| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात्। मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः १।
सत्यम् समीक्ष्य अब्जभवः नख-इन्दुभिः हत-स्व-धाम-द्युतिः आवृतः अभ्यगात्। मरीचि-मिश्राः ऋषयः बृहत्-व्रताः सनन्दन-आद्याः नरदेव योगिनः।
satyam samīkṣya abjabhavaḥ nakha-indubhiḥ hata-sva-dhāma-dyutiḥ āvṛtaḥ abhyagāt. marīci-miśrāḥ ṛṣayaḥ bṛhat-vratāḥ sanandana-ādyāḥ naradeva yoginaḥ.
वेदोपवेदा नियमा यमान्वितास्तर्केतिहासाङ्गपुराणसंहिताः। ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः। ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् २।
वेद-उपवेदाः नियमाः यम-अन्विताः तर्क-इतिहास-अङ्ग-पुराण-संहिताः। ये च अपरे ज्ञान-अग्निना रन्धित-कर्म-कल्मषाः। ववन्दिरे यद्-स्मरण-अनुभावतः स्वायम्भुवम् धाम गताः अकर्मकम्।
veda-upavedāḥ niyamāḥ yama-anvitāḥ tarka-itihāsa-aṅga-purāṇa-saṃhitāḥ. ye ca apare jñāna-agninā randhita-karma-kalmaṣāḥ. vavandire yad-smaraṇa-anubhāvataḥ svāyambhuvam dhāma gatāḥ akarmakam.
अथाङ्घ्रये प्रोन्नमिताय विष्णोरुपाहरत्पद्मभवोऽर्हणोदकम्। समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ३।
अथ अङ्घ्रये प्रोन्नमिताय विष्णोः उपाहरत् पद्मभवः अर्हण-उदकम्। समर्च्य भक्त्या अभ्यगृणात् शुचिश्रवाः यद्-नाभि-पङ्केरुह-सम्भवः स्वयम्।
atha aṅghraye pronnamitāya viṣṇoḥ upāharat padmabhavaḥ arhaṇa-udakam. samarcya bhaktyā abhyagṛṇāt śuciśravāḥ yad-nābhi-paṅkeruha-sambhavaḥ svayam.
धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्यभून्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ४।
धातुः कमण्डलु-जलम् तत् उरुक्रमस्य पाद-अवनेजन-पवित्र-तया नरेन्द्र । स्वर्धुनी अभूत् नभसि सा पतती निमार्ष्टि लोकत्रयम् भगवतः विशदा इव कीर्तिः।
dhātuḥ kamaṇḍalu-jalam tat urukramasya pāda-avanejana-pavitra-tayā narendra . svardhunī abhūt nabhasi sā patatī nimārṣṭi lokatrayam bhagavataḥ viśadā iva kīrtiḥ.
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः। सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ५।
ब्रह्म-आदयः लोकनाथाः स्व-नाथाय समादृताः। स अनुगाः बलिम् आजह्रुः सङ्क्षिप्त-आत्म-विभूतये।
brahma-ādayaḥ lokanāthāḥ sva-nāthāya samādṛtāḥ. sa anugāḥ balim ājahruḥ saṅkṣipta-ātma-vibhūtaye.
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः। धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ६।
तोयैः समर्हणैः स्रग्भिः दिव्य-गन्ध-अनुलेपनैः। धूपैः दीपैः सुरभिभिः लाज-अक्षत-फल-अङ्कुरैः।
toyaiḥ samarhaṇaiḥ sragbhiḥ divya-gandha-anulepanaiḥ. dhūpaiḥ dīpaiḥ surabhibhiḥ lāja-akṣata-phala-aṅkuraiḥ.
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः। नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ७।
स्तवनैः जय-शब्दैः च तद्-वीर्य-महिम-अङ्कितैः। नृत्य-वादित्र-गीतैः च शङ्ख-दुन्दुभि-निःस्वनैः।
stavanaiḥ jaya-śabdaiḥ ca tad-vīrya-mahima-aṅkitaiḥ. nṛtya-vāditra-gītaiḥ ca śaṅkha-dundubhi-niḥsvanaiḥ.
जाम्बवानृक्षराजस्तु भेरीशब्दैर्मनोजवः। विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ८।
जाम्बवान् ऋक्ष-राजः तु भेरी-शब्दैः मनोजवः। विजयम् दिक्षु सर्वासु महा-उत्सवम् अघोषयत्।
jāmbavān ṛkṣa-rājaḥ tu bherī-śabdaiḥ manojavaḥ. vijayam dikṣu sarvāsu mahā-utsavam aghoṣayat.
महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाञ्चया। ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ९।
महीम् सर्वाम् हृताम् दृष्ट्वा। ऊचुः स्व-भर्तुः असुराः दीक्षितस्य अति अमर्षिताः।
mahīm sarvām hṛtām dṛṣṭvā. ūcuḥ sva-bhartuḥ asurāḥ dīkṣitasya ati amarṣitāḥ.
न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः। द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति १०।
न वा अयम् ब्रह्मबन्धुः विष्णुः मायाविनाम् वरः। द्विज-रूप-प्रतिच्छन्नः देव-कार्यम् चिकीर्षति।
na vā ayam brahmabandhuḥ viṣṇuḥ māyāvinām varaḥ. dvija-rūpa-praticchannaḥ deva-kāryam cikīrṣati.
अनेन याचमानेन शत्रुणा वटुरूपिणा। सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ११।
अनेन याचमानेन शत्रुणा वटु-रूपिणा। सर्व-स्वम् नः हृतम् भर्तुः न्यस्त-दण्डस्य बर्हिषि।
anena yācamānena śatruṇā vaṭu-rūpiṇā. sarva-svam naḥ hṛtam bhartuḥ nyasta-daṇḍasya barhiṣi.
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः। नानृतं भाषितुं शक्यं ब्रह्मण्यस्य दयावतः १२।
सत्य-व्रतस्य सततम् दीक्षितस्य विशेषतः। न अनृतम् भाषितुम् शक्यम् ब्रह्मण्यस्य दयावतः।
satya-vratasya satatam dīkṣitasya viśeṣataḥ. na anṛtam bhāṣitum śakyam brahmaṇyasya dayāvataḥ.
तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः। इत्यायुधानि जगृहुर्बलेरनुचरासुराः १३।
तस्मात् अस्य वधः धर्मः भर्तुः शुश्रूषणम् च नः। इति आयुधानि जगृहुः बलेः अनुचर-असुराः।
tasmāt asya vadhaḥ dharmaḥ bhartuḥ śuśrūṣaṇam ca naḥ. iti āyudhāni jagṛhuḥ baleḥ anucara-asurāḥ.
ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः। अनिच्छन्तो बले राजन्प्राद्रवन्जातमन्यवः १४।
ते सर्वे वामनम् हन्तुम् शूल-पट्टिश-पाणयः। अन् इच्छन्तः बले राजन् प्राद्रवन् जात-मन्यवः।
te sarve vāmanam hantum śūla-paṭṭiśa-pāṇayaḥ. an icchantaḥ bale rājan prādravan jāta-manyavaḥ.
तानभिद्रवतो दृष्ट्वा दितिजानीकपान्नृप। प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः १५।
तान् अभिद्रवतः दृष्ट्वा दितिज-अनीकपात् नृप। प्रहस्य अनुचराः विष्णोः प्रत्यषेधन् उदायुधाः।
tān abhidravataḥ dṛṣṭvā ditija-anīkapāt nṛpa. prahasya anucarāḥ viṣṇoḥ pratyaṣedhan udāyudhāḥ.
नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः। कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट् १६।
नन्दः सुनन्दः अथ जयः विजयः प्रबलः बलः। कुमुदः कुमुदाक्षः च विष्वक्सेनः पतत्त्रिराज्।
nandaḥ sunandaḥ atha jayaḥ vijayaḥ prabalaḥ balaḥ. kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ patattrirāj.
जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः। सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् १७।
जयन्तः श्रुतदेवः च पुष्पदन्तः अथ सात्वतः। सर्वे नाग-अयुत-प्राणाः चमूम् ते जघ्नुः आसुरीम्।
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ. sarve nāga-ayuta-prāṇāḥ camūm te jaghnuḥ āsurīm.
हन्यमानान्स्वकान्दृष्ट्वा पुरुषानुचरैर्बलिः। वारयामास संरब्धान्काव्यशापमनुस्मरन् १८।
हन्यमानान् स्वकान् दृष्ट्वा पुरुष-अनुचरैः बलिः। वारयामास संरब्धान् काव्य-शापम् अनुस्मरन्।
hanyamānān svakān dṛṣṭvā puruṣa-anucaraiḥ baliḥ. vārayāmāsa saṃrabdhān kāvya-śāpam anusmaran.
हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः। मा युध्यत निवर्तध्वं न नः कालोऽयमर्थकृत् १९।
हे विप्रचित्ते हे राहो हे नेमे श्रूयताम् वचः। मा युध्यत निवर्तध्वम् न नः कालः अयम् अर्थ-कृत्।
he vipracitte he rāho he neme śrūyatām vacaḥ. mā yudhyata nivartadhvam na naḥ kālaḥ ayam artha-kṛt.
यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये। तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् २०।
यः प्रभुः सर्व-भूतानाम् सुख-दुःख-उपपत्तये। तम् न अतिवर्तितुम् दैत्याः पौरुषैः ईश्वरः पुमान्।
yaḥ prabhuḥ sarva-bhūtānām sukha-duḥkha-upapattaye. tam na ativartitum daityāḥ pauruṣaiḥ īśvaraḥ pumān.
यो नो भवाय प्रागासीदभवाय दिवौकसाम्। स एव भगवानद्य वर्तते तद्विपर्ययम् २१।
यः नः भवाय प्राक् आसीत् अभवाय दिवौकसाम्। सः एव भगवान् अद्य वर्तते तद्-विपर्ययम्।
yaḥ naḥ bhavāya prāk āsīt abhavāya divaukasām. saḥ eva bhagavān adya vartate tad-viparyayam.
बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः। सामादिभिरुपायैश्च कालं नात्येति वै जनः २२।
बलेन सचिवैः बुद्ध्या दुर्गैः मन्त्र-औषध-आदिभिः। साम-आदिभिः उपायैः च कालम् न अत्येति वै जनः।
balena sacivaiḥ buddhyā durgaiḥ mantra-auṣadha-ādibhiḥ. sāma-ādibhiḥ upāyaiḥ ca kālam na atyeti vai janaḥ.
भवद्भिर्निर्जिता ह्येते बहुशोऽनुचरा हरेः। दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः २३।
भवद्भिः निर्जिताः हि एते बहुशस् अनुचराः हरेः। दैवेन ऋद्धैः ते एवा अद्य युधि जित्वा नदन्ति नः।
bhavadbhiḥ nirjitāḥ hi ete bahuśas anucarāḥ hareḥ. daivena ṛddhaiḥ te evā adya yudhi jitvā nadanti naḥ.
एतान्वयं विजेष्यामो यदि दैवं प्रसीदति। तस्मात्कालं प्रतीक्षध्वं यो नोऽर्थत्वाय कल्पते २४।
एतान् वयम् विजेष्यामः यदि दैवम् प्रसीदति। तस्मात् कालम् प्रतीक्षध्वम् यः नः अर्थ-त्वाय कल्पते।
etān vayam vijeṣyāmaḥ yadi daivam prasīdati. tasmāt kālam pratīkṣadhvam yaḥ naḥ artha-tvāya kalpate.
श्रीशुक उवाच।
पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः। रसां निर्विविशू राजन्विष्णुपार्षद ताडिताः २५।
पत्युः निगदितम् श्रुत्वा दैत्य-दानव-यूथपाः। रसाम् निर्विविशुः राजन् विष्णु-पार्षद ताडिताः।
patyuḥ nigaditam śrutvā daitya-dānava-yūthapāḥ. rasām nirviviśuḥ rājan viṣṇu-pārṣada tāḍitāḥ.
अथ तार्क्ष्यसुतो ज्ञात्वा विराट्प्रभुचिकीर्षितम्। बबन्ध वारुणैः पाशैर्बलिं सूत्येऽहनि क्रतौ २६।
अथ तार्क्ष्य-सुतः ज्ञात्वा विराज्-प्रभु-चिकीर्षितम्। बबन्ध वारुणैः पाशैः बलिम् सूत्ये अहनि क्रतौ।
atha tārkṣya-sutaḥ jñātvā virāj-prabhu-cikīrṣitam. babandha vāruṇaiḥ pāśaiḥ balim sūtye ahani kratau.
हाहाकारो महानासीद्रोदस्योः सर्वतो दिशम्। निगृह्यमाणेऽसुरपतौ विष्णुना प्रभविष्णुना २७।
हाहाकारः महान् आसीत् रोदस्योः सर्वतस् दिशम्। निगृह्यमाणे असुरपतौ विष्णुना प्रभविष्णुना।
hāhākāraḥ mahān āsīt rodasyoḥ sarvatas diśam. nigṛhyamāṇe asurapatau viṣṇunā prabhaviṣṇunā.
तं बद्धं वारुणैः पाशैर्भगवानाह वामनः। नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप २८।
तम् बद्धम् वारुणैः पाशैः भगवान् आह वामनः। नष्ट-श्रियम् स्थिर-प्रज्ञम् उदार-यशसम् नृप।
tam baddham vāruṇaiḥ pāśaiḥ bhagavān āha vāmanaḥ. naṣṭa-śriyam sthira-prajñam udāra-yaśasam nṛpa.
पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर। द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय २९।
पदानि त्रीणि दत्तानि भूमेः मह्यम् त्वया असुर। द्वाभ्याम् क्रान्ता मही सर्वा तृतीयम् उपकल्पय।
padāni trīṇi dattāni bhūmeḥ mahyam tvayā asura. dvābhyām krāntā mahī sarvā tṛtīyam upakalpaya.
यावत्तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः। यावद्वर्षति पर्जन्यस्तावती भूरियं तव ३०।
यावत् तपति असौ गोभिः यावत् इन्दुः सह उडुभिः। यावत् वर्षति पर्जन्यः तावती भूः इयम् तव।
yāvat tapati asau gobhiḥ yāvat induḥ saha uḍubhiḥ. yāvat varṣati parjanyaḥ tāvatī bhūḥ iyam tava.
पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः। स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ३१।
पद-एकेन मया आक्रान्तः भूर्लोकः खम् दिशः तनोः। स्वर् लोकः ते द्वितीयेन पश्यतः ते स्वम् आत्मना।
pada-ekena mayā ākrāntaḥ bhūrlokaḥ kham diśaḥ tanoḥ. svar lokaḥ te dvitīyena paśyataḥ te svam ātmanā.
प्रतिश्रुतमदातुस्ते निरये वास इष्यते। विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ३२।
प्रतिश्रुतम् अदातुः ते निरये वासः इष्यते। विश त्वम् निरयम् तस्मात् गुरुणा च अनुमोदितः।
pratiśrutam adātuḥ te niraye vāsaḥ iṣyate. viśa tvam nirayam tasmāt guruṇā ca anumoditaḥ.
वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्यधः। प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ३३।
वृथा मनोरथः तस्य दूरः स्वर्गः पतति अधस्। प्रतिश्रुतस्य अदानेन यः अर्थिनम् विप्रलम्भते।
vṛthā manorathaḥ tasya dūraḥ svargaḥ patati adhas. pratiśrutasya adānena yaḥ arthinam vipralambhate.
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना। तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित्समाः ३४।
विप्रलब्धः ददामि इति त्वया अहम् च आढ्य-मानिना। तद्-व्यलीक-फलम् भुङ्क्ष्व निरयम् कतिचिद् समाः।
vipralabdhaḥ dadāmi iti tvayā aham ca āḍhya-māninā. tad-vyalīka-phalam bhuṅkṣva nirayam katicid samāḥ.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे वामनप्रादुर्भावे बलिनिग्रहः नाम एकविंशः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe vāmanaprādurbhāve balinigrahaḥ nāma ekaviṃśaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In