| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
पीते गरे वृषाङ्केण प्रीतास्तेऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततोऽभवत् १ ।
पीते गरे वृषाङ्केण प्रीताः ते अमर-दानवाः । ममन्थुः तरसा सिन्धुम् हविर्धानी ततस् अभवत् ।
pīte gare vṛṣāṅkeṇa prītāḥ te amara-dānavāḥ . mamanthuḥ tarasā sindhum havirdhānī tatas abhavat .
तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः । यज्ञस्य देवयानस्य मेध्याय हविषे नृप २ ।
ताम् अग्निहोत्रीम् ऋषयः जगृहुः ब्रह्म-वादिनः । यज्ञस्य देव-यानस्य मेध्याय हविषे नृप ।
tām agnihotrīm ṛṣayaḥ jagṛhuḥ brahma-vādinaḥ . yajñasya deva-yānasya medhyāya haviṣe nṛpa .
तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्र पाण्डुरः । तस्मिन्बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ३ ।
ततस् उच्चैःश्रवाः नाम हयः अभूत् चन्द्र पाण्डुरः । तस्मिन् बलिः स्पृहाम् चक्रे न इन्द्रः ईश्वर-शिक्षया ।
tatas uccaiḥśravāḥ nāma hayaḥ abhūt candra pāṇḍuraḥ . tasmin baliḥ spṛhām cakre na indraḥ īśvara-śikṣayā .
तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रे र्हरन्भगवतो महिम् ४ ।
तत ऐरावतः नाम वारण-इन्द्रः विनिर्गतः । दन्तैः चतुर्भिः श्वेताद्रेः हरन् भगवतः महिम् ।
tata airāvataḥ nāma vāraṇa-indraḥ vinirgataḥ . dantaiḥ caturbhiḥ śvetādreḥ haran bhagavataḥ mahim .
ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः । अभ्रमुप्रभृतयोऽष्टौ च करिण्यस्त्वभवन्नृप ५ ।
ऐरावण-आदयः तु अष्टौ दिग्गजाः अभवन् ततस् । अभ्रमु-प्रभृतयः अष्टौ च करिण्यः तु अभवन् नृप ।
airāvaṇa-ādayaḥ tu aṣṭau diggajāḥ abhavan tatas . abhramu-prabhṛtayaḥ aṣṭau ca kariṇyaḥ tu abhavan nṛpa .
कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन्मणौ स्पृहां चक्रे वक्षोऽलङ्करणे हरिः ६ ।
कौस्तुभ-आख्यम् अभूत् रत्नम् पद्मरागः महोदधेः । तस्मिन् मणौ स्पृहाम् चक्रे वक्षः-अलङ्करणे हरिः ।
kaustubha-ākhyam abhūt ratnam padmarāgaḥ mahodadheḥ . tasmin maṇau spṛhām cakre vakṣaḥ-alaṅkaraṇe hariḥ .
ततोऽभवत्पारिजातः सुरलोकविभूषणम् । पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ७ ।
ततस् अभवत् पारिजातः सुर-लोक-विभूषणम् । पूरयति अर्थिनः यः अर्थैः शश्वत् भुवि यथा भवान् ।
tatas abhavat pārijātaḥ sura-loka-vibhūṣaṇam . pūrayati arthinaḥ yaḥ arthaiḥ śaśvat bhuvi yathā bhavān .
ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः । रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ८ ।
ततस् च अप्सरसः जाताः निष्क-कण्ठ्यः सु वाससः । रमण्यः स्वर्गिणाम् वल्गु गति-लीला-अवलोकनैः ।
tatas ca apsarasaḥ jātāḥ niṣka-kaṇṭhyaḥ su vāsasaḥ . ramaṇyaḥ svargiṇām valgu gati-līlā-avalokanaiḥ .
ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत्सौदामनी यथा ९ ।
ततस् च आविरभूत् साक्षात् श्री रमा भगवत्-परा । रञ्जयन्ती दिशः कान्त्या विद्युत्-सौदामनी यथा ।
tatas ca āvirabhūt sākṣāt śrī ramā bhagavat-parā . rañjayantī diśaḥ kāntyā vidyut-saudāmanī yathā .
तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः । रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः १० ।
तस्याम् चक्रुः स्पृहाम् सर्वे स सुर-असुर-मानवाः । रूप-औदार्य-वयः-वर्ण महिम-आक्षिप्त-चेतसः ।
tasyām cakruḥ spṛhām sarve sa sura-asura-mānavāḥ . rūpa-audārya-vayaḥ-varṇa mahima-ākṣipta-cetasaḥ .
तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् । मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ११ ।
तस्याः आसनम् आनिन्ये महा-इन्द्रः महत् अद्भुतम् । मूर्तिमत्यः सरित्-श्रेष्ठाः हेम-कुम्भैः जलम् शुचि ।
tasyāḥ āsanam āninye mahā-indraḥ mahat adbhutam . mūrtimatyaḥ sarit-śreṣṭhāḥ hema-kumbhaiḥ jalam śuci .
आभिषेचनिका भूमिराहरत्सकलौषधीः । गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ १२ ।
आभिषेचनिका भूमिः आहरत् सकल-ओषधीः । गावः पञ्च पवित्राणि वसन्तः मधु-माधवौ ।
ābhiṣecanikā bhūmiḥ āharat sakala-oṣadhīḥ . gāvaḥ pañca pavitrāṇi vasantaḥ madhu-mādhavau .
ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि । जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः १३ ।
ऋषयः यथाविधि । जगुः भद्राणि गन्धर्वाः नट्यः च ननृतुः जगुः ।
ṛṣayaḥ yathāvidhi . jaguḥ bhadrāṇi gandharvāḥ naṭyaḥ ca nanṛtuḥ jaguḥ .
मेघा मृदङ्गपणव मुरजानकगोमुखान् । व्यनादयन्शङ्खवेणु वीणास्तुमुलनिःस्वनान् १४ ।
मेघाः मृदङ्ग-पणव मुरज-आनक-गोमुखान् । व्यनादयन् शङ्ख-वेणु वीणाः तुमुल-निःस्वनान् ।
meghāḥ mṛdaṅga-paṇava muraja-ānaka-gomukhān . vyanādayan śaṅkha-veṇu vīṇāḥ tumula-niḥsvanān .
ततोऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् । दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः १५ ।
ततस् अभिषिषिचुः देवीम् श्रियम् पद्म-कराम् सतीम् । दिश्-इभाः पूर्ण-कलशैः सूक्त-वाक्यैः द्विज-ईरितैः ।
tatas abhiṣiṣicuḥ devīm śriyam padma-karām satīm . diś-ibhāḥ pūrṇa-kalaśaiḥ sūkta-vākyaiḥ dvija-īritaiḥ .
समुद्रः पीतकौशेय वाससी समुपाहरत् । वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् १६ ।
समुद्रः पीतकौशेय-वाससी समुपाहरत् । वरुणः स्रजम् वैजयन्तीम् मधुना मत्त-षट्पदाम् ।
samudraḥ pītakauśeya-vāsasī samupāharat . varuṇaḥ srajam vaijayantīm madhunā matta-ṣaṭpadām .
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारं सरस्वती पद्ममजो नागाश्च कुण्डले १७ ।
भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारम् सरस्वती पद्मम् अजः नागाः च कुण्डले ।
bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ . hāram sarasvatī padmam ajaḥ nāgāḥ ca kuṇḍale .
ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना । चचाल वक्त्रं सुकपोलकुण्डलं सव्रीडहासं दधती सुशोभनम् १८ ।
ततस् कृत-स्वस्त्ययन-उत्पल-स्रजम् नदत्-द्विरेफाम् परिगृह्य पाणिना । चचाल वक्त्रम् सु कपोल-कुण्डलम् स व्रीड-हासम् दधती सु शोभनम् ।
tatas kṛta-svastyayana-utpala-srajam nadat-dvirephām parigṛhya pāṇinā . cacāla vaktram su kapola-kuṇḍalam sa vrīḍa-hāsam dadhatī su śobhanam .
स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् । ततस्ततो नूपुरवल्गु शिञ्जितैर्विसर्पती हेमलतेव सा बभौ १९ ।
स्तन-द्वयम् च अति कृश-उदरी समम् निरन्तरम् चन्दन-कुङ्कुम-उक्षितम् । ततस् ततस् नूपुर-वल्गु शिञ्जितैः विसर्पती हेम-लता इव सा बभौ ।
stana-dvayam ca ati kṛśa-udarī samam nirantaram candana-kuṅkuma-ukṣitam . tatas tatas nūpura-valgu śiñjitaiḥ visarpatī hema-latā iva sā babhau .
विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत २० ।
विलोकयन्ती निरवद्यम् आत्मनः पदम् ध्रुवम् च अव्यभिचारि-सत्-गुणम् । गन्धर्व-सिद्ध-असुर-यक्ष-चारण त्रैपिष्टपेय-आदिषु न अन्वविन्दत ।
vilokayantī niravadyam ātmanaḥ padam dhruvam ca avyabhicāri-sat-guṇam . gandharva-siddha-asura-yakṣa-cāraṇa traipiṣṭapeya-ādiṣu na anvavindata .
नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित्तच्च न सङ्गवर्जितम् । कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः २१ ।
नूनम् तपः यस्य न मन्यु-निर्जयः ज्ञानम् क्वचिद् तत् च न सङ्ग-वर्जितम् । कश्चिद् महान् तस्य न काम-निर्जयः सः ईश्वरः किम् परतस् व्यपाश्रयः ।
nūnam tapaḥ yasya na manyu-nirjayaḥ jñānam kvacid tat ca na saṅga-varjitam . kaścid mahān tasya na kāma-nirjayaḥ saḥ īśvaraḥ kim paratas vyapāśrayaḥ .
धर्मः क्वचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम् । वीर्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः २२ ।
धर्मः क्वचिद् तत्र न भूत-सौहृदम् त्यागः क्वचिद् तत्र न मुक्ति-कारणम् । वीर्यम् न पुंसः अस्ति अज-वेग-निष्कृतम् न हि द्वितीयः गुण-सङ्ग-वर्जितः ।
dharmaḥ kvacid tatra na bhūta-sauhṛdam tyāgaḥ kvacid tatra na mukti-kāraṇam . vīryam na puṃsaḥ asti aja-vega-niṣkṛtam na hi dvitīyaḥ guṇa-saṅga-varjitaḥ .
क्वचिच्चिरायुर्न हि शीलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम्२३ ।
क्वचिद् चिर-आयुः न हि शील-मङ्गलम् क्वचिद् तत् अपि अस्ति न वेद्यम् आयुषः । यत्र उभयम् कुत्र च सः अपि अमङ्गलः सु मङ्गलः कः च न काङ्क्षते हि माम् ।
kvacid cira-āyuḥ na hi śīla-maṅgalam kvacid tat api asti na vedyam āyuṣaḥ . yatra ubhayam kutra ca saḥ api amaṅgalaḥ su maṅgalaḥ kaḥ ca na kāṅkṣate hi mām .
एवं विमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् २४ ।
एवम् विमृश्य अव्यभिचारि-सत्-गुणैः वरम् निज-एक-आश्रय-तया अ गुण-आश्रयम् । वव्रे वरम् सर्व-गुणैः अपेक्षितम् रमा मुकुन्दम् निरपेक्षम् ईप्सितम् ।
evam vimṛśya avyabhicāri-sat-guṇaiḥ varam nija-eka-āśraya-tayā a guṇa-āśrayam . vavre varam sarva-guṇaiḥ apekṣitam ramā mukundam nirapekṣam īpsitam .
तस्यांसदेश उतीं नवकञ्जमालां । माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् । तस्थौ निधाय निकटे तदुरः स्वधाम । सव्रीडहासविकसन्नयनेन याता २५ ।
तस्य अंस-देशे नव-कञ्ज-मालाम् । माद्यत्-मधु-व्रत-वरूथ-गिरा उपघुष्टाम् । तस्थौ निधाय निकटे तद्-उरः स्व-धाम । स व्रीड-हास-विकसत्-नयनेन याता ।
tasya aṃsa-deśe nava-kañja-mālām . mādyat-madhu-vrata-varūtha-girā upaghuṣṭām . tasthau nidhāya nikaṭe tad-uraḥ sva-dhāma . sa vrīḍa-hāsa-vikasat-nayanena yātā .
तस्याः श्रियस्त्रिजगतो जनको जनन्या । वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन । यत्र स्थितैधयत साधिपतींस्त्रिलोकान् २६ ।
तस्याः श्रियः त्रिजगतः जनकः जनन्या । वक्षः निवासम् अकरोत् परमम् विभूतेः । श्रीः स्वाः प्रजाः स करुणेन निरीक्षणेन । यत्र स्थिता ऐधयत सा अधिपतीन् त्रि-लोकान् ।
tasyāḥ śriyaḥ trijagataḥ janakaḥ jananyā . vakṣaḥ nivāsam akarot paramam vibhūteḥ . śrīḥ svāḥ prajāḥ sa karuṇena nirīkṣaṇena . yatra sthitā aidhayata sā adhipatīn tri-lokān .
शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः । देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् २७ ।
शङ्ख-तूर्य-मृदङ्गानाम् वादित्राणाम् पृथुः स्वनः । देव-अनुगानाम् स स्त्रीणाम् नृत्यताम् गायताम् अभूत् ।
śaṅkha-tūrya-mṛdaṅgānām vāditrāṇām pṛthuḥ svanaḥ . deva-anugānām sa strīṇām nṛtyatām gāyatām abhūt .
ब्रह्मरुद्रा ङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । ईडिरेऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः २८ ।
ब्रह्म-रुद्राः ङ्गिरः-मुख्याः सर्वे विश्वसृजः विभुम् । ईडिरे अवितथैः मन्त्रैः तद्-लिङ्गैः पुष्प-वर्षिणः ।
brahma-rudrāḥ ṅgiraḥ-mukhyāḥ sarve viśvasṛjaḥ vibhum . īḍire avitathaiḥ mantraiḥ tad-liṅgaiḥ puṣpa-varṣiṇaḥ .
श्रियावलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् २९ ।
श्रिया अवलोकिताः देवाः स प्रजापतयः प्रजाः । शील-आदि-गुण-सम्पन्नाः लेभिरे निर्वृतिम् पराम् ।
śriyā avalokitāḥ devāḥ sa prajāpatayaḥ prajāḥ . śīla-ādi-guṇa-sampannāḥ lebhire nirvṛtim parām .
निःसत्त्वा लोलुपा राजन्निरुद्योगा गतत्रपाः । यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ३० ।
निःसत्त्वाः लोलुपाः राजन् निरुद्योगाः गत-त्रपाः । यदा च उपेक्षिताः लक्ष्म्या बभूवुः दैत्य-दानवाः ।
niḥsattvāḥ lolupāḥ rājan nirudyogāḥ gata-trapāḥ . yadā ca upekṣitāḥ lakṣmyā babhūvuḥ daitya-dānavāḥ .
अथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमतेन ते ३१ ।
अथा आसीत् वारुणी देवी कन्या कमल-लोचना । असुराः जगृहुः ताम् वै हरेः अनुमतेन ते ।
athā āsīt vāruṇī devī kanyā kamala-locanā . asurāḥ jagṛhuḥ tām vai hareḥ anumatena te .
अथोदधेर्मथ्यमानात्काश्यपैरमृतार्थिभिः । उदतिष्ठन्महाराज पुरुषः परमाद्भुतः ३२ ।
अथ उदधेः मथ्यमानात् काश्यपैः अमृत-अर्थिभिः । उदतिष्ठत् महा-राज पुरुषः परम-अद्भुतः ।
atha udadheḥ mathyamānāt kāśyapaiḥ amṛta-arthibhiḥ . udatiṣṭhat mahā-rāja puruṣaḥ parama-adbhutaḥ .
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ३३ ।
। श्यामलः तरुणः स्रग्वी सर्व-आभरण-भूषितः ।
. śyāmalaḥ taruṇaḥ sragvī sarva-ābharaṇa-bhūṣitaḥ .
पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ३४ ।
पीत-वासाः महा-उरस्कः सुमृष्ट-मणि-कुण्डलः । स्निग्ध-कुञ्चित-केशान्त सुभगः सिंह-विक्रमः ।
pīta-vāsāḥ mahā-uraskaḥ sumṛṣṭa-maṇi-kuṇḍalaḥ . snigdha-kuñcita-keśānta subhagaḥ siṃha-vikramaḥ .
अमृतापूर्णकलसं बिभ्रद्वलयभूषितः । स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ३५ ।
अमृत-आपूर्ण-कलसम् बिभ्रत्-वलय-भूषितः । स वै भगवतः साक्षात् विष्णोः अंश-अंश-सम्भवः ।
amṛta-āpūrṇa-kalasam bibhrat-valaya-bhūṣitaḥ . sa vai bhagavataḥ sākṣāt viṣṇoḥ aṃśa-aṃśa-sambhavaḥ .
धन्वन्तरिरिति ख्यात आयुर्वेददृगिज्यभाक् । तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ३६ ।
धन्वन्तरिः इति ख्यातः आयुर्वेद-दृश् इज्य-भाज् । तम् आलोक्य असुराः सर्वे कलसम् च अमृत-आभृतम् ।
dhanvantariḥ iti khyātaḥ āyurveda-dṛś ijya-bhāj . tam ālokya asurāḥ sarve kalasam ca amṛta-ābhṛtam .
लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् । नीयमानेऽसुरैस्तस्मिन्कलसेऽमृतभाजने ३७ ।
लिप्सन्तः सर्व-वस्तूनि कलसम् तरसा अहरन् । नीयमाने असुरैः तस्मिन् कलसे अमृत-भाजने ।
lipsantaḥ sarva-vastūni kalasam tarasā aharan . nīyamāne asuraiḥ tasmin kalase amṛta-bhājane .
विषण्णमनसो देवा हरिं शरणमाययुः । इति तद्दैन्यमालोक्य भगवान्भृत्यकामकृत् । मा खिद्यत मिथोऽर्थं वः साधयिष्ये स्वमायया ३८ ।
विषण्ण-मनसः देवाः हरिम् शरणम् आययुः । इति तत् दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत् । मा खिद्यत मिथस् अर्थम् वः साधयिष्ये स्व-मायया ।
viṣaṇṇa-manasaḥ devāḥ harim śaraṇam āyayuḥ . iti tat dainyam ālokya bhagavān bhṛtya-kāma-kṛt . mā khidyata mithas artham vaḥ sādhayiṣye sva-māyayā .
मिथः कलिरभूत्तेषां तदर्थे तर्षचेतसाम् । अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ३९ ।
मिथस् कलिः अभूत् तेषाम् तद्-अर्थे तर्ष-चेतसाम् । अहम् पूर्वम् अहम् पूर्वम् न त्वम् न त्वम् इति प्रभो ।
mithas kaliḥ abhūt teṣām tad-arthe tarṣa-cetasām . aham pūrvam aham pūrvam na tvam na tvam iti prabho .
देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः । सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ४० ।
देवाः स्वम् भागम् अर्हन्ति ये तुल्य-आयास-हेतवः । सत्र-यागे इव एतस्मिन् एष धर्मः सनातनः ।
devāḥ svam bhāgam arhanti ye tulya-āyāsa-hetavaḥ . satra-yāge iva etasmin eṣa dharmaḥ sanātanaḥ .
इति स्वान्प्रत्यषेधन्वै दैतेया जातमत्सराः । दुर्बलाः प्रबलान्राजन्गृहीतकलसान्मुहुः ४१ ।
इति स्वान् प्रत्यषेधन् वै दैतेयाः जात-मत्सराः । दुर्बलाः प्रबलान् राजन् गृहीत-कलसान् मुहुर् ।
iti svān pratyaṣedhan vai daiteyāḥ jāta-matsarāḥ . durbalāḥ prabalān rājan gṛhīta-kalasān muhur .
एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः । योषिद्रू पमनिर्देश्यं दधारपरमाद्भुतम् ४२ ।
एतस्मिन् अन्तरे विष्णुः सर्व-उपाय-विद् ईश्वरः । योषित्-रूपम् अनिर्देश्यम् दधार परम-अद्भुतम् ।
etasmin antare viṣṇuḥ sarva-upāya-vid īśvaraḥ . yoṣit-rūpam anirdeśyam dadhāra parama-adbhutam .
प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ४३ ।
प्रेक्षणीय-उत्पल-श्यामम् सर्व-अवयव-सुन्दरम् । समान-कर्ण-आभरणम् सु कपोल-उन्नस-आननम् ।
prekṣaṇīya-utpala-śyāmam sarva-avayava-sundaram . samāna-karṇa-ābharaṇam su kapola-unnasa-ānanam .
नवयौवननिर्वृत्त स्तनभारकृशोदरम् । मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ४४ ।
नव-यौवन-निर्वृत्त स्तन-भार-कृश-उदरम् । मुख-आमोद-अनुरक्त-आलि झङ्कार-उद्विग्न-लोचनम् ।
nava-yauvana-nirvṛtta stana-bhāra-kṛśa-udaram . mukha-āmoda-anurakta-āli jhaṅkāra-udvigna-locanam .
बिभ्रत्सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ४५ ।
बिभ्रत् सु केश-भारेण मालाम् उत्फुल्ल-मल्लिकाम् । सुग्रीव-कण्ठ-आभरणम् सु भुज-अङ्गद-भूषितम् ।
bibhrat su keśa-bhāreṇa mālām utphulla-mallikām . sugrīva-kaṇṭha-ābharaṇam su bhuja-aṅgada-bhūṣitam .
विरजाम्बरसंवीत नितम्बद्वीपशोभया । काञ्च्या प्रविलसद्वल्गु चलच्चरणनूपुरम् ४६ ।
विरज-अम्बर-संवीत नितम्ब-द्वीप-शोभया । काञ्च्या प्रविलसत्-वल्गु चलत्-चरण-नूपुरम् ।
viraja-ambara-saṃvīta nitamba-dvīpa-śobhayā . kāñcyā pravilasat-valgu calat-caraṇa-nūpuram .
सव्रीडस्मितविक्षिप्त भ्रूविलासावलोकनैः । दैत्ययूथपचेतःसु काममुद्दीपयन्मुहुः ४७ ।
भ्रू-विलास-अवलोकनैः । दैत्य-यूथप-चेतःसु कामम् उद्दीपयन् मुहुर् ।
bhrū-vilāsa-avalokanaiḥ . daitya-yūthapa-cetaḥsu kāmam uddīpayan muhur .
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे भगवत्मायोपलम्भनम् नाम अष्टमः अध्यायः ।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe bhagavatmāyopalambhanam nāma aṣṭamaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In