ ॥
मत्स्य-कच्छप-सञ्चार चलत्-पद्म-रजः-पयः । कदम्ब-वेतस-नल-नीप-वञ्जुलकैः वृतम् ॥ १७ ॥
matsya-kacchapa-sañcāra calat-padma-rajaḥ-payaḥ . kadamba-vetasa-nala-nīpa-vañjulakaiḥ vṛtam .. 17 ..
कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः । कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग जातिभिः ॥ १८ ॥
कुन्दैः कुरु-बक-अशोकैः शिरीषैः कूटज-इङ्गुदैः । कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग-जातिभिः ॥ १८ ॥
kundaiḥ kuru-baka-aśokaiḥ śirīṣaiḥ kūṭaja-iṅgudaiḥ . kubjakaiḥ svarṇayūthībhiḥ nāgapunnāga-jātibhiḥ .. 18 ..
मल्लिकाशतपत्रैश्च माधवीजालकादिभिः । शोभितं तीरजैश्चान्यैः नित्यर्तुभिरलं द्रुमैः ॥ १९ ॥
मल्लिका-शतपत्रैः च माधवी-जालक-आदिभिः । शोभितम् तीर-जैः च अन्यैः नित्य-ऋतुभिः अलम् द्रुमैः ॥ १९ ॥
mallikā-śatapatraiḥ ca mādhavī-jālaka-ādibhiḥ . śobhitam tīra-jaiḥ ca anyaiḥ nitya-ṛtubhiḥ alam drumaiḥ .. 19 ..
तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ २० ॥
तत्र एकदा तद्-गिरि-कानन-आश्रयः करेणुभिः वारण-यूथपः चरन् । स कण्टकम् कीचक-वेणु-वेत्र-वत् विशाल-गुल्मम् प्ररुजन् वनस्पतीन् ॥ २० ॥
tatra ekadā tad-giri-kānana-āśrayaḥ kareṇubhiḥ vāraṇa-yūthapaḥ caran . sa kaṇṭakam kīcaka-veṇu-vetra-vat viśāla-gulmam prarujan vanaspatīn .. 20 ..
यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः । महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः ॥ २१ ॥
यद्-गन्ध-मात्रात् हरयः गज-इन्द्राः व्याघ्र-आदयः व्याल-मृगाः स खड्गाः । महोरगाः च अपि भयात् द्रवन्ति स गौर-कृष्णाः स रभाः चमर्यः ॥ २१ ॥
yad-gandha-mātrāt harayaḥ gaja-indrāḥ vyāghra-ādayaḥ vyāla-mṛgāḥ sa khaḍgāḥ . mahoragāḥ ca api bhayāt dravanti sa gaura-kṛṣṇāḥ sa rabhāḥ camaryaḥ .. 21 ..
वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणाः शशादयः चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
वृकाः वराहाः महिष-ऋक्ष-शल्याः गोपुच्छ-शालावृक-मर्कटाः च । अन्यत्र क्षुद्राः हरिणाः शश-आदयः चरन्ति अभीताः यद्-अनुग्रहेण ॥ २२ ॥
vṛkāḥ varāhāḥ mahiṣa-ṛkṣa-śalyāḥ gopuccha-śālāvṛka-markaṭāḥ ca . anyatra kṣudrāḥ hariṇāḥ śaśa-ādayaḥ caranti abhītāḥ yad-anugraheṇa .. 22 ..
स घर्मतप्तः करिभिः करेणुभिः वृतो मदच्युत्कलभैरनुद्रुतः । गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥ २३ ॥
स घर्म-तप्तः करिभिः करेणुभिः वृतः मद-च्युत्-कलभैः अनुद्रुतः । गिरिम् गरिम्णा परितस् प्रकम्पयन् निषेव्यमाणः अलि-कुलैः मद-अशनैः ॥ २३ ॥
sa gharma-taptaḥ karibhiḥ kareṇubhiḥ vṛtaḥ mada-cyut-kalabhaiḥ anudrutaḥ . girim garimṇā paritas prakampayan niṣevyamāṇaḥ ali-kulaiḥ mada-aśanaiḥ .. 23 ..
सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः । वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्याशमथागमद् द्रुतम् ॥ २४ ॥
सरः-अनिलम् पङ्कज-रेणु-रूषितम् जिघ्रन् विदूरात् मद-विह्वल-ईक्षणः । वृतः स्व-यूथेन तृषा-अर्दितेन तत् सरोवर-अभ्याशम् अथा अगमत् द्रुतम् ॥ २४ ॥
saraḥ-anilam paṅkaja-reṇu-rūṣitam jighran vidūrāt mada-vihvala-īkṣaṇaḥ . vṛtaḥ sva-yūthena tṛṣā-arditena tat sarovara-abhyāśam athā agamat drutam .. 24 ..
विगाह्य तस्मिन् अमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम् । पपौ निकामं निजपुष्करोद्धृतं आत्मानमद्भिः स्नपयन्गतक्लमः ॥ २५ ॥
विगाह्य तस्मिन् अमृत-अम्बु निर्मलम् हेम-अरविन्द-उत्पल-रेणु-वासितम् । पपौ निकामम् निज-पुष्कर-उद्धृतम् आत्मानम् अद्भिः स्नपयन् गत-क्लमः ॥ २५ ॥
vigāhya tasmin amṛta-ambu nirmalam hema-aravinda-utpala-reṇu-vāsitam . papau nikāmam nija-puṣkara-uddhṛtam ātmānam adbhiḥ snapayan gata-klamaḥ .. 25 ..
स पुष्करेणोद्धृतशीकराम्बुभिः निपाययन् संस्नपयन्यथा गृही । घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
स पुष्करेण उद्धृत-शीकर-अम्बुभिः निपाययन् संस्नपयन् यथा गृही । घृणी करेणुः करभान् च दुर्मदः न आचष्ट कृच्छ्रम् कृपणः अज-मायया ॥ २६ ॥
sa puṣkareṇa uddhṛta-śīkara-ambubhiḥ nipāyayan saṃsnapayan yathā gṛhī . ghṛṇī kareṇuḥ karabhān ca durmadaḥ na ācaṣṭa kṛcchram kṛpaṇaḥ aja-māyayā .. 26 ..
तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
तम् तत्र कश्चिद् नृप दैव-चोदितः ग्राहः बलीयान् चरणे रुषा अग्रहीत् । यदृच्छया एवम् व्यसनम् गतः गजः यथाबलम् सः अतिबलः विचक्रमे ॥ २७ ॥
tam tatra kaścid nṛpa daiva-coditaḥ grāhaḥ balīyān caraṇe ruṣā agrahīt . yadṛcchayā evam vyasanam gataḥ gajaḥ yathābalam saḥ atibalaḥ vicakrame .. 27 ..
तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
तथा आतुरम् यूथ-पतिम् करेणवः विकृष्यमाणम् तरसा बलीयसा । विचुक्रुशुः दीन-धियः अपरे गजाः पार्ष्णिग्रहाः तारयितुम् न च अशकन् ॥ २८ ॥
tathā āturam yūtha-patim kareṇavaḥ vikṛṣyamāṇam tarasā balīyasā . vicukruśuḥ dīna-dhiyaḥ apare gajāḥ pārṣṇigrahāḥ tārayitum na ca aśakan .. 28 ..
नियुध्यतोरेवमिभेन्द्रनक्रयोः विकर्षतोरन्तरतो बहिर्मिथः । समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ २९ ॥
नियुध्यतोः एवम् इभ-इन्द्र-नक्रयोः विकर्षतोः अन्तरतः बहिस् मिथस् । समाः सहस्रम् व्यगमत् महीपते स प्राणयोः चित्रम् अमंसत अमराः ॥ २९ ॥
niyudhyatoḥ evam ibha-indra-nakrayoḥ vikarṣatoḥ antarataḥ bahis mithas . samāḥ sahasram vyagamat mahīpate sa prāṇayoḥ citram amaṃsata amarāḥ .. 29 ..
ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्ययः । विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकसः ॥ ३० ॥
ततस् गज-इन्द्रस्य मनः-बल-ओजसाम् कालेन दीर्घेण महान् अभूत् व्ययः । विकृष्यमाणस्य जले अवसीदतः विपर्ययः अभूत् सकलम् जलौकसः ॥ ३० ॥
tatas gaja-indrasya manaḥ-bala-ojasām kālena dīrgheṇa mahān abhūt vyayaḥ . vikṛṣyamāṇasya jale avasīdataḥ viparyayaḥ abhūt sakalam jalaukasaḥ .. 30 ..
इत्थं गजेन्द्रः स यदाप संकटं प्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
इत्थम् गज-इन्द्रः स यदा आप संकटम् प्राणस्य देही विवशः यदृच्छया । अ पारयन् आत्म-विमोक्षणे चिरम् दध्यौ इमाम् बुद्धिम् अथ अभ्यपद्यत ॥ ३१ ॥
ittham gaja-indraḥ sa yadā āpa saṃkaṭam prāṇasya dehī vivaśaḥ yadṛcchayā . a pārayan ātma-vimokṣaṇe ciram dadhyau imām buddhim atha abhyapadyata .. 31 ..
न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतोऽपि अहं च तं यामि परं परायणम् ॥ ३२ ॥
न माम् इमे ज्ञातयः आतुरम् गजाः कुतस् करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुः आवृतः अपि अहम् च तम् यामि परम् परायणम् ॥ ३२ ॥
na mām ime jñātayaḥ āturam gajāḥ kutas kariṇyaḥ prabhavanti mocitum . grāheṇa pāśena vidhātuḥ āvṛtaḥ api aham ca tam yāmi param parāyaṇam .. 32 ..
यः कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भयात् मृत्युः प्रधावत्यरणं तमीमहि ॥ ३३ ॥
यः कश्चन ईशः बलिनः अन्तक-उरगात् प्रचण्ड-वेगात् अभिधावतः भृशम् । भीतम् प्रपन्नम् परिपाति यत् भयात् मृत्युः प्रधावति अरणम् तमीमहि ॥ ३३ ॥
yaḥ kaścana īśaḥ balinaḥ antaka-uragāt pracaṇḍa-vegāt abhidhāvataḥ bhṛśam . bhītam prapannam paripāti yat bhayāt mṛtyuḥ pradhāvati araṇam tamīmahi .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे मन्वन्तर-अनुवर्णने गजेन्द्र-उपाख्याने द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe manvantara-anuvarṇane gajendra-upākhyāne dvitīyaḥ adhyāyaḥ .. 2 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In