| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - (अनुष्टुप्)
तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ १ ॥
ते अन्योन्यतः असुराः पात्रम् हरन्तः त्यक्त-सौहृदाः । क्षिपन्तः दस्यु-धर्माणः आयान्तीम् ददृशुः स्त्रियम् ॥ १ ॥
te anyonyataḥ asurāḥ pātram harantaḥ tyakta-sauhṛdāḥ . kṣipantaḥ dasyu-dharmāṇaḥ āyāntīm dadṛśuḥ striyam .. 1 ..
अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ २ ॥
अहो रूपम् अहो धाम अहो अस्याः नवम् वयः । इति ते ताम् अभिद्रुत्य पप्रच्छुः जात-हृच्छयाः ॥ २ ॥
aho rūpam aho dhāma aho asyāḥ navam vayaḥ . iti te tām abhidrutya papracchuḥ jāta-hṛcchayāḥ .. 2 ..
का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ ३ ॥
का त्वम् कञ्ज-पलाश-अक्षि कुतस् वा किम् चिकीर्षसि । कस्य असि वद वाम-ऊरु मथ्नती इव मनांसि नः ॥ ३ ॥
kā tvam kañja-palāśa-akṣi kutas vā kim cikīrṣasi . kasya asi vada vāma-ūru mathnatī iva manāṃsi naḥ .. 3 ..
न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ ४ ॥
न वयम् त्वा अमरैः दैत्यैः सिद्ध-गन्धर्व-चारणैः । न अ स्पृष्ट-पूर्वाम् जानीमः लोकेशैः च कुतस् नृभिः ॥ ४ ॥
na vayam tvā amaraiḥ daityaiḥ siddha-gandharva-cāraṇaiḥ . na a spṛṣṭa-pūrvām jānīmaḥ lokeśaiḥ ca kutas nṛbhiḥ .. 4 ..
नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ ५ ॥
नूनम् त्वम् विधिना सुभ्रूः प्रेषिता असि शरीरिणाम् । सर्व-इन्द्रिय-मनः-प्रीतिम् विधातुम् स घृणेन किम् ॥ ५ ॥
nūnam tvam vidhinā subhrūḥ preṣitā asi śarīriṇām . sarva-indriya-manaḥ-prītim vidhātum sa ghṛṇena kim .. 5 ..
सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ ६ ॥
सा त्वम् नः स्पर्धमानानाम् एक-वस्तुनि मानिनि । ज्ञातीनाम् बद्ध-वैराणाम् शम् विधत्स्व सुमध्यमे ॥ ६ ॥
sā tvam naḥ spardhamānānām eka-vastuni mānini . jñātīnām baddha-vairāṇām śam vidhatsva sumadhyame .. 6 ..
वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ ७ ॥
वयम् कश्यप-दायादाः भ्रातरः कृत-पौरुषाः । विभजस्व यथान्यायम् ना एव भेदः यथा भवेत् ॥ ७ ॥
vayam kaśyapa-dāyādāḥ bhrātaraḥ kṛta-pauruṣāḥ . vibhajasva yathānyāyam nā eva bhedaḥ yathā bhavet .. 7 ..
इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः । प्रहस्य रुचिरापाङ्गैः निरीक्षन् इदमब्रवीत् ॥ ८ ॥
इति उपामंत्रितः दैत्यैः माया-योषित् वपुः हरिः । प्रहस्य रुचिर-अपाङ्गैः निरीक्षन् इदम् अब्रवीत् ॥ ८ ॥
iti upāmaṃtritaḥ daityaiḥ māyā-yoṣit vapuḥ hariḥ . prahasya rucira-apāṅgaiḥ nirīkṣan idam abravīt .. 8 ..
श्रीभगवानुवाच -
कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ ९ ॥
कथम् कश्यप-दायादाः पुंश्चल्याम् मयि संगताः । विश्वासम् पण्डितः जातु कामिनीषु न याति हि ॥ ९ ॥
katham kaśyapa-dāyādāḥ puṃścalyām mayi saṃgatāḥ . viśvāsam paṇḍitaḥ jātu kāminīṣu na yāti hi .. 9 ..
सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ १० ॥
सालावृकाणाम् स्त्रीणाम् च स्वैरिणीनाम् सुरद्विषः । सख्यानि आहुः अनित्यानि नूत्नम् नूत्नम् विचिन्वताम् ॥ १० ॥
sālāvṛkāṇām strīṇām ca svairiṇīnām suradviṣaḥ . sakhyāni āhuḥ anityāni nūtnam nūtnam vicinvatām .. 10 ..
श्रीशुक उवाच -
इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ ११ ॥
इति ते क्ष्वेलितैः तस्याः आश्वस्त-मनसः असुराः । जहसुः भावगम्भीरम् ददुः च अमृत-भाजनम् ॥ ११ ॥
iti te kṣvelitaiḥ tasyāḥ āśvasta-manasaḥ asurāḥ . jahasuḥ bhāvagambhīram daduḥ ca amṛta-bhājanam .. 11 ..
ततो गृहीत्वामृतभाजनं हरिः बभाष ईषत् स्मितशोभया गिरा । यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ १२ ॥
ततस् गृहीत्वा अमृत-भाजनम् हरिः बभाष ईषत् स्मित-शोभया गिरा । यदि अभ्युपेतम् क्व च साधु असाधु वा कृतम् मया वः विभजे सुधाम् इमाम् ॥ १२ ॥
tatas gṛhītvā amṛta-bhājanam hariḥ babhāṣa īṣat smita-śobhayā girā . yadi abhyupetam kva ca sādhu asādhu vā kṛtam mayā vaḥ vibhaje sudhām imām .. 12 ..
इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः । अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत ॥ १३ ॥
इति अभिव्याहृतम् तस्याः आकर्ण्य असुर-पुंगवाः । अप्रमाण-विदः तस्याः तत् तथा इति अन्वमंसत ॥ १३ ॥
iti abhivyāhṛtam tasyāḥ ākarṇya asura-puṃgavāḥ . apramāṇa-vidaḥ tasyāḥ tat tathā iti anvamaṃsata .. 13 ..
अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ १४ ॥
अथा उपोष्य कृत-स्नाना हुत्वा च हविषा अनलम् । दत्त्वा गो-विप्र-भूतेभ्यः कृत-स्वस्त्ययना द्विजैः ॥ १४ ॥
athā upoṣya kṛta-snānā hutvā ca haviṣā analam . dattvā go-vipra-bhūtebhyaḥ kṛta-svastyayanā dvijaiḥ .. 14 ..
यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः ॥ १५ ॥
यथोपजोषम् वासांसि परिधाय अहतानि ते । कुशेषु प्राविशन् सर्वे प्राक् अग्रेषु अभिभूषिताः ॥ १५ ॥
yathopajoṣam vāsāṃsi paridhāya ahatāni te . kuśeṣu prāviśan sarve prāk agreṣu abhibhūṣitāḥ .. 15 ..
प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायां जुष्टायां माल्यदीपकैः ॥ १६ ॥
प्राच्-मुखेषु उपविष्टेषु सुरेषु दितिजेषु च । धूप-आमोदित-शालायाम् जुष्टायाम् माल्य-दीपकैः ॥ १६ ॥
prāc-mukheṣu upaviṣṭeṣu sureṣu ditijeṣu ca . dhūpa-āmodita-śālāyām juṣṭāyām mālya-dīpakaiḥ .. 16 ..
तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ १७ ॥
तस्याम् नरेन्द्र करभ-ऊरु-रुशत्-दुकूल श्रोणी-तट-अलस-गतिः मद-विह्वल-अक्षी । सा कूजती कनक-नूपुर-शिञ्जितेन कुम्भ-स्तनी कलस-पाणिः अथ आविवेश ॥ १७ ॥
tasyām narendra karabha-ūru-ruśat-dukūla śroṇī-taṭa-alasa-gatiḥ mada-vihvala-akṣī . sā kūjatī kanaka-nūpura-śiñjitena kumbha-stanī kalasa-pāṇiḥ atha āviveśa .. 17 ..
तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलित स्तनपट्टिकान्ताम् ॥ १८ ॥
ताम् श्री-सखीम् कनक-कुण्डल-चारु-कर्ण नासा-कपोल-वदनाम् पर-देवता-आख्याम् । संवीक्ष्य सम्मुमुहुः उत्स्मित-वीक्षणेन देव-असुराः विगलित-स्तन-पट्टिका-अन्ताम् ॥ १८ ॥
tām śrī-sakhīm kanaka-kuṇḍala-cāru-karṇa nāsā-kapola-vadanām para-devatā-ākhyām . saṃvīkṣya sammumuhuḥ utsmita-vīkṣaṇena deva-asurāḥ vigalita-stana-paṭṭikā-antām .. 18 ..
(अनुष्टुप्)
असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ १९ ॥
असुराणाम् सुधा-दानम् सर्पाणाम् इव दुर्नयम् । मत्वा जाति-नृशंसानाम् न ताम् व्यभजत् अच्युतः ॥ १९ ॥
asurāṇām sudhā-dānam sarpāṇām iva durnayam . matvā jāti-nṛśaṃsānām na tām vyabhajat acyutaḥ .. 19 ..
कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः । तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥
कल्पयित्वा पृथक् पंक्तीः उभयेषाम् जगत्पतिः । तान् च उपवेशयामास स्वेषु स्वेषु च पंक्तिषु ॥ २० ॥
kalpayitvā pṛthak paṃktīḥ ubhayeṣām jagatpatiḥ . tān ca upaveśayāmāsa sveṣu sveṣu ca paṃktiṣu .. 20 ..
दैत्यान् गृहीतकलसो वञ्चयन् उपसञ्चरैः । दूरस्थान् पाययामास जरामृत्युहरां सुधाम् ॥ २१ ॥
दैत्यान् गृहीत-कलसः वञ्चयन् उपसञ्चरैः । दूर-स्थान् पाययामास जरा-मृत्यु-हराम् सुधाम् ॥ २१ ॥
daityān gṛhīta-kalasaḥ vañcayan upasañcaraiḥ . dūra-sthān pāyayāmāsa jarā-mṛtyu-harām sudhām .. 21 ..
ते पालयन्तः समयं असुराः स्वकृतं नृप । तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ २२ ॥
ते पालयन्तः समयम् असुराः स्व-कृतम् नृप । तूष्णीम् आसन् कृत-स्नेहाः स्त्री-विवाद-जुगुप्सया ॥ २२ ॥
te pālayantaḥ samayam asurāḥ sva-kṛtam nṛpa . tūṣṇīm āsan kṛta-snehāḥ strī-vivāda-jugupsayā .. 22 ..
तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ २३ ॥
तस्याम् कृत-अति प्रणयाः प्रणय-अपाय-कातराः । बहु-मानेन च आबद्धाः न ऊचुः किञ्चन विप्रियम् ॥ २३ ॥
tasyām kṛta-ati praṇayāḥ praṇaya-apāya-kātarāḥ . bahu-mānena ca ābaddhāḥ na ūcuḥ kiñcana vipriyam .. 23 ..
देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः ॥ २४ ॥
देव-लिङ्ग-प्रतिच्छन्नः स्वर्भानुः देव-संसदि । प्रविष्टः सोमम् अपिबत् चन्द्र-अर्काभ्याम् च सूचितः ॥ २४ ॥
deva-liṅga-praticchannaḥ svarbhānuḥ deva-saṃsadi . praviṣṭaḥ somam apibat candra-arkābhyām ca sūcitaḥ .. 24 ..
चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ २५ ॥
चक्रेण क्षुर-धारेण जहार पिबतः शिरः । हरिः तस्य कबन्धः तु सुधया आप्लावितः अपतत् ॥ २५ ॥
cakreṇa kṣura-dhāreṇa jahāra pibataḥ śiraḥ . hariḥ tasya kabandhaḥ tu sudhayā āplāvitaḥ apatat .. 25 ..
शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् । यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः ॥ २६ ॥
शिरः तु अमरताम् नीतम् अजः ग्रहम् अचीकॢपत् । यः तु पर्वणि चन्द्र-अर्कौ अभिधावति वैर-धीः ॥ २६ ॥
śiraḥ tu amaratām nītam ajaḥ graham acīkḷpat . yaḥ tu parvaṇi candra-arkau abhidhāvati vaira-dhīḥ .. 26 ..
पीतप्रायेऽमृते देवैः भगवान् लोकभावनः । पश्यतां असुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ २७ ॥
पीत-प्राये अमृते देवैः भगवान् लोक-भावनः । पश्यताम् असुर-इन्द्राणाम् स्वम् रूपम् जगृहे हरिः ॥ २७ ॥
pīta-prāye amṛte devaiḥ bhagavān loka-bhāvanaḥ . paśyatām asura-indrāṇām svam rūpam jagṛhe hariḥ .. 27 ..
एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकल्पाः । तत्रामृतं सुरगणाः फलमञ्जसापुः यत्पादपंकजरजःश्रयणान्न दैत्याः ॥ २८ ॥
एवम् सुर-असुर-गणाः सम-देश-काल-हेतु-अर्थ-कर्म-मतयः अपि फले विकल्पाः । तत्र अमृतम् सुर-गणाः फलम् अञ्जसा आपुः यत् पाद-पंकज-रजः-श्रयणात् न दैत्याः ॥ २८ ॥
evam sura-asura-gaṇāḥ sama-deśa-kāla-hetu-artha-karma-matayaḥ api phale vikalpāḥ . tatra amṛtam sura-gaṇāḥ phalam añjasā āpuḥ yat pāda-paṃkaja-rajaḥ-śrayaṇāt na daityāḥ .. 28 ..
यद् युज्यतेऽसुवसुकर्ममनोवचोभिः देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् । तैरेव सद्भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ २९ ॥
यत् युज्यते असु-वसु-कर्म-मनः-वचोभिः देह-आत्मज-आदिषु नृभिः तत् असत् पृथक्त्वात् । तैः एव सत् भवति यत् क्रियते अपृथक्त्वात् सर्वस्य तत् भवति मूल-निषेचनम् यत् ॥ २९ ॥
yat yujyate asu-vasu-karma-manaḥ-vacobhiḥ deha-ātmaja-ādiṣu nṛbhiḥ tat asat pṛthaktvāt . taiḥ eva sat bhavati yat kriyate apṛthaktvāt sarvasya tat bhavati mūla-niṣecanam yat .. 29 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टम-स्कन्धे अमृतमथने नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām aṣṭama-skandhe amṛtamathane navamaḥ adhyāyaḥ .. 9 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In