| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
एवं स्तुतः सुरगणैः भवान् हरिरीश्वरः । तेषां आविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥
एवम् स्तुतः सुर-गणैः भवान् हरिः ईश्वरः । तेषाम् आविरभूत् राजन् सहस्र-अर्क-उदय-द्युतिः ॥ १ ॥
evam stutaḥ sura-gaṇaiḥ bhavān hariḥ īśvaraḥ . teṣām āvirabhūt rājan sahasra-arka-udaya-dyutiḥ .. 1 ..
तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन् खं दिशः क्षौणीं आत्मानं च कुतो विभुम् ॥ २ ॥
तेन एव सहसा सर्वे देवाः प्रतिहत-ईक्षणाः । न अपश्यन् खम् दिशः क्षौणीम् आत्मानम् च कुतस् विभुम् ॥ २ ॥
tena eva sahasā sarve devāḥ pratihata-īkṣaṇāḥ . na apaśyan kham diśaḥ kṣauṇīm ātmānam ca kutas vibhum .. 2 ..
विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ ३ ॥
विरिञ्चः भगवान् दृष्ट्वा सह शर्वेण ताम् तनुम् । सु अच्छाम् मरकत-श्यामाम् कञ्ज-गर्भ-अरुण-ईक्षणाम् ॥ ३ ॥
viriñcaḥ bhagavān dṛṣṭvā saha śarveṇa tām tanum . su acchām marakata-śyāmām kañja-garbha-aruṇa-īkṣaṇām .. 3 ..
तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वांगीं सुमुखीं सुन्दरभ्रुवम् ॥ ४ ॥
तप्त-हेम-अवदातेन लसत्-कौशेय-वाससा । प्रसन्न-चारु-सर्व-अंगीम् सु मुखीम् सुन्दर-भ्रुवम् ॥ ४ ॥
tapta-hema-avadātena lasat-kauśeya-vāsasā . prasanna-cāru-sarva-aṃgīm su mukhīm sundara-bhruvam .. 4 ..
महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ ५ ॥
महा-मणि-किरीटेन केयूराभ्याम् च भूषिताम् । कर्ण-आभरण-निर्भात कपोल-श्री-मुख-अम्बुजाम् ॥ ५ ॥
mahā-maṇi-kirīṭena keyūrābhyām ca bhūṣitām . karṇa-ābharaṇa-nirbhāta kapola-śrī-mukha-ambujām .. 5 ..
काञ्चीकलापवलय हारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ ६ ॥
काञ्ची-कलाप-वलय हार-नूपुर-शोभिताम् । कौस्तुभ-आभरणाम् लक्ष्मीम् बिभ्रतीम् वन-मालिनीम् ॥ ६ ॥
kāñcī-kalāpa-valaya hāra-nūpura-śobhitām . kaustubha-ābharaṇām lakṣmīm bibhratīm vana-mālinīm .. 6 ..
सुदर्शनादिभिः स्वास्त्रैः मूर्तिमद् भिरुपासिताम् । तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् ॥ ७ ॥
सुदर्शन-आदिभिः स्व-अस्त्रैः । तुष्टाव देव-प्रवरः स शर्वः पुरुषम् परम् ॥ ७ ॥
sudarśana-ādibhiḥ sva-astraiḥ . tuṣṭāva deva-pravaraḥ sa śarvaḥ puruṣam param .. 7 ..
श्रीब्रह्मोवाच -
अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्नेऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ ८ ॥
अजात-जन्म-स्थिति-संयमाय गुणाय निर्वाण-सुख-अर्णवाय । अणोः अणिम्ने अ परिगण्य-धाम्ने महा-अनुभावाय नमः नमः ते ॥ ८ ॥
ajāta-janma-sthiti-saṃyamāya guṇāya nirvāṇa-sukha-arṇavāya . aṇoḥ aṇimne a parigaṇya-dhāmne mahā-anubhāvāya namaḥ namaḥ te .. 8 ..
रूपं तवैतत् पुरुषर्षभेज्यं श्रेयोऽर्थिभिर्वैदिकतांत्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्यमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥
रूपम् तव एतत् पुरुष-ऋषभ इज्यम् श्रेयः-अर्थिभिः वैदिक-तांत्रिकेण । योगेन धातर् सह नः त्रि-लोकान् पश्यामि अमुष्मिन् नु ह विश्वमूर्तौ ॥ ९ ॥
rūpam tava etat puruṣa-ṛṣabha ijyam śreyaḥ-arthibhiḥ vaidika-tāṃtrikeṇa . yogena dhātar saha naḥ tri-lokān paśyāmi amuṣmin nu ha viśvamūrtau .. 9 ..
त्वय्यग्र आसीत् त्वयि मध्य आसीत् त्वय्यन्त आसीत् इदमात्मतंत्रे । त्वं आदिरन्तो जगतोऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥ १० ॥
त्वयि अग्रे आसीत् त्वयि मध्ये आसीत् त्वयि अन्ते आसीत् इदम् आत्मतंत्रे । त्वम् आदिः अन्तः जगतः अस्य मध्यम् घटस्य मृत्स्ना इव परः परस्मात् ॥ १० ॥
tvayi agre āsīt tvayi madhye āsīt tvayi ante āsīt idam ātmataṃtre . tvam ādiḥ antaḥ jagataḥ asya madhyam ghaṭasya mṛtsnā iva paraḥ parasmāt .. 10 ..
त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः ॥ ११ ॥
त्वम् मायया आत्म-आश्रयया स्वया इदम् निर्माय विश्वम् तत् अनुप्रविष्टः । पश्यन्ति युक्ताः मनसा मनीषिणः गुण-व्यवाये अपि अगुणम् विपश्चितः ॥ ११ ॥
tvam māyayā ātma-āśrayayā svayā idam nirmāya viśvam tat anupraviṣṭaḥ . paśyanti yuktāḥ manasā manīṣiṇaḥ guṇa-vyavāye api aguṇam vipaścitaḥ .. 11 ..
यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ १२ ॥
यथा अग्नि-मेधसि अमृतम् च गोषु भुवि अन्नम् अम्बु-उद्यमने च वृत्तिम् । योगैः मनुष्याः अधियन्ति हि त्वाम् गुणेषु बुद्ध्या कवयः वदन्ति ॥ १२ ॥
yathā agni-medhasi amṛtam ca goṣu bhuvi annam ambu-udyamane ca vṛttim . yogaiḥ manuṣyāḥ adhiyanti hi tvām guṇeṣu buddhyā kavayaḥ vadanti .. 12 ..
तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥ १३ ॥
तम् त्वाम् वयम् नाथ समुज्जिहानम् सरोज-नाभ-अति चिर-ईप्सित-अर्थम् । दृष्ट्वा गताः निर्वृतम् अद्य सर्वे गजाः दव-आर्ताः इव गाङ्गम् अम्भः ॥ १३ ॥
tam tvām vayam nātha samujjihānam saroja-nābha-ati cira-īpsita-artham . dṛṣṭvā gatāḥ nirvṛtam adya sarve gajāḥ dava-ārtāḥ iva gāṅgam ambhaḥ .. 13 ..
स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ १४ ॥
स त्वम् विधत्स्व अखिल-लोकपालाः वयम् यद्-अर्थाः तव पाद-मूलम् । समागताः ते बहिस् अन्तर् आत्मन् किम् वा अन्य-विज्ञाप्यम् अशेष-साक्षिणः ॥ १४ ॥
sa tvam vidhatsva akhila-lokapālāḥ vayam yad-arthāḥ tava pāda-mūlam . samāgatāḥ te bahis antar ātman kim vā anya-vijñāpyam aśeṣa-sākṣiṇaḥ .. 14 ..
अहं गिरित्रश्च सुरादयो ये दक्षादयोऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमंत्रम् ॥ १५ ॥
अहम् गिरित्रः च सुर-आदयः ये दक्ष-आदयः अग्नेः इव केतवः ते । किम् वा विधत्स्व शम् नः द्विजदेव-मंत्रम् ॥ १५ ॥
aham giritraḥ ca sura-ādayaḥ ye dakṣa-ādayaḥ agneḥ iva ketavaḥ te . kim vā vidhatsva śam naḥ dvijadeva-maṃtram .. 15 ..
श्रीशुक उवाच - (अनुष्टुप्)
एवं विरिञ्चादिभिरीडितस्तद् विज्ञाय तेषां हृदयं तथैव । जगाद जीमूतगभीरया गिरा बद्धाञ्जलीन् संवृतसर्वकारकान् ॥ १६ ॥
एवम् विरिञ्च-आदिभिः ईडितः तत् विज्ञाय तेषाम् हृदयम् तथा एव । जगाद जीमूत-गभीरया गिरा बद्धाञ्जलीन् संवृत-सर्व-कारकान् ॥ १६ ॥
evam viriñca-ādibhiḥ īḍitaḥ tat vijñāya teṣām hṛdayam tathā eva . jagāda jīmūta-gabhīrayā girā baddhāñjalīn saṃvṛta-sarva-kārakān .. 16 ..
एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तानाह समुद्रोन्मथनादिभिः ॥ १७ ॥
एकः एव ईश्वरः तस्मिन् सुर-कार्ये सुरेश्वरः । विहर्तु-कामः तान् आह समुद्र-उन्मथन-आदिभिः ॥ १७ ॥
ekaḥ eva īśvaraḥ tasmin sura-kārye sureśvaraḥ . vihartu-kāmaḥ tān āha samudra-unmathana-ādibhiḥ .. 17 ..
श्रीभगवानुवाच -
हन्त ब्रह्मन् अहो शम्भो हे देवा मम भाषितम् । श्रृणुतावहिताः सर्वे श्रेयो वः स्याद् यथा सुराः ॥ १८ ॥
हन्त ब्रह्मन् अहो शम्भो हे देवाः मम भाषितम् । श्रृणुत अवहिताः सर्वे श्रेयः वः स्यात् यथा सुराः ॥ १८ ॥
hanta brahman aho śambho he devāḥ mama bhāṣitam . śrṛṇuta avahitāḥ sarve śreyaḥ vaḥ syāt yathā surāḥ .. 18 ..
यात दानवदैतेयैः तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैः यावद् वो भव आत्मनः ॥ १९ ॥
यात दानव-दैतेयैः तावत् सन्धिः विधीयताम् । कालेन अनुगृहीतैः तैः यावत् वः भवः आत्मनः ॥ १९ ॥
yāta dānava-daiteyaiḥ tāvat sandhiḥ vidhīyatām . kālena anugṛhītaiḥ taiḥ yāvat vaḥ bhavaḥ ātmanaḥ .. 19 ..
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे । अहिमूषिकवद् देवा ह्यर्थस्य पदवीं गतैः ॥ २० ॥
अरयः अपि हि सन्धेयाः सति कार्य-अर्थ-गौरवे । अहि-मूषिक-वत् देवाः हि अर्थस्य पदवीम् गतैः ॥ २० ॥
arayaḥ api hi sandheyāḥ sati kārya-artha-gaurave . ahi-mūṣika-vat devāḥ hi arthasya padavīm gataiḥ .. 20 ..
अमृतोत्पादने यत्नः क्रियतां अविलम्बितम् । यस्य पीतस्य वै जन्तुः मृत्युग्रस्तोऽमरो भवेत् ॥ २१ ॥
अमृत-उत्पादने यत्नः क्रियताम् अविलम्बितम् । यस्य पीतस्य वै जन्तुः मृत्यु-ग्रस्तः अमरः भवेत् ॥ २१ ॥
amṛta-utpādane yatnaḥ kriyatām avilambitam . yasya pītasya vai jantuḥ mṛtyu-grastaḥ amaraḥ bhavet .. 21 ..
क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ २२ ॥
क्षिप्त्वा क्षीरोदधौ सर्वाः वीरुध्-तृण-लता-ओषधीः । मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम् ॥ २२ ॥
kṣiptvā kṣīrodadhau sarvāḥ vīrudh-tṛṇa-latā-oṣadhīḥ . manthānam mandaram kṛtvā netram kṛtvā tu vāsukim .. 22 ..
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ २३ ॥
सहायेन मया देवाः निर्मन्थध्वम् अतन्द्रिताः । क्लेश-भाजः भविष्यन्ति दैत्याः यूयम् फल-ग्रहाः ॥ २३ ॥
sahāyena mayā devāḥ nirmanthadhvam atandritāḥ . kleśa-bhājaḥ bhaviṣyanti daityāḥ yūyam phala-grahāḥ .. 23 ..
यूयं तदनुमोदध्वं यदिच्छन्ति असुराः सुराः । न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ २४ ॥
यूयम् तत् अनुमोदध्वम् यत् इच्छन्ति असुराः सुराः । न संरम्भेण सिध्यन्ति सर्व-अर्थाः सान्त्वया यथा ॥ २४ ॥
yūyam tat anumodadhvam yat icchanti asurāḥ surāḥ . na saṃrambheṇa sidhyanti sarva-arthāḥ sāntvayā yathā .. 24 ..
न भेतव्यं कालकूटाद् विषात् जलधिसम्भवात् । लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ २५ ॥
न भेतव्यम् कालकूटात् विषात् जलधि-सम्भवात् । लोभः कार्यः न वः जातु रोषः काम् अस्तु वस्तुषु ॥ २५ ॥
na bhetavyam kālakūṭāt viṣāt jaladhi-sambhavāt . lobhaḥ kāryaḥ na vaḥ jātu roṣaḥ kām astu vastuṣu .. 25 ..
श्रीशुक उवाच -
इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ २६ ॥
इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषाम् अन्तर्दधे राजन् स्वच्छन्द-गतिः ईश्वरः ॥ २६ ॥
iti devān samādiśya bhagavān puruṣottamaḥ . teṣām antardadhe rājan svacchanda-gatiḥ īśvaraḥ .. 26 ..
अथ तस्मै भगवते नमस्कृत्य पितामहः । भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ २७ ॥
अथ तस्मै भगवते नमस्कृत्य पितामहः । भवः च जग्मतुः स्वम् स्वम् धाम उपेयुः बलिम् सुराः ॥ २७ ॥
atha tasmai bhagavate namaskṛtya pitāmahaḥ . bhavaḥ ca jagmatuḥ svam svam dhāma upeyuḥ balim surāḥ .. 27 ..
दृष्ट्वा अरीनप्यसंयत्तान् जातक्षोभान् स्वनायकान् । न्यषेधद् दैत्यराट् श्लोक्यः सन्धिविग्रहकालवित् ॥ २८ ॥
दृष्ट्वा अरीन् अपि अ संयत्तान् जात-क्षोभान् स्व-नायकान् । न्यषेधत् दैत्य-राज् श्लोक्यः सन्धि-विग्रह-काल-विद् ॥ २८ ॥
dṛṣṭvā arīn api a saṃyattān jāta-kṣobhān sva-nāyakān . nyaṣedhat daitya-rāj ślokyaḥ sandhi-vigraha-kāla-vid .. 28 ..
ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ २९ ॥
ते वैरोचनिम् आसीनम् गुप्तम् च असुर-यूथपैः । श्रिया परमया जुष्टम् जित-अशेषम् उपागमन् ॥ २९ ॥
te vairocanim āsīnam guptam ca asura-yūthapaiḥ . śriyā paramayā juṣṭam jita-aśeṣam upāgaman .. 29 ..
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । अभ्यभाषत तत्सर्वं शिक्षितं पुरुषोत्तमात् ॥ ३० ॥
महा-इन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । अभ्यभाषत तत् सर्वम् शिक्षितम् पुरुषोत्तमात् ॥ ३० ॥
mahā-indraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ . abhyabhāṣata tat sarvam śikṣitam puruṣottamāt .. 30 ..
तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः । शम्बरोऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ ३१ ॥
तत् अरोचत दैत्यस्य तत्र अन्ये ये असुर-अधिपाः । शम्बरः अरिष्टनेमिः च ये च त्रिपुर-वासिनः ॥ ३१ ॥
tat arocata daityasya tatra anye ye asura-adhipāḥ . śambaraḥ ariṣṭanemiḥ ca ye ca tripura-vāsinaḥ .. 31 ..
ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । उद्यमं परमं चक्रुः अमृतार्थे परंतप ॥ ३२ ॥
ततस् देव-असुराः कृत्वा संविदम् कृत-सौहृदाः । उद्यमम् परमम् चक्रुः अमृत-अर्थे परंतप ॥ ३२ ॥
tatas deva-asurāḥ kṛtvā saṃvidam kṛta-sauhṛdāḥ . udyamam paramam cakruḥ amṛta-arthe paraṃtapa .. 32 ..
ततस्ते मन्दरगिरिं ओजसोत्पाट्य दुर्मदाः । नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ ३३ ॥
ततस् ते मन्दर-गिरिम् ओजसा उत्पाट्य दुर्मदाः । नदन्तः उदधिम् निन्युः शक्ताः परिघ-बाहवः ॥ ३३ ॥
tatas te mandara-girim ojasā utpāṭya durmadāḥ . nadantaḥ udadhim ninyuḥ śaktāḥ parigha-bāhavaḥ .. 33 ..
दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ ३४ ॥
दूर-भार-उद्वह-श्रान्ताः शक्र-वैरोचन-आदयः । अ पारयन्तः तम् वोढुम् विवशाः विजहुः पथि ॥ ३४ ॥
dūra-bhāra-udvaha-śrāntāḥ śakra-vairocana-ādayaḥ . a pārayantaḥ tam voḍhum vivaśāḥ vijahuḥ pathi .. 34 ..
निपतन्स गिरिस्तत्र बहून् अमरदानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥
निपतन् स गिरिः तत्र बहून् अमर-दानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ ३५ ॥
nipatan sa giriḥ tatra bahūn amara-dānavān . cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ .. 35 ..
तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥
तान् तथा भग्नमनसः भग्न-बाहु-ऊरु-कन्धरान् । विज्ञाय भगवान् तत्र बभूव गरुडध्वजः ॥ ३६ ॥
tān tathā bhagnamanasaḥ bhagna-bāhu-ūru-kandharān . vijñāya bhagavān tatra babhūva garuḍadhvajaḥ .. 36 ..
गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान्यथा ॥ ३७ ॥
गिरि-पात-विनिष्पिष्टान् विलोक्य अमर-दानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ ३७ ॥
giri-pāta-viniṣpiṣṭān vilokya amara-dānavān . īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā .. 37 ..
गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ ३८ ॥
गिरिम् च आरोप्य गरुडे हस्तेन एकेन लीलया । आरुह्य प्रययौ अब्धिम् सुर-असुर-गणैः वृतः ॥ ३८ ॥
girim ca āropya garuḍe hastena ekena līlayā . āruhya prayayau abdhim sura-asura-gaṇaiḥ vṛtaḥ .. 38 ..
अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
अवरोप्य गिरिम् स्कन्धात् सुपर्णः पतताम् वरः । ययौ जल-अन्ते उत्सृज्य हरिणा स विसर्जितः ॥ ३९ ॥
avaropya girim skandhāt suparṇaḥ patatām varaḥ . yayau jala-ante utsṛjya hariṇā sa visarjitaḥ .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मंदराचल आनयनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे मंदराचले आनयनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe maṃdarācale ānayanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In