| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीबादरायणिरुवाच।
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम् १ ।
एवम् व्यवसितः बुद्ध्या समाधाय मनः हृदि । जजाप परमम् जाप्यम् प्राच्-जन्मनि अनुशिक्षितम् ।
evam vyavasitaḥ buddhyā samādhāya manaḥ hṛdi . jajāpa paramam jāpyam prāc-janmani anuśikṣitam .
श्रीगजेन्द्र उवाच।
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि २ ।
ओम् नमः भगवते तस्मै यतस् एतत् चित्-आत्मकम् । पुरुषाय आदि-बीजाय पर-ईशाय अभिधीमहि ।
om namaḥ bhagavate tasmai yatas etat cit-ātmakam . puruṣāya ādi-bījāya para-īśāya abhidhīmahi .
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ३ ।
यस्मिन् इदम् यतस् च इदम् येन इदम् यः इदम् स्वयम् । यः अस्मात् परस्मात् च परः तम् प्रपद्ये स्वयम्भुवम् ।
yasmin idam yatas ca idam yena idam yaḥ idam svayam . yaḥ asmāt parasmāt ca paraḥ tam prapadye svayambhuvam .
यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत्तिरोहितम् । अविद्धदृक्साक्ष्युभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः ४ ।
यः स्व-आत्मनि इदम् निज-मायया अर्पितम् क्वचिद् विभातम् क्व च तत् तिरोहितम् । अविद्ध-दृश्-साक्षी उभयम् तत् ईक्षते सः आत्म-मूलः अवतु माम् परात्परः ।
yaḥ sva-ātmani idam nija-māyayā arpitam kvacid vibhātam kva ca tat tirohitam . aviddha-dṛś-sākṣī ubhayam tat īkṣate saḥ ātma-mūlaḥ avatu mām parātparaḥ .
कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभिविराजते विभुः ५ ।
कालेन पञ्चत्व-मितेषु कृत्स्नशस् लोकेषु पालेषु च सर्व-हेतुषु । तमः तत् आसीत् गहनम् गभीरम् यः तस्य पारे अभिविराजते विभुः ।
kālena pañcatva-miteṣu kṛtsnaśas lokeṣu pāleṣu ca sarva-hetuṣu . tamaḥ tat āsīt gahanam gabhīram yaḥ tasya pāre abhivirājate vibhuḥ .
न यस्य देवा ऋषयः पदं विदुर्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ६ ।
न यस्य देवाः ऋषयः पदम् विदुः जन्तुः पुनर् कः अर्हति गन्तुम् ईरितुम् । यथा नटस्य आकृतिभिः विचेष्टतः दुरत्यय-अनुक्रमणः स मा अवतु ।
na yasya devāḥ ṛṣayaḥ padam viduḥ jantuḥ punar kaḥ arhati gantum īritum . yathā naṭasya ākṛtibhiḥ viceṣṭataḥ duratyaya-anukramaṇaḥ sa mā avatu .
दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्यलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ७ ।
दिदृक्षवः यस्य पदम् सु मङ्गलम् विमुक्त-सङ्गाः मुनयः सु साधवः । चरन्ति अलोक-व्रतम् अव्रणम् वने भूत-आत्म-भूताः सुहृदः स मे गतिः ।
didṛkṣavaḥ yasya padam su maṅgalam vimukta-saṅgāḥ munayaḥ su sādhavaḥ . caranti aloka-vratam avraṇam vane bhūta-ātma-bhūtāḥ suhṛdaḥ sa me gatiḥ .
न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्यनुकालमृच्छति ८ ।
न विद्यते यस्य च जन्म कर्म वा न नाम-रूपे गुण-दोषः एव वा । तथा अपि लोक-अप्यय-सम्भवाय यः स्व-मायया तानि अनुकालम् ऋच्छति ।
na vidyate yasya ca janma karma vā na nāma-rūpe guṇa-doṣaḥ eva vā . tathā api loka-apyaya-sambhavāya yaḥ sva-māyayā tāni anukālam ṛcchati .
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ९ ।
तस्मै नमः परेशाय ब्रह्मणे अनन्त-शक्तये । अरूपाय उरु-रूपाय नमः आश्चर्य-कर्मणे ।
tasmai namaḥ pareśāya brahmaṇe ananta-śaktaye . arūpāya uru-rūpāya namaḥ āścarya-karmaṇe .
नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि १० ।
नमः आत्म-प्रदीपाय साक्षिणे परमात्मने । नमः गिराम् विदूराय मनसः चेतसाम् अपि ।
namaḥ ātma-pradīpāya sākṣiṇe paramātmane . namaḥ girām vidūrāya manasaḥ cetasām api .
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ११ ।
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्य-नाथाय निर्वाण-सुख- ।
sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā . namaḥ kaivalya-nāthāya nirvāṇa-sukha- .
नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च १२ ।
नमः शान्ताय घोराय मूढाय गुण-धर्मिणे । निर्विशेषाय साम्याय नमः ज्ञान-घनाय च ।
namaḥ śāntāya ghorāya mūḍhāya guṇa-dharmiṇe . nirviśeṣāya sāmyāya namaḥ jñāna-ghanāya ca .
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः १३ ।
क्षेत्रज्ञाय नमः तुभ्यम् सर्व-अध्यक्षाय साक्षिणे । पुरुषाय आत्म-मूलाय मूलप्रकृतये नमः ।
kṣetrajñāya namaḥ tubhyam sarva-adhyakṣāya sākṣiṇe . puruṣāya ātma-mūlāya mūlaprakṛtaye namaḥ .
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असताच्छाययोक्ताय सदाभासाय ते नमः १४ ।
सर्व-इन्द्रिय-गुण-द्रष्ट्रे सर्व-प्रत्यय-हेतवे । असता अच्छायया उक्ताय सत्-आभासाय ते नमः ।
sarva-indriya-guṇa-draṣṭre sarva-pratyaya-hetave . asatā acchāyayā uktāya sat-ābhāsāya te namaḥ .
नमो नमस्तेऽखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय १५ ।
नमः नमः ते अखिल-कारणाय निष्कारणाय अद्भुत-कारणाय । सर्व-आगम-आम्नाय-महा-अर्णवाय नमः अपवर्गाय परायणाय ।
namaḥ namaḥ te akhila-kāraṇāya niṣkāraṇāya adbhuta-kāraṇāya . sarva-āgama-āmnāya-mahā-arṇavāya namaḥ apavargāya parāyaṇāya .
गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि १६ ।
गुण-अरणि-छन्न-चित्-उष्मपाय तद्-क्षोभ-विस्फूर्जित-मानसाय । नैष्कर्म्य-भावेन विवर्जित-आगम स्वयंप्रकाशाय नमस्करोमि ।
guṇa-araṇi-channa-cit-uṣmapāya tad-kṣobha-visphūrjita-mānasāya . naiṣkarmya-bhāvena vivarjita-āgama svayaṃprakāśāya namaskaromi .
मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते १७ ।
मादृश्-प्रपन्न-पशु-पाश-विमोक्षणाय मुक्ताय भूरि-करुणाय नमः अलयाय । स्व-अंशेन सर्व-तनुभृत्-मनसि प्रतीत प्रत्यक्-दृशे भगवते बृहते नमः ते ।
mādṛś-prapanna-paśu-pāśa-vimokṣaṇāya muktāya bhūri-karuṇāya namaḥ alayāya . sva-aṃśena sarva-tanubhṛt-manasi pratīta pratyak-dṛśe bhagavate bṛhate namaḥ te .
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय १८ ।
आत्म-आत्मज-आप्त-गृह-वित्त-जनेषु सक्तैः दुष्प्रापणाय गुण-सङ्ग-विवर्जिताय । मुक्तात्मभिः स्व-हृदये परिभाविताय ज्ञान-आत्मने भगवते नमः ईश्वराय ।
ātma-ātmaja-āpta-gṛha-vitta-janeṣu saktaiḥ duṣprāpaṇāya guṇa-saṅga-vivarjitāya . muktātmabhiḥ sva-hṛdaye paribhāvitāya jñāna-ātmane bhagavate namaḥ īśvarāya .
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम् १९ ।
यम् धर्म-काम-अर्थ-विमुक्ति-कामाः भजन्तः इष्टाम् गतिम् आप्नुवन्ति । किम् च आशिषः राति अपि देहम् अव्ययम् करोतु मे अदभ्र-दयः विमोक्षणम् ।
yam dharma-kāma-artha-vimukti-kāmāḥ bhajantaḥ iṣṭām gatim āpnuvanti . kim ca āśiṣaḥ rāti api deham avyayam karotu me adabhra-dayaḥ vimokṣaṇam .
एकान्तिनो यस्य न कञ्चनार्थं वाञ्छन्ति ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्र मग्नाः २० ।
एकान्तिनः यस्य न कञ्चन अर्थम् वाञ्छन्ति ये वै भगवत्-प्रपन्नाः । अति अद्भुतम् तद्-चरितम् सु मङ्गलम् गायन्तः आनन्द-समुद्र मग्नाः ।
ekāntinaḥ yasya na kañcana artham vāñchanti ye vai bhagavat-prapannāḥ . ati adbhutam tad-caritam su maṅgalam gāyantaḥ ānanda-samudra magnāḥ .
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे २१ ।
तम् अक्षरम् ब्रह्म परम् पर-ईशम् अव्यक्तम् आध्यात्मिक-योग-गम्यम् । अतीन्द्रियम् सूक्ष्मम् इव अति दूरम् अनन्तम् आद्यम् परिपूर्णम् ईडे ।
tam akṣaram brahma param para-īśam avyaktam ādhyātmika-yoga-gamyam . atīndriyam sūkṣmam iva ati dūram anantam ādyam paripūrṇam īḍe .
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः २२ ।
यस्य ब्रह्म-आदयः देवाः वेदाः लोकाः चर-अचराः । नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः ।
yasya brahma-ādayaḥ devāḥ vedāḥ lokāḥ cara-acarāḥ . nāma-rūpa-vibhedena phalgvyā ca kalayā kṛtāḥ .
यथार्चिषोऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत्स्वरोचिषः । तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः २३ ।
यथा अर्चिषः अग्नेः सवितुः गभस्तयः निर्यान्ति संयान्ति असकृत् स्व-रोचिषः । तथा यतस् अयम् गुण-सम्प्रवाहः बुद्धिः मनः खानि शरीर-सर्गाः ।
yathā arciṣaḥ agneḥ savituḥ gabhastayaḥ niryānti saṃyānti asakṛt sva-rociṣaḥ . tathā yatas ayam guṇa-sampravāhaḥ buddhiḥ manaḥ khāni śarīra-sargāḥ .
स वै न देवासुरमर्त्यतिर्यङ्न स्त्री न षण्ढो न पुमान्न जन्तुः । नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः २४ ।
स वै न देव-असुर-मर्त्य-तिर्यक् न स्त्री न षण्ढः न पुमान् न जन्तुः । न अयम् गुणः कर्म न सत् न च असत् निषेध-शेषः जयतात् अशेषः ।
sa vai na deva-asura-martya-tiryak na strī na ṣaṇḍhaḥ na pumān na jantuḥ . na ayam guṇaḥ karma na sat na ca asat niṣedha-śeṣaḥ jayatāt aśeṣaḥ .
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् २५ ।
जिजीविषे न अहम् इह अमुया किम् अन्तर् बहिस् च आवृतये इभ-योन्या । इच्छामि कालेन न यस्य विप्लवः तस्य आत्म-लोक-आवरणस्य मोक्षम् ।
jijīviṣe na aham iha amuyā kim antar bahis ca āvṛtaye ibha-yonyā . icchāmi kālena na yasya viplavaḥ tasya ātma-loka-āvaraṇasya mokṣam .
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम् २६ ।
सः अहम् विश्वसृजम् विश्वम् अविश्वम् विश्व-वेदसम् । विश्वात्मानम् अजम् ब्रह्म प्रणतः अस्मि परम् पदम् ।
saḥ aham viśvasṛjam viśvam aviśvam viśva-vedasam . viśvātmānam ajam brahma praṇataḥ asmi param padam .
योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम् २७ ।
योग-रन्धित-कर्माणः हृदि योग-विभाविते । योगिनः यम् प्रपश्यन्ति योगेशम् तम् नतः अस्मि अहम् ।
yoga-randhita-karmāṇaḥ hṛdi yoga-vibhāvite . yoginaḥ yam prapaśyanti yogeśam tam nataḥ asmi aham .
नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रि याणामनवाप्यवर्त्मने २८ ।
नमः नमः तुभ्यम् असह्य-वेग शक्ति-त्रयाय अखिल-धी-गुणाय । प्रपन्न-पालाय दुरन्त-शक्तये कद्-इन्द्रि अन् अवाप्य-वर्त्मने ।
namaḥ namaḥ tubhyam asahya-vega śakti-trayāya akhila-dhī-guṇāya . prapanna-pālāya duranta-śaktaye kad-indri an avāpya-vartmane .
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्म्यहम् २९ ।
न अयम् वेद स्वम् आत्मानम् यत् शक्त्या अहंधिया हतम् । तम् दुरत्यय-माहात्म्यम् भगवन्तम् इतस् अस्मि अहम् ।
na ayam veda svam ātmānam yat śaktyā ahaṃdhiyā hatam . tam duratyaya-māhātmyam bhagavantam itas asmi aham .
श्रीशुक उवाच।
एवं गजेन्द्रमुपवर्णितनिर्विशेषं । ब्रह्मादयो विविधलिङ्गभिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात् । तत्राखिलामरमयो हरिराविरासीत् ३० ।
एवम् गज-इन्द्रम् उपवर्णित-निर्विशेषम् । ब्रह्म-आदयः विविध-लिङ्ग-भिदा-अभिमानाः । न एते यदा उपससृपुः निखिल-आत्मक-त्वात् । तत्र अखिल-अमर-मयः हरिः आविरासीत् ।
evam gaja-indram upavarṇita-nirviśeṣam . brahma-ādayaḥ vividha-liṅga-bhidā-abhimānāḥ . na ete yadā upasasṛpuḥ nikhila-ātmaka-tvāt . tatra akhila-amara-mayaḥ hariḥ āvirāsīt .
तं तद्वदार्तमुपलभ्य जगन्निवासः । स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः । छन्दोमयेन गरुडेन समुह्यमानश् । चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्र ः! ३१ ।
तम् तद्वत् आर्तम् उपलभ्य जगन्निवासः । स्तोत्रम् निशम्य दिविजैः सह संस्तुवद्भिः । छन्दः-मयेन गरुडेन समुह्यमानः । चक्र-आयुधः अभ्यगमत् आशु यतस् गज-इन्द्रः! ३१ ।
tam tadvat ārtam upalabhya jagannivāsaḥ . stotram niśamya divijaiḥ saha saṃstuvadbhiḥ . chandaḥ-mayena garuḍena samuhyamānaḥ . cakra-āyudhaḥ abhyagamat āśu yatas gaja-indraḥ! 31 .
सोऽन्तःसरस्युरुबलेन गृहीत आर्तो । दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् । उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् । नारायणाखिलगुरो भगवन्नमस्ते ३२ ।
सः अन्तर् सरसि उरु-बलेन गृहीतः आर्तः । दृष्ट्वा गरुत्मति हरिम् खे उपात्त-चक्रम् । उत्क्षिप्य स अम्बुज-करम् गिरम् आह कृच्छ्रान् । नारायण-अखिल-गुरो भगवन् नमः ते ।
saḥ antar sarasi uru-balena gṛhītaḥ ārtaḥ . dṛṣṭvā garutmati harim khe upātta-cakram . utkṣipya sa ambuja-karam giram āha kṛcchrān . nārāyaṇa-akhila-guro bhagavan namaḥ te .
तं वीक्ष्य पीडितमजः सहसावतीर्य । सग्राहमाशु सरसः कृपयोज्जहार । ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं । संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ३३ ।
तम् वीक्ष्य पीडितम् अजः सहसा अवतीर्य । स ग्राहम् आशु सरसः कृपया उज्जहार । ग्राहात् विपाटित-मुखात् अरिणा गज-इन्द्रम् । संपश्यताम् हरिः अमूमुचत् उच्छ्रियाणाम् ।
tam vīkṣya pīḍitam ajaḥ sahasā avatīrya . sa grāham āśu sarasaḥ kṛpayā ujjahāra . grāhāt vipāṭita-mukhāt ariṇā gaja-indram . saṃpaśyatām hariḥ amūmucat ucchriyāṇām .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणे तृतीयोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे गजेन्द्र-मोक्षणे तृतीयः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe gajendra-mokṣaṇe tṛtīyaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In