| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथ तस्य पुनर्विप्रैः अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥
अथ तस्य पुनर् विप्रैः अपुत्रस्य महीपतेः । बाहुभ्याम् मथ्यमानाभ्याम् मिथुनम् समपद्यत ॥ १ ॥
atha tasya punar vipraiḥ aputrasya mahīpateḥ . bāhubhyām mathyamānābhyām mithunam samapadyata .. 1 ..
तद् दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥
तत् दृष्ट्वा मिथुनम् जातम् ऋषयः ब्रह्म-वादिनः । ऊचुः परम-सन्तुष्टाः विदित्वा भगवत्-कलाम् ॥ २ ॥
tat dṛṣṭvā mithunam jātam ṛṣayaḥ brahma-vādinaḥ . ūcuḥ parama-santuṣṭāḥ viditvā bhagavat-kalām .. 2 ..
ऋषय ऊचुः -
एष विष्णोर्भगवतः कला भुवनपालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३ ॥
एष विष्णोः भगवतः कला भुवन-पालिनी । इयम् च लक्ष्म्याः सम्भूतिः पुरुषस्य अनपायिनी ॥ ३ ॥
eṣa viṣṇoḥ bhagavataḥ kalā bhuvana-pālinī . iyam ca lakṣmyāḥ sambhūtiḥ puruṣasya anapāyinī .. 3 ..
अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४ ॥
अयम् तु प्रथमः राज्ञाम् पुमान् प्रथयिता यशः । पृथुः नाम महा-राजः भविष्यति पृथु-श्रवाः ॥ ४ ॥
ayam tu prathamaḥ rājñām pumān prathayitā yaśaḥ . pṛthuḥ nāma mahā-rājaḥ bhaviṣyati pṛthu-śravāḥ .. 4 ..
इयं च सुदती देवी गुणभूषणभूषणा । अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥
इयम् च सुदती देवी गुण-भूषण-भूषणा । अर्चिः नाम वरारोहा पृथुम् एव अवरुन्धती ॥ ५ ॥
iyam ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā . arciḥ nāma varārohā pṛthum eva avarundhatī .. 5 ..
एष साक्षात् हरेरंशो जातो लोकरिरक्षया । इयं च तत्परा हि श्रीः अनुजज्ञेऽनपायिनी ॥ ६ ॥
एष साक्षात् हरेः अंशः जातः लोक-रिरक्षया । इयम् च तद्-परा हि श्रीः अनुजज्ञे अनपायिनी ॥ ६ ॥
eṣa sākṣāt hareḥ aṃśaḥ jātaḥ loka-rirakṣayā . iyam ca tad-parā hi śrīḥ anujajñe anapāyinī .. 6 ..
मैत्रेय उवाच -
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः । मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥
प्रशंसन्ति स्म तम् विप्राः गन्धर्व-प्रवराः जगुः । मुमुचुः सुमनः-धाराः सिद्धाः नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥
praśaṃsanti sma tam viprāḥ gandharva-pravarāḥ jaguḥ . mumucuḥ sumanaḥ-dhārāḥ siddhāḥ nṛtyanti svaḥstriyaḥ .. 7 ..
शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुः देवर्षिपितॄणां गणाः ॥ ८ ॥
शङ्ख-तूर्य-मृदङ्ग-आद्याः नेदुः दुन्दुभयः दिवि । तत्र सर्वे उपाजग्मुः देव-ऋषि-पितॄणाम् गणाः ॥ ८ ॥
śaṅkha-tūrya-mṛdaṅga-ādyāḥ neduḥ dundubhayaḥ divi . tatra sarve upājagmuḥ deva-ṛṣi-pitṝṇām gaṇāḥ .. 8 ..
ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९ ॥
ब्रह्मा जगद्गुरुः देवैः सह आसृत्य सुर-ईश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नम् गदाभृतः ॥ ९ ॥
brahmā jagadguruḥ devaiḥ saha āsṛtya sura-īśvaraiḥ . vainyasya dakṣiṇe haste dṛṣṭvā cihnam gadābhṛtaḥ .. 9 ..
पादयोः अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रं अंशः स परमेष्ठिनः ॥ १० ॥
पादयोः अरविन्दम् च तम् वै मेने हरेः कलाम् । यस्य अप्रतिहतम् चक्रम् अंशः स परमेष्ठिनः ॥ १० ॥
pādayoḥ aravindam ca tam vai mene hareḥ kalām . yasya apratihatam cakram aṃśaḥ sa parameṣṭhinaḥ .. 10 ..
तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः । आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११ ॥
तस्य अभिषेकः आरब्धः ब्राह्मणैः ब्रह्म-वादिभिः । आभिषेचनिकानि अस्मै आजह्रुः सर्वतस् जनाः ॥ ११ ॥
tasya abhiṣekaḥ ārabdhaḥ brāhmaṇaiḥ brahma-vādibhiḥ . ābhiṣecanikāni asmai ājahruḥ sarvatas janāḥ .. 11 ..
सरित्समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥
सरित्-समुद्राः गिरयः नागाः गावः खगाः मृगाः । द्यौः क्षितिः सर्व-भूतानि समाजह्रुः उपायनम् ॥ १२ ॥
sarit-samudrāḥ girayaḥ nāgāḥ gāvaḥ khagāḥ mṛgāḥ . dyauḥ kṣitiḥ sarva-bhūtāni samājahruḥ upāyanam .. 12 ..
सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्कृतः । पत्न्यार्चिषालङ्कृतया विरेजेऽग्निरिवापरः ॥ १३ ॥
सः अभिषिक्तः महा-राजः सु वासाः साधु-अलङ्कृतः । पत्न्या अर्चिषा अलङ्कृतया विरेजे अग्निः इव अपरः ॥ १३ ॥
saḥ abhiṣiktaḥ mahā-rājaḥ su vāsāḥ sādhu-alaṅkṛtaḥ . patnyā arciṣā alaṅkṛtayā vireje agniḥ iva aparaḥ .. 13 ..
तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिलस्रावं आतपत्रं शशिप्रभम् ॥ १४ ॥
तस्मै जहार धनदः हैमम् वीर वरासनम् । वरुणः सलिल-स्रावम् आतपत्रम् शशि-प्रभम् ॥ १४ ॥
tasmai jahāra dhanadaḥ haimam vīra varāsanam . varuṇaḥ salila-srāvam ātapatram śaśi-prabham .. 14 ..
वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५ ॥
वायुः च वाल-व्यजने धर्मः कीर्ति-मयीम् स्रजम् । इन्द्रः किरीटम् उत्कृष्टम् दण्डम् संयमनम् यमः ॥ १५ ॥
vāyuḥ ca vāla-vyajane dharmaḥ kīrti-mayīm srajam . indraḥ kirīṭam utkṛṣṭam daṇḍam saṃyamanam yamaḥ .. 15 ..
ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् । हरिः सुदर्शनं चक्रं तत् पत्न्यव्याहतां श्रियम् ॥ १६ ॥
ब्रह्मा ब्रह्म-मयम् वर्म भारती हारम् उत्तमम् । हरिः सुदर्शनम् चक्रम् तत् पत्नी अव्याहताम् श्रियम् ॥ १६ ॥
brahmā brahma-mayam varma bhāratī hāram uttamam . hariḥ sudarśanam cakram tat patnī avyāhatām śriyam .. 16 ..
दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका । सोमोऽमृतमयानश्वान् त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥
दश-चन्द्रम् असिम् रुद्रः शत-चन्द्रम् तथा अम्बिका । सोमः अमृत-मयान् अश्वान् त्वष्टा रूप-आश्रयम् रथम् ॥ १७ ॥
daśa-candram asim rudraḥ śata-candram tathā ambikā . somaḥ amṛta-mayān aśvān tvaṣṭā rūpa-āśrayam ratham .. 17 ..
अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८ ॥
अग्निः आजगवम् चापम् सूर्यः रश्मि-मयान् इषून् । भूः पादुके योग-मय्यौ द्यौः पुष्प-आवलिम् अन्वहम् ॥ १८ ॥
agniḥ ājagavam cāpam sūryaḥ raśmi-mayān iṣūn . bhūḥ pāduke yoga-mayyau dyauḥ puṣpa-āvalim anvaham .. 18 ..
नाट्यं सुगीतं वादित्रं अन्तर्धानं च खेचराः । ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम् ॥ १९ ॥
नाट्यम् सु गीतम् वादित्रम् अन्तर्धानम् च खेचराः । ऋषयः च आशिषः सत्याः समुद्रः शङ्खम् आत्म-जम् ॥ १९ ॥
nāṭyam su gītam vāditram antardhānam ca khecarāḥ . ṛṣayaḥ ca āśiṣaḥ satyāḥ samudraḥ śaṅkham ātma-jam .. 19 ..
सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः । सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥
सिन्धवः पर्वताः नद्यः रथ-वीथीः महात्मनः । सूतः अथ मागधः वन्दी तम् स्तोतुम् उपतस्थिरे ॥ २० ॥
sindhavaḥ parvatāḥ nadyaḥ ratha-vīthīḥ mahātmanaḥ . sūtaḥ atha māgadhaḥ vandī tam stotum upatasthire .. 20 ..
स्तावकान् तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् । मेघनिर्ह्रादया वाचा प्रहसन् इदमब्रवीत् ॥ २१ ॥
स्तावकान् तान् अभिप्रेत्य पृथुः वैन्यः प्रतापवान् । मेघ-निर्ह्रादया वाचा प्रहसन् इदम् अब्रवीत् ॥ २१ ॥
stāvakān tān abhipretya pṛthuḥ vainyaḥ pratāpavān . megha-nirhrādayā vācā prahasan idam abravīt .. 21 ..
पृथुरुवाच -
भोः सूत हे मागध सौम्य वन्दिन् लोकेऽधुनास्पष्टगुणस्य मे स्यात् । किमाश्रयो मे स्तव एष योज्यतां मा मय्यभूवन् वितथा गिरो वः ॥ २२ ॥
भोः सूत हे मागध सौम्य वन्दिन् लोके अधुना अस्पष्ट-गुणस्य मे स्यात् । किमाश्रयः मे स्तवः एष योज्यताम् मा मयि अभूवन् वितथाः गिरः वः ॥ २२ ॥
bhoḥ sūta he māgadha saumya vandin loke adhunā aspaṣṭa-guṇasya me syāt . kimāśrayaḥ me stavaḥ eṣa yojyatām mā mayi abhūvan vitathāḥ giraḥ vaḥ .. 22 ..
तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं करिष्यथ स्तोत्रमपीच्यवाचः । सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३ ॥
तस्मात् परोक्षे अस्मत्-उपश्रुतानि अलम् करिष्यथ स्तोत्रम् अपीच्य-वाचः । सति उत्तमश्लोक-गुण-अनुवादे जुगुप्सितम् न स्तवयन्ति सभ्याः ॥ २३ ॥
tasmāt parokṣe asmat-upaśrutāni alam kariṣyatha stotram apīcya-vācaḥ . sati uttamaśloka-guṇa-anuvāde jugupsitam na stavayanti sabhyāḥ .. 23 ..
महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि । तेऽस्याभविष्यन् इति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥ २४ ॥
महत्-गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते असतः अपि । ते अस्य अभविष्यन् इति विप्रलब्धः जन-अवहासम् कुमतिः न वेद ॥ २४ ॥
mahat-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate asataḥ api . te asya abhaviṣyan iti vipralabdhaḥ jana-avahāsam kumatiḥ na veda .. 24 ..
(अनुष्टुप्)
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५ ॥
प्रभवः हि आत्मनः स्तोत्रम् जुगुप्सन्ति अपि विश्रुताः । ह्रीमन्तः परम-उदाराः पौरुषम् वा विगर्हितम् ॥ २५ ॥
prabhavaḥ hi ātmanaḥ stotram jugupsanti api viśrutāḥ . hrīmantaḥ parama-udārāḥ pauruṣam vā vigarhitam .. 25 ..
वयं तु अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥
वयम् तु अविदिताः लोके सूत अद्य अपि वरीमभिः । कर्मभिः कथम् आत्मानम् गापयिष्याम बाल-वत् ॥ २६ ॥
vayam tu aviditāḥ loke sūta adya api varīmabhiḥ . karmabhiḥ katham ātmānam gāpayiṣyāma bāla-vat .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुचरिते पञ्चदशः अध्यायः ॥ १५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthucarite pañcadaśaḥ adhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In