| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः १ ।
तदा देव-ऋषि-गन्धर्वाः ब्रह्म-ईशान-पुरोगमाः । मुमुचुः कुसुम-आसारम् शंसन्तः कर्म तत् हरेः ।
tadā deva-ṛṣi-gandharvāḥ brahma-īśāna-purogamāḥ . mumucuḥ kusuma-āsāram śaṃsantaḥ karma tat hareḥ .
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् २ ।
नेदुः दुन्दुभयः दिव्याः गन्धर्वाः ननृतुः जगुः । ऋषयः चारणाः सिद्धाः तुष्टुवुः पुरुषोत्तमम् ।
neduḥ dundubhayaḥ divyāḥ gandharvāḥ nanṛtuḥ jaguḥ . ṛṣayaḥ cāraṇāḥ siddhāḥ tuṣṭuvuḥ puruṣottamam .
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ३ ।
यः असौ ग्राहः स वै सद्यस् परम-आश्चर्य-रूप-धृक् । मुक्तः देवल-शापेन हूहूः गन्धर्व-सत्तमः ।
yaḥ asau grāhaḥ sa vai sadyas parama-āścarya-rūpa-dhṛk . muktaḥ devala-śāpena hūhūḥ gandharva-sattamaḥ .
प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ४ ।
प्रणम्य शिरसा अधीशम् उत्तमश्लोकम् अव्ययम् । अगायत यशः-धाम कीर्तन्य-गुण-सत्-कथम् ।
praṇamya śirasā adhīśam uttamaślokam avyayam . agāyata yaśaḥ-dhāma kīrtanya-guṇa-sat-katham .
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिषः ५ ।
सः अनुकम्पितः ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतः लोकम् स्वम् अगात् मुक्त-किल्बिषः ।
saḥ anukampitaḥ īśena parikramya praṇamya tam . lokasya paśyataḥ lokam svam agāt mukta-kilbiṣaḥ .
गजेन्भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ६ ।
गजेन् भगवत्-स्पर्शात् विमुक्तः अज्ञान-बन्धनात् । प्राप्तः भगवतः रूपम् पीत-वासाः चतुर्-भुजः ।
gajen bhagavat-sparśāt vimuktaḥ ajñāna-bandhanāt . prāptaḥ bhagavataḥ rūpam pīta-vāsāḥ catur-bhujaḥ .
स वै पूर्वमभूद्रा जा पाण्ड्यो द्र विडसत्तमः । इन्द्र द्युम्न इति ख्यातो विष्णुव्रतपरायणः ७ ।
स वै पूर्वम् अभूत् रा जा पाण्ड्यः द्र-विड-सत्तमः । इन्द्र द्युम्नः इति ख्यातः विष्णु-व्रत-परायणः ।
sa vai pūrvam abhūt rā jā pāṇḍyaḥ dra-viḍa-sattamaḥ . indra dyumnaḥ iti khyātaḥ viṣṇu-vrata-parāyaṇaḥ .
स एकदाराधनकाल आत्मवान्गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ८ ।
सः एकदा आराधन-काले आत्मवान् गृहीत-मौन-व्रतः ईश्वरम् हरिम् । जटाधरः तापसः आप्लुतः अच्युतम् समर्चयामास कुल-अचल-आश्रमः ।
saḥ ekadā ārādhana-kāle ātmavān gṛhīta-mauna-vrataḥ īśvaram harim . jaṭādharaḥ tāpasaḥ āplutaḥ acyutam samarcayāmāsa kula-acala-āśramaḥ .
यदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्युपासीनमृषिश्चुकोप ह ९ ।
यदृच्छया तत्र महा-यशाः मुनिः समागमत् शिष्य-गणैः परिश्रितः । तम् वीक्ष्य तूष्णीम् अकृत-अर्हण-आदिकम् रहसि उपासीनम् ऋषिः चुकोप ह ।
yadṛcchayā tatra mahā-yaśāḥ muniḥ samāgamat śiṣya-gaṇaiḥ pariśritaḥ . tam vīkṣya tūṣṇīm akṛta-arhaṇa-ādikam rahasi upāsīnam ṛṣiḥ cukopa ha .
तस्मा इमं शापमदादसाधुरयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव १० ।
तस्मै इमम् शापम् अदात् असाधुः अयम् दुरात्मा अकृतबुद्धिः अद्य । विप्र-अवमन्ता विशताम् तमिस्रम् यथा गजः स्तब्ध-मतिः सः एव ।
tasmai imam śāpam adāt asādhuḥ ayam durātmā akṛtabuddhiḥ adya . vipra-avamantā viśatām tamisram yathā gajaḥ stabdha-matiḥ saḥ eva .
श्रीशुक उवाच।
एवं शप्त्वा गतोऽगस्त्यो भगवान्नृप सानुगः । इन्द्र द्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ११ ।
एवम् शप्त्वा गतः अगस्त्यः भगवान् नृप स अनुगः । इन्द्र द्युम्नः अपि राजर्षिः दिष्टम् तत् उपधारयन् ।
evam śaptvā gataḥ agastyaḥ bhagavān nṛpa sa anugaḥ . indra dyumnaḥ api rājarṣiḥ diṣṭam tat upadhārayan .
आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृतिः १२ ।
आपन्नः कौञ्जरीम् योनिम् आत्म-स्मृति-विनाशिनीम् । हरि-अर्चन-अनुभावेन यत् गज-त्वे अपि अनुस्मृतिः ।
āpannaḥ kauñjarīm yonim ātma-smṛti-vināśinīm . hari-arcana-anubhāvena yat gaja-tve api anusmṛtiḥ .
एवं विमोक्ष्य गजयूथपमब्जनाभस् । तेनापि पार्षदगतिं गमितेन युक्तः । गन्धर्वसिद्धविबुधैरुपगीयमान । कर्माद्भुतं स्वभवनं गरुडासनोऽगात् १३ ।
एवम् विमोक्ष्य गज-यूथपम् अब्जनाभः । तेन अपि पार्षद-गतिम् गमितेन युक्तः । गन्धर्व-सिद्ध-विबुधैः उपगीयमान । कर्म-अद्भुतम् स्व-भवनम् गरुडासनः अगात् ।
evam vimokṣya gaja-yūthapam abjanābhaḥ . tena api pārṣada-gatim gamitena yuktaḥ . gandharva-siddha-vibudhaiḥ upagīyamāna . karma-adbhutam sva-bhavanam garuḍāsanaḥ agāt .
एतन्महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् १४ ।
एतत् महा-राज तव ईरितः मया कृष्ण-अनुभावः गज-राज-मोक्षणम् । स्वर्ग्यम् यशस्यम् कलि-कल्मष-अपहम् दुःस्वप्न-नाशम् कुरु-वर्य शृण्वताम् ।
etat mahā-rāja tava īritaḥ mayā kṛṣṇa-anubhāvaḥ gaja-rāja-mokṣaṇam . svargyam yaśasyam kali-kalmaṣa-apaham duḥsvapna-nāśam kuru-varya śṛṇvatām .
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये १५ ।
यथा अनुकीर्तयन्ति एतत् श्रेयस्कामाः द्विजातयः । शुचयः प्रातर् उत्थाय दुःस्वप्न-आदि-उपशान्तये ।
yathā anukīrtayanti etat śreyaskāmāḥ dvijātayaḥ . śucayaḥ prātar utthāya duḥsvapna-ādi-upaśāntaye .
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम । शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः १६ ।
इदम् आह हरिः प्रीतः गज-इन्द्रम् कुरुसत्तम । शृण्वताम् सर्व-भूतानाम् सर्व-भूत-मयः विभुः ।
idam āha hariḥ prītaḥ gaja-indram kurusattama . śṛṇvatām sarva-bhūtānām sarva-bhūta-mayaḥ vibhuḥ .
श्रीभगवानुवाच।
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् १७ ।
ये माम् त्वाम् च सरः च इदम् गिरि-कन्दर-काननम् । वेत्र-कीचक-वेणूनाम् गुल्मानि सुर-पादपान् ।
ye mām tvām ca saraḥ ca idam giri-kandara-kānanam . vetra-kīcaka-veṇūnām gulmāni sura-pādapān .
शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् १८ ।
शृङ्गाणि इमानि धिष्ण्यानि ब्रह्मणः मे शिवस्य च । क्षीरोदम् मे प्रियम् धाम श्वेतद्वीपम् च भास्वरम् ।
śṛṅgāṇi imāni dhiṣṇyāni brahmaṇaḥ me śivasya ca . kṣīrodam me priyam dhāma śvetadvīpam ca bhāsvaram .
श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् १९ ।
श्रीवत्सम् कौस्तुभम् मालाम् गदाम् कौमोदकीम् मम । सुदर्शनम् पाञ्चजन्यम् सुपर्णम् पतग-ईश्वरम् ।
śrīvatsam kaustubham mālām gadām kaumodakīm mama . sudarśanam pāñcajanyam suparṇam pataga-īśvaram .
शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च २० ।
शेषम् च मद्-कलाम् सूक्ष्माम् श्रियम् देवीम् मद्-आश्रयाम् । ब्रह्माणम् नारदम् ऋषिम् भवम् प्रह्रादम् एव च ।
śeṣam ca mad-kalām sūkṣmām śriyam devīm mad-āśrayām . brahmāṇam nāradam ṛṣim bhavam prahrādam eva ca .
मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे । कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् २१ ।
मत्स्य-कूर्म-वराह-आद्यैः अवतारैः कृतानि मे । कर्माणि अनन्त-पुण्यानि सूर्यम् सोमम् हुताशनम् ।
matsya-kūrma-varāha-ādyaiḥ avatāraiḥ kṛtāni me . karmāṇi ananta-puṇyāni sūryam somam hutāśanam .
प्रणवं सत्यमव्यक्तं गोविप्रान्धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि २२ ।
प्रणवम् सत्यम् अव्यक्तम् गो विप्रान् धर्मम् अव्ययम् । दाक्षायणीः धर्मपत्नीः सोम-कश्यपयोः अपि ।
praṇavam satyam avyaktam go viprān dharmam avyayam . dākṣāyaṇīḥ dharmapatnīḥ soma-kaśyapayoḥ api .
गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् २३ ।
गङ्गाम् सरस्वतीम् नन्दाम् कालिन्दीम् सित-वारणम् । ध्रुवम् ब्रह्म-ऋषीन् सप्त पुण्यश्लोकान् च मानवान् ।
gaṅgām sarasvatīm nandām kālindīm sita-vāraṇam . dhruvam brahma-ṛṣīn sapta puṇyaślokān ca mānavān .
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते ह्येनसोऽखिलात् २४ ।
उत्थाय अपररात्र-अन्ते प्रयताः सु समाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते हि एनसः अखिलात् ।
utthāya apararātra-ante prayatāḥ su samāhitāḥ . smaranti mama rūpāṇi mucyante hi enasaḥ akhilāt .
ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् २५ ।
ये माम् स्तुवन्ति अनेन अङ्ग प्रतिबुध्य निशा-अत्यये । तेषाम् प्राण-अत्यये च अहम् ददामि विपुलाम् गतिम् ।
ye mām stuvanti anena aṅga pratibudhya niśā-atyaye . teṣām prāṇa-atyaye ca aham dadāmi vipulām gatim .
श्रीशुक उवाच।
इत्यादिश्य हृषीकेशः प्राध्माय जलजोत्तमम् । हर्षयन्विबुधानीकमारुरोह खगाधिपम् २६ ।
इति आदिश्य हृषीकेशः प्राध्माय जलज-उत्तमम् । हर्षयन् विबुध-अनीकम् आरुरोह खगाधिपम् ।
iti ādiśya hṛṣīkeśaḥ prādhmāya jalaja-uttamam . harṣayan vibudha-anīkam āruroha khagādhipam .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्र मोक्षणं नाम चतुर्थोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे गजेन्द्र-मोक्षणम् नाम चतुर्थः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe gajendra-mokṣaṇam nāma caturthaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In