| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः । गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥
भृगु-आदयः ते मुनयः लोकानाम् क्षेम-दर्शिनः । गोप्तरि असति वै नॄणाम् पश्यन्तः पशु-साम्य-ताम् ॥ १ ॥
bhṛgu-ādayaḥ te munayaḥ lokānām kṣema-darśinaḥ . goptari asati vai nṝṇām paśyantaḥ paśu-sāmya-tām .. 1 ..
वीरमातरमाहूय सुनीथां ब्रह्मवादिनः । प्रकृत्यसम्मतं वेनं अभ्यषिञ्चन् पतिं भुवः ॥ २ ॥
वीर-मातरम् आहूय सुनीथाम् ब्रह्म-वादिनः । प्रकृत्य-सम्मतम् वेनम् अभ्यषिञ्चन् पतिम् भुवः ॥ २ ॥
vīra-mātaram āhūya sunīthām brahma-vādinaḥ . prakṛtya-sammatam venam abhyaṣiñcan patim bhuvaḥ .. 2 ..
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् । निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥
श्रुत्वा नृपासन-गतम् वेनम् अति उग्र-शासनम् । निलिल्युः दस्यवः सद्यस् सर्प-त्रस्ताः इव आखवः ॥ ३ ॥
śrutvā nṛpāsana-gatam venam ati ugra-śāsanam . nililyuḥ dasyavaḥ sadyas sarpa-trastāḥ iva ākhavaḥ .. 3 ..
स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः । अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ॥ ४ ॥
सः आरूढ-नृप-स्थाने उन्नद्धः अष्ट-विभूतिभिः । अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः ॥ ४ ॥
saḥ ārūḍha-nṛpa-sthāne unnaddhaḥ aṣṭa-vibhūtibhiḥ . avamene mahābhāgān stabdhaḥ sambhāvitaḥ svataḥ .. 4 ..
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथमास्थाय कम्पयन् इव रोदसी ॥ ५ ॥
एवम् मद-अन्धः उत्सिक्तः निरङ्कुशः इव द्विपः । पर्यटन् रथम् आस्थाय कम्पयन् इव रोदसी ॥ ५ ॥
evam mada-andhaḥ utsiktaḥ niraṅkuśaḥ iva dvipaḥ . paryaṭan ratham āsthāya kampayan iva rodasī .. 5 ..
न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ ६ ॥
न यष्टव्यम् न दातव्यम् न होतव्यम् द्विजाः क्वचिद् । इति न्यवारयत् धर्मम् भेरी-घोषेण सर्वशस् ॥ ६ ॥
na yaṣṭavyam na dātavyam na hotavyam dvijāḥ kvacid . iti nyavārayat dharmam bherī-ghoṣeṇa sarvaśas .. 6 ..
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥
वेनस्य अवेक्ष्य मुनयः दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोक-व्यसनम् कृपया ऊचुः स्म सत्रिणः ॥ ७ ॥
venasya avekṣya munayaḥ durvṛttasya viceṣṭitam . vimṛśya loka-vyasanam kṛpayā ūcuḥ sma satriṇaḥ .. 7 ..
अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुणि उभयतो दीप्ते इव तस्करपालयोः ॥ ८ ॥
अहो उभयतस् प्राप्तम् लोकस्य व्यसनम् महत् । दारुणि उभयतस् दीप्ते इव तस्कर-पालयोः ॥ ८ ॥
aho ubhayatas prāptam lokasya vyasanam mahat . dāruṇi ubhayatas dīpte iva taskara-pālayoḥ .. 8 ..
अराजकभयादेष कृतो राजातदर्हणः । ततोऽप्यासीद्भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥
अराजक-भयात् एष कृतः राजा अ तद्-अर्हणः । ततस् अपि आसीत् भयम् तु अद्य कथम् स्यात् स्वस्ति देहिनाम् ॥ ९ ॥
arājaka-bhayāt eṣa kṛtaḥ rājā a tad-arhaṇaḥ . tatas api āsīt bhayam tu adya katham syāt svasti dehinām .. 9 ..
अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् । वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १० ॥
अहेः इव पयः-पोषः पोषकस्य अपि अनर्थ-भृत् । वेनः प्रकृत्या एव खलः सुनीथा-गर्भ-सम्भवः ॥ १० ॥
aheḥ iva payaḥ-poṣaḥ poṣakasya api anartha-bhṛt . venaḥ prakṛtyā eva khalaḥ sunīthā-garbha-sambhavaḥ .. 10 ..
निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मान् तत्पातकं स्पृशेत् ॥ ११ ॥
निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथा अपि सान्त्वयेम अमुम् न अस्मान् तद्-पातकम् स्पृशेत् ॥ ११ ॥
nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ . tathā api sāntvayema amum na asmān tad-pātakam spṛśet .. 11 ..
तद् विद्वद्भिः असद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२ ॥
तत् विद्वद्भिः असत्-वृत्तः वेनः अस्माभिः कृतः नृपः । सान्त्वितः यदि नः वाचम् न ग्रहीष्यति अधर्म-कृत् ॥ १२ ॥
tat vidvadbhiḥ asat-vṛttaḥ venaḥ asmābhiḥ kṛtaḥ nṛpaḥ . sāntvitaḥ yadi naḥ vācam na grahīṣyati adharma-kṛt .. 12 ..
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवं अध्यवसायैनं मुनयो गूढमन्यवः ॥ उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३ ॥
लोक-धिक्कार-सन्दग्धम् दहिष्यामः स्व-तेजसा । एवम् अध्यवसाय एनम् मुनयः गूढ-मन्यवः ॥ उपव्रज्य अब्रुवन् वेनम् सान्त्वयित्वा च सामभिः ॥ १३ ॥
loka-dhikkāra-sandagdham dahiṣyāmaḥ sva-tejasā . evam adhyavasāya enam munayaḥ gūḍha-manyavaḥ .. upavrajya abruvan venam sāntvayitvā ca sāmabhiḥ .. 13 ..
मुनय ऊचुः -
नृपवर्य निबोधैतद् यत्ते विज्ञापयाम भोः । आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥
नृप-वर्य निबोध एतत् यत् ते विज्ञापयाम भोः । आयुः-श्री-बल-कीर्तीनाम् तव तात विवर्धनम् ॥ १४ ॥
nṛpa-varya nibodha etat yat te vijñāpayāma bhoḥ . āyuḥ-śrī-bala-kīrtīnām tava tāta vivardhanam .. 14 ..
धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः । लोकान् विशोकान् वितरति अथ अनन्त्यमसङ्गिनाम् ॥ १५ ॥
धर्मः आचरितः पुंसाम् वाच्-मनः-काय-बुद्धिभिः । लोकान् विशोकान् वितरति अथ अनन्त्यम् असङ्गिनाम् ॥ १५ ॥
dharmaḥ ācaritaḥ puṃsām vāc-manaḥ-kāya-buddhibhiḥ . lokān viśokān vitarati atha anantyam asaṅginām .. 15 ..
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः । यस्मिन् विनष्टे नृपतिः ऐश्वर्यादवरोहति ॥ १६ ॥
स ते मा विनशेत् वीर प्रजानाम् क्षेम-लक्षणः । यस्मिन् विनष्टे नृपतिः ऐश्वर्यात् अवरोहति ॥ १६ ॥
sa te mā vinaśet vīra prajānām kṣema-lakṣaṇaḥ . yasmin vinaṣṭe nṛpatiḥ aiśvaryāt avarohati .. 16 ..
राजन् असाध्वमात्येभ्यः चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥
राजन् असाधु-अमात्येभ्यः चोर-आदिभ्यः प्रजाः नृपः । रक्षन् यथा बलिम् गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥
rājan asādhu-amātyebhyaḥ cora-ādibhyaḥ prajāḥ nṛpaḥ . rakṣan yathā balim gṛhṇan iha pretya ca modate .. 17 ..
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः । इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८ ॥
यस्य राष्ट्रे पुरे च एव भगवान् यज्ञपूरुषः । इज्यते स्वेन धर्मेण जनैः वर्ण-आश्रम-अन्वितैः ॥ १८ ॥
yasya rāṣṭre pure ca eva bhagavān yajñapūruṣaḥ . ijyate svena dharmeṇa janaiḥ varṇa-āśrama-anvitaiḥ .. 18 ..
तस्य राज्ञो महाभाग भगवान् भूतभावनः । परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥
तस्य राज्ञः महाभाग भगवान् भूतभावनः । परितुष्यति विश्वात्मा तिष्ठतः निज-शासने ॥ १९ ॥
tasya rājñaḥ mahābhāga bhagavān bhūtabhāvanaḥ . parituṣyati viśvātmā tiṣṭhataḥ nija-śāsane .. 19 ..
तस्मिन् तुष्टे किमप्राप्यं जगतां ईश्वरेश्वरे । लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २० ॥
तस्मिन् तुष्टे किम् अ प्राप्यम् जगताम् ईश्वर-ईश्वरे । लोकाः स पालाः हि एतस्मै हरन्ति बलिम् आदृताः ॥ २० ॥
tasmin tuṣṭe kim a prāpyam jagatām īśvara-īśvare . lokāḥ sa pālāḥ hi etasmai haranti balim ādṛtāḥ .. 20 ..
तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर्विचित्रैर्यजतो भवाय ते राजन् स्वदेशान् अनुरोद्धुमर्हसि ॥ २१ ॥
तम् सर्व-लोक-अमर-यज्ञ-सङ्ग्रहम् त्रयी-मयम् द्रव्य-मयम् तपः-मयम् । यज्ञैः विचित्रैः यजतः भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि ॥ २१ ॥
tam sarva-loka-amara-yajña-saṅgraham trayī-mayam dravya-mayam tapaḥ-mayam . yajñaiḥ vicitraiḥ yajataḥ bhavāya te rājan sva-deśān anuroddhum arhasi .. 21 ..
यज्ञेन युष्मद्विषये द्विजातिभिः वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥
यज्ञेन युष्मद्-विषये द्विजातिभिः वितायमानेन सुराः कलाः हरेः । सु इष्टाः सु तुष्टाः प्रदिशन्ति वाञ्छितम् तद्-हेलनम् न अर्हसि वीर चेष्टितुम् ॥ २२ ॥
yajñena yuṣmad-viṣaye dvijātibhiḥ vitāyamānena surāḥ kalāḥ hareḥ . su iṣṭāḥ su tuṣṭāḥ pradiśanti vāñchitam tad-helanam na arhasi vīra ceṣṭitum .. 22 ..
वेन उवाच -
बालिशा बत यूयं वा अधर्मे धर्ममानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥
बालिशाः बत यूयम् वै अधर्मे धर्म-मानिनः । ये वृत्ति-दम् पतिम् हित्वा जारम् पतिम् उपासते ॥ २३ ॥
bāliśāḥ bata yūyam vai adharme dharma-māninaḥ . ye vṛtti-dam patim hitvā jāram patim upāsate .. 23 ..
अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् । नानुविन्दन्ति ते भद्रं इह लोके परत्र च ॥ २४ ॥
अवजानन्ति अमी मूढाः नृप-रूपिणम् ईश्वरम् । न अनुविन्दन्ति ते भद्रम् इह लोके परत्र च ॥ २४ ॥
avajānanti amī mūḍhāḥ nṛpa-rūpiṇam īśvaram . na anuvindanti te bhadram iha loke paratra ca .. 24 ..
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी । भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥
कः यज्ञपुरुषः नाम यत्र वः भक्तिः ईदृशी । भर्तृ-स्नेह-विदूराणाम् यथा जारे कु योषिताम् ॥ २५ ॥
kaḥ yajñapuruṣaḥ nāma yatra vaḥ bhaktiḥ īdṛśī . bhartṛ-sneha-vidūrāṇām yathā jāre ku yoṣitām .. 25 ..
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः । पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६ ॥
विष्णुः विरिञ्चः गिरिशः इन्द्रः वायुः यमः रविः । पर्जन्यः धनदः सोमः क्षितिः अग्निः अपाम्पतिः ॥ २६ ॥
viṣṇuḥ viriñcaḥ giriśaḥ indraḥ vāyuḥ yamaḥ raviḥ . parjanyaḥ dhanadaḥ somaḥ kṣitiḥ agniḥ apāmpatiḥ .. 26 ..
एते चान्ये च विबुधाः प्रभवो वरशापयोः । देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७ ॥
एते च अन्ये च विबुधाः प्रभवः वर-शापयोः । देहे भवन्ति नृपतेः सर्व-देव-मयः नृपः ॥ २७ ॥
ete ca anye ca vibudhāḥ prabhavaḥ vara-śāpayoḥ . dehe bhavanti nṛpateḥ sarva-deva-mayaḥ nṛpaḥ .. 27 ..
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः । बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८ ॥
तस्मात् माम् कर्मभिः विप्राः यजध्वम् गत-मत्सराः । बलिम् च मह्यम् हरत मत्तः अन्यः कः अग्र-भुज् पुमान् ॥ २८ ॥
tasmāt mām karmabhiḥ viprāḥ yajadhvam gata-matsarāḥ . balim ca mahyam harata mattaḥ anyaḥ kaḥ agra-bhuj pumān .. 28 ..
मैत्रेय उवाच -
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः । अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ २९ ॥
इत्थम् विपर्यय-मतिः पापीयान् उत्पथम् गतः । अनुनीयमानः तद्-याच्ञाम् न चक्रे भ्रष्ट-मङ्गलः ॥ २९ ॥
ittham viparyaya-matiḥ pāpīyān utpatham gataḥ . anunīyamānaḥ tad-yācñām na cakre bhraṣṭa-maṅgalaḥ .. 29 ..
इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३० ॥
इति ते असत्कृताः तेन द्विजाः पण्डित-मानिना । भग्नायाम् भव्य-याच्ञायाम् तस्मै विदुर चुक्रुधुः ॥ ३० ॥
iti te asatkṛtāḥ tena dvijāḥ paṇḍita-māninā . bhagnāyām bhavya-yācñāyām tasmai vidura cukrudhuḥ .. 30 ..
हन्यतां हन्यतामेष पापः प्रकृतिदारुणः । जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥
हन्यताम् हन्यताम् एष पापः प्रकृति-दारुणः । जीवन् जगत् असौ आशु कुरुते भस्मसात् ध्रुवम् ॥ ३१ ॥
hanyatām hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ . jīvan jagat asau āśu kurute bhasmasāt dhruvam .. 31 ..
नायमर्हत्यसद्वृत्तो नरदेववरासनम् । योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२ ॥
न अयम् अर्हति असत्-वृत्तः नरदेव-वरासनम् । यः अधियज्ञ-पतिम् विष्णुम् विनिन्दति अनपत्रपः ॥ ३२ ॥
na ayam arhati asat-vṛttaḥ naradeva-varāsanam . yaḥ adhiyajña-patim viṣṇum vinindati anapatrapaḥ .. 32 ..
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् । प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३ ॥
कः वा एनम् परिचक्षीत वेनम् एकम् ऋते अशुभम् । प्राप्तः ईदृशम् ऐश्वर्यम् यत् अनुग्रह-भाजनः ॥ ३३ ॥
kaḥ vā enam paricakṣīta venam ekam ṛte aśubham . prāptaḥ īdṛśam aiśvaryam yat anugraha-bhājanaḥ .. 33 ..
इत्थं व्यवसिता हन्तुं हृषयो रूढमन्यवः । निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥
इत्थम् व्यवसिताः हन्तुम् हृषयः रूढ-मन्यवः । निजघ्नुः हुङ्कृतैः वेनम् हतम् अच्युत-निन्दया ॥ ३४ ॥
ittham vyavasitāḥ hantum hṛṣayaḥ rūḍha-manyavaḥ . nijaghnuḥ huṅkṛtaiḥ venam hatam acyuta-nindayā .. 34 ..
ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् । सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥
ऋषिभिः स्व-आश्रम-पदम् गते पुत्र-कलेवरम् । सुनीथा पालयामास विद्या-योगेन शोचती ॥ ३५ ॥
ṛṣibhiḥ sva-āśrama-padam gate putra-kalevaram . sunīthā pālayāmāsa vidyā-yogena śocatī .. 35 ..
एकदा मुनयस्ते तु सरस्वत् सलिलाप्लुताः । हुत्वाग्नीन् सत्कथाश्चक्रुः उपविष्टाः सरित्तटे ॥ ३६ ॥
एकदा मुनयः ते तु सरस्वत् सलिल-आप्लुताः । हुत्वा अग्नीन् सत्-कथाः चक्रुः उपविष्टाः सरित्-तटे ॥ ३६ ॥
ekadā munayaḥ te tu sarasvat salila-āplutāḥ . hutvā agnīn sat-kathāḥ cakruḥ upaviṣṭāḥ sarit-taṭe .. 36 ..
वीक्ष्योत्थितान् तदोत्पातान् आहुर्लोक भयङ्करान् । अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥ ३७ ॥
वीक्ष्य उत्थितान् तदा उत्पातान् आहुः लोक भयङ्करान् । अपि अभद्रम् अनाथायाः दस्युभ्यः न भवेत् भुवः ॥ ३७ ॥
vīkṣya utthitān tadā utpātān āhuḥ loka bhayaṅkarān . api abhadram anāthāyāḥ dasyubhyaḥ na bhavet bhuvaḥ .. 37 ..
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् । पांसुः समुत्थितो भूरिः चोराणामभिलुम्पताम् ॥ ३८ ॥
एवम् मृशन्तः ऋषयः धावताम् सर्वतोदिशम् । पांसुः समुत्थितः भूरिः चोराणाम् अभिलुम्पताम् ॥ ३८ ॥
evam mṛśantaḥ ṛṣayaḥ dhāvatām sarvatodiśam . pāṃsuḥ samutthitaḥ bhūriḥ corāṇām abhilumpatām .. 38 ..
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्युपरते तस्मिन् अन्योन्यं च जिघांसताम् ॥ ३९ ॥
तद्-उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् । भर्तरि उपरते तस्मिन् अन्योन्यम् च जिघांसताम् ॥ ३९ ॥
tad-upadravam ājñāya lokasya vasu lumpatām . bhartari uparate tasmin anyonyam ca jighāṃsatām .. 39 ..
चोरप्रायं जनपदं हीनसत्त्वमराजकम् । लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४० ॥
चोर-प्रायम् जनपदम् हीन-सत्त्वम् अराजकम् । लोकान् न अवारयन् शक्ताः अपि तद्-दोष-दर्शिनः ॥ ४० ॥
cora-prāyam janapadam hīna-sattvam arājakam . lokān na avārayan śaktāḥ api tad-doṣa-darśinaḥ .. 40 ..
ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥
ब्राह्मणः समदृश् शान्तः दीनानाम् समुपेक्षकः । स्रवते ब्रह्म तस्य अपि भिन्न-भाण्डात् पयः यथा ॥ ४१ ॥
brāhmaṇaḥ samadṛś śāntaḥ dīnānām samupekṣakaḥ . sravate brahma tasya api bhinna-bhāṇḍāt payaḥ yathā .. 41 ..
नाङ्गस्य वंशो राजर्षेः एष संस्थातुमर्हति । अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२ ॥
न अङ्गस्य वंशः राजर्षेः एष संस्थातुम् अर्हति । अमोघ-वीर्याः हि नृपाः वंशे अस्मिन् केशव-आश्रयाः ॥ ४२ ॥
na aṅgasya vaṃśaḥ rājarṣeḥ eṣa saṃsthātum arhati . amogha-vīryāḥ hi nṛpāḥ vaṃśe asmin keśava-āśrayāḥ .. 42 ..
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः । ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥ ४३ ॥
विनिश्चित्य एवम् ऋषयः विपन्नस्य महीपतेः । ममन्थुः ऊरुम् तरसा तत्र आसीत् बाहुकः नरः ॥ ४३ ॥
viniścitya evam ṛṣayaḥ vipannasya mahīpateḥ . mamanthuḥ ūrum tarasā tatra āsīt bāhukaḥ naraḥ .. 43 ..
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः । ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४ ॥
काक-कृष्णः अति ह्रस्व-अङ्गः ह्रस्व-बाहुः महा-हनुः । निम्न-नासा-अग्रः रक्त-अक्षः ताम्र-मूर्धजः ॥ ४४ ॥
kāka-kṛṣṇaḥ ati hrasva-aṅgaḥ hrasva-bāhuḥ mahā-hanuḥ . nimna-nāsā-agraḥ rakta-akṣaḥ tāmra-mūrdhajaḥ .. 44 ..
तं तु तेऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥
तम् तु ते अवनतम् दीनम् किम् करोमि इति वादिनम् । निषीद इति अब्रुवन् तात स निषादः ततस् अभवत् ॥ ४५ ॥
tam tu te avanatam dīnam kim karomi iti vādinam . niṣīda iti abruvan tāta sa niṣādaḥ tatas abhavat .. 45 ..
तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः । येनाहरत् जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥
तस्य वंश्याः तु नैषादाः गिरि-कानन-गोचराः । येन अहरत् जायमानः वेन-कल्मषम् उल्बणम् ॥ ४६ ॥
tasya vaṃśyāḥ tu naiṣādāḥ giri-kānana-gocarāḥ . yena aharat jāyamānaḥ vena-kalmaṣam ulbaṇam .. 46 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुचरिते निषादोत्पत्तिः नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthucarite niṣādotpattiḥ nāma caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In