| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः १ ।
ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम् । परिवीय गिरौ तस्मिन् नेत्रम् अब्धिम् मुदा अन्विताः ।
te nāga-rājam āmantrya phala-bhāgena vāsukim . parivīya girau tasmin netram abdhim mudā anvitāḥ .
आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् २ ।
आरेभिरे सुराः यत्ताः अमृत-अर्थे कुरु-उद्वह । हरिः पुरस्तात् जगृहे पूर्वम् देवाः ततस् अभवन् ।
ārebhire surāḥ yattāḥ amṛta-arthe kuru-udvaha . hariḥ purastāt jagṛhe pūrvam devāḥ tatas abhavan .
तन्नैच्छन्दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ३ ।
तत् न ऐच्छन् दैत्य-पतयः महापुरुष-चेष्टितम् । न गृह्णीमः वयम् पुच्छम् अहेः अङ्गम् अमङ्गलम् ।
tat na aicchan daitya-patayaḥ mahāpuruṣa-ceṣṭitam . na gṛhṇīmaḥ vayam puccham aheḥ aṅgam amaṅgalam .
स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः । इति तूष्णीं स्थितान्दैत्यान्विलोक्य पुरुषोत्तमः । स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ४ ।
स्वाध्याय-श्रुत-सम्पन्नाः प्रख्याताः जन्म-कर्मभिः । इति तूष्णीम् स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः । स्मयमानः विसृज्य अग्रम् पुच्छम् जग्राह स अमरः ।
svādhyāya-śruta-sampannāḥ prakhyātāḥ janma-karmabhiḥ . iti tūṣṇīm sthitān daityān vilokya puruṣottamaḥ . smayamānaḥ visṛjya agram puccham jagrāha sa amaraḥ .
कृतस्थानविभागास्त एवं कश्यपनन्दनाः । ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ६ ।
कृत-स्थान-विभागाः ते एवम् कश्यप-नन्दनाः । ममन्थुः परमम् यत्ताः अमृत-अर्थम् पयोनिधिम् ।
kṛta-sthāna-vibhāgāḥ te evam kaśyapa-nandanāḥ . mamanthuḥ paramam yattāḥ amṛta-artham payonidhim .
मथ्यमानेऽर्णवे सोऽद्रि रनाधारो ह्यपोऽविशत् । ध्रियमाणोऽपि बलिभिर्गौरवात्पाण्डुनन्दन ७ ।
मथ्यमाने अर्णवे सः अद्रि हि अपः अविशत् । ध्रियमाणः अपि बलिभिः गौरवात् पाण्डु-नन्दन ।
mathyamāne arṇave saḥ adri hi apaḥ aviśat . dhriyamāṇaḥ api balibhiḥ gauravāt pāṇḍu-nandana .
ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः । आसन्स्वपौरुषे नष्टे दैवेनातिबलीयसा ८ ।
ते सु निर्विण्ण-मनसः परिम्लान-मुख-श्रियः । आसन् स्व-पौरुषे नष्टे दैवेन अति बलीयसा ।
te su nirviṇṇa-manasaḥ parimlāna-mukha-śriyaḥ . āsan sva-pauruṣe naṣṭe daivena ati balīyasā .
विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः । कृत्वा वपुः कच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार ९ ।
विलोक्य विघ्नेश-विधिम् तदा ईश्वरः दुरन्त-वीर्यः अवितथ-अभिसन्धिः । कृत्वा वपुः कच्छपम् अद्भुतम् महत् प्रविश्य तोयम् गिरिम् उज्जहार ।
vilokya vighneśa-vidhim tadā īśvaraḥ duranta-vīryaḥ avitatha-abhisandhiḥ . kṛtvā vapuḥ kacchapam adbhutam mahat praviśya toyam girim ujjahāra .
तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् १० ।
तम् उत्थितम् वीक्ष्य कुल-अचलम् पुनर् समुद्यताः निर्मथितुम् सुर-असुराः । दधार पृष्ठेन स लक्ष-योजन प्रस्तारिणा द्वीपः इव अपरः महान् ।
tam utthitam vīkṣya kula-acalam punar samudyatāḥ nirmathitum sura-asurāḥ . dadhāra pṛṣṭhena sa lakṣa-yojana prastāriṇā dvīpaḥ iva aparaḥ mahān .
सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बिभ्रत्तदावर्तनमादिकच्छपो मेनेऽङ्गकण्डूयनमप्रमेयः ११ ।
सुर-असुर-इन्द्रैः भुज-वीर्य-वेपितम् परिभ्रमन्तम् गिरिम् अङ्ग पृष्ठतस् । बिभ्रत् तद्-आवर्तनम् आदि-कच्छपः मेने अङ्ग-कण्डूयनम् अप्रमेयः ।
sura-asura-indraiḥ bhuja-vīrya-vepitam paribhramantam girim aṅga pṛṣṭhatas . bibhrat tad-āvartanam ādi-kacchapaḥ mene aṅga-kaṇḍūyanam aprameyaḥ .
तथासुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमबोधरूपः १२ ।
तथा असुरान् आविशत् आसुरेण रूपेण तेषाम् बल-वीर्यम् ईरयन् । उद्दीपयन् देव-गणान् च विष्णुः दैवेन नाग-इन्द्रम् अबोध-रूपः ।
tathā asurān āviśat āsureṇa rūpeṇa teṣām bala-vīryam īrayan . uddīpayan deva-gaṇān ca viṣṇuḥ daivena nāga-indram abodha-rūpaḥ .
उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्रबाहुः । तस्थौ दिवि ब्रह्मभवेन्द्र मुख्यैरभिष्टुवद्भिः सुमनोऽभिवृष्टः १३ ।
उपरि अग-इन्द्रम् गिरि-राज् इव अन्यः आक्रम्य हस्तेन सहस्र-बाहुः । तस्थौ दिवि ब्रह्म-भव-इन्द्र मुख्यैः अभिष्टुवद्भिः सुमनः-अभिवृष्टः ।
upari aga-indram giri-rāj iva anyaḥ ākramya hastena sahasra-bāhuḥ . tasthau divi brahma-bhava-indra mukhyaiḥ abhiṣṭuvadbhiḥ sumanaḥ-abhivṛṣṭaḥ .
उपर्यधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् १४ ।
उपरि अधस् च आत्मनि गोत्र-नेत्रयोः परेण ते समेधिताः । ममन्थुः अब्धिम् तरसा मद-उत्कटाः महा-अद्रिणा क्षोभित-नक्र-चक्रम् ।
upari adhas ca ātmani gotra-netrayoḥ pareṇa te samedhitāḥ . mamanthuḥ abdhim tarasā mada-utkaṭāḥ mahā-adriṇā kṣobhita-nakra-cakram .
अहीन्द्र साहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसोऽसुराः । पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् १५ ।
श्वास-अग्नि-धूम-अहत-वर्चसः असुराः । पौलोम-कालेय-बलि-इल्वल-आदयः दव-अग्नि-दग्धाः सरलाः इव अभवन् ।
śvāsa-agni-dhūma-ahata-varcasaḥ asurāḥ . pauloma-kāleya-bali-ilvala-ādayaḥ dava-agni-dagdhāḥ saralāḥ iva abhavan .
देवांश्च तच्छ्वासशिखाहतप्रभान्धूम्राम्बरस्रग्वरकञ्चुकाननान् । समभ्यवर्षन्भगवद्वशा घना ववुः समुद्रोर्म्युपगूढवायवः १६ ।
देवान् च तद्-श्वास-शिखा-हत-प्रभान् धूम्र-अम्बर-स्रज्-वर-कञ्चुक-आननान् । समभ्यवर्षन् भगवत्-वशाः घनाः ववुः समुद्र-ऊर्मि-उपगूढ-वायवः ।
devān ca tad-śvāsa-śikhā-hata-prabhān dhūmra-ambara-sraj-vara-kañcuka-ānanān . samabhyavarṣan bhagavat-vaśāḥ ghanāḥ vavuḥ samudra-ūrmi-upagūḍha-vāyavaḥ .
मथ्यमानात्ता सिन्धोर्देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् १७ ।
मथ्यमाना आत्ता सिन्धोः देव-असुर-वरूथपैः । यदा सुधा न जायेत निर्ममन्थ अजितः स्वयम् ।
mathyamānā āttā sindhoḥ deva-asura-varūthapaiḥ . yadā sudhā na jāyeta nirmamantha ajitaḥ svayam .
मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् । मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा । मथ्नन्मथ्ना प्रतिगिरिरिवाशोभताथोद्धृताद्रिः १८ ।
मेघ-श्यामः कनक-परिधिः कर्ण-विद्योत-विद्युत् । मूर्ध्नि भ्राजत्-विलुलित-कचः स्रज्-धरः रक्त-नेत्रः । जैत्रैः दोर्भिः जगत्-अभय-दैः दन्दशूकम् गृहीत्वा । प्रतिगिरिः इव अशोभत अथ उद्धृत-अद्रिः ।
megha-śyāmaḥ kanaka-paridhiḥ karṇa-vidyota-vidyut . mūrdhni bhrājat-vilulita-kacaḥ sraj-dharaḥ rakta-netraḥ . jaitraiḥ dorbhiḥ jagat-abhaya-daiḥ dandaśūkam gṛhītvā . pratigiriḥ iva aśobhata atha uddhṛta-adriḥ .
निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात्तिमिद्विपग्राहतिमिङ्गिलाकुलात् १९ ।
निर्मथ्यमानात् उदधेः अभूत् विषम् महा-उल्बणम् हालहल-आह्वम् अग्रतस् । सम्भ्रान्त-मीन-उन्मकर-अहि-कच्छपात् तिमि-द्विप-ग्राह-तिमिङ्गिल-आकुलात् ।
nirmathyamānāt udadheḥ abhūt viṣam mahā-ulbaṇam hālahala-āhvam agratas . sambhrānta-mīna-unmakara-ahi-kacchapāt timi-dvipa-grāha-timiṅgila-ākulāt .
तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् २० ।
तत् उग्र-वेगम् दिशि दिशि उपरि अधस् विसर्पत् उत्सर्पत् असह्यम् अप्रति । भीताः प्रजाः दुद्रुवुः अङ्ग स ईश्वराः अरक्ष्यमाणाः शरणम् सदाशिवम् ।
tat ugra-vegam diśi diśi upari adhas visarpat utsarpat asahyam aprati . bhītāḥ prajāḥ dudruvuḥ aṅga sa īśvarāḥ arakṣyamāṇāḥ śaraṇam sadāśivam .
विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रा वपवर्गहेतोस्तपो जुषाणं स्तुतिभिः प्रणेमुः २१ ।
विलोक्य तम् देव-वरम् त्रिलोक्याः भवाय देव्या अभिमतम् मुनीनाम् । आसीनम् अद्राः वप-वर्ग-हेतोः तपः जुषाणम् स्तुतिभिः प्रणेमुः ।
vilokya tam deva-varam trilokyāḥ bhavāya devyā abhimatam munīnām . āsīnam adrāḥ vapa-varga-hetoḥ tapaḥ juṣāṇam stutibhiḥ praṇemuḥ .
श्रीप्रजापतय ऊचुः।
देवदेव महादेव भूतात्मन्भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् २२ ।
देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरण-आपन्नान् त्रैलोक्य-दहनात् विषात् ।
devadeva mahādeva bhūtātman bhūtabhāvana . trāhi naḥ śaraṇa-āpannān trailokya-dahanāt viṣāt .
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् २३ ।
त्वम् एकः सर्व-जगतः ईश्वरः बन्ध-मोक्षयोः । तम् त्वाम् अर्चन्ति कुशलाः प्रपन्न-आर्ति-हरम् गुरुम् ।
tvam ekaḥ sarva-jagataḥ īśvaraḥ bandha-mokṣayoḥ . tam tvām arcanti kuśalāḥ prapanna-ārti-haram gurum .
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो । धत्से यदा स्वदृग्भूमन्ब्रह्मविष्णुशिवाभिधाम् २४ ।
गुण-मय्या स्व-शक्त्या अस्य सर्ग-स्थिति-अप्ययान् विभो । धत्से यदा स्वदृश् भूमन् ब्रह्म-विष्णु-शिव-अभिधाम् ।
guṇa-mayyā sva-śaktyā asya sarga-sthiti-apyayān vibho . dhatse yadā svadṛś bhūman brahma-viṣṇu-śiva-abhidhām .
त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः २५ ।
त्वम् ब्रह्म परमम् गुह्यम् सत्-असत्-भाव-भावनम् । नाना शक्तिभिः आभातः त्वम् आत्मा जगत्-ईश्वरः ।
tvam brahma paramam guhyam sat-asat-bhāva-bhāvanam . nānā śaktibhiḥ ābhātaḥ tvam ātmā jagat-īśvaraḥ .
त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रि यद्र व्यगुणः स्वभावः । कालः क्रतुः सत्यमृतं च धर्मस्त्वय्यक्षरं यत्त्रिवृदामनन्ति २६ ।
त्वम् शब्दयोनिः जगत्-आदिः आत्मा प्राण-इन्द्रि यत् र व्यगुणः स्वभावः । कालः क्रतुः सत्यम् ऋतम् च धर्मः त्वयि अक्षरम् यत् त्रिवृत् आमनन्ति ।
tvam śabdayoniḥ jagat-ādiḥ ātmā prāṇa-indri yat ra vyaguṇaḥ svabhāvaḥ . kālaḥ kratuḥ satyam ṛtam ca dharmaḥ tvayi akṣaram yat trivṛt āmananti .
अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् २७ ।
अग्निः मुखम् ते अखिल-देवता-आत्मा क्षितिम् विदुः लोक-भव-अङ्घ्रि-पङ्कजम् । कालम् गतिम् ते अखिल-देवता-आत्मनः दिशः च कर्णौ रसनम् जलेशम् ।
agniḥ mukham te akhila-devatā-ātmā kṣitim viduḥ loka-bhava-aṅghri-paṅkajam . kālam gatim te akhila-devatā-ātmanaḥ diśaḥ ca karṇau rasanam jaleśam .
नाभिर्नभस्ते श्वसनं नभस्वान्सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन्शिरस्ते २८ ।
नाभिः नभः ते श्वसनम् नभस्वान् सूर्यः च चक्षूंषि जलम् स्म रेतः । परावर-आत्म-आश्रयणम् तव आत्मा सोमः मनः द्यौः भगवन् शिरः ते ।
nābhiḥ nabhaḥ te śvasanam nabhasvān sūryaḥ ca cakṣūṃṣi jalam sma retaḥ . parāvara-ātma-āśrayaṇam tava ātmā somaḥ manaḥ dyauḥ bhagavan śiraḥ te .
कुक्षिः समुद्रा गिरयोऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात्तव सप्त धातवस्त्रयीमयात्मन्हृदयं सर्वधर्मः २९ ।
कुक्षिः समुद्राः गिरयः अस्थि-सङ्घाः रोमाणि सर्व-ओषधि-वीरुधः ते । छन्दांसि साक्षात् तव सप्त धातवः त्रयी-मय-आत्मन् हृदयम् सर्व-धर्मः ।
kukṣiḥ samudrāḥ girayaḥ asthi-saṅghāḥ romāṇi sarva-oṣadhi-vīrudhaḥ te . chandāṃsi sākṣāt tava sapta dhātavaḥ trayī-maya-ātman hṛdayam sarva-dharmaḥ .
मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत्तच्छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ३० ।
मुखानि पञ्च उपनिषदः तव ईश यैः त्रिंशत्-अष्ट-उत्तर-मन्त्र-वर्गः । यत् तत् शिव-आख्यम् परमात्म-तत्त्वम् देव स्वयम् ज्योतिः-अवस्थितिः ते ।
mukhāni pañca upaniṣadaḥ tava īśa yaiḥ triṃśat-aṣṭa-uttara-mantra-vargaḥ . yat tat śiva-ākhyam paramātma-tattvam deva svayam jyotiḥ-avasthitiḥ te .
छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ३१ ।
छाया तु अधर्म-ऊर्मिषु यैः विसर्गः नेत्र-त्रयम् सत्त्व-रजः-तमांसि । शास्त्र-कृतः तव ईक्षा छन्दः-मयः देवः ऋषिः पुराणः ।
chāyā tu adharma-ūrmiṣu yaiḥ visargaḥ netra-trayam sattva-rajaḥ-tamāṃsi . śāstra-kṛtaḥ tava īkṣā chandaḥ-mayaḥ devaḥ ṛṣiḥ purāṇaḥ .
न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्र गम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ३२ ।
न ते गिरित्र अखिल-लोकपाल विरिञ्च-वैकुण्ठ-सुर-इन्द्र गम्यम् । ज्योतिः परम् यत्र रजः तमः च सत्त्वम् न यत् ब्रह्म निरस्त-भेदम् ।
na te giritra akhila-lokapāla viriñca-vaikuṇṭha-sura-indra gamyam . jyotiḥ param yatra rajaḥ tamaḥ ca sattvam na yat brahma nirasta-bhedam .
कामाध्वरत्रिपुरकालगराद्यनेक । भूतद्रुहः क्षपयतः स्तुतये न तत्ते । यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र । वह्निस्फुलिङ्गशिखया भसितं न वेद ३३ ।
काम-अध्वर-त्रिपुर-कालगर-आदि-अनेक- । भूत-द्रुहः क्षपयतः स्तुतये न तत् ते । यः तु अन्त-काले इदम् आत्म-कृतम् । वह्नि-स्फुलिङ्ग-शिखया भसितम् न वेद ।
kāma-adhvara-tripura-kālagara-ādi-aneka- . bhūta-druhaḥ kṣapayataḥ stutaye na tat te . yaḥ tu anta-kāle idam ātma-kṛtam . vahni-sphuliṅga-śikhayā bhasitam na veda .
ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि । द्वन्द्वं चरन्तमुमया तपसाभितप्तम् । कत्थन्त उग्रपरुषं निरतं श्मशाने । ते नूनमूतिमविदंस्तव हातलज्जाः ३४ ।
ये तु आत्म-राम-गुरुभिः हृदि चिन्तित-अङ्घ्रि । द्वन्द्वम् चरन्तम् उमया तपसा अभितप्तम् । कत्थन्ते उग्र-परुषम् निरतम् श्मशाने । ते नूनम् ऊतिम् अविदन् तव हात-लज्जाः ।
ye tu ātma-rāma-gurubhiḥ hṛdi cintita-aṅghri . dvandvam carantam umayā tapasā abhitaptam . katthante ugra-paruṣam niratam śmaśāne . te nūnam ūtim avidan tava hāta-lajjāḥ .
तत्तस्य ते सदसतोः परतः परस्य । नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः । ब्रह्मादयः किमुत संस्तवने वयं तु । तत्सर्गसर्गविषया अपि शक्तिमात्रम् ३५ ।
तत् तस्य ते सत्-असतोः परतस् परस्य । न अञ्जस् स्व-रूप-गमने प्रभवन्ति भूम्नः । ब्रह्म-आदयः किम् उत संस्तवने वयम् तु । तद्-सर्ग-सर्ग-विषयाः अपि शक्ति-मात्रम् ।
tat tasya te sat-asatoḥ paratas parasya . na añjas sva-rūpa-gamane prabhavanti bhūmnaḥ . brahma-ādayaḥ kim uta saṃstavane vayam tu . tad-sarga-sarga-viṣayāḥ api śakti-mātram .
एतत्परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ३६ ।
एतत् परम् प्रपश्यामः न परम् ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिः ते अव्यक्त-कर्मणः ।
etat param prapaśyāmaḥ na param te maheśvara . mṛḍanāya hi lokasya vyaktiḥ te avyakta-karmaṇaḥ .
श्रीशुक उवाच।
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः । सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ३७ ।
तत् वीक्ष्य व्यसनम् तासाम् कृपया भृश-पीडितः । सर्व-भूत-सुहृद् देवः इदम् आह सतीम् प्रियाम् ।
tat vīkṣya vyasanam tāsām kṛpayā bhṛśa-pīḍitaḥ . sarva-bhūta-suhṛd devaḥ idam āha satīm priyām .
श्रीशिव उवाच । अहो बत भवान्येतत्प्रजानां पश्य वैशसम् ।
श्री-शिवः उवाच । अहो बत भवानि एतत् प्रजानाम् पश्य वैशसम् ।
śrī-śivaḥ uvāca . aho bata bhavāni etat prajānām paśya vaiśasam .
अहो बत भवान्येतत्प्रजानां पश्य वैशसम् । क्षीरोदमथनोद्भूतात्कालकूटादुपस्थितम् ३८ ।
अहो बत भवानि एतत् प्रजानाम् पश्य वैशसम् । क्षीरोद-मथन-उद्भूतात् कालकूटात् उपस्थितम् ।
aho bata bhavāni etat prajānām paśya vaiśasam . kṣīroda-mathana-udbhūtāt kālakūṭāt upasthitam .
आसां प्राणपरीप्सूनां विधेयमभयं हि मे । एतावान्हि प्रभोरर्थो यद्दीनपरिपालनम् ३९ ।
आसाम् प्राण-परीप्सूनाम् विधेयम् अभयम् हि मे । एतावान् हि प्रभोः अर्थः यत् दीन-परिपालनम् ।
āsām prāṇa-parīpsūnām vidheyam abhayam hi me . etāvān hi prabhoḥ arthaḥ yat dīna-paripālanam .
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः । बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ४० ।
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः । बद्ध-वैरेषु भूतेषु मोहितेषु आत्म-मायया ।
prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇa-bhaṅguraiḥ . baddha-vaireṣu bhūteṣu mohiteṣu ātma-māyayā .
पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीयेऽहं सचराचरः । तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ४१ ।
पुंसः कृपयतः भद्रे सर्व-आत्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीये अहम् सचराचरः । तस्मात् इदम् गरम् भुञ्जे प्रजानाम् स्वस्तिः अस्तु मे ।
puṃsaḥ kṛpayataḥ bhadre sarva-ātmā prīyate hariḥ . prīte harau bhagavati prīye aham sacarācaraḥ . tasmāt idam garam bhuñje prajānām svastiḥ astu me .
श्रीशुक उवाच।
एवमामन्त्र्य भगवान्भवानीं विश्वभावनः । तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ४२ ।
एवम् आमन्त्र्य भगवान् भवानीम् विश्वभावनः । तत् विषम् जग्धुम् आरेभे प्रभाव-ज्ञा अन्वमोदत ।
evam āmantrya bhagavān bhavānīm viśvabhāvanaḥ . tat viṣam jagdhum ārebhe prabhāva-jñā anvamodata .
ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन्महादेवः कृपया भूतभावनः ४३ ।
ततस् व्यापि हालाहलम् विषम् । अभक्षयत् महादेवः कृपया भूतभावनः ।
tatas vyāpi hālāhalam viṣam . abhakṣayat mahādevaḥ kṛpayā bhūtabhāvanaḥ .
तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः । यच्चकार गले नीलं तच्च साधोर्विभूषणम् ४४ ।
तस्य अपि दर्शयामास स्व-वीर्यम् जलकल्मषः । यत् चकार गले नीलम् तत् च साधोः विभूषणम् ।
tasya api darśayāmāsa sva-vīryam jalakalmaṣaḥ . yat cakāra gale nīlam tat ca sādhoḥ vibhūṣaṇam .
तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ४५ ।
तप्यन्ते लोक-तापेन साधवः प्रायशस् जनाः । परम-आराधनम् तत् हि पुरुषस्य अखिलात्मनः ।
tapyante loka-tāpena sādhavaḥ prāyaśas janāḥ . parama-ārādhanam tat hi puruṣasya akhilātmanaḥ .
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः । प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ४६ ।
निशम्य कर्म तत् शम्भोः देवदेवस्य । प्रजाः दाक्षायणी ब्रह्मा वैकुण्ठः च शशंसिरे ।
niśamya karma tat śambhoḥ devadevasya . prajāḥ dākṣāyaṇī brahmā vaikuṇṭhaḥ ca śaśaṃsire .
प्रस्कन्नं पिबतः पाणेर्यत्किञ्चिज्जगृहुः स्म तत् । वृश्चिकाहिविषौषध्यो दन्दशूकाश्च येऽपरे ४७ ।
प्रस्कन्नम् पिबतः पाणेः यत् किञ्चिद् जगृहुः स्म तत् । वृश्चिक-अहि-विष-ओषध्यः दन्दशूकाः च ये अपरे ।
praskannam pibataḥ pāṇeḥ yat kiñcid jagṛhuḥ sma tat . vṛścika-ahi-viṣa-oṣadhyaḥ dandaśūkāḥ ca ye apare .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने सप्तमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे अमृतमथने सप्तमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe amṛtamathane saptamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In