| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः । सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १ ॥
निशम्य गदताम् एवम् ऋषीणाम् धनुषि ध्रुवः । सन्दधे अस्त्रम् उपस्पृश्य यत् नारायण-निर्मितम् ॥ १ ॥
niśamya gadatām evam ṛṣīṇām dhanuṣi dhruvaḥ . sandadhe astram upaspṛśya yat nārāyaṇa-nirmitam .. 1 ..
सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः । क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २ ॥
सन्धीयमाने एतस्मिन् मायाः गुह्यक-निर्मिताः । क्षिप्रम् विनेशुः विदुर क्लेशाः ज्ञान-उदये यथा ॥ २ ॥
sandhīyamāne etasmin māyāḥ guhyaka-nirmitāḥ . kṣipram vineśuḥ vidura kleśāḥ jñāna-udaye yathā .. 2 ..
तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः । विनिःसृता आविविशुर्द्विषद्बलं यथा वनं भीमरवाः शिखण्डिनः ॥ ३ ॥
तस्य आर्ष-अस्त्रम् धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः । विनिःसृताः आविविशुः द्विषत्-बलम् यथा वनम् भीम-रवाः शिखण्डिनः ॥ ३ ॥
tasya ārṣa-astram dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṃsa-vāsasaḥ . viniḥsṛtāḥ āviviśuḥ dviṣat-balam yathā vanam bhīma-ravāḥ śikhaṇḍinaḥ .. 3 ..
तैस्तिग्मधारैः प्रधने शिलीमुखैः इतस्ततः पुण्यजना उपद्रुताः । तमभ्यधावन् कुपिता उदायुधाः सुपर्णं उन्नद्धफणा इवाहयः ॥ ४ ॥
तैः तिग्म-धारैः प्रधने शिलीमुखैः इतस् ततस् पुण्यजनाः उपद्रुताः । तम् अभ्यधावन् कुपिताः उदायुधाः सुपर्णम् उन्नद्ध-फणाः इव अहयः ॥ ४ ॥
taiḥ tigma-dhāraiḥ pradhane śilīmukhaiḥ itas tatas puṇyajanāḥ upadrutāḥ . tam abhyadhāvan kupitāḥ udāyudhāḥ suparṇam unnaddha-phaṇāḥ iva ahayaḥ .. 4 ..
स तान् पृषत्कैरभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान् । निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ५ ॥
स तान् पृषत्कैः अभिधावतः मृधे निकृत्त-बाहु-ऊरु-शिरोधरा-उदरान् । निनाय लोकम् परम् अर्क-मण्डलम् व्रजन्ति निर्भिद्य यम् ऊर्ध्वरेतसः ॥ ५ ॥
sa tān pṛṣatkaiḥ abhidhāvataḥ mṛdhe nikṛtta-bāhu-ūru-śirodharā-udarān . nināya lokam param arka-maṇḍalam vrajanti nirbhidya yam ūrdhvaretasaḥ .. 5 ..
तान् हन्यमानानभिवीक्ष्य गुह्यकान् अनागसश्चित्ररथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर्जगादोपगतः सहर्षिभिः ॥ ६ ॥
तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसः चित्ररथेन भूरिशस् । औत्तानपादिम् कृपया पितामहः मनुः जगाद उपगतः सह ऋषिभिः ॥ ६ ॥
tān hanyamānān abhivīkṣya guhyakān anāgasaḥ citrarathena bhūriśas . auttānapādim kṛpayā pitāmahaḥ manuḥ jagāda upagataḥ saha ṛṣibhiḥ .. 6 ..
मनुरुवाच - (अनुष्टुप्)
अलं वत्सातिरोषेण तमोद्वारेण पाप्मना । येन पुण्यजनानेतान् अवधीस्त्वं अनागसः ॥ ७ ॥
अलम् वत्स अति रोषेण तमः-द्वारेण पाप्मना । येन पुण्यजनान् एतान् अवधीः त्वम् अनागसः ॥ ७ ॥
alam vatsa ati roṣeṇa tamaḥ-dvāreṇa pāpmanā . yena puṇyajanān etān avadhīḥ tvam anāgasaḥ .. 7 ..
नास्मत्कुलोचितं तात कर्मैतत् सद्विगर्हितम् । वधो यदुपदेवानां आरब्धस्तेऽकृतैनसाम् ॥ ८ ॥
न अस्मद्-कुल-उचितम् तात कर्म एतत् सत्-विगर्हितम् । वधः यत् उपदेवानाम् आरब्धः ते अकृत-एनसाम् ॥ ८ ॥
na asmad-kula-ucitam tāta karma etat sat-vigarhitam . vadhaḥ yat upadevānām ārabdhaḥ te akṛta-enasām .. 8 ..
नन्वेकस्यापराधेन प्रसङ्गाद् बहवो हताः । भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९ ॥
ननु एकस्य अपराधेन प्रसङ्गात् बहवः हताः । भ्रातुः वध-अभितप्तेन त्वया अङ्ग भ्रातृ-वत्सल ॥ ९ ॥
nanu ekasya aparādhena prasaṅgāt bahavaḥ hatāḥ . bhrātuḥ vadha-abhitaptena tvayā aṅga bhrātṛ-vatsala .. 9 ..
नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् । यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥ १० ॥
न अयम् मार्गः हि साधूनाम् हृषीकेश-अनुवर्तिनाम् । यत् आत्मानम् पराक् गृह्य पशु-वत् भूत-वैशसम् ॥ १० ॥
na ayam mārgaḥ hi sādhūnām hṛṣīkeśa-anuvartinām . yat ātmānam parāk gṛhya paśu-vat bhūta-vaiśasam .. 10 ..
सर्वभूतात्मभावेन भूतावासं हरिं भवान् । आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११ ॥
सर्व-भूत-आत्म-भावेन भूतावासम् हरिम् भवान् । आराध्य अप दुराराध्यम् विष्णोः तत् परमम् पदम् ॥ ११ ॥
sarva-bhūta-ātma-bhāvena bhūtāvāsam harim bhavān . ārādhya apa durārādhyam viṣṇoḥ tat paramam padam .. 11 ..
स त्वं हरेरनुध्यातः तत्पुंसामपि सम्मतः । कथं त्ववद्यं कृतवान् अनुशिक्षन्सतां व्रतम् ॥ १२ ॥
स त्वम् हरेः अनुध्यातः तद्-पुंसाम् अपि सम्मतः । कथम् तु अवद्यम् कृतवान् अनुशिक्षन् सताम् व्रतम् ॥ १२ ॥
sa tvam hareḥ anudhyātaḥ tad-puṃsām api sammataḥ . katham tu avadyam kṛtavān anuśikṣan satām vratam .. 12 ..
तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु । समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३ ॥
तितिक्षया करुणया मैत्र्या च अखिल-जन्तुषु । सम-त्वेन च सर्व-आत्मा भगवान् सम्प्रसीदति ॥ १३ ॥
titikṣayā karuṇayā maitryā ca akhila-jantuṣu . sama-tvena ca sarva-ātmā bhagavān samprasīdati .. 13 ..
सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः । विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणमृच्छति ॥ १४ ॥
सम्प्रसन्ने भगवति पुरुषः प्राकृतैः गुणैः । विमुक्तः जीव-निर्मुक्तः ब्रह्म निर्वाणम् ऋच्छति ॥ १४ ॥
samprasanne bhagavati puruṣaḥ prākṛtaiḥ guṇaiḥ . vimuktaḥ jīva-nirmuktaḥ brahma nirvāṇam ṛcchati .. 14 ..
भूतैः पञ्चभिरारब्धैः योषित्पुरुष एव हि । तयोर्व्यवायात् सम्भूतिः योषित्पुरुषयोरिह ॥ १५ ॥
भूतैः पञ्चभिः आरब्धैः योषित्-पुरुषः एव हि । तयोः व्यवायात् सम्भूतिः योषित्-पुरुषयोः इह ॥ १५ ॥
bhūtaiḥ pañcabhiḥ ārabdhaiḥ yoṣit-puruṣaḥ eva hi . tayoḥ vyavāyāt sambhūtiḥ yoṣit-puruṣayoḥ iha .. 15 ..
एवं प्रवर्तते सर्गः स्थितिः संयम एव च । गुणव्यतिकराद् राजन् मायया परमात्मनः ॥ १६ ॥
एवम् प्रवर्तते सर्गः स्थितिः संयमः एव च । गुण-व्यतिकरात् राजन् मायया परमात्मनः ॥ १६ ॥
evam pravartate sargaḥ sthitiḥ saṃyamaḥ eva ca . guṇa-vyatikarāt rājan māyayā paramātmanaḥ .. 16 ..
निमित्तमात्रं तत्रासीत् निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७ ॥
निमित्त-मात्रम् तत्र आसीत् निर्गुणः पुरुष-ऋषभः । व्यक्त-अव्यक्तम् इदम् विश्वम् यत्र भ्रमति लोह-वत् ॥ १७ ॥
nimitta-mātram tatra āsīt nirguṇaḥ puruṣa-ṛṣabhaḥ . vyakta-avyaktam idam viśvam yatra bhramati loha-vat .. 17 ..
स खल्विदं भगवान्कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः । करोत्यकर्तैव निहन्त्यहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८ ॥
स खलु इदम् भगवान् काल-शक्त्या गुण-प्रवाहेण विभक्त-वीर्यः । करोति अकर्ता एव निहन्ति अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८ ॥
sa khalu idam bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ . karoti akartā eva nihanti ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā .. 18 ..
(अनुष्टुप्)
सोऽनन्तोऽन्तकरः कालो ऽनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ १९ ॥
सः अनन्तः अन्त-करः कालः अनादिः आदि-कृत् अव्ययः । जनम् जनेन जनयन् मारयन् मृत्युना अन्तकम् ॥ १९ ॥
saḥ anantaḥ anta-karaḥ kālaḥ anādiḥ ādi-kṛt avyayaḥ . janam janena janayan mārayan mṛtyunā antakam .. 19 ..
न वै स्वपक्षोऽस्य विपक्ष एव वा परस्य मृत्योर्विशतः समं प्रजाः । तं धावमानं अनुधावन्त्यनीशा यथा रजांस्यनिलं भूतसङ्घाः ॥ २० ॥
न वै स्व-पक्षः अस्य विपक्षः एव वा परस्य मृत्योः विशतः समम् प्रजाः । तम् धावमानम् अनुधावन्ति अनीशाः यथा रजांसि अनिलम् भूत-सङ्घाः ॥ २० ॥
na vai sva-pakṣaḥ asya vipakṣaḥ eva vā parasya mṛtyoḥ viśataḥ samam prajāḥ . tam dhāvamānam anudhāvanti anīśāḥ yathā rajāṃsi anilam bhūta-saṅghāḥ .. 20 ..
(अनुष्टुप्)
आयुषोऽपचयं जन्तोः तथैवोपचयं विभुः । उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ २१ ॥
आयुषः अपचयम् जन्तोः तथा एवा उपचयम् विभुः । उभाभ्याम् रहितः स्वस्थः दुःस्थस्य विदधाति असौ ॥ २१ ॥
āyuṣaḥ apacayam jantoḥ tathā evā upacayam vibhuḥ . ubhābhyām rahitaḥ svasthaḥ duḥsthasya vidadhāti asau .. 21 ..
केचित्कर्म वदन्त्येनं स्वभावमपरे नृप । एके कालं परे दैवं पुंसः काममुतापरे ॥ २२ ॥
केचिद् कर्म वदन्ति एनम् स्वभावम् अपरे नृप । एके कालम् परे दैवम् पुंसः कामम् उत अपरे ॥ २२ ॥
kecid karma vadanti enam svabhāvam apare nṛpa . eke kālam pare daivam puṃsaḥ kāmam uta apare .. 22 ..
अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च । न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३ ॥
अव्यक्तस्य अप्रमेयस्य नाना शक्ति-उदयस्य च । न वै चिकीर्षितम् तात कः वेद अथ स्व-सम्भवम् ॥ २३ ॥
avyaktasya aprameyasya nānā śakti-udayasya ca . na vai cikīrṣitam tāta kaḥ veda atha sva-sambhavam .. 23 ..
न चैते पुत्रक भ्रातुः हन्तारो धनदानुगाः । विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४ ॥
न च एते पुत्रक भ्रातुः हन्तारः धनद-अनुगाः । विसर्ग-आदानयोः तात पुंसः दैवम् हि कारणम् ॥ २४ ॥
na ca ete putraka bhrātuḥ hantāraḥ dhanada-anugāḥ . visarga-ādānayoḥ tāta puṃsaḥ daivam hi kāraṇam .. 24 ..
स एव विश्वं सृजति स एवावति हन्ति च । अथापि ह्यनहङ्कारात् नाज्यते गुणकर्मभिः ॥ २५ ॥
सः एव विश्वम् सृजति सः एव अवति हन्ति च । अथ अपि हि अनहङ्कारात् न अज्यते गुण-कर्मभिः ॥ २५ ॥
saḥ eva viśvam sṛjati saḥ eva avati hanti ca . atha api hi anahaṅkārāt na ajyate guṇa-karmabhiḥ .. 25 ..
एष भूतानि भूतात्मा भूतेशो भूतभावनः । स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ २६ ॥
एष भूतानि भूत-आत्मा भूत-ईशः भूतभावनः । स्व-शक्त्या मायया युक्तः सृजति अत्ति च पाति च ॥ २६ ॥
eṣa bhūtāni bhūta-ātmā bhūta-īśaḥ bhūtabhāvanaḥ . sva-śaktyā māyayā yuktaḥ sṛjati atti ca pāti ca .. 26 ..
तमेव मृत्युममृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम् । यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥ २७ ॥
तम् एव मृत्युम् अमृतम् तात दैवम् सर्व-आत्मना उपेहि जगत्-परायणम् । यस्मै बलिम् विश्वसृजः हरन्ति गावः यथा वै नसि दाम-यन्त्रिताः ॥ २७ ॥
tam eva mṛtyum amṛtam tāta daivam sarva-ātmanā upehi jagat-parāyaṇam . yasmai balim viśvasṛjaḥ haranti gāvaḥ yathā vai nasi dāma-yantritāḥ .. 27 ..
यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा । वनं गतस्तपसा प्रत्यगक्षं आराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ २८ ॥
यः पञ्च-वर्षः जननीम् त्वम् विहाय मातुः सपत्न्याः वचसा भिन्न-मर्मा । वनम् गतः तपसा प्रत्यक् अक्षम् आराध्य लेभे मूर्ध्नि पदम् त्रिलोक्याः ॥ २८ ॥
yaḥ pañca-varṣaḥ jananīm tvam vihāya mātuḥ sapatnyāḥ vacasā bhinna-marmā . vanam gataḥ tapasā pratyak akṣam ārādhya lebhe mūrdhni padam trilokyāḥ .. 28 ..
तमेनमङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणमेकमक्षरम् । आत्मानमन्विच्छ विमुक्तमात्मदृग् यस्मिन् इदं भेदमसत्प्रतीयते ॥ २९ ॥
तम् एनम् अङ्ग-आत्मनि मुक्त-विग्रहे व्यपाश्रितम् निर्गुणम् एकम् अक्षरम् । आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृश् यस्मिन् इदम् भेदम् असत् प्रतीयते ॥ २९ ॥
tam enam aṅga-ātmani mukta-vigrahe vyapāśritam nirguṇam ekam akṣaram . ātmānam anviccha vimuktam ātma-dṛś yasmin idam bhedam asat pratīyate .. 29 ..
त्वं प्रत्यगात्मनि तदा भगवत्यनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ । भक्तिं विधाय परमां शनकैरविद्या ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३० ॥
त्वम् प्रत्यगात्मनि तदा भगवति अनन्ते आनन्द-मात्रे उपपन्न-समस्त-शक्तौ । भक्तिम् विधाय परमाम् शनकैस् अविद्या ग्रन्थिम् विभेत्स्यसि मम अहम् इति प्ररूढम् ॥ ३० ॥
tvam pratyagātmani tadā bhagavati anante ānanda-mātre upapanna-samasta-śaktau . bhaktim vidhāya paramām śanakais avidyā granthim vibhetsyasi mama aham iti prarūḍham .. 30 ..
(अनुष्टुप्)
संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् । श्रुतेन भूयसा राजन् अगदेन यथामयम् ॥ ३१ ॥
संयच्छ रोषम् भद्रम् ते प्रतीपम् श्रेयसाम् परम् । श्रुतेन भूयसा राजन् अगदेन यथामयम् ॥ ३१ ॥
saṃyaccha roṣam bhadram te pratīpam śreyasām param . śrutena bhūyasā rājan agadena yathāmayam .. 31 ..
येनोपसृष्टात्पुरुषात् लोक उद्विजते भृशम् । न बुधस्तद्वशं गच्छेद् इच्छन् अभयमात्मनः ॥ ३२ ॥
येन उपसृष्टात् पुरुषात् लोकः उद्विजते भृशम् । न बुधः तद्-वशम् गच्छेत् इच्छन् अभयम् आत्मनः ॥ ३२ ॥
yena upasṛṣṭāt puruṣāt lokaḥ udvijate bhṛśam . na budhaḥ tad-vaśam gacchet icchan abhayam ātmanaḥ .. 32 ..
हेलनं गिरिशभ्रातुः धनदस्य त्वया कृतम् । यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ३३ ॥
हेलनम् गिरिश-भ्रातुः धनदस्य त्वया कृतम् । यत् जघ्निवान् पुण्यजनान् भ्रातृ-घ्नान् इति अमर्षितः ॥ ३३ ॥
helanam giriśa-bhrātuḥ dhanadasya tvayā kṛtam . yat jaghnivān puṇyajanān bhrātṛ-ghnān iti amarṣitaḥ .. 33 ..
तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः । न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥ ३४ ॥
तम् प्रसादय वत्स आशु सन्नत्या प्रश्रय-उक्तिभिः । न यावत् महताम् तेजः कुलम् नः अभिभविष्यति ॥ ३४ ॥
tam prasādaya vatsa āśu sannatyā praśraya-uktibhiḥ . na yāvat mahatām tejaḥ kulam naḥ abhibhaviṣyati .. 34 ..
एवं स्वायम्भुवः पौत्रं अनुशास्य मनुर्ध्रुवम् । तेनाभिवन्दितः साकं ऋषिभिः स्वपुरं ययौ ॥ ३५ ॥
एवम् स्वायम्भुवः पौत्रम् अनुशास्य मनुः ध्रुवम् । तेन अभिवन्दितः साकम् ऋषिभिः स्व-पुरम् ययौ ॥ ३५ ॥
evam svāyambhuvaḥ pautram anuśāsya manuḥ dhruvam . tena abhivanditaḥ sākam ṛṣibhiḥ sva-puram yayau .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe ekādaśaḥ adhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In