| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच -
भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः । अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ १ ॥
bhagavan śrotumicchāmi hareradbhutakarmaṇaḥ . avatārakathāmādyāṃ māyāmatsyaviḍambanam .. 1 ..
यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् । तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ २ ॥
yadarthamadadhād rūpaṃ mātsyaṃ lokajugupsitam . tamaḥprakṛtidurmarṣaṃ karmagrasta iveśvaraḥ .. 2 ..
एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि । उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ ३ ॥
etanno bhagavansarvaṃ yathāvadvaktumarhasi . uttamaślokacaritaṃ sarvalokasukhāvaham .. 3 ..
श्रीसूत उवाच -
इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः । उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम् ॥ ४ ॥
ityukto viṣṇurātena bhagavān bānbādarāyaṇiḥ . uvāca caritaṃ viṣṇoḥ matsyarūpeṇa yatkṛtam .. 4 ..
श्रीशुक उवाच -
गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि ॥ ५ ॥
goviprasurasādhūnāṃ chandasāmapi ceśvaraḥ . rakṣāṃ icchan tanu dhatte dharmasyārthasya caiva hi .. 5 ..
उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ ६ ॥
uccāvaceṣu bhūteṣu caran vāyuriveśvaraḥ . noccāvacatvaṃ bhajate nirguṇatvāddhiyo guṇaiḥ .. 6 ..
आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ ७ ॥
āsīd atītakalpānte brāhmo naimittiko layaḥ . samudropaplutāstatra lokā bhūrādayo nṛpa .. 7 ..
कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत् ॥ ८ ॥
kālenāgatanidrasya dhātuḥ śiśayiṣorbalī . mukhato niḥsṛtān vedān hayagrīvo'ntike'harat .. 8 ..
ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ ९ ॥
jñātvā tad dānavendrasya hayagrīvasya ceṣṭitam . dadhāra śapharīrūpaṃ bhagavān harirīśvaraḥ .. 9 ..
तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् । नारायणपरोऽतप्यत् तपः स सलिलाशनः ॥ १० ॥
tatra rājaṛṣiḥ kaścit nāmnā satyavrato mahān . nārāyaṇaparo'tapyat tapaḥ sa salilāśanaḥ .. 10 ..
योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः । श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ ११ ॥
yo'sau asmin mahākalpe tanayaḥ sa vivasvataḥ . śrāddhadeva iti khyāto manutve hariṇārpitaḥ .. 11 ..
एकदा कृतमालायां कुर्वतो जलतर्पणम् । तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत ॥ १२ ॥
ekadā kṛtamālāyāṃ kurvato jalatarpaṇam . tasyāñjali udake kācit śapharyekābhyapadyata .. 12 ..
सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ १३ ॥
satyavrato'ñjaligatāṃ saha toyena bhārata . utsasarja nadītoye śapharīṃ draviḍeśvaraḥ .. 13 ..
तं आह सातिकरुणं महाकारुणिकं नृपम् । यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ १४ ॥
taṃ āha sātikaruṇaṃ mahākāruṇikaṃ nṛpam . yādobhyo jñātighātibhyo dīnāṃ māṃ dīnavatsala . kathaṃ visṛjase rājan bhītāmasmin sarijjale .. 14 ..
तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ १५ ॥
tamātmano'nugrahārthaṃ prītyā matsyavapurdharam . ajānan rakṣaṇārthāya śapharyāḥ sa mano dadhe .. 15 ..
तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः । कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ १६ ॥
tasyā dīnataraṃ vākyaṃ āśrutya sa mahīpatiḥ . kalaśāpsu nidhāyaināṃ dayālurninya āśramam .. 16 ..
सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम् ॥ १७ ॥
sā tu tatraikarātreṇa vardhamānā kamaṇḍalau . alabdhvā''tmāvakāśaṃ vā idamāha mahīpatim .. 17 ..
नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ १८ ॥
nāhaṃ kamaṇḍalau avasmin kṛcchraṃ vastumihotsahe . kalpayaukaḥ suvipulaṃ yatrāhaṃ nivase sukham .. 18 ..
स एनां तत आदाय न्यधादौदञ्चनोदके । तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ १९ ॥
sa enāṃ tata ādāya nyadhādaudañcanodake . tatra kṣiptā muhūrtena hastatrayamavardhata .. 19 ..
न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता ॥ २० ॥
na me etad alaṃ rājan sukhaṃ vastumudañcanam . pṛthu dehi padaṃ mahyaṃ yattvāhaṃ śaraṇaṃ gatā .. 20 ..
तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत ॥ २१ ॥
tata ādāya sā rājñā kṣiptā rājan sarovare . tad āvṛtyātmanā so'yaṃ mahāmīno'nvavardhata .. 21 ..
नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः । निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ २२ ॥
naitanme svastaye rājan udakaṃ salilaukasaḥ . nidhehi rakṣāyogena hrade māmavidāsini .. 22 ..
इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि । जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम् ॥ २३ ॥
ityuktaḥ so'nayanmatsyaṃ tatra tatrāvidāsini . jalāśaye'sammitaṃ taṃ samudre prākṣipajjhaṣam .. 23 ..
क्षिप्यमाणस्तमाहेदं इह मां मकरादयः । अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ २४ ॥
kṣipyamāṇastamāhedaṃ iha māṃ makarādayaḥ . adantyatibalā vīra māṃ nehotsraṣṭumarhasi .. 24 ..
एवं विमोहितस्तेन वदता वल्गुभारतीम् । तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ २५ ॥
evaṃ vimohitastena vadatā valgubhāratīm . tamāha ko bhavān asmān matsyarūpeṇa mohayan .. 25 ..
नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा । यो भवान् योजनशतं अह्नाभिव्यानशे सरः ॥ २६ ॥
naivaṃ vīryo jalacaro dṛṣṭo'smābhiḥ śruto'pi vā . yo bhavān yojanaśataṃ ahnābhivyānaśe saraḥ .. 26 ..
नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ २७ ॥
nūnaṃ tvaṃ bhagavān sākṣāt harirnārāyaṇo'vyayaḥ . anugrahāya bhūtānāṃ dhatse rūpaṃ jalaukasām .. 27 ..
नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २८ ॥
namaste puruṣaśreṣṭha sthityutpattyapyayeśvara . bhaktānāṃ naḥ prapannānāṃ mukhyo hyātmagatirvibho .. 28 ..
सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ २९ ॥
sarve līlāvatārāste bhūtānāṃ bhūtihetavaḥ . jñātumicchāmyado rūpaṃ yadarthaṃ bhavatā dhṛtam .. 29 ..
न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत् प्रियात्मनः । यथेतरेषां पृथगात्मनां सतां अदीदृशो यद्वपुरद्भुतं हि नः ॥ ३० ॥
na te'ravindākṣa padopasarpaṇaṃ mṛṣā bhavetsarvasuhṛt priyātmanaḥ . yathetareṣāṃ pṛthagātmanāṃ satāṃ adīdṛśo yadvapuradbhutaṃ hi naḥ .. 30 ..
यथेतरेषां पृथगात्मनां सतां अदीदृशो यद्वपुरद्भुतं हि नः ॥ ३० ॥
yathetareṣāṃ pṛthagātmanāṃ satāṃ adīdṛśo yadvapuradbhutaṃ hi naḥ .. 30 ..
श्रीशुक उवाच -
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवेऽब्रवीत् चिकीर्षुः एकान्तजनप्रियः प्रियम् ॥ ३१ ॥
iti bruvāṇaṃ nṛpatiṃ jagatpatiḥ satyavrataṃ matsyavapuryugakṣaye . vihartukāmaḥ pralayārṇave'bravīt cikīrṣuḥ ekāntajanapriyaḥ priyam .. 31 ..
श्रीभगवानुवाच - (अनुष्टुप्)
सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम । निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ ३२ ॥
saptame hyadyatanād ūrdhvaṃ ahanyetadarindama . nimaṃkṣyatyapyayāmbhodhau trailokyaṃ bhūrbhuvādikam .. 32 ..
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ ३३ ॥
trilokyāṃ līyamānāyāṃ saṃvartāmbhasi vai tadā . upasthāsyati nauḥ kācid viśālā tvāṃ mayeritā .. 33 ..
त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ ३४ ॥
tvaṃ tāvadoṣadhīḥ sarvā bījāni uccāvacāni ca . saptarṣibhiḥ parivṛtaḥ sarvasattvopabṛṃhitaḥ .. 34 ..
आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः । एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ ३५ ॥
āruhya bṛhatīṃ nāvaṃ vicariṣyasyaviklavaḥ . ekārṇave nirāloke ṛṣīṇāmeva varcasā .. 35 ..
दोधूयमानां तां नावं समीरेण बलीयसा । उपस्थितस्य मे शृंगे निबध्नीहि महाहिना ॥ ३६ ॥
dodhūyamānāṃ tāṃ nāvaṃ samīreṇa balīyasā . upasthitasya me śṛṃge nibadhnīhi mahāhinā .. 36 ..
अहं त्वां ऋषिभिः साकं सहनावमुदन्वति । विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ ३७ ॥
ahaṃ tvāṃ ṛṣibhiḥ sākaṃ sahanāvamudanvati . vikarṣan vicariṣyāmi yāvadbrāhmī niśā prabho .. 37 ..
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि ॥ ३८ ॥
madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam . vetsyasi anugṛhītaṃ me saṃpraśnairvivṛtaṃ hṛdi .. 38 ..
इत्थमादिश्य राजानं हरिरन्तरधीयत । सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ ३९ ॥
itthamādiśya rājānaṃ harirantaradhīyata . so'nvavaikṣata taṃ kālaṃ yaṃ hṛṣīkeśa ādiśat .. 39 ..
आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ ४० ॥
āstīrya darbhān prākkūlān rājarṣiḥ prāgudaṃmukhaḥ . niṣasāda hareḥ pādau cintayan matsyarūpiṇaḥ .. 40 ..
ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । वर्धमानो महामेघैः वर्षद्भिः समदृश्यत ॥ ४१ ॥
tataḥ samudra udvelaḥ sarvataḥ plāvayan mahīm . vardhamāno mahāmeghaiḥ varṣadbhiḥ samadṛśyata .. 41 ..
ध्यायन् भगवदादेशं ददृशे नावमागताम् । तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः ॥ ४२ ॥
dhyāyan bhagavadādeśaṃ dadṛśe nāvamāgatām . tāmāruroha viprendraiḥ ādāyauṣadhivīrudhaḥ .. 42 ..
तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । स वै नः संक्स्द् अस्माद् अविता शं विधास्यति ॥ ४३ ॥
taṃ ūcurmunayaḥ prītā rājan dhyāyasva keśavam . sa vai naḥ saṃksd asmād avitā śaṃ vidhāsyati .. 43 ..
सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । एकशृंगधरो मत्स्यो हैमो नियुतयोजनः ॥ ४४ ॥
so'nudhyātastato rājñā prādurāsīn mahārṇave . ekaśṛṃgadharo matsyo haimo niyutayojanaḥ .. 44 ..
निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा । वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम् ॥ ४५ ॥
nibadhya nāvaṃ tat śrṛṃge yathokto hariṇā purā . varatreṇāhinā tuṣṭaḥ tuṣṭāva madhusūdanam .. 45 ..
श्रीराजोवाच -
अनाद्यविद्योपहतात्मसंविदः तन्मूलसंसारपरिश्रमातुराः । यदृच्छयेहोपसृता यमाप्नुयुः विमुक्तिदो नः परमो गुरुर्भवान् ॥ ४६ ॥
anādyavidyopahatātmasaṃvidaḥ tanmūlasaṃsārapariśramāturāḥ . yadṛcchayehopasṛtā yamāpnuyuḥ vimuktido naḥ paramo gururbhavān .. 46 ..
जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम् । यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः ॥ ४७ ॥
jano'budho'yaṃ nijakarmabandhanaḥ sukhecchayā karma samīhate'sukham . yatsevayā tāṃ vidhunotyasanmatiṃ granthiṃ sa bhindyād hṛdayaṃ sa no guruḥ .. 47 ..
यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः । भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ ४८ ॥
yatsevayāgneriva rudrarodanaṃ pumān vijahyān malamātmanastamaḥ . bhajeta varṇaṃ nijameṣa so'vyayo bhūyāt sa īśaḥ paramo gurorguruḥ .. 48 ..
न यत्प्रसादायुतभागलेशं अन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसः तं ईश्वरं त्वां शरणं प्रपद्ये ॥ ४९ ॥
na yatprasādāyutabhāgaleśaṃ anye ca devā guravo janāḥ svayam . kartuṃ sametāḥ prabhavanti puṃsaḥ taṃ īśvaraṃ tvāṃ śaraṇaṃ prapadye .. 49 ..
अचक्षुरन्धस्य यथाग्रणीः कृतः तथा जनस्याविदुषोऽबुधो गुरुः । त्वं अर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ ५० ॥
acakṣurandhasya yathāgraṇīḥ kṛtaḥ tathā janasyāviduṣo'budho guruḥ . tvaṃ arkadṛk sarvadṛśāṃ samīkṣaṇo vṛto gururnaḥ svagatiṃ bubhutsatām .. 50 ..
जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः । त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ ५१ ॥
jano janasyādiśate'satīṃ gatiṃ yayā prapadyeta duratyayaṃ tamaḥ . tvaṃ tvavyayaṃ jñānamamoghamañjasā prapadyate yena jano nijaṃ padam .. 51 ..
त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः । तथापि लोको न भवन्तमन्धधीः जानाति सन्तं हृदि बद्धकामः ॥ ५२ ॥
tvaṃ sarvalokasya suhṛt priyeśvaro hyātmā gururjñānamabhīṣṭasiddhiḥ . tathāpi loko na bhavantamandhadhīḥ jānāti santaṃ hṛdi baddhakāmaḥ .. 52 ..
तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय । छिन्ध्यर्थदीपैर्भगवन् वचोभिः ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ ५३ ॥
taṃ tvāmahaṃ devavaraṃ vareṇyaṃ prapadya īśaṃ pratibodhanāya . chindhyarthadīpairbhagavan vacobhiḥ granthīn hṛdayyān vivṛṇu svamokaḥ .. 53 ..
श्रीशुक उवाच - (अनुष्टुप्)
इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः । मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत् ॥ ५४ ॥
ityuktavantaṃ nṛpatiṃ bhagavān ādipūruṣaḥ . matsyarūpī mahāmbhodhau viharan tattvamabravīt .. 54 ..
पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् । सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः ॥ ५५ ॥
purāṇasaṃhitāṃ divyāṃ sāṃkhyayogakriyāvatīm . satyavratasya rājarṣeḥ ātmaguhyamaśeṣataḥ .. 55 ..
अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् । नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ ५६ ॥
aśrauṣīd ṛṣibhiḥ sākaṃ ātmatattvaṃ asaṃśayam . nāvyāsīno bhagavatā proktaṃ brahma sanātanam .. 56 ..
अतीतप्रलयापाय उत्थिताय स वेधसे । हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः ॥ ५७ ॥
atītapralayāpāya utthitāya sa vedhase . hatvāsuraṃ hayagrīvaṃ vedānpratyāharaddhariḥ .. 57 ..
स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादात् कल्पेऽस्मिन् आसीत् वैवस्वतो मनुः ॥ ५८ ॥
sa tu satyavrato rājā jñānavijñānasaṃyutaḥ . viṣṇoḥ prasādāt kalpe'smin āsīt vaivasvato manuḥ .. 58 ..
सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्गिणः । संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ ५९ ॥
satyavratasya rājarṣeḥ māyāmatsyasya śārṅgiṇaḥ . saṃvādaṃ mahadākhyānaṃ śrutvā mucyeta kilbiṣāt .. 59 ..
अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः । संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ ६० ॥
avatāraṃ hareryo'yaṃ kīrtayed anvahaṃ naraḥ . saṃkalpāstasya sidhyanti sa yāti paramāṃ gatim .. 60 ..
प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमकथयद् यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि ॥ ६१ ॥
pralayapayasi dhātuḥ suptaśaktermukhebhyaḥ śrutigaṇamapanītaṃ pratyupādatta hatvā . ditijamakathayad yo brahma satyavratānāṃ tamahamakhilahetuṃ jihmamīnaṃ nato'smi .. 61 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं चतुर्विंशोऽध्यायः ॥ २४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe matyāvatāracaritānuvarṇanaṃ caturviṃśo'dhyāyaḥ .. 24 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In