| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
बलिरेवं गृहपतिः कुलाचार्येण भाषितः । तूष्णीं भूत्वा क्षणं राजन् उवाचावहितो गुरुम् ॥ १ ॥
बलिः एवम् गृहपतिः कुल-आचार्येण भाषितः । तूष्णीम् भूत्वा क्षणम् राजन् उवाच अवहितः गुरुम् ॥ १ ॥
baliḥ evam gṛhapatiḥ kula-ācāryeṇa bhāṣitaḥ . tūṣṇīm bhūtvā kṣaṇam rājan uvāca avahitaḥ gurum .. 1 ..
श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
सत्यम् भगवता प्रोक्तम् धर्मः अयम् गृहमेधिनाम् । अर्थम् कामम् यशः वृत्तिम् यः न बाधेत कर्हिचित् ॥ २ ॥
satyam bhagavatā proktam dharmaḥ ayam gṛhamedhinām . artham kāmam yaśaḥ vṛttim yaḥ na bādheta karhicit .. 2 ..
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ ३ ॥
स च अहम् वित्त-लोभेन प्रत्याचक्षे कथम् द्विजम् । प्रतिश्रुत्य ददामि इति प्राह्रादिः कितवः यथा ॥ ३ ॥
sa ca aham vitta-lobhena pratyācakṣe katham dvijam . pratiśrutya dadāmi iti prāhrādiḥ kitavaḥ yathā .. 3 ..
न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
न हि असत्यात् परः अधर्मः इति ह उवाच भूः इयम् । सर्वम् सोढुम् अलम् मन्ये ऋते अलीक-परम् नरम् ॥ ४ ॥
na hi asatyāt paraḥ adharmaḥ iti ha uvāca bhūḥ iyam . sarvam soḍhum alam manye ṛte alīka-param naram .. 4 ..
नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योः यथा विप्रप्रलम्भनात् ॥ ५ ॥
न अहम् बिभेमि निरयात् न अधन्यात् असुख-अर्णवात् । न स्थान-च्यवनात् मृत्योः यथा विप्र-प्रलम्भनात् ॥ ५ ॥
na aham bibhemi nirayāt na adhanyāt asukha-arṇavāt . na sthāna-cyavanāt mṛtyoḥ yathā vipra-pralambhanāt .. 5 ..
यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
यत् यत् हास्यति लोके अस्मिन् संपरेतम् धन-आदिकम् । तस्य त्यागे निमित्तम् किम् विप्रः तुष्येत् न तेन चेद् ॥ ६ ॥
yat yat hāsyati loke asmin saṃparetam dhana-ādikam . tasya tyāge nimittam kim vipraḥ tuṣyet na tena ced .. 6 ..
श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्गशिबिप्रभृतयः को विकल्पो धरादिषु ॥ ७ ॥
श्रेयः कुर्वन्ति भूतानाम् साधवः दुस्त्यज-असुभिः । दध्यङ्ग-शिबि-प्रभृतयः कः विकल्पः धरा-आदिषु ॥ ७ ॥
śreyaḥ kurvanti bhūtānām sādhavaḥ dustyaja-asubhiḥ . dadhyaṅga-śibi-prabhṛtayaḥ kaḥ vikalpaḥ dharā-ādiṣu .. 7 ..
यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालोऽग्रसीत् लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
यैः इयम् बुभुजे ब्रह्मन् दैत्य-इन्द्रैः अनिवर्तिभिः । तेषाम् कालः अग्रसीत् लोकान् न यशः अधिगतम् भुवि ॥ ८ ॥
yaiḥ iyam bubhuje brahman daitya-indraiḥ anivartibhiḥ . teṣām kālaḥ agrasīt lokān na yaśaḥ adhigatam bhuvi .. 8 ..
सुलभा युधि विप्रर्षे हिइ, अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
सुलभा युधि विप्रर्षे हिइ, अनिवृत्ताः तनुत्यजः । न तथा तीर्थे आयाते श्रद्धया ये धनत्यजः ॥ ९ ॥
sulabhā yudhi viprarṣe hii, anivṛttāḥ tanutyajaḥ . na tathā tīrthe āyāte śraddhayā ye dhanatyajaḥ .. 9 ..
मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
मनस्विनः कारुणिकस्य शोभनम् यत् अर्थि-काम-उपनयेन दुर्गतिः । कुतस् पुनर् ब्रह्म-विदाम् भवादृशाम् ततस् वटोः अस्य ददामि वाञ्छितम् ॥ १० ॥
manasvinaḥ kāruṇikasya śobhanam yat arthi-kāma-upanayena durgatiḥ . kutas punar brahma-vidām bhavādṛśām tatas vaṭoḥ asya dadāmi vāñchitam .. 10 ..
यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
यजन्ति यज्ञम् क्रतुभिः यम-आदृताः भवन्तः आम्नाय-विधान-कोविदाः । सः एव विष्णुः वर-दः अस्तु वा परः दास्यामि अमुष्मै क्षितिम् ईप्सिताम् मुने ॥ ११ ॥
yajanti yajñam kratubhiḥ yama-ādṛtāḥ bhavantaḥ āmnāya-vidhāna-kovidāḥ . saḥ eva viṣṇuḥ vara-daḥ astu vā paraḥ dāsyāmi amuṣmai kṣitim īpsitām mune .. 11 ..
(अनुष्टुप्)
यद्यपि असौ अधर्मेण मां बध्नीयाद् अनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
यदि अपि असौ अधर्मेण माम् बध्नीयात् अनागसम् । तथा अपि एनम् न हिंसिष्ये भीतम् ब्रह्म-तनुम् रिपुम् ॥ १२ ॥
yadi api asau adharmeṇa mām badhnīyāt anāgasam . tathā api enam na hiṃsiṣye bhītam brahma-tanum ripum .. 12 ..
एष वा उत्तमश्लोको न जिहासति यद् यशः । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
एष वै उत्तमश्लोकः न जिहासति यत् यशः । हत्वा मा एनाम् हरेत् युद्धे शयीत निहतः मया ॥ १३ ॥
eṣa vai uttamaślokaḥ na jihāsati yat yaśaḥ . hatvā mā enām haret yuddhe śayīta nihataḥ mayā .. 13 ..
श्रीशुक उवाच -
एवं अश्रद्धितं शिष्यं अनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ १४ ॥
एवम् अश्रद्धितम् शिष्यम् अनादेश-करम् गुरुः । शशाप दैव-प्रहितः सत्य-सन्धम् मनस्विनम् ॥ १४ ॥
evam aśraddhitam śiṣyam anādeśa-karam guruḥ . śaśāpa daiva-prahitaḥ satya-sandham manasvinam .. 14 ..
दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मद् उपेक्षया । मच्छासनातिगो यस्त्वं अचिराद्भ्रश्यसे श्रियः ॥ १५ ॥
दृढम् पण्डित-मान्य-ज्ञः स्तब्धः असि अस्मत् उपेक्षया । मद्-शासन-अतिगः यः त्वम् अचिरात् भ्रश्यसे श्रियः ॥ १५ ॥
dṛḍham paṇḍita-mānya-jñaḥ stabdhaḥ asi asmat upekṣayā . mad-śāsana-atigaḥ yaḥ tvam acirāt bhraśyase śriyaḥ .. 15 ..
एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददौ एनां अर्चित्वोदकपूर्वकम् ॥ १६ ॥
एवम् शप्तः स्व-गुरुणा सत्यात् न चलितः महान् । वामनाय ददौ एनाम् अर्चित्वा उदक-पूर्वकम् ॥ १६ ॥
evam śaptaḥ sva-guruṇā satyāt na calitaḥ mahān . vāmanāya dadau enām arcitvā udaka-pūrvakam .. 16 ..
विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैमं अवनेजन्यपां भृतम् ॥ १७ ॥
विन्ध्यावलिः तदा आगत्य पत्नी जालकमालिनी । आनिन्ये कलशम् हैमम् अवनेजनी-अपाम् भृतम् ॥ १७ ॥
vindhyāvaliḥ tadā āgatya patnī jālakamālinī . āninye kalaśam haimam avanejanī-apām bhṛtam .. 17 ..
यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा । अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः ॥ १८ ॥
यजमानः स्वयम् तस्य श्रीमत्-पाद-युगम् मुदा । अवनिज्य अवहत् मूर्ध्नि तद्-अपः विश्व-पावनीः ॥ १८ ॥
yajamānaḥ svayam tasya śrīmat-pāda-yugam mudā . avanijya avahat mūrdhni tad-apaḥ viśva-pāvanīḥ .. 18 ..
तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ १९ ॥
तदा असुर-इन्द्रम् दिवि देवता-गणाः गन्धर्व-विद्याधर-सिद्ध-चारणाः । तत् कर्म सर्वे अपि गृणन्तः आर्जवम् प्रसून-वर्षैः ववृषुः मुदा अन्विताः ॥ १९ ॥
tadā asura-indram divi devatā-gaṇāḥ gandharva-vidyādhara-siddha-cāraṇāḥ . tat karma sarve api gṛṇantaḥ ārjavam prasūna-varṣaiḥ vavṛṣuḥ mudā anvitāḥ .. 19 ..
नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वानदाद्यद्रिपवे जगत्त्रयम् ॥ २० ॥
नेदुः मुहुर् दुन्दुभयः सहस्रशस् गन्धर्व-किम्पूरुष-किन्नराः जगुः । मनस्विना अनेन कृतम् सु दुष्करम् विद्वान् अदात् यद्-रिपवे जगत्त्रयम् ॥ २० ॥
neduḥ muhur dundubhayaḥ sahasraśas gandharva-kimpūruṣa-kinnarāḥ jaguḥ . manasvinā anena kṛtam su duṣkaram vidvān adāt yad-ripave jagattrayam .. 20 ..
तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयः तिर्यङ्नृदेवा ऋषयो यदासत ॥ २१ ॥
तत् वामनम् रूपम् अवर्धत अद्भुतम् हरेः अनन्तस्य गुण-त्रय-आत्मकम् । भूः खम् दिशः द्यौः विवराः पयोधयः तिर्यक् नृ-देवाः ऋषयः यदा आसत ॥ २१ ॥
tat vāmanam rūpam avardhata adbhutam hareḥ anantasya guṇa-traya-ātmakam . bhūḥ kham diśaḥ dyauḥ vivarāḥ payodhayaḥ tiryak nṛ-devāḥ ṛṣayaḥ yadā āsata .. 21 ..
काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
काये बलिः तस्य महा-विभूतेः सह ऋत्विज्-आचार्य-सदस्यः एतत् । ददर्श विश्वम् त्रिगुणम् गुण-आत्मके भूत-इन्द्रिय-अर्थ-आशय-जीव-युक्तम् ॥ २२ ॥
kāye baliḥ tasya mahā-vibhūteḥ saha ṛtvij-ācārya-sadasyaḥ etat . dadarśa viśvam triguṇam guṇa-ātmake bhūta-indriya-artha-āśaya-jīva-yuktam .. 22 ..
रसामचष्टाङ्घ्रितलेऽथ पादयोः महीं महीध्रान्पुरुषस्य जंघयोः । पतत्त्रिणो जानुनि विश्वमूर्तेः ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ २३ ॥
रसाम् अचष्ट अङ्घ्रि-तले अथ पादयोः महीम् महीध्रान् पुरुषस्य जंघयोः । पतत्त्रिणः जानुनि विश्वमूर्तेः ऊर्वोः गणम् मारुतम् इन्द्रसेनः ॥ २३ ॥
rasām acaṣṭa aṅghri-tale atha pādayoḥ mahīm mahīdhrān puruṣasya jaṃghayoḥ . patattriṇaḥ jānuni viśvamūrteḥ ūrvoḥ gaṇam mārutam indrasenaḥ .. 23 ..
सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन्जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
सन्ध्याम् विभोः वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्म-मुख्यान् । नाभ्याम् नभः कुक्षिषु सप्त सिन्धून् उरुक्रमस्य उरसि च ऋक्ष-मालाम् ॥ २४ ॥
sandhyām vibhoḥ vāsasi guhya aikṣat prajāpatīn jaghane ātma-mukhyān . nābhyām nabhaḥ kukṣiṣu sapta sindhūn urukramasya urasi ca ṛkṣa-mālām .. 24 ..
हृद्यंग धर्मं स्तनयोर्मुरारेः ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥
हृदि अंग धर्मम् स्तनयोः मुरारेः ऋतम् च सत्यम् च मनसि अथ इन्दुम् । श्रियम् च वक्षसि अरविन्द-हस्ताम् कण्ठे च सामानि समस्त-रेफान् ॥ २५ ॥
hṛdi aṃga dharmam stanayoḥ murāreḥ ṛtam ca satyam ca manasi atha indum . śriyam ca vakṣasi aravinda-hastām kaṇṭhe ca sāmāni samasta-rephān .. 25 ..
इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान्छ्वसनं नासिकायां अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥
इन्द्र-प्रधानान् अमरान् भुजेषु तद्-कर्णयोः ककुभः द्यौः च मूर्ध्नि । केशेषु मेघान् श्वसनम् नासिकायाम् अक्ष्णोः च सूर्यम् वदने च वह्निम् ॥ २६ ॥
indra-pradhānān amarān bhujeṣu tad-karṇayoḥ kakubhaḥ dyauḥ ca mūrdhni . keśeṣu meghān śvasanam nāsikāyām akṣṇoḥ ca sūryam vadane ca vahnim .. 26 ..
वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥
वाण्याम् च छन्दांसि रसे जलेशम् भ्रुवोः निषेधम् च विधिम् च पक्ष्मसु । अहर् च रात्रिम् च परस्य पुंसः मन्युम् ललाटे अधरे एव लोभम् ॥ २७ ॥
vāṇyām ca chandāṃsi rase jaleśam bhruvoḥ niṣedham ca vidhim ca pakṣmasu . ahar ca rātrim ca parasya puṃsaḥ manyum lalāṭe adhare eva lobham .. 27 ..
स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥
स्पर्शे च कामम् नृप रेतसा अम्भः पृष्ठे तु अधर्मम् क्रमणेषु यज्ञम् । छायासु मृत्युम् हसिते च मायाम् तनूरुहेषु ओषधि-जातयः च ॥ २८ ॥
sparśe ca kāmam nṛpa retasā ambhaḥ pṛṣṭhe tu adharmam kramaṇeṣu yajñam . chāyāsu mṛtyum hasite ca māyām tanūruheṣu oṣadhi-jātayaḥ ca .. 28 ..
नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥
नदीः च नाडीषु शिलाः नखेषु बुद्धौ अजम् देव-गणान् ऋषीन् च । प्राणेषु गात्रे स्थिर-जंगमानि सर्वाणि भूतानि ददर्श वीरः ॥ २९ ॥
nadīḥ ca nāḍīṣu śilāḥ nakheṣu buddhau ajam deva-gaṇān ṛṣīn ca . prāṇeṣu gātre sthira-jaṃgamāni sarvāṇi bhūtāni dadarśa vīraḥ .. 29 ..
सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरंग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्ग स्तनयित्नुघोषम् ॥ ३० ॥
सर्वात्मनि इदम् भुवनम् निरीक्ष्य सर्वे असुराः कश्मलम् आपुः अंग । सुदर्शनम् चक्रम् असह्य-तेजः धनुः च शार्ङ्ग स्तनयित्नु-घोषम् ॥ ३० ॥
sarvātmani idam bhuvanam nirīkṣya sarve asurāḥ kaśmalam āpuḥ aṃga . sudarśanam cakram asahya-tejaḥ dhanuḥ ca śārṅga stanayitnu-ghoṣam .. 30 ..
पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी । विद्याधरोऽसिः शतचन्द्रयुक्तः तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
। विद्याधरः असिः शत-चन्द्र-युक्तः तूण-उत्तमौ अक्षय-सायकौ च ॥ ३१ ॥
. vidyādharaḥ asiḥ śata-candra-yuktaḥ tūṇa-uttamau akṣaya-sāyakau ca .. 31 ..
सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ ३२ ॥
सुनन्द-मुख्याः उपतस्थुः ईशम् पार्षद-मुख्याः सह लोकपालाः । ॥ ३२ ॥
sunanda-mukhyāḥ upatasthuḥ īśam pārṣada-mukhyāḥ saha lokapālāḥ . .. 32 ..
मधुव्रतस्रग्वनमालयावृतो रराज राजन्भगवानुरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ ३३ ॥
मधु-व्रत-स्रज्-वनमालया आवृतः रराज राजन् भगवान् उरुक्रमः । क्षितिम् पदा एकेन बलेः विचक्रमे नभः शरीरेण दिशः च बाहुभिः ॥ ३३ ॥
madhu-vrata-sraj-vanamālayā āvṛtaḥ rarāja rājan bhagavān urukramaḥ . kṣitim padā ekena baleḥ vicakrame nabhaḥ śarīreṇa diśaḥ ca bāhubhiḥ .. 33 ..
पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः ॥ ३४ ॥
पदम् द्वितीयम् क्रमतः त्रिविष्टपम् न वै तृतीयाय तदीयम् अणु अपि । उरुक्रमस्य अङ्घ्रिः उपरि उपरि अथो महर् जनाभ्याम् तपसः परम् गतः ॥ ३४ ॥
padam dvitīyam kramataḥ triviṣṭapam na vai tṛtīyāya tadīyam aṇu api . urukramasya aṅghriḥ upari upari atho mahar janābhyām tapasaḥ param gataḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे विश्वरूपदर्शनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe viśvarūpadarśanam nāma viṃśaḥ adhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In