| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच -
भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः । अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥
भगवन् श्रोतुम् इच्छामि हरेः अद्भुत-कर्मणः । अवतार-कथाम् आद्याम् माया-मत्स्य-विडम्बनम् ॥ १ ॥
bhagavan śrotum icchāmi hareḥ adbhuta-karmaṇaḥ . avatāra-kathām ādyām māyā-matsya-viḍambanam .. 1 ..
यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् । तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥
यद्-अर्थम् अदधात् रूपम् मात्स्यम् लोक-जुगुप्सितम् । तमः-प्रकृति-दुर्मर्षम् कर्म-ग्रस्तः इव ईश्वरः ॥ २ ॥
yad-artham adadhāt rūpam mātsyam loka-jugupsitam . tamaḥ-prakṛti-durmarṣam karma-grastaḥ iva īśvaraḥ .. 2 ..
एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि । उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥
एतत् नः भगवन् सर्वम् यथावत् वक्तुम् अर्हसि । सर्व ॥ ३ ॥
etat naḥ bhagavan sarvam yathāvat vaktum arhasi . sarva .. 3 ..
श्रीसूत उवाच -
इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः । उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम् ॥ ४ ॥
इति उक्तः विष्णुरातेन भगवान् बान् बादरायणिः । उवाच चरितम् विष्णोः मत्स्य-रूपेण यत् कृतम् ॥ ४ ॥
iti uktaḥ viṣṇurātena bhagavān bān bādarāyaṇiḥ . uvāca caritam viṣṇoḥ matsya-rūpeṇa yat kṛtam .. 4 ..
श्रीशुक उवाच -
गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥
गो विप्र-सुर-साधूनाम् छन्दसाम् अपि च ईश्वरः । रक्षाम् इच्छन् तनु धत्ते धर्मस्य अर्थस्य च एव हि ॥ ५ ॥
go vipra-sura-sādhūnām chandasām api ca īśvaraḥ . rakṣām icchan tanu dhatte dharmasya arthasya ca eva hi .. 5 ..
उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६ ॥
उच्चावचेषु भूतेषु चरन् वायुः इव ईश्वरः । न उच्चावच-त्वम् भजते निर्गुण-त्वात् धियः गुणैः ॥ ६ ॥
uccāvaceṣu bhūteṣu caran vāyuḥ iva īśvaraḥ . na uccāvaca-tvam bhajate nirguṇa-tvāt dhiyaḥ guṇaiḥ .. 6 ..
आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥
आसीत् अतीत-कल्प-अन्ते ब्राह्मः नैमित्तिकः लयः । समुद्र-उपप्लुताः तत्र लोकाः भूः आदयः नृप ॥ ७ ॥
āsīt atīta-kalpa-ante brāhmaḥ naimittikaḥ layaḥ . samudra-upaplutāḥ tatra lokāḥ bhūḥ ādayaḥ nṛpa .. 7 ..
कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥
कालेन आगत-निद्रस्य धातुः शिशयिषोः बली । मुखतः निःसृतान् वेदान् हयग्रीवः अन्तिके अहरत् ॥ ८ ॥
kālena āgata-nidrasya dhātuḥ śiśayiṣoḥ balī . mukhataḥ niḥsṛtān vedān hayagrīvaḥ antike aharat .. 8 ..
ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥
ज्ञात्वा तत् दानव-इन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरी-रूपम् भगवान् हरिः ईश्वरः ॥ ९ ॥
jñātvā tat dānava-indrasya hayagrīvasya ceṣṭitam . dadhāra śapharī-rūpam bhagavān hariḥ īśvaraḥ .. 9 ..
तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् । नारायणपरोऽतप्यत् तपः स सलिलाशनः ॥ १० ॥
तत्र राज-ऋषिः कश्चिद् नाम्ना सत्यव्रतः महान् । नारायण-परः अतप्यत् तपः स सलिल-अशनः ॥ १० ॥
tatra rāja-ṛṣiḥ kaścid nāmnā satyavrataḥ mahān . nārāyaṇa-paraḥ atapyat tapaḥ sa salila-aśanaḥ .. 10 ..
योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः । श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११ ॥
यः असौ अस्मिन् महा-कल्पे तनयः स विवस्वतः । श्राद्धदेवः इति ख्यातः मनु-त्वे हरिणा अर्पितः ॥ ११ ॥
yaḥ asau asmin mahā-kalpe tanayaḥ sa vivasvataḥ . śrāddhadevaḥ iti khyātaḥ manu-tve hariṇā arpitaḥ .. 11 ..
एकदा कृतमालायां कुर्वतो जलतर्पणम् । तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत ॥ १२ ॥
एकदा कृतमालायाम् कुर्वतः जल-तर्पणम् । तस्य अञ्जलि उदके काचिद् शफरी एका अभ्यपद्यत ॥ १२ ॥
ekadā kṛtamālāyām kurvataḥ jala-tarpaṇam . tasya añjali udake kācid śapharī ekā abhyapadyata .. 12 ..
सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥
सत्यव्रतः अञ्जलि-गताम् सह तोयेन भारत । उत्ससर्ज नदी-तोये शफरीम् द्रविड-ईश्वरः ॥ १३ ॥
satyavrataḥ añjali-gatām saha toyena bhārata . utsasarja nadī-toye śapharīm draviḍa-īśvaraḥ .. 13 ..
तं आह सातिकरुणं महाकारुणिकं नृपम् । यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥
तम् आह स अति करुणम् महा-कारुणिकम् नृपम् । यादोभ्यः ज्ञाति-घातिभ्यः दीनाम् माम् दीन-वत्सल । कथम् विसृजसे राजन् भीताम् अस्मिन् सरित्-जले ॥ १४ ॥
tam āha sa ati karuṇam mahā-kāruṇikam nṛpam . yādobhyaḥ jñāti-ghātibhyaḥ dīnām mām dīna-vatsala . katham visṛjase rājan bhītām asmin sarit-jale .. 14 ..
तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥
तम् आत्मनः अनुग्रह-अर्थम् प्रीत्या मत्स्य-वपुः-धरम् । अ जानन् रक्षण-अर्थाय शफर्याः स मनः दधे ॥ १५ ॥
tam ātmanaḥ anugraha-artham prītyā matsya-vapuḥ-dharam . a jānan rakṣaṇa-arthāya śapharyāḥ sa manaḥ dadhe .. 15 ..
तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः । कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥
तस्याः दीनतरम् वाक्यम् आश्रुत्य स महीपतिः । कलश-अप्सु निधाय एनाम् दयालुः निन्ये आश्रमम् ॥ १६ ॥
tasyāḥ dīnataram vākyam āśrutya sa mahīpatiḥ . kalaśa-apsu nidhāya enām dayāluḥ ninye āśramam .. 16 ..
सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥
सा तु तत्र एक-रात्रेण वर्धमाना कमण्डलौ । अ लब्ध्वा आत्म-अवकाशम् वा इदम् आह महीपतिम् ॥ १७ ॥
sā tu tatra eka-rātreṇa vardhamānā kamaṇḍalau . a labdhvā ātma-avakāśam vā idam āha mahīpatim .. 17 ..
नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥
न अहम् कमण्डलौ कृच्छ्रम् वस्तुम् इह उत्सहे । कल्पय ओकः सु विपुलम् यत्र अहम् निवसे सुखम् ॥ १८ ॥
na aham kamaṇḍalau kṛcchram vastum iha utsahe . kalpaya okaḥ su vipulam yatra aham nivase sukham .. 18 ..
स एनां तत आदाय न्यधादौदञ्चनोदके । तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥
सः एनाम् ततस् आदाय न्यधात् औदञ्चन-उदके । तत्र क्षिप्ता मुहूर्तेन हस्त-त्रयम् अवर्धत ॥ १९ ॥
saḥ enām tatas ādāya nyadhāt audañcana-udake . tatra kṣiptā muhūrtena hasta-trayam avardhata .. 19 ..
न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २० ॥
न मे एतत् अलम् राजन् सुखम् वस्तुम् उदञ्चनम् । पृथु देहि पदम् मह्यम् यत् त्वा अहम् शरणम् गता ॥ २० ॥
na me etat alam rājan sukham vastum udañcanam . pṛthu dehi padam mahyam yat tvā aham śaraṇam gatā .. 20 ..
तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥
ततस् आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तत् आवृत्य आत्मना सः अयम् महा-मीनः अन्ववर्धत ॥ २१ ॥
tatas ādāya sā rājñā kṣiptā rājan sarovare . tat āvṛtya ātmanā saḥ ayam mahā-mīnaḥ anvavardhata .. 21 ..
नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः । निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥
न एतत् मे स्वस्तये राजन् उदकम् सलिलौकसः । निधेहि रक्षा-योगेन ह्रदे माम् अविदासिनि ॥ २२ ॥
na etat me svastaye rājan udakam salilaukasaḥ . nidhehi rakṣā-yogena hrade mām avidāsini .. 22 ..
इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि । जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥
इति उक्तः सः अनयत् मत्स्यम् तत्र तत्र अविदासिनि । जलाशये असम्मितम् तम् समुद्रे प्राक्षिपत् झषम् ॥ २३ ॥
iti uktaḥ saḥ anayat matsyam tatra tatra avidāsini . jalāśaye asammitam tam samudre prākṣipat jhaṣam .. 23 ..
क्षिप्यमाणस्तमाहेदं इह मां मकरादयः । अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥
क्षिप्यमाणः तम् आह इदम् इह माम् मकर-आदयः । अदन्ति अतिबलाः वीर माम् न इह उत्स्रष्टुम् अर्हसि ॥ २४ ॥
kṣipyamāṇaḥ tam āha idam iha mām makara-ādayaḥ . adanti atibalāḥ vīra mām na iha utsraṣṭum arhasi .. 24 ..
एवं विमोहितस्तेन वदता वल्गुभारतीम् । तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥
एवम् विमोहितः तेन वदता वल्गु-भारतीम् । तम् आह कः भवान् अस्मान् मत्स्य-रूपेण मोहयन् ॥ २५ ॥
evam vimohitaḥ tena vadatā valgu-bhāratīm . tam āha kaḥ bhavān asmān matsya-rūpeṇa mohayan .. 25 ..
नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा । यो भवान् योजनशतं अह्नाभिव्यानशे सरः ॥ २६ ॥
न एवम् वीर्यः जलचरः दृष्टः अस्माभिः श्रुतः अपि वा । यः भवान् योजन-शतम् अह्ना अभिव्यानशे सरः ॥ २६ ॥
na evam vīryaḥ jalacaraḥ dṛṣṭaḥ asmābhiḥ śrutaḥ api vā . yaḥ bhavān yojana-śatam ahnā abhivyānaśe saraḥ .. 26 ..
नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥
नूनम् त्वम् भगवान् साक्षात् हरिः नारायणः अव्ययः । अनुग्रहाय भूतानाम् धत्से रूपम् जलौकसाम् ॥ २७ ॥
nūnam tvam bhagavān sākṣāt hariḥ nārāyaṇaḥ avyayaḥ . anugrahāya bhūtānām dhatse rūpam jalaukasām .. 27 ..
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥
नमः ते पुरुष-श्रेष्ठ स्थिति-उत्पत्ति-अप्यय-ईश्वर । भक्तानाम् नः प्रपन्नानाम् मुख्यः हि आत्म-गतिः विभो ॥ २८ ॥
namaḥ te puruṣa-śreṣṭha sthiti-utpatti-apyaya-īśvara . bhaktānām naḥ prapannānām mukhyaḥ hi ātma-gatiḥ vibho .. 28 ..
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥
सर्वे लीलावताराः ते भूतानाम् भूति-हेतवः । ज्ञातुम् इच्छामि अदः रूपम् यद्-अर्थम् भवता धृतम् ॥ २९ ॥
sarve līlāvatārāḥ te bhūtānām bhūti-hetavaḥ . jñātum icchāmi adaḥ rūpam yad-artham bhavatā dhṛtam .. 29 ..
न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत् प्रियात्मनः । यथेतरेषां पृथगात्मनां सतां अदीदृशो यद्वपुरद्भुतं हि नः ॥ ३० ॥
न ते अरविन्द-अक्ष पद-उपसर्पणम् मृषा भवेत् सर्व-सुहृद् प्रिय-आत्मनः । यथा इतरेषाम् पृथक् आत्मनाम् सताम् अदीदृशः यत् वपुः अद्भुतम् हि नः ॥ ३० ॥
na te aravinda-akṣa pada-upasarpaṇam mṛṣā bhavet sarva-suhṛd priya-ātmanaḥ . yathā itareṣām pṛthak ātmanām satām adīdṛśaḥ yat vapuḥ adbhutam hi naḥ .. 30 ..
यथेतरेषां पृथगात्मनां सतां अदीदृशो यद्वपुरद्भुतं हि नः ॥ ३० ॥
यथा इतरेषाम् पृथक् आत्मनाम् सताम् अदीदृशः यत् वपुः अद्भुतम् हि नः ॥ ३० ॥
yathā itareṣām pṛthak ātmanām satām adīdṛśaḥ yat vapuḥ adbhutam hi naḥ .. 30 ..
श्रीशुक उवाच -
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवेऽब्रवीत् चिकीर्षुः एकान्तजनप्रियः प्रियम् ॥ ३१ ॥
इति ब्रुवाणम् नृपतिम् जगत्पतिः सत्यव्रतम् मत्स्य-वपुः-युग-क्षये । विहर्तु-कामः प्रलय-अर्णवे अब्रवीत् चिकीर्षुः एकान्त-जन-प्रियः प्रियम् ॥ ३१ ॥
iti bruvāṇam nṛpatim jagatpatiḥ satyavratam matsya-vapuḥ-yuga-kṣaye . vihartu-kāmaḥ pralaya-arṇave abravīt cikīrṣuḥ ekānta-jana-priyaḥ priyam .. 31 ..
श्रीभगवानुवाच - (अनुष्टुप्)
सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम । निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥
सप्तमे हि अद्यतनात् ऊर्ध्वम् अहनि एतत् अरिन्दम । निमंक्ष्यति अप्यय-अम्भोधौ त्रैलोक्यम् भूर्भुव-आदिकम् ॥ ३२ ॥
saptame hi adyatanāt ūrdhvam ahani etat arindama . nimaṃkṣyati apyaya-ambhodhau trailokyam bhūrbhuva-ādikam .. 32 ..
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥
त्रिलोक्याम् लीयमानायाम् संवर्त-अम्भसि वै तदा । उपस्थास्यति नौः काचिद् विशाला त्वाम् मया ईरिता ॥ ३३ ॥
trilokyām līyamānāyām saṃvarta-ambhasi vai tadā . upasthāsyati nauḥ kācid viśālā tvām mayā īritā .. 33 ..
त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४ ॥
त्वम् तावत् ओषधीः सर्वाः बीजानि उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्व-सत्त्व-उपबृंहितः ॥ ३४ ॥
tvam tāvat oṣadhīḥ sarvāḥ bījāni uccāvacāni ca . saptarṣibhiḥ parivṛtaḥ sarva-sattva-upabṛṃhitaḥ .. 34 ..
आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः । एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥
आरुह्य बृहतीम् नावम् विचरिष्यसि अविक्लवः । एकार्णवे निरालोके ऋषीणाम् एव वर्चसा ॥ ३५ ॥
āruhya bṛhatīm nāvam vicariṣyasi aviklavaḥ . ekārṇave nirāloke ṛṣīṇām eva varcasā .. 35 ..
दोधूयमानां तां नावं समीरेण बलीयसा । उपस्थितस्य मे शृंगे निबध्नीहि महाहिना ॥ ३६ ॥
दोधूयमानाम् ताम् नावम् समीरेण बलीयसा । उपस्थितस्य मे शृंगे निबध्नीहि महा-अहिना ॥ ३६ ॥
dodhūyamānām tām nāvam samīreṇa balīyasā . upasthitasya me śṛṃge nibadhnīhi mahā-ahinā .. 36 ..
अहं त्वां ऋषिभिः साकं सहनावमुदन्वति । विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ ३७ ॥
अहम् त्वाम् ऋषिभिः साकम् सह नावम् उदन्वति । विकर्षन् विचरिष्यामि यावत् ब्राह्मी निशा प्रभो ॥ ३७ ॥
aham tvām ṛṣibhiḥ sākam saha nāvam udanvati . vikarṣan vicariṣyāmi yāvat brāhmī niśā prabho .. 37 ..
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥ ३८ ॥
मदीयम् महिमानम् च परम् ब्रह्म इति शब्दितम् । वेत्स्यसि अनुगृहीतम् मे संप्रश्नैः विवृतम् हृदि ॥ ३८ ॥
madīyam mahimānam ca param brahma iti śabditam . vetsyasi anugṛhītam me saṃpraśnaiḥ vivṛtam hṛdi .. 38 ..
इत्थमादिश्य राजानं हरिरन्तरधीयत । सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥
इत्थम् आदिश्य राजानम् हरिः अन्तरधीयत । सः अन्ववैक्षत तम् कालम् यम् हृषीकेशः आदिशत् ॥ ३९ ॥
ittham ādiśya rājānam hariḥ antaradhīyata . saḥ anvavaikṣata tam kālam yam hṛṣīkeśaḥ ādiśat .. 39 ..
आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥
आस्तीर्य दर्भान् प्राच्-कूलान् राजर्षिः प्राच्-उदंमुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्य-रूपिणः ॥ ४० ॥
āstīrya darbhān prāc-kūlān rājarṣiḥ prāc-udaṃmukhaḥ . niṣasāda hareḥ pādau cintayan matsya-rūpiṇaḥ .. 40 ..
ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । वर्धमानो महामेघैः वर्षद्भिः समदृश्यत ॥ ४१ ॥
ततस् समुद्रः उद्वेलः सर्वतस् प्लावयन् महीम् । वर्धमानः महा-मेघैः वर्षद्भिः समदृश्यत ॥ ४१ ॥
tatas samudraḥ udvelaḥ sarvatas plāvayan mahīm . vardhamānaḥ mahā-meghaiḥ varṣadbhiḥ samadṛśyata .. 41 ..
ध्यायन् भगवदादेशं ददृशे नावमागताम् । तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः ॥ ४२ ॥
ध्यायन् भगवत्-आदेशम् ददृशे नावम् आगताम् । ताम् आरुरोह विप्र-इन्द्रैः आदाय ओषधि-वीरुधः ॥ ४२ ॥
dhyāyan bhagavat-ādeśam dadṛśe nāvam āgatām . tām āruroha vipra-indraiḥ ādāya oṣadhi-vīrudhaḥ .. 42 ..
तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । स वै नः संक्स्द् अस्माद् अविता शं विधास्यति ॥ ४३ ॥
तम् ऊचुः मुनयः प्रीताः राजन् ध्यायस्व केशवम् । स वै नः अस्मात् अविता शम् विधास्यति ॥ ४३ ॥
tam ūcuḥ munayaḥ prītāḥ rājan dhyāyasva keśavam . sa vai naḥ asmāt avitā śam vidhāsyati .. 43 ..
सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । एकशृंगधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥
सः अनुध्यातः ततस् राज्ञा प्रादुरासीत् महा-अर्णवे । एक-शृंग-धरः मत्स्यः हैमः नियुत-योजनः ॥ ४४ ॥
saḥ anudhyātaḥ tatas rājñā prādurāsīt mahā-arṇave . eka-śṛṃga-dharaḥ matsyaḥ haimaḥ niyuta-yojanaḥ .. 44 ..
निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा । वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥
निबध्य नावम् तत् श्रृंगे यथा उक्तः हरिणा पुरा । वरत्रेण अहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥
nibadhya nāvam tat śrṛṃge yathā uktaḥ hariṇā purā . varatreṇa ahinā tuṣṭaḥ tuṣṭāva madhusūdanam .. 45 ..
श्रीराजोवाच -
अनाद्यविद्योपहतात्मसंविदः तन्मूलसंसारपरिश्रमातुराः । यदृच्छयेहोपसृता यमाप्नुयुः विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥
अनाद्य-विद्या-उपहत-आत्म-संविदः तद्-मूल-संसार-परिश्रम-आतुराः । यदृच्छया इह उपसृताः यम् आप्नुयुः विमुक्ति-दः नः परमः गुरुः भवान् ॥ ४६ ॥
anādya-vidyā-upahata-ātma-saṃvidaḥ tad-mūla-saṃsāra-pariśrama-āturāḥ . yadṛcchayā iha upasṛtāḥ yam āpnuyuḥ vimukti-daḥ naḥ paramaḥ guruḥ bhavān .. 46 ..
जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम् । यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः ॥ ४७ ॥
जनः अबुधः अयम् निज-कर्म-बन्धनः सुख-इच्छया कर्म समीहते असुखम् । यद्-सेवया ताम् विधुनोति असन्मतिम् ग्रन्थिम् स भिन्द्यात् हृदयम् स नः गुरुः ॥ ४७ ॥
janaḥ abudhaḥ ayam nija-karma-bandhanaḥ sukha-icchayā karma samīhate asukham . yad-sevayā tām vidhunoti asanmatim granthim sa bhindyāt hṛdayam sa naḥ guruḥ .. 47 ..
यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः । भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥
यद्-सेवया अग्नेः इव रुद्र-रोदनम् पुमान् विजह्यात् मलम् आत्मनः तमः । भजेत वर्णम् निजम् एष सः अव्ययः भूयात् सः ईशः परमः गुरोः गुरुः ॥ ४८ ॥
yad-sevayā agneḥ iva rudra-rodanam pumān vijahyāt malam ātmanaḥ tamaḥ . bhajeta varṇam nijam eṣa saḥ avyayaḥ bhūyāt saḥ īśaḥ paramaḥ guroḥ guruḥ .. 48 ..
न यत्प्रसादायुतभागलेशं अन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसः तं ईश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥
न यद्-प्रसाद-अयुत-भाग-लेशम् अन्ये च देवाः गुरवः जनाः स्वयम् । कर्तुम् समेताः प्रभवन्ति पुंसः तम् ईश्वरम् त्वाम् शरणम् प्रपद्ये ॥ ४९ ॥
na yad-prasāda-ayuta-bhāga-leśam anye ca devāḥ guravaḥ janāḥ svayam . kartum sametāḥ prabhavanti puṃsaḥ tam īśvaram tvām śaraṇam prapadye .. 49 ..
अचक्षुरन्धस्य यथाग्रणीः कृतः तथा जनस्याविदुषोऽबुधो गुरुः । त्वं अर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५० ॥
अ चक्षुः-अन्धस्य यथा अग्रणीः कृतः तथा जनस्य अ विदुषः अबुधः गुरुः । त्वम् अर्क-दृश् सर्व-दृशाम् समीक्षणः वृतः गुरुः नः स्व-गतिम् बुभुत्सताम् ॥ ५० ॥
a cakṣuḥ-andhasya yathā agraṇīḥ kṛtaḥ tathā janasya a viduṣaḥ abudhaḥ guruḥ . tvam arka-dṛś sarva-dṛśām samīkṣaṇaḥ vṛtaḥ guruḥ naḥ sva-gatim bubhutsatām .. 50 ..
जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः । त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥
जनः जनस्य आदिशते असतीम् गतिम् यया प्रपद्येत दुरत्ययम् तमः । त्वम् तु अव्ययम् ज्ञानम् अमोघम् अञ्जसा प्रपद्यते येन जनः निजम् पदम् ॥ ५१ ॥
janaḥ janasya ādiśate asatīm gatim yayā prapadyeta duratyayam tamaḥ . tvam tu avyayam jñānam amogham añjasā prapadyate yena janaḥ nijam padam .. 51 ..
त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः । तथापि लोको न भवन्तमन्धधीः जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥
त्वम् सर्व-लोकस्य सुहृद् प्रिय-ईश्वरः हि आत्मा गुरुः ज्ञानम् अभीष्ट-सिद्धिः । तथा अपि लोकः न भवन्तम् अन्ध-धीः जानाति सन्तम् हृदि बद्ध-कामः ॥ ५२ ॥
tvam sarva-lokasya suhṛd priya-īśvaraḥ hi ātmā guruḥ jñānam abhīṣṭa-siddhiḥ . tathā api lokaḥ na bhavantam andha-dhīḥ jānāti santam hṛdi baddha-kāmaḥ .. 52 ..
तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय । छिन्ध्यर्थदीपैर्भगवन् वचोभिः ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३ ॥
तम् त्वाम् अहम् देव-वरम् वरेण्यम् प्रपद्ये ईशम् प्रतिबोधनाय । छिन्धि अर्थ-दीपैः भगवन् वचोभिः ग्रन्थीन् हृदय्यान् विवृणु स्व-मोकः ॥ ५३ ॥
tam tvām aham deva-varam vareṇyam prapadye īśam pratibodhanāya . chindhi artha-dīpaiḥ bhagavan vacobhiḥ granthīn hṛdayyān vivṛṇu sva-mokaḥ .. 53 ..
श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः । मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत् ॥ ५४ ॥
इति उक्तवन्तम् नृपतिम् भगवान् आदिपूरुषः । मत्स्य-रूपी महा-अम्भोधौ विहरन् तत्त्वम् अब्रवीत् ॥ ५४ ॥
iti uktavantam nṛpatim bhagavān ādipūruṣaḥ . matsya-rūpī mahā-ambhodhau viharan tattvam abravīt .. 54 ..
पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् । सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः ॥ ५५ ॥
पुराण-संहिताम् दिव्याम् सांख्य-योग-क्रियावतीम् । सत्यव्रतस्य राजर्षेः आत्म-गुह्यम् अशेषतस् ॥ ५५ ॥
purāṇa-saṃhitām divyām sāṃkhya-yoga-kriyāvatīm . satyavratasya rājarṣeḥ ātma-guhyam aśeṣatas .. 55 ..
अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् । नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥
अश्रौषीत् ऋषिभिः साकम् आत्म-तत्त्वम् असंशयम् । न अ व्यासीनः भगवता प्रोक्तम् ब्रह्म सनातनम् ॥ ५६ ॥
aśrauṣīt ṛṣibhiḥ sākam ātma-tattvam asaṃśayam . na a vyāsīnaḥ bhagavatā proktam brahma sanātanam .. 56 ..
अतीतप्रलयापाय उत्थिताय स वेधसे । हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ॥ ५७ ॥
अतीत-प्रलय-अपाये उत्थिताय स वेधसे । हत्वा असुरम् हयग्रीवम् वेदान् प्रत्याहरत् हरिः ॥ ५७ ॥
atīta-pralaya-apāye utthitāya sa vedhase . hatvā asuram hayagrīvam vedān pratyāharat hariḥ .. 57 ..
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादात् कल्पेऽस्मिन् आसीत् वैवस्वतो मनुः ॥ ५८ ॥
स तु सत्यव्रतः राजा ज्ञान-विज्ञान-संयुतः । विष्णोः प्रसादात् कल्पे अस्मिन् आसीत् वैवस्वतः मनुः ॥ ५८ ॥
sa tu satyavrataḥ rājā jñāna-vijñāna-saṃyutaḥ . viṣṇoḥ prasādāt kalpe asmin āsīt vaivasvataḥ manuḥ .. 58 ..
सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्गिणः । संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥
सत्यव्रतस्य राजर्षेः माया-मत्स्यस्य शार्ङ्गिणः । संवादम् महत् आख्यानम् श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥
satyavratasya rājarṣeḥ māyā-matsyasya śārṅgiṇaḥ . saṃvādam mahat ākhyānam śrutvā mucyeta kilbiṣāt .. 59 ..
अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः । संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥
अवतारम् हरेः यः अयम् कीर्तयेत् अन्वहम् नरः । संकल्पाः तस्य सिध्यन्ति स याति परमाम् गतिम् ॥ ६० ॥
avatāram hareḥ yaḥ ayam kīrtayet anvaham naraḥ . saṃkalpāḥ tasya sidhyanti sa yāti paramām gatim .. 60 ..
प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमकथयद् यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥
प्रलय-पयसि धातुः सुप्त-शक्तेः मुखेभ्यः श्रुति-गणम् अपनीतम् प्रत्युपादत्त हत्वा । दितिजम् अकथयत् यः ब्रह्म सत्य-व्रतानाम् तम् अहम् अखिल-हेतुम् जिह्ममीनम् नतः अस्मि ॥ ६१ ॥
pralaya-payasi dhātuḥ supta-śakteḥ mukhebhyaḥ śruti-gaṇam apanītam pratyupādatta hatvā . ditijam akathayat yaḥ brahma satya-vratānām tam aham akhila-hetum jihmamīnam nataḥ asmi .. 61 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं चतुर्विंशोऽध्यायः ॥ २४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे मत्यावतारचरितानुवर्णनम् चतुर्विंशः अध्यायः ॥ २४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe matyāvatāracaritānuvarṇanam caturviṃśaḥ adhyāyaḥ .. 24 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In