| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १ ॥
मनोः तु शतरूपायाम् तिस्रः कन्याः च जज्ञिरे । आकूतिः देवहूतिः च प्रसूतिः इति विश्रुताः ॥ १ ॥
manoḥ tu śatarūpāyām tisraḥ kanyāḥ ca jajñire . ākūtiḥ devahūtiḥ ca prasūtiḥ iti viśrutāḥ .. 1 ..
आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २ ॥
आकूतिम् रुचये प्रादात् अपि भ्रातृमतीम् नृपः । पुत्रिका-धर्मम् आश्रित्य शतरूपा-अनुमोदितः ॥ २ ॥
ākūtim rucaye prādāt api bhrātṛmatīm nṛpaḥ . putrikā-dharmam āśritya śatarūpā-anumoditaḥ .. 2 ..
प्रजापतिः स भगवान् रुचिस्तस्यां अजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३ ॥
प्रजापतिः स भगवान् रुचिः तस्याम् अजीजनत् । मिथुनम् ब्रह्म-वर्चस्वी परमेण समाधिना ॥ ३ ॥
prajāpatiḥ sa bhagavān ruciḥ tasyām ajījanat . mithunam brahma-varcasvī parameṇa samādhinā .. 3 ..
यस्तयोः पुरुषः साक्षात् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेः अंशभूतानपायिनी ॥ ४ ॥
यः तयोः पुरुषः साक्षात् विष्णुः यज्ञ-स्व-रूप-धृक् । या स्त्री सा दक्षिणा भूतेः अंश-भूत-अनपायिनी ॥ ४ ॥
yaḥ tayoḥ puruṣaḥ sākṣāt viṣṇuḥ yajña-sva-rūpa-dhṛk . yā strī sā dakṣiṇā bhūteḥ aṃśa-bhūta-anapāyinī .. 4 ..
आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५ ॥
आनिन्ये स्व-गृहम् पुत्र्याः पुत्रम् वितत-रोचिषम् । स्वायम्भुवः मुदा युक्तः रुचिः जग्राह दक्षिणाम् ॥ ५ ॥
āninye sva-gṛham putryāḥ putram vitata-rociṣam . svāyambhuvaḥ mudā yuktaḥ ruciḥ jagrāha dakṣiṇām .. 5 ..
तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषमापन्नोऽ जनयद् द्वादशात्मजान् ॥ ॥ ६ ॥
ताम् कामयानाम् भगवान् उवाह यजुषाम् पतिः । तुष्टायाम् तोषम् आपन्नः जनयत् द्वादश आत्मजान् ॥ ॥ ६ ॥
tām kāmayānām bhagavān uvāha yajuṣām patiḥ . tuṣṭāyām toṣam āpannaḥ janayat dvādaśa ātmajān .. .. 6 ..
तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७ ॥
तोषः प्रतोषः सन्तोषः भद्रः शान्तिः इडस्पतिः । इध्मः कविः विभुः सु अह्नः सु देवः रोचनः द्विषष् ॥ ७ ॥
toṣaḥ pratoṣaḥ santoṣaḥ bhadraḥ śāntiḥ iḍaspatiḥ . idhmaḥ kaviḥ vibhuḥ su ahnaḥ su devaḥ rocanaḥ dviṣaṣ .. 7 ..
तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८ ॥
तुषिताः नाम ते देवाः आसन् स्वायम्भुव-अन्तरे । मरीचि-मिश्राः ऋषयः यज्ञः सुर-गण-ईश्वरः ॥ ८ ॥
tuṣitāḥ nāma te devāḥ āsan svāyambhuva-antare . marīci-miśrāḥ ṛṣayaḥ yajñaḥ sura-gaṇa-īśvaraḥ .. 8 ..
प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ । तत्पुत्रपौत्रनप्तॄणां अनुवृत्तं तदन्तरम् ॥ ९ ॥
प्रियव्रत-उत्तानपादौ मनु-पुत्रौ महा-ओजसौ । तद्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तम् तद्-अन्तरम् ॥ ९ ॥
priyavrata-uttānapādau manu-putrau mahā-ojasau . tad-putra-pautra-naptṝṇām anuvṛttam tad-antaram .. 9 ..
देवहूतिमदात् तात कर्दमायात्मजां मनुः । तत्संबन्धि श्रुतप्रायं भवता गदतो मम ॥ १० ॥
देवहूतिम् अदात् तात कर्दमाय आत्मजाम् मनुः । तद्-संबन्धि श्रुत-प्रायम् भवता गदतः मम ॥ १० ॥
devahūtim adāt tāta kardamāya ātmajām manuḥ . tad-saṃbandhi śruta-prāyam bhavatā gadataḥ mama .. 10 ..
दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान्मनुः । प्रायच्छद्यत्कृतः सर्गः त्रिलोक्यां विततो महान् ॥ ११ ॥
दक्षाय ब्रह्म-पुत्राय प्रसूतिम् भगवान् मनुः । प्रायच्छत् यत् कृतः सर्गः त्रिलोक्याम् विततः महान् ॥ ११ ॥
dakṣāya brahma-putrāya prasūtim bhagavān manuḥ . prāyacchat yat kṛtaḥ sargaḥ trilokyām vitataḥ mahān .. 11 ..
याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः । तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२ ॥
याः कर्दम-सुताः प्रोक्ताः नव ब्रह्मर्षि-पत्नयः । तासाम् प्रसूति-प्रसवम् प्रोच्यमानम् निबोध मे ॥ १२ ॥
yāḥ kardama-sutāḥ proktāḥ nava brahmarṣi-patnayaḥ . tāsām prasūti-prasavam procyamānam nibodha me .. 12 ..
पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोः आपूरितं जगत् ॥ १३ ॥
पत्नी मरीचेः तु कला सुषुवे कर्दम-आत्मजा । कश्यपम् पूर्णिमानम् च ययोः आपूरितम् जगत् ॥ १३ ॥
patnī marīceḥ tu kalā suṣuve kardama-ātmajā . kaśyapam pūrṇimānam ca yayoḥ āpūritam jagat .. 13 ..
पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद शौचाद्याभूत्सरिद्दिवः ॥ १४ ॥
पूर्णिमा असूत विरजम् विश्वगम् च परन्तप । देवकुल्याम् हरेः पाद शौचात् या अभूत् सरित् दिवः ॥ १४ ॥
pūrṇimā asūta virajam viśvagam ca parantapa . devakulyām hareḥ pāda śaucāt yā abhūt sarit divaḥ .. 14 ..
अत्रेः पत्न्यनसूया त्रीन् जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमं आत्मेशब्रह्मसम्भवान् ॥ १५ ॥
अत्रेः पत्नी अनसूया त्रीन् जज्ञे सुयशसः सुतान् । दत्तम् दुर्वाससम् सोमम् आत्म-ईश-ब्रह्म-सम्भवान् ॥ १५ ॥
atreḥ patnī anasūyā trīn jajñe suyaśasaḥ sutān . dattam durvāsasam somam ātma-īśa-brahma-sambhavān .. 15 ..
विदुर उवाच -
अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः । किञ्चित् चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६ ॥
अत्रेः गृहे सुर-श्रेष्ठाः स्थिति-उत्पत्ति-अन्त-हेतवः । किञ्चिद् चिकीर्षवः जाताः एतत् आख्याहि मे गुरो ॥ १६ ॥
atreḥ gṛhe sura-śreṣṭhāḥ sthiti-utpatti-anta-hetavaḥ . kiñcid cikīrṣavaḥ jātāḥ etat ākhyāhi me guro .. 16 ..
मैत्रेय उवाच -
ब्रह्मणा चोदितः सृष्टौ अत्रिर्ब्रह्मविदां वरः । सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७ ॥
ब्रह्मणा चोदितः सृष्टौ अत्रिः ब्रह्म-विदाम् वरः । सह पत्न्या ययौ वृक्षम् कुल-अद्रिम् तपसि स्थितः ॥ १७ ॥
brahmaṇā coditaḥ sṛṣṭau atriḥ brahma-vidām varaḥ . saha patnyā yayau vṛkṣam kula-adrim tapasi sthitaḥ .. 17 ..
तस्मिन् प्रसूनस्तबक पलाशाशोककानने । वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥
तस्मिन् प्रसून-स्तबक पलाश-अशोक-कानने । वार्भिः स्रवद्भिः उद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८ ॥
tasmin prasūna-stabaka palāśa-aśoka-kānane . vārbhiḥ sravadbhiḥ udghuṣṭe nirvindhyāyāḥ samantataḥ .. 18 ..
प्राणायामेन संयम्य मनो वर्षशतं मुनिः । अतिष्ठत् एकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९ ॥
प्राणायामेन संयम्य मनः वर्ष-शतम् मुनिः । अतिष्ठत् एक-पादेन निर्द्वन्द्वः अनिल-भोजनः ॥ १९ ॥
prāṇāyāmena saṃyamya manaḥ varṣa-śatam muniḥ . atiṣṭhat eka-pādena nirdvandvaḥ anila-bhojanaḥ .. 19 ..
शरणं तं प्रपद्येऽहं य एव जगदीश्वरः । प्रजां आत्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २० ॥
शरणम् तम् प्रपद्ये अहम् यः एव जगत्-ईश्वरः । प्रजाम् आत्म-समाम् मह्यम् प्रयच्छतु इति चिन्तयन् ॥ २० ॥
śaraṇam tam prapadye aham yaḥ eva jagat-īśvaraḥ . prajām ātma-samām mahyam prayacchatu iti cintayan .. 20 ..
तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१ ॥
तप्यमानम् त्रिभुवनम् प्राणायाम-एधसा अग्निना । निर्गतेन मुनेः मूर्ध्नः समीक्ष्य प्रभवः त्रयः ॥ २१ ॥
tapyamānam tribhuvanam prāṇāyāma-edhasā agninā . nirgatena muneḥ mūrdhnaḥ samīkṣya prabhavaḥ trayaḥ .. 21 ..
अप्सरोमुनिगन्धर्व सिद्धविद्याधरोरगैः । वितायमानयशसः तदा आश्रमपदं ययुः ॥ २२ ॥
अप्सरः-मुनि-गन्धर्व-सिद्ध-विद्याधर-उरगैः । वितायमान-यशसः तदा आश्रम-पदम् ययुः ॥ २२ ॥
apsaraḥ-muni-gandharva-siddha-vidyādhara-uragaiḥ . vitāyamāna-yaśasaḥ tadā āśrama-padam yayuḥ .. 22 ..
तत्प्रादुर्भावसंयोग विद्योतितमना मुनिः । उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३ ॥
तद्-प्रादुर्भाव-संयोग विद्योतित-मनाः मुनिः । उत्तिष्ठन् एक-पादेन ददर्श विबुध-ऋषभान् ॥ २३ ॥
tad-prādurbhāva-saṃyoga vidyotita-manāḥ muniḥ . uttiṣṭhan eka-pādena dadarśa vibudha-ṛṣabhān .. 23 ..
प्रणम्य दण्डवद्भूमौ उपतस्थेऽर्हणाञ्जलिः । वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४ ॥
प्रणम्य दण्ड-वत् भूमौ उपतस्थे अर्हण-अञ्जलिः । वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैः चिह्नैः च चिह्नितान् ॥ २४ ॥
praṇamya daṇḍa-vat bhūmau upatasthe arhaṇa-añjaliḥ . vṛṣa-haṃsa-suparṇa-sthān svaiḥ svaiḥ cihnaiḥ ca cihnitān .. 24 ..
कृपावलोकेन हसद् वदनेनोपलम्भितान् । तद् रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५ ॥
कृपा-अवलोकेन हसत् वदनेन उपलम्भितान् । तत् रोचिषा प्रतिहते निमील्य मुनि-रक्षिणी ॥ २५ ॥
kṛpā-avalokena hasat vadanena upalambhitān . tat rociṣā pratihate nimīlya muni-rakṣiṇī .. 25 ..
चेतस्तत्प्रवणं युञ्जन् अस्तावीत्संहताञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६ ॥
चेतः तद्-प्रवणम् युञ्जन् अस्तावीत् संहत-अञ्जलिः । श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः ॥ २६ ॥
cetaḥ tad-pravaṇam yuñjan astāvīt saṃhata-añjaliḥ . ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ .. 26 ..
अत्रिरुवाच -
विश्वोद्भवस्थितिलयेषु विभज्यमानैः मायागुणैरनुयुगं विगृहीतदेहाः । ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः तेभ्यः क एव भवतां मे इहोपहूतः ॥ २७ ॥
विश्व-उद्भव-स्थिति-लयेषु विभज्यमानैः माया-गुणैः अनुयुगम् विगृहीत-देहाः । ते ब्रह्म-विष्णु-गिरिशाः प्रणतः अस्मि अहम् वः तेभ्यः कः एव भवताम् मे इह उपहूतः ॥ २७ ॥
viśva-udbhava-sthiti-layeṣu vibhajyamānaiḥ māyā-guṇaiḥ anuyugam vigṛhīta-dehāḥ . te brahma-viṣṇu-giriśāḥ praṇataḥ asmi aham vaḥ tebhyaḥ kaḥ eva bhavatām me iha upahūtaḥ .. 27 ..
एको मयेह भगवान् विविधप्रधानैः चित्तीकृतः प्रजननाय कथं नु यूयम् । अत्रागतास्तनुभृतां मनसोऽपि दूराद् ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८ ॥
एकः मया इह भगवान् विविध-प्रधानैः चित्तीकृतः प्रजननाय कथम् नु यूयम् । अत्र आगताः तनुभृताम् मनसः अपि दूरात् ब्रूत प्रसीदत महान् इह विस्मयः मे ॥ २८ ॥
ekaḥ mayā iha bhagavān vividha-pradhānaiḥ cittīkṛtaḥ prajananāya katham nu yūyam . atra āgatāḥ tanubhṛtām manasaḥ api dūrāt brūta prasīdata mahān iha vismayaḥ me .. 28 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तं ऋषिं प्रभो ॥ २९ ॥
इति तस्य वचः श्रुत्वा त्रयः ते विबुध-ऋषभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिम् प्रभो ॥ २९ ॥
iti tasya vacaḥ śrutvā trayaḥ te vibudha-ṛṣabhāḥ . pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣim prabho .. 29 ..
देवा ऊचुः -
यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३० ॥
यथा कृतः ते सङ्कल्पः भाव्यम् तेन एव न अन्यथा । सत्-सङ्कल्पस्य ते ब्रह्मन् यत् वै ध्यायति ते वयम् ॥ ३० ॥
yathā kṛtaḥ te saṅkalpaḥ bhāvyam tena eva na anyathā . sat-saṅkalpasya te brahman yat vai dhyāyati te vayam .. 30 ..
अथास्मद् अंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥
अथ अस्मत् अंश-भूताः ते आत्मजाः लोक-विश्रुताः । भवितारः अङ्ग भद्रम् ते विस्रप्स्यन्ति च ते यशः ॥ ३१ ॥
atha asmat aṃśa-bhūtāḥ te ātmajāḥ loka-viśrutāḥ . bhavitāraḥ aṅga bhadram te visrapsyanti ca te yaśaḥ .. 31 ..
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग् दम्पत्योर्मिषतोस्ततः ॥ ३२ ॥
एवम् काम-वरम् दत्त्वा प्रतिजग्मुः सुर-ईश्वराः । सभाजिताः तयोः सम्यक् दम्पत्योः मिषतोः ततस् ॥ ३२ ॥
evam kāma-varam dattvā pratijagmuḥ sura-īśvarāḥ . sabhājitāḥ tayoḥ samyak dampatyoḥ miṣatoḥ tatas .. 32 ..
सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् । दुर्वासाः शंकरस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३ ॥
सोमः अभूत् ब्रह्मणः ॐऽशेन दत्तः विष्णोः तु योग-विद् । दुर्वासाः शंकरस्य अंशः निबोध अङ्गिरसः प्रजाः ॥ ३३ ॥
somaḥ abhūt brahmaṇaḥ oṃ'śena dattaḥ viṣṇoḥ tu yoga-vid . durvāsāḥ śaṃkarasya aṃśaḥ nibodha aṅgirasaḥ prajāḥ .. 33 ..
श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः । सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४ ॥
श्रद्धा तु अङ्गिरसः पत्नी चतस्रः असूत कन्यकाः । सिनीवाली कुहू राका चतुर्थी अनुमतिः तथा ॥ ३४ ॥
śraddhā tu aṅgirasaḥ patnī catasraḥ asūta kanyakāḥ . sinīvālī kuhū rākā caturthī anumatiḥ tathā .. 34 ..
तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे । उतथ्यो भगवान् साक्षात् ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५ ॥
तद्-पुत्रौ अपरौ आस्ताम् ख्यातौ स्वारोचिषे अन्तरे । उतथ्यः भगवान् साक्षात् ब्रह्मिष्ठः च बृहस्पतिः ॥ ३५ ॥
tad-putrau aparau āstām khyātau svārociṣe antare . utathyaḥ bhagavān sākṣāt brahmiṣṭhaḥ ca bṛhaspatiḥ .. 35 ..
पुलस्त्योऽजनयत्पत्न्यां अगस्त्यं च हविर्भुवि । सोऽन्यजन्मनि दह्राग्निः विश्रवाश्च महातपाः ॥ ३६ ॥
पुलस्त्यः अजनयत् पत्न्याम् अगस्त्यम् च हविः-भुवि । सः अन्य-जन्मनि दह्र-अग्निः विश्रवाः च महा-तपाः ॥ ३६ ॥
pulastyaḥ ajanayat patnyām agastyam ca haviḥ-bhuvi . saḥ anya-janmani dahra-agniḥ viśravāḥ ca mahā-tapāḥ .. 36 ..
तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः । रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७ ॥
तस्य यक्षपतिः देवः कुबेरः तु इडविडा-सुतः । रावणः कुम्भकर्णः च तथा अन्यस्याम् विभीषणः ॥ ३७ ॥
tasya yakṣapatiḥ devaḥ kuberaḥ tu iḍaviḍā-sutaḥ . rāvaṇaḥ kumbhakarṇaḥ ca tathā anyasyām vibhīṣaṇaḥ .. 37 ..
पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८ ॥
पुलहस्य गतिः भार्या त्रीन् असूत सती सुतान् । कर्म-श्रेष्ठम् वरीयांसम् सहिष्णुम् च महामते ॥ ३८ ॥
pulahasya gatiḥ bhāryā trīn asūta satī sutān . karma-śreṣṭham varīyāṃsam sahiṣṇum ca mahāmate .. 38 ..
क्रतोरपि क्रिया भार्या वालखिल्यानसूयत । ऋषीन्षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९ ॥
क्रतोः अपि क्रिया भार्या वालखिल्यान् असूयत । ऋषीन् षष्टि-सहस्राणि ज्वलतः ब्रह्म-तेजसा ॥ ३९ ॥
kratoḥ api kriyā bhāryā vālakhilyān asūyata . ṛṣīn ṣaṣṭi-sahasrāṇi jvalataḥ brahma-tejasā .. 39 ..
ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परंतप । चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४० ॥
ऊर्जायाम् जज्ञिरे पुत्राः वसिष्ठस्य परंतप । चित्रकेतु-प्रधानाः ते सप्त ब्रह्मर्षयः अमलाः ॥ ४० ॥
ūrjāyām jajñire putrāḥ vasiṣṭhasya paraṃtapa . citraketu-pradhānāḥ te sapta brahmarṣayaḥ amalāḥ .. 40 ..
चित्रकेतुः सुरोचिश्च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१ ॥
चित्रकेतुः सुरोचिः च विरजाः मित्रः एव च । उल्बणः वसुभृत् यानः द्युमान् शक्ति-आदयः अपरे ॥ ४१ ॥
citraketuḥ surociḥ ca virajāḥ mitraḥ eva ca . ulbaṇaḥ vasubhṛt yānaḥ dyumān śakti-ādayaḥ apare .. 41 ..
चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् । दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२ ॥
चित्तिः तु अथर्वणः पत्नी लेभे पुत्रम् धृत-व्रतम् । दध्यञ्चम् अश्वशिरसम् भृगोः वंशम् निबोध मे ॥ ४२ ॥
cittiḥ tu atharvaṇaḥ patnī lebhe putram dhṛta-vratam . dadhyañcam aśvaśirasam bhṛgoḥ vaṃśam nibodha me .. 42 ..
भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् । धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥
भृगुः ख्यात्याम् महाभागः पत्न्याम् पुत्रान् अजीजनत् । धातारम् च विधातारम् श्रियम् च भगवत्-पराम् ॥ ४३ ॥
bhṛguḥ khyātyām mahābhāgaḥ patnyām putrān ajījanat . dhātāram ca vidhātāram śriyam ca bhagavat-parām .. 43 ..
आयतिं नियतिं चैव सुते मेरुस्तयोरदात् । ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४ ॥
आयतिम् नियतिम् च एव सुते मेरुः तयोः अदात् । ताभ्याम् तयोः अभवताम् मृकण्डः प्राणः एव च ॥ ४४ ॥
āyatim niyatim ca eva sute meruḥ tayoḥ adāt . tābhyām tayoḥ abhavatām mṛkaṇḍaḥ prāṇaḥ eva ca .. 44 ..
मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः । कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५ ॥
मार्कण्डेयः मृकण्डस्य प्राणात् वेदशिराः मुनिः । कविः च भार्गवः यस्य भगवान् उशना सुतः ॥ ४५ ॥
mārkaṇḍeyaḥ mṛkaṇḍasya prāṇāt vedaśirāḥ muniḥ . kaviḥ ca bhārgavaḥ yasya bhagavān uśanā sutaḥ .. 45 ..
ते एते मुनयः क्षत्तः लोकान् सर्गैरभावयन् । एष कर्दमदौहित्र सन्तानः कथितस्तव । श्रृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६ ॥
ते एते मुनयः क्षत्तर् लोकान् सर्गैः अभावयन् । एष कर्दम-दौहित्र सन्तानः कथितः तव । श्रृण्वतः श्रद्दधानस्य सद्यस् पाप-हरः परः ॥ ४६ ॥
te ete munayaḥ kṣattar lokān sargaiḥ abhāvayan . eṣa kardama-dauhitra santānaḥ kathitaḥ tava . śrṛṇvataḥ śraddadhānasya sadyas pāpa-haraḥ paraḥ .. 46 ..
प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७ ॥
प्रसूतिम् मानवीम् दक्षः उपयेमे हि अज-आत्मजः । तस्याम् ससर्ज दुहितॄः षोडश अमल-लोचनाः ॥ ४७ ॥
prasūtim mānavīm dakṣaḥ upayeme hi aja-ātmajaḥ . tasyām sasarja duhitṝḥ ṣoḍaśa amala-locanāḥ .. 47 ..
त्रयोदशादाद्धर्माय तथैकामग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८ ॥
त्रयोदश अदात् धर्माय तथा एकाम् अग्नये विभुः । पितृभ्यः एकाम् युक्तेभ्यः भवाय एकाम् भव-छिदे ॥ ४८ ॥
trayodaśa adāt dharmāya tathā ekām agnaye vibhuḥ . pitṛbhyaḥ ekām yuktebhyaḥ bhavāya ekām bhava-chide .. 48 ..
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर्मेधा तितिक्षा ह्रीः मूर्तिर्धर्मस्य पत्नयः ॥ ४९ ॥
श्रद्धा मैत्री दया शान्तिः तुष्टिः पुष्टिः क्रिया-उन्नतिः । बुद्धिः मेधा तितिक्षा ह्रीः मूर्तिः धर्मस्य पत्नयः ॥ ४९ ॥
śraddhā maitrī dayā śāntiḥ tuṣṭiḥ puṣṭiḥ kriyā-unnatiḥ . buddhiḥ medhā titikṣā hrīḥ mūrtiḥ dharmasya patnayaḥ .. 49 ..
श्रद्धासूत शुभं मैत्री प्रसादं अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिः असूयत ॥ ५० ॥
श्रद्धा असूत शुभम् मैत्री प्रसादम् अभयम् दया । शान्तिः सुखम् मुदम् तुष्टिः स्मयम् पुष्टिः असूयत ॥ ५० ॥
śraddhā asūta śubham maitrī prasādam abhayam dayā . śāntiḥ sukham mudam tuṣṭiḥ smayam puṣṭiḥ asūyata .. 50 ..
योगं क्रियोन्नतिर्दर्पं अर्थं बुद्धिरसूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१ ॥
योगम् क्रिया-उन्नतिः दर्पम् अर्थम् बुद्धिः असूयत । मेधा स्मृतिम् तितिक्षा तु क्षेमम् ह्रीः प्रश्रयम् सुतम् ॥ ५१ ॥
yogam kriyā-unnatiḥ darpam artham buddhiḥ asūyata . medhā smṛtim titikṣā tu kṣemam hrīḥ praśrayam sutam .. 51 ..
मूर्तिः सर्वगुणोत्पत्तिः नरनारायणौ ऋषी । ययोर्जन्मन्यदो विश्वं अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३ ॥
मूर्तिः सर्व-गुण-उत्पत्तिः नर-नारायणौ ऋषी । ययोः जन्मनि अदः विश्वम् अभ्यनन्दत् सु निर्वृतम् । मनांसि ककुभः वाताः प्रसेदुः सरितः अद्रयः ॥ ५३ ॥
mūrtiḥ sarva-guṇa-utpattiḥ nara-nārāyaṇau ṛṣī . yayoḥ janmani adaḥ viśvam abhyanandat su nirvṛtam . manāṃsi kakubhaḥ vātāḥ praseduḥ saritaḥ adrayaḥ .. 53 ..
दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः । मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४ ॥
दिवि अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः । मुनयः तुष्टुवुः तुष्टाः जगुः गन्धर्व-किन्नराः ॥ ५४ ॥
divi avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ . munayaḥ tuṣṭuvuḥ tuṣṭāḥ jaguḥ gandharva-kinnarāḥ .. 54 ..
नृत्यन्ति स्म स्त्रियो देव्य आसीत् परममङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५ ॥
नृत्यन्ति स्म स्त्रियः देव्यः आसीत् परम-मङ्गलम् । देवाः ब्रह्म-आदयः सर्वे उपतस्थुः अभिष्टवैः ॥ ५५ ॥
nṛtyanti sma striyaḥ devyaḥ āsīt parama-maṅgalam . devāḥ brahma-ādayaḥ sarve upatasthuḥ abhiṣṭavaiḥ .. 55 ..
देवा ऊचुः -
यो मायया विरचितं निजयात्मनीदं खे रूपभेदमिव तत्प्रतिचक्षणाय । एतेन धर्मसदने ऋषिमूर्तिनाद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
यः मायया विरचितम् निजया आत्मनि इदम् खे रूप-भेदम् इव तद्-प्रतिचक्षणाय । एतेन धर्म-सदने ऋषि-मूर्तिना अद्य प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६ ॥
yaḥ māyayā viracitam nijayā ātmani idam khe rūpa-bhedam iva tad-praticakṣaṇāya . etena dharma-sadane ṛṣi-mūrtinā adya prāduścakāra puruṣāya namaḥ parasmai .. 56 ..
सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान् सत्त्वेन नः सुरगणान् अनुमेयतत्त्वः । दृश्याददभ्रकरुणेन विलोकनेन यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७ ॥
सः अयम् स्थिति-व्यतिकर-उपशमाय सृष्टान् सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः । दृश्यात् अदभ्र-करुणेन विलोकनेन यत् श्रीनिकेतम् अमलम् क्षिपता अरविन्दम् ॥ ५७ ॥
saḥ ayam sthiti-vyatikara-upaśamāya sṛṣṭān sattvena naḥ sura-gaṇān anumeya-tattvaḥ . dṛśyāt adabhra-karuṇena vilokanena yat śrīniketam amalam kṣipatā aravindam .. 57 ..
(अनुष्टुप्)
एवं सुरगणैस्तात भगवन्तावभिष्टुतौ । लब्धावलोकैर्ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥
एवम् सुर-गणैः तात भगवन्तौ अभिष्टुतौ । लब्ध-अवलोकैः ययतुः अर्चितौ गन्धमादनम् ॥ ५८ ॥
evam sura-gaṇaiḥ tāta bhagavantau abhiṣṭutau . labdha-avalokaiḥ yayatuḥ arcitau gandhamādanam .. 58 ..
तौ इमौ वै भगवतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९ ॥
तौ इमौ वै भगवतः हरेः अंशौ इह आगतौ । भार-व्ययाय च भुवः कृष्णौ यदु-कुरु-उद्वहौ ॥ ५९ ॥
tau imau vai bhagavataḥ hareḥ aṃśau iha āgatau . bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kuru-udvahau .. 59 ..
स्वाहाभिमानिनश्चाग्नेः आत्मजान् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६० ॥
स्वाहा-अभिमानिनः च अग्नेः आत्मजान् त्रीन् अजीजनत् । पावकम् पवमानम् च शुचिम् च हुत-भोजनम् ॥ ६० ॥
svāhā-abhimāninaḥ ca agneḥ ātmajān trīn ajījanat . pāvakam pavamānam ca śucim ca huta-bhojanam .. 60 ..
तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च । ते एवैकोनपञ्चाशत् साकं पितृपितामहैः । ॥ ६१ ॥
तेभ्यः अग्नयः समभवन् चत्वारिंशत् च पञ्च च । ते एव एकोनपञ्चाशत् साकम् पितृ-पितामहैः । ॥ ६१ ॥
tebhyaḥ agnayaḥ samabhavan catvāriṃśat ca pañca ca . te eva ekonapañcāśat sākam pitṛ-pitāmahaiḥ . .. 61 ..
वैतानिके कर्मणि यत् नामभिर्ब्रह्मवादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते । ॥ ६२ ॥
वैतानिके कर्मणि यत् नामभिः ब्रह्म-वादिभिः । आग्नेय्यः इष्टयः यज्ञे निरूप्यन्ते अग्नयः तु ते । ॥ ६२ ॥
vaitānike karmaṇi yat nāmabhiḥ brahma-vādibhiḥ . āgneyyaḥ iṣṭayaḥ yajñe nirūpyante agnayaḥ tu te . .. 62 ..
अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा । ॥ ६३ ॥
अग्निष्वात्ताः बर्हिषदः सौम्याः पितरः आज्य-पाः । स अग्नयः अनग्नयः तेषाम् पत्नी दाक्षायणी स्वधा । ॥ ६३ ॥
agniṣvāttāḥ barhiṣadaḥ saumyāḥ pitaraḥ ājya-pāḥ . sa agnayaḥ anagnayaḥ teṣām patnī dākṣāyaṇī svadhā . .. 63 ..
तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे । ॥ ६४ ॥
तेभ्यः दधार कन्ये द्वे वयुनाम् धारिणीम् स्वधा । उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे । ॥ ६४ ॥
tebhyaḥ dadhāra kanye dve vayunām dhāriṇīm svadhā . ubhe te brahma-vādinyau jñāna-vijñāna-pārage . .. 64 ..
भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः । ॥ ६५ ॥
भवस्य पत्नी तु सती भवम् देवम् अनुव्रता । आत्मनः सदृशम् पुत्रम् न लेभे गुण-शीलतः । ॥ ६५ ॥
bhavasya patnī tu satī bhavam devam anuvratā . ātmanaḥ sadṛśam putram na lebhe guṇa-śīlataḥ . .. 65 ..
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानं अजहाद् योगसंयुता । ॥ ६६ ॥
पितरि अप्रतिरूपे स्वे भवाय अनागसे रुषा । अप्रौढा एव आत्मना आत्मानम् अजहात् योग-संयुता । ॥ ६६ ॥
pitari apratirūpe sve bhavāya anāgase ruṣā . aprauḍhā eva ātmanā ātmānam ajahāt yoga-saṃyutā . .. 66 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे विदुर-मैत्रेय-संवादे प्रथमः अध्यायः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe vidura-maitreya-saṃvāde prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In