| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेतमन्युं भगवान् धनेश्वरः । तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ १ ॥
ध्रुवम् निवृत्तम् प्रतिबुद्ध्य वैशसात् अपेत-मन्युम् भगवान् धनेश्वरः । तत्र आगतः चारण-यक्ष-किन्नरैः संस्तूयमानः न्यवदत् कृताञ्जलिम् ॥ १ ॥
dhruvam nivṛttam pratibuddhya vaiśasāt apeta-manyum bhagavān dhaneśvaraḥ . tatra āgataḥ cāraṇa-yakṣa-kinnaraiḥ saṃstūyamānaḥ nyavadat kṛtāñjalim .. 1 ..
धनद उवाच - (अनुष्टुप्)
भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ । यत्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः ॥ २ ॥
भो भोः क्षत्रिय-दायाद परितुष्टः अस्मि ते अनघ । यत् त्वम् पितामह-आदेशात् वैरम् दुस्त्यजम् अत्यजः ॥ २ ॥
bho bhoḥ kṣatriya-dāyāda parituṣṭaḥ asmi te anagha . yat tvam pitāmaha-ādeśāt vairam dustyajam atyajaḥ .. 2 ..
न भवान् अवधीद्यक्षान् न यक्षा भ्रातरं तव । काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३ ॥
न भवान् अवधीत् यक्षान् न यक्षाः भ्रातरम् तव । कालः एव हि भूतानाम् प्रभुः अप्यय-भावयोः ॥ ३ ॥
na bhavān avadhīt yakṣān na yakṣāḥ bhrātaram tava . kālaḥ eva hi bhūtānām prabhuḥ apyaya-bhāvayoḥ .. 3 ..
अहं त्वमित्यपार्था धीः अज्ञानात् पुरुषस्य हि । स्वाप्नीवाभात्यतद्ध्यानाद् यया बन्धविपर्ययौ ॥ ४ ॥
अहम् त्वम् इति अपार्था धीः अज्ञानात् पुरुषस्य हि । यया बन्ध-विपर्ययौ ॥ ४ ॥
aham tvam iti apārthā dhīḥ ajñānāt puruṣasya hi . yayā bandha-viparyayau .. 4 ..
तद्गच्छ ध्रुव भद्रं ते भगवन्तं अधोक्षजम् । सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५ ॥
तत् गच्छ ध्रुव भद्रम् ते भगवन्तम् अधोक्षजम् । सर्व-भूत-आत्म-भावेन सर्व-भूत-आत्म-विग्रहम् ॥ ५ ॥
tat gaccha dhruva bhadram te bhagavantam adhokṣajam . sarva-bhūta-ātma-bhāvena sarva-bhūta-ātma-vigraham .. 5 ..
भजस्व भजनीयाङ्घ्रिं अभवाय भवच्छिदम् । युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ ॥ ६ ॥
भजस्व भजनीय-अङ्घ्रिम् अभवाय भव-छिदम् । युक्तम् विरहितम् शक्त्या गुण-मय्या आत्म-मायया ॥ ॥ ६ ॥
bhajasva bhajanīya-aṅghrim abhavāya bhava-chidam . yuktam virahitam śaktyā guṇa-mayyā ātma-māyayā .. .. 6 ..
वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः । वरं वरार्होऽम्बुजनाभपादयोः अनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७ ॥
वृणीहि कामम् नृप यत् मनोगतम् मत्तः त्वम् औत्तानपदे अ विशङ्कितः । वरम् वर-अर्हः अम्बुज-नाभ-पादयोः अनन्तरम् त्वाम् वयम् अङ्ग शुश्रुम ॥ ७ ॥
vṛṇīhi kāmam nṛpa yat manogatam mattaḥ tvam auttānapade a viśaṅkitaḥ . varam vara-arhaḥ ambuja-nābha-pādayoḥ anantaram tvām vayam aṅga śuśruma .. 7 ..
मैत्रेय उवाच - (अनुष्टुप्)
स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः । हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः ॥ ८ ॥
स राजराजेन वराय चोदितः ध्रुवः महा-भागवतः महामतिः । हरौ स वव्रे अचलिताम् स्मृतिम् यया तरति अयत्नेन दुरत्ययम् तमः ॥ ८ ॥
sa rājarājena varāya coditaḥ dhruvaḥ mahā-bhāgavataḥ mahāmatiḥ . harau sa vavre acalitām smṛtim yayā tarati ayatnena duratyayam tamaḥ .. 8 ..
तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः । पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९ ॥
तस्य प्रीतेन मनसा ताम् दत्त्वा ऐडविडः ततस् । पश्यतः अन्तर्दधे सः अपि स्व-पुरम् प्रत्यपद्यत ॥ ९ ॥
tasya prītena manasā tām dattvā aiḍaviḍaḥ tatas . paśyataḥ antardadhe saḥ api sva-puram pratyapadyata .. 9 ..
अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः । द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १० ॥
अथ अयजत यज्ञेशम् क्रतुभिः भूरि-दक्षिणैः । द्रव्य-क्रिया-देवतानाम् कर्म कर्म-फल-प्रदम् ॥ १० ॥
atha ayajata yajñeśam kratubhiḥ bhūri-dakṣiṇaiḥ . dravya-kriyā-devatānām karma karma-phala-pradam .. 10 ..
सर्वात्मनि अच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् । ददर्शात्मनि भूतेषु तं एव अवस्थितं विभुम् ॥ ११ ॥
सर्वात्मनि अच्युते असर्वे तीव्र-ओघाम् भक्तिम् उद्वहन् । ददर्श आत्मनि भूतेषु तम् एव अवस्थितम् विभुम् ॥ ११ ॥
sarvātmani acyute asarve tīvra-oghām bhaktim udvahan . dadarśa ātmani bhūteṣu tam eva avasthitam vibhum .. 11 ..
तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् । गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२ ॥
तम् एवम् शील-सम्पन्नम् ब्रह्मण्यम् दीन-वत्सलम् । गोप्तारम् धर्म-सेतूनाम् मेनिरे पितरम् प्रजाः ॥ १२ ॥
tam evam śīla-sampannam brahmaṇyam dīna-vatsalam . goptāram dharma-setūnām menire pitaram prajāḥ .. 12 ..
षट्त्रिंशद् वर्षसाहस्रं शशास क्षितिमण्डलम् । भोगैः पुण्यक्षयं कुर्वन् अभोगैः अशुभक्षयम् ॥ १३ ॥
षट्त्रिंशत् वर्ष-साहस्रम् शशास क्षिति-मण्डलम् । भोगैः पुण्य-क्षयम् कुर्वन् अभोगैः अशुभ-क्षयम् ॥ १३ ॥
ṣaṭtriṃśat varṣa-sāhasram śaśāsa kṣiti-maṇḍalam . bhogaiḥ puṇya-kṣayam kurvan abhogaiḥ aśubha-kṣayam .. 13 ..
एवं बहुसवं कालं महात्माविचलेन्द्रियः । त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ १४ ॥
एवम् बहु-सवम् कालम् महात्मा अविचल-इन्द्रियः । त्रिवर्ग-औपयिकम् नीत्वा पुत्राय अदात् नृपासनम् ॥ १४ ॥
evam bahu-savam kālam mahātmā avicala-indriyaḥ . trivarga-aupayikam nītvā putrāya adāt nṛpāsanam .. 14 ..
मन्यमान इदं विश्वं मायारचितमात्मनि । अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ १५ ॥
मन्यमानः इदम् विश्वम् माया-रचितम् आत्मनि । अविद्या-रचित-स्वप्न गन्धर्वनगर-उपमम् ॥ १५ ॥
manyamānaḥ idam viśvam māyā-racitam ātmani . avidyā-racita-svapna gandharvanagara-upamam .. 15 ..
आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम् अन्तःपुरं परिविहारभुवश्च रम्याः । भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६ ॥
आत्म-स्त्री-अपत्य-सुहृदः बलम् ऋद्ध-कोशम् अन्तःपुरम् परिविहार-भुवः च रम्याः । भू-मण्डलम् जलधि-मेखलम् आकलय्य काल-उपसृष्टम् इति स प्रययौ विशालाम् ॥ १६ ॥
ātma-strī-apatya-suhṛdaḥ balam ṛddha-kośam antaḥpuram parivihāra-bhuvaḥ ca ramyāḥ . bhū-maṇḍalam jaladhi-mekhalam ākalayya kāla-upasṛṣṭam iti sa prayayau viśālām .. 16 ..
तस्यां विशुद्धकरणः शिववार्विगाह्य बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एतद् ध्यायन् तदव्यवहितो व्यसृजत्समाधौ ॥ १७ ॥
तस्याम् विशुद्ध-करणः शिव-वार् विगाह्य बद्ध्वा आसनम् जित-मरुत् मनसा आहृत-अक्षः । स्थूले दधार भगवत्-प्रतिरूपे एतत् ध्यायन् तद्-अव्यवहितः व्यसृजत् समाधौ ॥ १७ ॥
tasyām viśuddha-karaṇaḥ śiva-vār vigāhya baddhvā āsanam jita-marut manasā āhṛta-akṣaḥ . sthūle dadhāra bhagavat-pratirūpe etat dhyāyan tad-avyavahitaḥ vyasṛjat samādhau .. 17 ..
भक्तिं हरौ भगवति प्रवहन्नजस्रम् आनन्दबाष्पकलया मुहुरर्द्यमानः । विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥ १८ ॥
भक्तिम् हरौ भगवति प्रवहन् अजस्रम् आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः । विक्लिद्यमान-हृदयः पुलक-आचित-अङ्गः न आत्मानम् अस्मरत् असौ इति मुक्त-लिङ्गः ॥ १८ ॥
bhaktim harau bhagavati pravahan ajasram ānanda-bāṣpa-kalayā muhur ardyamānaḥ . viklidyamāna-hṛdayaḥ pulaka-ācita-aṅgaḥ na ātmānam asmarat asau iti mukta-liṅgaḥ .. 18 ..
(अनुष्टुप्)
स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः । विभ्राजयद् दश दिशो राकापतिमिवोदितम् ॥ १९ ॥
स ददर्श विमान-अग्र्यम् नभसः अवतरत् ध्रुवः । विभ्राजयत् दश दिशः राकापतिम् इव उदितम् ॥ १९ ॥
sa dadarśa vimāna-agryam nabhasaḥ avatarat dhruvaḥ . vibhrājayat daśa diśaḥ rākāpatim iva uditam .. 19 ..
तत्रानु देवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजेक्षणौ । स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ ॥ २० ॥
तत्र अनु देव-प्रवरौ चतुर्-भुजौ श्यामौ किशोरौ अरुण-अम्बुज-ईक्षणौ । स्थितौ अवष्टभ्य गदाम् सु वाससौ किरीट-हार-अङ्गद-चारु-कुण्डलौ ॥ २० ॥
tatra anu deva-pravarau catur-bhujau śyāmau kiśorau aruṇa-ambuja-īkṣaṇau . sthitau avaṣṭabhya gadām su vāsasau kirīṭa-hāra-aṅgada-cāru-kuṇḍalau .. 20 ..
विज्ञाय तावुत्तमगायकिङ्करौ अभ्युत्थितः साध्वसविस्मृतक्रमः । ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानौ इति संहताञ्जलिः ॥ २१ ॥
विज्ञाय तौ उत्तम-गाय-किङ्करौ अभ्युत्थितः साध्वस-विस्मृत-क्रमः । ननाम नामानि गृणन् मधुद्विषः पार्षद्-प्रधानौ इति संहत-अञ्जलिः ॥ २१ ॥
vijñāya tau uttama-gāya-kiṅkarau abhyutthitaḥ sādhvasa-vismṛta-kramaḥ . nanāma nāmāni gṛṇan madhudviṣaḥ pārṣad-pradhānau iti saṃhata-añjaliḥ .. 21 ..
तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् । सुनन्दनन्दावुपसृत्य सस्मितं प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२ ॥
तम् कृष्ण-पाद-अभिनिविष्ट-चेतसम् बद्धाञ्जलिम् प्रश्रय-नम्र-कन्धरम् । सुनन्द-नन्दौ उपसृत्य स स्मितम् प्रत्यूचतुः पुष्करनाभ-सम्मतौ ॥ २२ ॥
tam kṛṣṇa-pāda-abhiniviṣṭa-cetasam baddhāñjalim praśraya-namra-kandharam . sunanda-nandau upasṛtya sa smitam pratyūcatuḥ puṣkaranābha-sammatau .. 22 ..
सुनन्दनन्दावूचतुः - (अनुष्टुप्)
भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श्रृणु । यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३ ॥
भो भो राजन् सु भद्रम् ते वाचम् नः अवहितः श्रृणु । यः पञ्च-वर्षः तपसा भवान् देवम् अतीतृपत् ॥ २३ ॥
bho bho rājan su bhadram te vācam naḥ avahitaḥ śrṛṇu . yaḥ pañca-varṣaḥ tapasā bhavān devam atītṛpat .. 23 ..
तस्याखिलजगद्धातुः आवां देवस्य शार्ङ्गिणः । पार्षदौ इह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४ ॥
तस्य अखिल-जगत्-धातुः आवाम् देवस्य शार्ङ्गिणः । पार्षदौ इह सम्प्राप्तौ नेतुम् त्वाम् भगवत्-पदम् ॥ २४ ॥
tasya akhila-jagat-dhātuḥ āvām devasya śārṅgiṇaḥ . pārṣadau iha samprāptau netum tvām bhagavat-padam .. 24 ..
सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम् । आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५ ॥
सु दुर्जयम् विष्णु-पदम् जितम् त्वया यत् सूरयः अ प्राप्य विचक्षते परम् । आतिष्ठ तत् चन्द्र-दिवाकर-आदयः ग्रह-ऋक्ष-ताराः परियन्ति दक्षिणम् ॥ २५ ॥
su durjayam viṣṇu-padam jitam tvayā yat sūrayaḥ a prāpya vicakṣate param . ātiṣṭha tat candra-divākara-ādayaḥ graha-ṛkṣa-tārāḥ pariyanti dakṣiṇam .. 25 ..
(अनुष्टुप्)
अनास्थितं ते पितृभिः अन्यैरप्यङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६ ॥
अन् आस्थितम् ते पितृभिः अन्यैः अपि अङ्ग कर्हिचित् । आतिष्ठ जगताम् वन्द्यम् तत् विष्णोः परमम् पदम् ॥ २६ ॥
an āsthitam te pitṛbhiḥ anyaiḥ api aṅga karhicit . ātiṣṭha jagatām vandyam tat viṣṇoḥ paramam padam .. 26 ..
एतद्विमानप्रवरं उत्तमश्लोकमौलिना । उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि ॥ २७ ॥
एतत् विमान-प्रवरम् उत्तमश्लोक-मौलिना । उपस्थापितम् आयुष्मन् अधिरोढुम् त्वम् अर्हसि ॥ २७ ॥
etat vimāna-pravaram uttamaśloka-maulinā . upasthāpitam āyuṣman adhiroḍhum tvam arhasi .. 27 ..
मैत्रेय उवाच -
निशम्य वैकुण्ठनियोज्यमुख्ययोः मधुच्युतं वाचमुरुक्रमप्रियः । कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८ ॥
निशम्य वैकुण्ठ-नियोज्य-मुख्ययोः मधु-च्युतम् वाचम् उरुक्रम-प्रियः । कृत-अभिषेकः कृत-नित्य-मङ्गलः मुनीन् प्रणम्य आशिषम् अभ्यवादयत् ॥ २८ ॥
niśamya vaikuṇṭha-niyojya-mukhyayoḥ madhu-cyutam vācam urukrama-priyaḥ . kṛta-abhiṣekaḥ kṛta-nitya-maṅgalaḥ munīn praṇamya āśiṣam abhyavādayat .. 28 ..
(अनुष्टुप्)
परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदौ अवभिवन्द्य च । इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९ ॥
परीत्य अभ्यर्च्य धिष्ण्य-अग्र्यम् पार्षदौ अवभिवन्द्य च । इयेष तत् अधिष्ठातुम् बिभ्रत् रूपम् हिरण्मयम् ॥ २९ ॥
parītya abhyarcya dhiṣṇya-agryam pārṣadau avabhivandya ca . iyeṣa tat adhiṣṭhātum bibhrat rūpam hiraṇmayam .. 29 ..
तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् । मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३० ॥
तदा उत्तानपदः पुत्रः ददर्श अन्तकम् आगतम् । मृत्योः मूर्ध्नि पदम् दत्त्वा आरुरोह अद्भुतम् गृहम् ॥ ३० ॥
tadā uttānapadaḥ putraḥ dadarśa antakam āgatam . mṛtyoḥ mūrdhni padam dattvā āruroha adbhutam gṛham .. 30 ..
तदा दुन्दुभयो नेदुः मृदङ्गपणवादयः । गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१ ॥
तदा दुन्दुभयः नेदुः मृदङ्ग-पणव-आदयः । गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः ॥ ३१ ॥
tadā dundubhayaḥ neduḥ mṛdaṅga-paṇava-ādayaḥ . gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ .. 31 ..
स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः । अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२ ॥
स च स्वर् लोकम् आरोक्ष्यन् सुनीतिम् जननीम् ध्रुवः । अन्वस्मरत् अगम् हित्वा दीनाम् यास्ये त्रिविष्टपम् ॥ ३२ ॥
sa ca svar lokam ārokṣyan sunītim jananīm dhruvaḥ . anvasmarat agam hitvā dīnām yāsye triviṣṭapam .. 32 ..
इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ । दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३ ॥
इति व्यवसितम् तस्य व्यवसाय सुर-उत्तमौ । दर्शयामासतुः देवीम् पुरस् यानेन गच्छतीम् ॥ ३३ ॥
iti vyavasitam tasya vyavasāya sura-uttamau . darśayāmāsatuḥ devīm puras yānena gacchatīm .. 33 ..
तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४ ॥
तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणः ददृशे कुसुमैः क्रमशस् ग्रहान् ॥ ३४ ॥
tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ . avakīryamāṇaḥ dadṛśe kusumaiḥ kramaśas grahān .. 34 ..
त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि । परस्ताद्यद्ध्रुवगतिः विष्णोः पदमथाभ्यगात् ॥ ३५ ॥
त्रिलोकीम् देव-यानेन सः अतिव्रज्य मुनीन् अपि । परस्तात् यत् ध्रुव-गतिः विष्णोः पदम् अथ अभ्यगात् ॥ ३५ ॥
trilokīm deva-yānena saḥ ativrajya munīn api . parastāt yat dhruva-gatiḥ viṣṇoḥ padam atha abhyagāt .. 35 ..
यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते । यन्नाव्रजन्जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६ ॥
यत् भ्राजमानम् स्व-रुचा एव सर्वतस् लोकाः त्रयः हि अनु विभ्राजन्ते एते । यत् न अव्रजन् जन्तुषु ये अननुग्रहाः व्रजन्ति भद्राणि चरन्ति ये अनिशम् ॥ ३६ ॥
yat bhrājamānam sva-rucā eva sarvatas lokāḥ trayaḥ hi anu vibhrājante ete . yat na avrajan jantuṣu ye ananugrahāḥ vrajanti bhadrāṇi caranti ye aniśam .. 36 ..
(अनुष्टुप्)
शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः । यान्त्यञ्जसाच्युतपदं अच्युतप्रियबान्धवाः ॥ ३७ ॥
शान्ताः समदृशः शुद्धाः सर्व-भूत-अनुरञ्जनाः । यान्ति अञ्जसा अच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ ३७ ॥
śāntāḥ samadṛśaḥ śuddhāḥ sarva-bhūta-anurañjanāḥ . yānti añjasā acyuta-padam acyuta-priya-bāndhavāḥ .. 37 ..
इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः । अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८ ॥
इति उत्तानपदः पुत्रः ध्रुवः कृष्ण-परायणः । अभूत् त्रयाणाम् लोकानाम् चूडामणिः इव अमलः ॥ ३८ ॥
iti uttānapadaḥ putraḥ dhruvaḥ kṛṣṇa-parāyaṇaḥ . abhūt trayāṇām lokānām cūḍāmaṇiḥ iva amalaḥ .. 38 ..
गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् । यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९ ॥
गम्भीर-वेगः अनिमिषम् ज्योतिषाम् चक्रम् आहितम् । यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवाम् गणः ॥ ३९ ॥
gambhīra-vegaḥ animiṣam jyotiṣām cakram āhitam . yasmin bhramati kauravya meḍhyām iva gavām gaṇaḥ .. 39 ..
महिमानं विलोक्यास्य नारदो भगवान् ऋषिः । आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम् ॥ ४० ॥
महिमानम् विलोक्य अस्य नारदः भगवान् ऋषिः । आतोद्यम् वितुदन् श्लोकान् सत्रे अगायत् प्रचेतसाम् ॥ ४० ॥
mahimānam vilokya asya nāradaḥ bhagavān ṛṣiḥ . ātodyam vitudan ślokān satre agāyat pracetasām .. 40 ..
नारद उवाच -
नूनं सुनीतेः पतिदेवतायाः तपःप्रभावस्य सुतस्य तां गतिम् । दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१ ॥
नूनम् सुनीतेः पति-देवतायाः तपः-प्रभावस्य सुतस्य ताम् गतिम् । दृष्ट्वा अभ्युपायान् अपि वेद-वादिनः न एव अधिगन्तुम् प्रभवन्ति किम् नृपाः ॥ ४१ ॥
nūnam sunīteḥ pati-devatāyāḥ tapaḥ-prabhāvasya sutasya tām gatim . dṛṣṭvā abhyupāyān api veda-vādinaḥ na eva adhigantum prabhavanti kim nṛpāḥ .. 41 ..
यः पञ्चवर्षो गुरुदारवाक्शरैः भिन्नेन यातो हृदयेन दूयता । वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् ॥ ४२ ॥
यः पञ्च-वर्षः गुरु-दार-वाच्-शरैः भिन्नेन यातः हृदयेन दूयता । वनम् मद्-आदेश-करः अजितम् प्रभुम् जिगाय तद्-भक्त-गुणैः पराजितम् ॥ ४२ ॥
yaḥ pañca-varṣaḥ guru-dāra-vāc-śaraiḥ bhinnena yātaḥ hṛdayena dūyatā . vanam mad-ādeśa-karaḥ ajitam prabhum jigāya tad-bhakta-guṇaiḥ parājitam .. 42 ..
यः क्षत्रबन्धुर्भुवि तस्याधिरूढं अन्वारुरुक्षेदपि वर्षपूगैः । षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३ ॥
यः क्षत्रबन्धुः भुवि तस्य अधिरूढम् अन्वारुरुक्षेत् अपि वर्ष-पूगैः । षष्-पञ्च-वर्षः यत् अहोभिः अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत् पदम् ॥ ४३ ॥
yaḥ kṣatrabandhuḥ bhuvi tasya adhirūḍham anvārurukṣet api varṣa-pūgaiḥ . ṣaṣ-pañca-varṣaḥ yat ahobhiḥ alpaiḥ prasādya vaikuṇṭham avāpa tat padam .. 43 ..
मैत्रेय उवाच - (अनुष्टुप्)
एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया । ध्रुवस्योद्दामयशसः चरितं सम्मतं सताम् ॥ ४४ ॥
एतत् ते अभिहितम् सर्वम् यत् पृष्टः अहम् इह त्वया । ध्रुवस्य उद्दाम-यशसः चरितम् सम्मतम् सताम् ॥ ४४ ॥
etat te abhihitam sarvam yat pṛṣṭaḥ aham iha tvayā . dhruvasya uddāma-yaśasaḥ caritam sammatam satām .. 44 ..
धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५ ॥
धन्यम् यशस्यम् आयुष्यम् पुण्यम् स्वस्त्ययनम् महत् । स्वर्ग्यम् ध्रौव्यम् सौमनस्यम् प्रशस्यम् अघ-मर्षणम् ॥ ४५ ॥
dhanyam yaśasyam āyuṣyam puṇyam svastyayanam mahat . svargyam dhrauvyam saumanasyam praśasyam agha-marṣaṇam .. 45 ..
श्रुत्वैतत् श्रद्धयाभीक्ष्णं अच्युतप्रियचेष्टितम् । भवेद्भक्तिर्भगवति यया स्यात् क्लेशसङ्क्षयः ॥ ४६ ॥
श्रुत्वा एतत् श्रद्धया अभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् । भवेत् भक्तिः भगवति यया स्यात् क्लेश-सङ्क्षयः ॥ ४६ ॥
śrutvā etat śraddhayā abhīkṣṇam acyuta-priya-ceṣṭitam . bhavet bhaktiḥ bhagavati yayā syāt kleśa-saṅkṣayaḥ .. 46 ..
महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः । यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७ ॥
महत्-त्वम् इच्छताम् तीर्थम् श्रोतुः शील-आदयः गुणाः । यत्र तेजः तद्-इच्छूनाम् मानः यत्र मनस्विनाम् ॥ ४७ ॥
mahat-tvam icchatām tīrtham śrotuḥ śīla-ādayaḥ guṇāḥ . yatra tejaḥ tad-icchūnām mānaḥ yatra manasvinām .. 47 ..
प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् । सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८ ॥
प्रयतः कीर्तयेत् प्रातर् समवाये द्विजन्मनाम् । सायम् च पुण्यश्लोकस्य ध्रुवस्य चरितम् महत् ॥ ४८ ॥
prayataḥ kīrtayet prātar samavāye dvijanmanām . sāyam ca puṇyaślokasya dhruvasya caritam mahat .. 48 ..
पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा । दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥ ४९ ॥
पौर्णमास्याम् सिनीवाल्याम् द्वादश्याम् श्रवणे अथवा । दिनक्षये व्यतीपाते सङ्क्रमे अर्क-दिने अपि वा ॥ ४९ ॥
paurṇamāsyām sinīvālyām dvādaśyām śravaṇe athavā . dinakṣaye vyatīpāte saṅkrame arka-dine api vā .. 49 ..
श्रावयेत् श्रद्दधानानां तीर्थपादपदाश्रयः । नेच्छन् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ ५० ॥
श्रावयेत् श्रद्दधानानाम् तीर्थ-पाद-पद-आश्रयः । न इच्छन् तत्र आत्मना आत्मानम् सन्तुष्टः इति सिध्यति ॥ ५० ॥
śrāvayet śraddadhānānām tīrtha-pāda-pada-āśrayaḥ . na icchan tatra ātmanā ātmānam santuṣṭaḥ iti sidhyati .. 50 ..
ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् । कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१ ॥
ज्ञानम् अज्ञात-तत्त्वाय यः दद्यात् सत्-पथे अमृतम् । कृपालोः दीन-नाथस्य देवाः तस्य अनुगृह्णते ॥ ५१ ॥
jñānam ajñāta-tattvāya yaḥ dadyāt sat-pathe amṛtam . kṛpāloḥ dīna-nāthasya devāḥ tasya anugṛhṇate .. 51 ..
इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः । हित्वार्भकः क्रीडनकानि मातुः गृहं च विष्णुं शरणं यो जगाम ॥ ५२ ॥
इदम् मया ते अभिहितम् कुरु-उद्वह ध्रुवस्य विख्यात-विशुद्ध-कर्मणः । हित्वा अर्भकः क्रीडनकानि मातुः गृहम् च विष्णुम् शरणम् यः जगाम ॥ ५२ ॥
idam mayā te abhihitam kuru-udvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ . hitvā arbhakaḥ krīḍanakāni mātuḥ gṛham ca viṣṇum śaraṇam yaḥ jagāma .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरित नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे ध्रुवचरित-नाम द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dhruvacarita-nāma dvādaśaḥ adhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In