| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच -
निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥
निशम्य कौषारविणा उपवर्णितम् ध्रुवस्य वैकुण्ठ-पद-अधिरोहणम् । प्ररूढ-भावः भगवति अधोक्षजे प्रष्टुम् पुनर् तम् विदुरः प्रचक्रमे ॥ १ ॥
niśamya kauṣāraviṇā upavarṇitam dhruvasya vaikuṇṭha-pada-adhirohaṇam . prarūḍha-bhāvaḥ bhagavati adhokṣaje praṣṭum punar tam viduraḥ pracakrame .. 1 ..
विदुर उवाच - (अनुष्टुप्)
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥
के ते प्रचेतसः नाम कस्य अपत्यानि सुव्रत । कस्य अन्ववाये प्रख्याताः कुत्र वा सत्रम् आसत ॥ २ ॥
ke te pracetasaḥ nāma kasya apatyāni suvrata . kasya anvavāye prakhyātāḥ kutra vā satram āsata .. 2 ..
मन्ये महाभागवतं नारदं देवदर्शनम् । येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥
मन्ये महा-भागवतम् नारदम् देवदर्शनम् । येन प्रोक्तः क्रिया-योगः परिचर्या-विधिः हरेः ॥ ३ ॥
manye mahā-bhāgavatam nāradam devadarśanam . yena proktaḥ kriyā-yogaḥ paricaryā-vidhiḥ hareḥ .. 3 ..
स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः । इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥
स्वधर्म-शीलैः पुरुषैः भगवान् यज्ञपूरुषः । इज्यमानः भक्तिमता नारदेन ईरितः किल ॥ ४ ॥
svadharma-śīlaiḥ puruṣaiḥ bhagavān yajñapūruṣaḥ . ijyamānaḥ bhaktimatā nāradena īritaḥ kila .. 4 ..
यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः । मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥
याः ताः देव-ऋषिणा तत्र वर्णिताः भगवत्-कथाः । मह्यम् शुश्रूषवे ब्रह्मन् कार्त्स्न्येन आचष्टुम् अर्हसि ॥ ५ ॥
yāḥ tāḥ deva-ṛṣiṇā tatra varṇitāḥ bhagavat-kathāḥ . mahyam śuśrūṣave brahman kārtsnyena ācaṣṭum arhasi .. 5 ..
मैत्रेय उवाच -
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ ६ ॥
ध्रुवस्य च उत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौम-श्रियम् न ऐच्छत् अधिराज-आसनम् पितुः ॥ ६ ॥
dhruvasya ca utkalaḥ putraḥ pitari prasthite vanam . sārvabhauma-śriyam na aicchat adhirāja-āsanam pituḥ .. 6 ..
स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः । ददर्श लोके विततं आत्मानं लोकमात्मनि ॥ ७ ॥
स जन्मना उपशान्त-आत्मा निःसङ्गः सम-दर्शनः । ददर्श लोके विततम् आत्मानम् लोकम् आत्मनि ॥ ७ ॥
sa janmanā upaśānta-ātmā niḥsaṅgaḥ sama-darśanaḥ . dadarśa loke vitatam ātmānam lokam ātmani .. 7 ..
आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् । अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम् ॥ ८ ॥
आत्मानम् ब्रह्म निर्वाणम् प्रत्यस्तमित-विग्रहम् । अवबोध-रस-ऐकात्म्यम् आनन्दम् अनुसन्ततम् ॥ ८ ॥
ātmānam brahma nirvāṇam pratyastamita-vigraham . avabodha-rasa-aikātmyam ānandam anusantatam .. 8 ..
अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः । स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥
। स्व-रूपम् अवरुन्धानः न आत्मनः अन्यम् तत् ऐक्षत ॥ ९ ॥
. sva-rūpam avarundhānaḥ na ātmanaḥ anyam tat aikṣata .. 9 ..
जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः । लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः ॥ १० ॥
जड-अन्ध-बधिर-उन्मत्त-मूक-आकृतिः अतन्मतिः । लक्षितः पथि बालानाम् प्रशान्त-अर्चिः इव अनलः ॥ १० ॥
jaḍa-andha-badhira-unmatta-mūka-ākṛtiḥ atanmatiḥ . lakṣitaḥ pathi bālānām praśānta-arciḥ iva analaḥ .. 10 ..
मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः । वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
मत्वा तम् जडम् उन्मत्तम् कुल-वृद्धाः स मंत्रिणः । वत्सरम् भूपतिम् चक्रुः यवीयांसम् भ्रमेः सुतम् ॥ ११ ॥
matvā tam jaḍam unmattam kula-vṛddhāḥ sa maṃtriṇaḥ . vatsaram bhūpatim cakruḥ yavīyāṃsam bhrameḥ sutam .. 11 ..
स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् । पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥
स्वर्वीथिः वत्सरस्य इष्टा भार्या असूत षट् आत्मजान् । पुष्पार्णम् तिग्मकेतुम् च इषम् ऊर्जम् वसुम् जयम् ॥ १२ ॥
svarvīthiḥ vatsarasya iṣṭā bhāryā asūta ṣaṭ ātmajān . puṣpārṇam tigmaketum ca iṣam ūrjam vasum jayam .. 12 ..
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रभासुताः ॥ १३ ॥
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर् मध्यन्दिनम् सायम् इति हि आसन् प्रभा-सुताः ॥ १३ ॥
puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ . prātar madhyandinam sāyam iti hi āsan prabhā-sutāḥ .. 13 ..
प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥
प्रदोषः निशिथः व्युष्टः इति दोषासुताः त्रयः । व्युष्टः सुतम् पुष्करिण्याम् सर्व-तेजसम् आदधे ॥ १४ ॥
pradoṣaḥ niśithaḥ vyuṣṭaḥ iti doṣāsutāḥ trayaḥ . vyuṣṭaḥ sutam puṣkariṇyām sarva-tejasam ādadhe .. 14 ..
स चक्षुः सुतमाकूत्यां पत्न्यां मनुं अवाप ह । मनोरसूत महिषी विरजान्नड्वला सुतान् ॥ १५ ॥
स चक्षुः सुतम् आकूत्याम् पत्न्याम् मनुम् अवाप ह । मनोः असूत महिषी विरजान् नड्वला सुतान् ॥ १५ ॥
sa cakṣuḥ sutam ākūtyām patnyām manum avāpa ha . manoḥ asūta mahiṣī virajān naḍvalā sutān .. 15 ..
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् । अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥
पुरुम् कुत्सम् त्रितम् द्युम्नम् सत्यवन्तम् ऋतम् व्रतम् । अग्निष्टोमम् अतीरात्रम् प्रद्युम्नम् शिबिम् उल्मुकम् ॥ १६ ॥
purum kutsam tritam dyumnam satyavantam ṛtam vratam . agniṣṭomam atīrātram pradyumnam śibim ulmukam .. 16 ..
उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् । अङ्गं सुमनसं ख्यातिं क्रतुं अङ्गिरसं गयम् ॥ १७ ॥
उल्मुकः अजनयत् पुत्रान् पुष्करिण्याम् षट् उत्तमान् । अङ्गम् सुमनसम् ख्यातिम् क्रतुम् अङ्गिरसम् गयम् ॥ १७ ॥
ulmukaḥ ajanayat putrān puṣkariṇyām ṣaṭ uttamān . aṅgam sumanasam khyātim kratum aṅgirasam gayam .. 17 ..
[1]सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् । यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात् ॥ १८ ॥
[१]सुनीथा अङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् । यद्-दौःशील्यात् स राजर्षिः निर्विण्णः निरगात् पुरात् ॥ १८ ॥
[1]sunīthā aṅgasya yā patnī suṣuve venam ulbaṇam . yad-dauḥśīlyāt sa rājarṣiḥ nirviṇṇaḥ niragāt purāt .. 18 ..
यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल । गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
यम् अङ्ग शेपुः कुपिताः वाच्-वज्राः मुनयः किल । गतासोः तस्य भूयस् ते ममन्थुः दक्षिणम् करम् ॥ १९ ॥
yam aṅga śepuḥ kupitāḥ vāc-vajrāḥ munayaḥ kila . gatāsoḥ tasya bhūyas te mamanthuḥ dakṣiṇam karam .. 19 ..
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः । जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २० ॥
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः । जातः नारायण-अंशेन पृथुः आद्यः क्षितीश्वरः ॥ २० ॥
arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ . jātaḥ nārāyaṇa-aṃśena pṛthuḥ ādyaḥ kṣitīśvaraḥ .. 20 ..
विदुर उवाच -
तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः । राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥
तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः । राज्ञः कथम् अभूत् दुष्टा प्रजा यत् विमनाः ययौ ॥ २१ ॥
tasya śīlanidheḥ sādhoḥ brahmaṇyasya mahātmanaḥ . rājñaḥ katham abhūt duṣṭā prajā yat vimanāḥ yayau .. 21 ..
किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् । दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥
किम् वा अंहः वेनः उद्दिश्य ब्रह्मदण्डम् अयूयुजन् । दण्डव्रत-धरे राज्ञि मुनयः धर्म-कोविदाः ॥ २२ ॥
kim vā aṃhaḥ venaḥ uddiśya brahmadaṇḍam ayūyujan . daṇḍavrata-dhare rājñi munayaḥ dharma-kovidāḥ .. 22 ..
नावध्येयः प्रजापालः प्रजाभिरघवानपि । यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥
न अवध्येयः प्रजापालः प्रजाभिः अघवान् अपि । यत् असौ लोकपालानाम् बिभर्ति ओजः स्व-तेजसा ॥ २३ ॥
na avadhyeyaḥ prajāpālaḥ prajābhiḥ aghavān api . yat asau lokapālānām bibharti ojaḥ sva-tejasā .. 23 ..
एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् । श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥
एतत् आख्याहि मे ब्रह्मन् सुनीथ-आत्मज चेष्टितम् । श्रद्दधानाय भक्ताय त्वम् परावर-वित्तमः ॥ २४ ॥
etat ākhyāhi me brahman sunītha-ātmaja ceṣṭitam . śraddadhānāya bhaktāya tvam parāvara-vittamaḥ .. 24 ..
अङ्गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् । नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः ॥ २५ ॥
अङ्गः अश्वमेधम् राजर्षिः आजहार महा-क्रतुम् । न आजग्मुः देवताः तस्मिन् आहूताः ब्रह्म-वादिभिः ॥ २५ ॥
aṅgaḥ aśvamedham rājarṣiḥ ājahāra mahā-kratum . na ājagmuḥ devatāḥ tasmin āhūtāḥ brahma-vādibhiḥ .. 25 ..
मैत्रेय उवाच -
तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥
तम् ऊचुः विस्मिताः तत्र यजमानम् अथ ऋत्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥
tam ūcuḥ vismitāḥ tatra yajamānam atha ṛtvijaḥ . havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ .. 26 ..
राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते । छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥
राजन् हवींषि अदुष्टानि श्रद्धया आसादितानि ते । छन्दांसि अयातयामानि योजितानि धृत-व्रतैः ॥ २७ ॥
rājan havīṃṣi aduṣṭāni śraddhayā āsāditāni te . chandāṃsi ayātayāmāni yojitāni dhṛta-vrataiḥ .. 27 ..
न विदामेह देवानां हेलनं वयमण्वपि । यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥
न विदाम इह देवानाम् हेलनम् वयम् अणु अपि । यत् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः ॥ २८ ॥
na vidāma iha devānām helanam vayam aṇu api . yat na gṛhṇanti bhāgān svān ye devāḥ karma-sākṣiṇaḥ .. 28 ..
मैत्रेय उवाच -
अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः । तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया ॥ २९ ॥
अङ्गः द्विज-वचः श्रुत्वा यजमानः सु दुर्मनाः । तत् प्रष्टुम् व्यसृजत् वाचम् सदस्यान् तद्-अनुज्ञया ॥ २९ ॥
aṅgaḥ dvija-vacaḥ śrutvā yajamānaḥ su durmanāḥ . tat praṣṭum vyasṛjat vācam sadasyān tad-anujñayā .. 29 ..
नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह । सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥
न आगच्छन्ति आ हुताः देवाः न गृह्णन्ति ग्रहान् इह । सदसस्पतयः ब्रूत किम् अवद्यम् मया कृतम् ॥ ३० ॥
na āgacchanti ā hutāḥ devāḥ na gṛhṇanti grahān iha . sadasaspatayaḥ brūta kim avadyam mayā kṛtam .. 30 ..
सदसस्पतय ऊचुः -
नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् । अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥
नरदेव इह भवतः ना अघम् तावत् मनाक् स्थितम् । अस्ति एकम् प्राक्तनम् अघम् यत् इह ईदृश् त्वम् अप्रजः ॥ ३१ ॥
naradeva iha bhavataḥ nā agham tāvat manāk sthitam . asti ekam prāktanam agham yat iha īdṛś tvam aprajaḥ .. 31 ..
तथा साधय भद्रं ते आत्मानं सुप्रजं नृप । इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
तथा साधय भद्रम् ते आत्मानम् सु प्रजम् नृप । इष्टः ते पुत्र-कामस्य पुत्रम् दास्यति यज्ञभुज् ॥ ३२ ॥
tathā sādhaya bhadram te ātmānam su prajam nṛpa . iṣṭaḥ te putra-kāmasya putram dāsyati yajñabhuj .. 32 ..
तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः ॥ ३३ ॥
तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः । यत् यज्ञपुरुषः साक्षात् अपत्याय हरिः वृतः ॥ ३३ ॥
tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ . yat yajñapuruṣaḥ sākṣāt apatyāya hariḥ vṛtaḥ .. 33 ..
तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः । आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४ ॥
तान् तान् कामान् हरिः दद्यात् यान् यान् कामयते जनः । आराधितः यथा एव एष तथा पुंसाम् फल-उदयः ॥ ३४ ॥
tān tān kāmān hariḥ dadyāt yān yān kāmayate janaḥ . ārādhitaḥ yathā eva eṣa tathā puṃsām phala-udayaḥ .. 34 ..
इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये । पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥
इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये । पुरोडाशम् निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥
iti vyavasitā viprāḥ tasya rājñaḥ prajātaye . puroḍāśam niravapan śipiviṣṭāya viṣṇave .. 35 ..
तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः । हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥
तस्मात् पुरुषः उत्तस्थौ हेम-माल्य-मल-अम्बरः । हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् ॥ ३६ ॥
tasmāt puruṣaḥ uttasthau hema-mālya-mala-ambaraḥ . hiraṇmayena pātreṇa siddham ādāya pāyasam .. 36 ..
स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् । अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ॥ ३७ ॥
स विप्र-अनुमतः राजा गृहीत्वा अञ्जलिना ओदनम् । अवघ्राय मुदा युक्तः प्रादात् पत्न्यै उदार-धीः ॥ ३७ ॥
sa vipra-anumataḥ rājā gṛhītvā añjalinā odanam . avaghrāya mudā yuktaḥ prādāt patnyai udāra-dhīḥ .. 37 ..
सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे । गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥
सा तत् पुंसवनम् राज्ञी प्राश्य वै पत्युः आदधे । गर्भम् काले उपावृत्ते कुमारम् सुषुवे अप्रजा ॥ ३८ ॥
sā tat puṃsavanam rājñī prāśya vai patyuḥ ādadhe . garbham kāle upāvṛtte kumāram suṣuve aprajā .. 38 ..
स बाल एव पुरुषो मातामहमनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ ३९ ॥
स बालः एव पुरुषः मातामहम् अनुव्रतः । अधर्म-अंश-उद्भवम् मृत्युम् तेन अभवत् अधार्मिकः ॥ ३९ ॥
sa bālaḥ eva puruṣaḥ mātāmaham anuvrataḥ . adharma-aṃśa-udbhavam mṛtyum tena abhavat adhārmikaḥ .. 39 ..
स शरासनमुद्यम्य मृगयुर्वनगोचरः । हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
स शरासनम् उद्यम्य मृगयुः वन-गोचरः । हन्ति असाधुः मृगान् दीनान् वेनः असौ इति अरौत् जनः ॥ ४० ॥
sa śarāsanam udyamya mṛgayuḥ vana-gocaraḥ . hanti asādhuḥ mṛgān dīnān venaḥ asau iti araut janaḥ .. 40 ..
आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः । प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥
आक्रीडे क्रीडतः बालान् वयस्यान् अति दारुणः । प्रसह्य निरनुक्रोशः पशुमारम् अमारयत् ॥ ४१ ॥
ākrīḍe krīḍataḥ bālān vayasyān ati dāruṇaḥ . prasahya niranukrośaḥ paśumāram amārayat .. 41 ..
तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः । यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः ॥ ४२ ॥
तम् विचक्ष्य खलम् पुत्रम् शासनैः विविधैः नृपः । यदा न शासितुम् कल्पः भृशम् आसीत् सु दुर्मनाः ॥ ४२ ॥
tam vicakṣya khalam putram śāsanaiḥ vividhaiḥ nṛpaḥ . yadā na śāsitum kalpaḥ bhṛśam āsīt su durmanāḥ .. 42 ..
प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः । कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥
प्रायेण अभ्यर्चितः देवः ये अप्रजाः गृहमेधिनः । कदपत्य-भृतम् दुःखम् ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥
prāyeṇa abhyarcitaḥ devaḥ ye aprajāḥ gṛhamedhinaḥ . kadapatya-bhṛtam duḥkham ye na vindanti durbharam .. 43 ..
यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् । यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥
यतस् पापीयसी कीर्तिः अधर्मः च महान् नृणाम् । यतस् विरोधः सर्वेषाम् यतस् आधिः अनन्तकः ॥ ४४ ॥
yatas pāpīyasī kīrtiḥ adharmaḥ ca mahān nṛṇām . yatas virodhaḥ sarveṣām yatas ādhiḥ anantakaḥ .. 44 ..
कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः । पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥
कः तम् प्रजा-अपदेशम् वै मोह-बन्धनम् आत्मनः । पण्डितः बहु मन्येत यद्-अर्थाः क्लेश-दाः गृहाः ॥ ४५ ॥
kaḥ tam prajā-apadeśam vai moha-bandhanam ātmanaḥ . paṇḍitaḥ bahu manyeta yad-arthāḥ kleśa-dāḥ gṛhāḥ .. 45 ..
कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् । निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६ ॥
कदपत्यम् वरम् मन्ये सत्-अपत्यात् शुचाम् पदात् । निर्विद्येत गृहान् मर्त्यः यद्-क्लेश-निवहाः गृहाः ॥ ४६ ॥
kadapatyam varam manye sat-apatyāt śucām padāt . nirvidyeta gṛhān martyaḥ yad-kleśa-nivahāḥ gṛhāḥ .. 46 ..
एवं स निर्विण्णमना नृपो गृहात् निशीथ उत्थाय महोदयोदयात् । अलब्धनिद्रोऽनुपलक्षितो नृभिः हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥
एवम् स निर्विण्ण-मनाः नृपः गृहात् निशीथे उत्थाय महोदय-उदयात् । अलब्ध-निद्रः अनुपलक्षितः नृभिः हित्वा गतः वेनसुवम् प्रसुप्ताम् ॥ ४७ ॥
evam sa nirviṇṇa-manāḥ nṛpaḥ gṛhāt niśīthe utthāya mahodaya-udayāt . alabdha-nidraḥ anupalakṣitaḥ nṛbhiḥ hitvā gataḥ venasuvam prasuptām .. 47 ..
विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः । विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥
विज्ञाय निर्विद्य गतम् पतिम् प्रजाः पुरोहित-अमात्य-सुहृद्-गण-आदयः । विचिक्युः उर्व्याम् अति शोक-कातराः यथा निगूढम् पुरुषम् कु योगिनः ॥ ४८ ॥
vijñāya nirvidya gatam patim prajāḥ purohita-amātya-suhṛd-gaṇa-ādayaḥ . vicikyuḥ urvyām ati śoka-kātarāḥ yathā nigūḍham puruṣam ku yoginaḥ .. 48 ..
अलक्षयन्तः पदवीं प्रजापतेः हतोद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥
अ लक्षयन्तः पदवीम् प्रजापतेः हत-उद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य स अश्रवः न्यवेदयन् पौरव भर्तृ-विप्लवम् ॥ ४९ ॥
a lakṣayantaḥ padavīm prajāpateḥ hata-udyamāḥ pratyupasṛtya te purīm . ṛṣīn sametān abhivandya sa aśravaḥ nyavedayan paurava bhartṛ-viplavam .. 49 ..
ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥
ऋषीन् समेतान् अभिवन्द्य स अश्रवः न्यवेदयन् पौरव भर्तृ-विप्लवम् ॥ ४९ ॥
ṛṣīn sametān abhivandya sa aśravaḥ nyavedayan paurava bhartṛ-viplavam .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In