| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥
प्रजापतेः दुहितरम् शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिम् नाम तद्-सुतौ कल्प-वत्सरौ ॥ १ ॥
prajāpateḥ duhitaram śiśumārasya vai dhruvaḥ . upayeme bhramim nāma tad-sutau kalpa-vatsarau .. 1 ..
मैत्रेय उवाच - (अनुष्टुप्)
इलायामपि भार्यायां वायोः पुत्र्यां महाबलः । पुत्रं उत्कलनामानं योषिद् रत्नमजीजनत् ॥ २ ॥
इलायाम् अपि भार्यायाम् वायोः पुत्र्याम् महा-बलः । पुत्रम् उत्कल-नामानम् योषित् रत्नम् अजीजनत् ॥ २ ॥
ilāyām api bhāryāyām vāyoḥ putryām mahā-balaḥ . putram utkala-nāmānam yoṣit ratnam ajījanat .. 2 ..
उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा । हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥
उत्तमः तु अकृत-उद्वाहः मृगयायाम् बलीयसा । हतः पुण्यजनेन अद्रौ तद्-माता अस्य गतिम् गता ॥ ३ ॥
uttamaḥ tu akṛta-udvāhaḥ mṛgayāyām balīyasā . hataḥ puṇyajanena adrau tad-mātā asya gatim gatā .. 3 ..
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः । जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४ ॥
ध्रुवः भ्रातृ-वधम् श्रुत्वा कोप-अमर्ष-शुचा अर्पितः । जैत्रम् स्यन्दनम् आस्थाय गतः पुण्यजन-आलयम् ॥ ४ ॥
dhruvaḥ bhrātṛ-vadham śrutvā kopa-amarṣa-śucā arpitaḥ . jaitram syandanam āsthāya gataḥ puṇyajana-ālayam .. 4 ..
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम् ॥ ५ ॥
गत्वा उदीचीम् दिशम् राजा रुद्र-अनुचर-सेविताम् । ददर्श हिमवत्-द्रोण्याम् पुरीम् गुह्यक-संकुलाम् ॥ ५ ॥
gatvā udīcīm diśam rājā rudra-anucara-sevitām . dadarśa himavat-droṇyām purīm guhyaka-saṃkulām .. 5 ..
दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन् । येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम् ॥ ॥ ६ ॥
दध्मौ शङ्खम् बृहत्-बाहुः खम् दिशः च अनुनादयन् । येन उद्विग्न-दृशः क्षत्तर् उपदेव्यः अत्रसन् भृशम् ॥ ॥ ६ ॥
dadhmau śaṅkham bṛhat-bāhuḥ kham diśaḥ ca anunādayan . yena udvigna-dṛśaḥ kṣattar upadevyaḥ atrasan bhṛśam .. .. 6 ..
ततो निष्क्रम्य बलिन उपदेवमहाभटाः । असहन्तः तन्निनादं अभिपेतुरुदायुधाः ॥ ७ ॥
ततस् निष्क्रम्य बलिनः उपदेव-महा-भटाः । अ सहन्तः तद्-निनादम् अभिपेतुः उदायुधाः ॥ ७ ॥
tatas niṣkramya balinaḥ upadeva-mahā-bhaṭāḥ . a sahantaḥ tad-ninādam abhipetuḥ udāyudhāḥ .. 7 ..
स तान् आपततो वीर उग्रधन्वा महारथः । एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८ ॥
स तान् आपततः वीरः उग्र-धन्वा महा-रथः । एकैकम् युगपद् सर्वान् अहन् बाणैः त्रिभिः त्रिभिः ॥ ८ ॥
sa tān āpatataḥ vīraḥ ugra-dhanvā mahā-rathaḥ . ekaikam yugapad sarvān ahan bāṇaiḥ tribhiḥ tribhiḥ .. 8 ..
ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि । मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत् ॥ ९ ॥
ते वै ललाट-लग्नैः तैः इषुभिः सर्वे एव हि । मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् ॥ ९ ॥
te vai lalāṭa-lagnaiḥ taiḥ iṣubhiḥ sarve eva hi . matvā nirastam ātmānam āśaṃsan karma tasya tat .. 9 ..
तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः । शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ १० ॥
ते अपि च अमुम् अमृष्यन्तः पाद-स्पर्शम् इव उरगाः । शरैः अविध्यन् युगपद् द्विगुणम् प्रचिकीर्षवः ॥ १० ॥
te api ca amum amṛṣyantaḥ pāda-sparśam iva uragāḥ . śaraiḥ avidhyan yugapad dviguṇam pracikīrṣavaḥ .. 10 ..
ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः । शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि ॥ ११ ॥
ततस् परिघ-निस्त्रिंशैः प्रास-शूल-परश्वधैः । शक्ति-ऋष्टिभिः भुशुण्डीभिः चित्र-वाजैः शरैः अपि ॥ ११ ॥
tatas parigha-nistriṃśaiḥ prāsa-śūla-paraśvadhaiḥ . śakti-ṛṣṭibhiḥ bhuśuṇḍībhiḥ citra-vājaiḥ śaraiḥ api .. 11 ..
अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम् । इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश ॥ १२ ॥
अभ्यवर्षन् प्रकुपिताः स रथम् सह सारथिम् । इच्छन्तः तत् प्रतीकर्तुम् अयुतानाम् त्रयोदश ॥ १२ ॥
abhyavarṣan prakupitāḥ sa ratham saha sārathim . icchantaḥ tat pratīkartum ayutānām trayodaśa .. 12 ..
औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा । न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ १३ ॥
औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा । न एव अदृश्यत आच्छन्नः आसारेण यथा गिरिः ॥ १३ ॥
auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā . na eva adṛśyata ācchannaḥ āsāreṇa yathā giriḥ .. 13 ..
हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् । हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४ ॥
हाहाकारः तदा एव आसीत् सिद्धानाम् दिवि पश्यताम् । हतः अयम् मानवः सूर्यः मग्नः पुण्यजन-अर्णवे ॥ १४ ॥
hāhākāraḥ tadā eva āsīt siddhānām divi paśyatām . hataḥ ayam mānavaḥ sūryaḥ magnaḥ puṇyajana-arṇave .. 14 ..
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे । उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः ॥ १५ ॥
नदत्सु यातुधानेषु जय-काशिषु अथो मृधे । उदतिष्ठत् रथः तस्य नीहारात् इव भास्करः ॥ १५ ॥
nadatsu yātudhāneṣu jaya-kāśiṣu atho mṛdhe . udatiṣṭhat rathaḥ tasya nīhārāt iva bhāskaraḥ .. 15 ..
धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् । अस्त्रौघं व्यधमद्बाणैः घनानीकमिवानिलः ॥ १६ ॥
धनुः विस्फूर्जयन् दिव्यम् द्विषताम् खेदम् उद्वहन् । अस्त्र-ओघम् व्यधमत् बाणैः घन-अनीकम् इव अनिलः ॥ १६ ॥
dhanuḥ visphūrjayan divyam dviṣatām khedam udvahan . astra-ogham vyadhamat bāṇaiḥ ghana-anīkam iva anilaḥ .. 16 ..
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा ॥ १७ ॥
तस्य ते चाप-निर्मुक्ताः भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुः तिग्माः गिरीन् अशनयः यथा ॥ १७ ॥
tasya te cāpa-nirmuktāḥ bhittvā varmāṇi rakṣasām . kāyān āviviśuḥ tigmāḥ girīn aśanayaḥ yathā .. 17 ..
भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः । ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः ॥ १८ ॥
भल्लैः सञ्छिद्यमानानाम् शिरोभिः चारु-कुण्डलैः । ऊरुभिः हेम-ताल-आभैः दोर्भिः वलय-वल्गुभिः ॥ १८ ॥
bhallaiḥ sañchidyamānānām śirobhiḥ cāru-kuṇḍalaiḥ . ūrubhiḥ hema-tāla-ābhaiḥ dorbhiḥ valaya-valgubhiḥ .. 18 ..
हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः । आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः ॥ १९ ॥
हार-केयूर-मुकुटैः उष्णीषैः च महाधनैः । आस्तृताः ताः रण-भुवः रेजुः वीर-मनोहराः ॥ १९ ॥
hāra-keyūra-mukuṭaiḥ uṣṇīṣaiḥ ca mahādhanaiḥ . āstṛtāḥ tāḥ raṇa-bhuvaḥ rejuḥ vīra-manoharāḥ .. 19 ..
हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः । प्रायो विवृक्णावयवा विदुद्रुवुः मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥
हत-अवशिष्टाः इतरे रण-अजिरात् रक्षः-गणाः क्षत्रिय-वर्य-सायकैः । प्रायस् विवृक्ण-अवयवाः विदुद्रुवुः मृगेन्द्र-विक्रीडित-यूथपाः इव ॥ २० ॥
hata-avaśiṣṭāḥ itare raṇa-ajirāt rakṣaḥ-gaṇāḥ kṣatriya-varya-sāyakaiḥ . prāyas vivṛkṇa-avayavāḥ vidudruvuḥ mṛgendra-vikrīḍita-yūthapāḥ iva .. 20 ..
अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः । पुरीं दिदृक्षन्नपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ २१ ॥
अपश्यमानः स तदा आततायिनम् महा-मृधे कञ्चन मानव-उत्तमः । पुरीम् दिदृक्षन् अपि न अविशत् द्विषाम् न मायिनाम् वेद चिकीर्षितम् जनः ॥ २१ ॥
apaśyamānaḥ sa tadā ātatāyinam mahā-mṛdhe kañcana mānava-uttamaḥ . purīm didṛkṣan api na aviśat dviṣām na māyinām veda cikīrṣitam janaḥ .. 21 ..
इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः । शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥
इति ब्रुवन् चित्ररथः स्व-सारथिम् यत्तः परेषाम् प्रतियोग-शङ्कितः । शुश्राव शब्दम् जलधेः इव ईरितम् नभस्वतः दिक्षु रजः अन्वदृश्यत ॥ २२ ॥
iti bruvan citrarathaḥ sva-sārathim yattaḥ pareṣām pratiyoga-śaṅkitaḥ . śuśrāva śabdam jaladheḥ iva īritam nabhasvataḥ dikṣu rajaḥ anvadṛśyata .. 22 ..
(अनुष्टुप्)
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः । विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्नुना ॥ २३ ॥
क्षणेन आच्छादितम् व्योम घन-अनीकेन सर्वतस् । विस्फुरत्-तडिता दिक्षु त्रासयत् स्तनयित्नुना ॥ २३ ॥
kṣaṇena ācchāditam vyoma ghana-anīkena sarvatas . visphurat-taḍitā dikṣu trāsayat stanayitnunā .. 23 ..
ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः । निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥
ववृषुः रुधिर-ओघ-असृज् पूय-विष्-मूत्र-मेदसः । निपेतुः गगनात् अस्य कबन्धानि अग्रतस् अनघ ॥ २४ ॥
vavṛṣuḥ rudhira-ogha-asṛj pūya-viṣ-mūtra-medasaḥ . nipetuḥ gaganāt asya kabandhāni agratas anagha .. 24 ..
ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् । गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः ॥ २५ ॥
ततस् खे अदृश्यत गिरिः निपेतुः सर्वतोदिशम् । गदा-परिघ-निस्त्रिंश मुसलाः स अश्म-वर्षिणः ॥ २५ ॥
tatas khe adṛśyata giriḥ nipetuḥ sarvatodiśam . gadā-parigha-nistriṃśa musalāḥ sa aśma-varṣiṇaḥ .. 25 ..
अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः । अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६ ॥
अहयः अशनि-निःश्वासाः वमन्तः अग्निम् रुषा अक्षिभिः । अभ्यधावन् गजाः मत्ताः सिंह-व्याघ्राः च यूथशस् ॥ २६ ॥
ahayaḥ aśani-niḥśvāsāḥ vamantaḥ agnim ruṣā akṣibhiḥ . abhyadhāvan gajāḥ mattāḥ siṃha-vyāghrāḥ ca yūthaśas .. 26 ..
समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् । आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७ ॥
समुद्रः ऊर्मिभिः भीमः प्लावयन् सर्वतस् भुवम् । आससाद महा-ह्रादः कल्प-अन्ते इव भीषणः ॥ २७ ॥
samudraḥ ūrmibhiḥ bhīmaḥ plāvayan sarvatas bhuvam . āsasāda mahā-hrādaḥ kalpa-ante iva bhīṣaṇaḥ .. 27 ..
एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् । ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८ ॥
एवंविधानि अनेकानि त्रासनानि अमनस्विनाम् । ससृजुः तिग्म-गतयः आसुर्या मायया असुराः ॥ २८ ॥
evaṃvidhāni anekāni trāsanāni amanasvinām . sasṛjuḥ tigma-gatayaḥ āsuryā māyayā asurāḥ .. 28 ..
ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् । निशम्य तस्य मुनयः शमाशंसन् समागताः ॥ २९ ॥
ध्रुवे प्रयुक्ताम् असुरैः ताम् मायाम् अति दुस्तराम् । निशम्य तस्य मुनयः शमा अशंसन् समागताः ॥ २९ ॥
dhruve prayuktām asuraiḥ tām māyām ati dustarām . niśamya tasya munayaḥ śamā aśaṃsan samāgatāḥ .. 29 ..
मुनय ऊचुः -
औत्तानपाद भगवान् तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् । यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥
औत्तानपाद भगवान् तव शार्ङ्गधन्वा देवः क्षिणोतु अवनत-आर्ति-हरः विपक्षान् । यद्-नामधेयम् अभिधाय निशम्य च अद्धा लोकः अञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥ ३० ॥
auttānapāda bhagavān tava śārṅgadhanvā devaḥ kṣiṇotu avanata-ārti-haraḥ vipakṣān . yad-nāmadheyam abhidhāya niśamya ca addhā lokaḥ añjasā tarati dustaram aṅga mṛtyum .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe daśamaḥ adhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In