| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः । तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया ॥ १ ॥
इति ब्रुवाणम् नृपतिम् गायकाः मुनि-चोदिताः । तुष्टुवुः तुष्ट-मनसः तत् वाच् अमृत-सेवया ॥ १ ॥
iti bruvāṇam nṛpatim gāyakāḥ muni-coditāḥ . tuṣṭuvuḥ tuṣṭa-manasaḥ tat vāc amṛta-sevayā .. 1 ..
नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया । वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥
न अलम् वयम् ते महिम-अनुवर्णने यः देव-वर्यः अवततार मायया । वेन-अङ्ग-जातस्य च पौरुषाणि ते वाचस्पतीनाम् अपि बभ्रमुः धियः ॥ २ ॥
na alam vayam te mahima-anuvarṇane yaḥ deva-varyaḥ avatatāra māyayā . vena-aṅga-jātasya ca pauruṣāṇi te vācaspatīnām api babhramuḥ dhiyaḥ .. 2 ..
अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
अथा अपि उदार-श्रवसः पृथोः हरेः कला-अवतारस्य कथा-अमृत-आदृताः । यथोपदेशम् मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयम् वितन्महि ॥ ३ ॥
athā api udāra-śravasaḥ pṛthoḥ hareḥ kalā-avatārasya kathā-amṛta-ādṛtāḥ . yathopadeśam munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayam vitanmahi .. 3 ..
(अनुष्टुप्)
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् । गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
एष धर्म-भृताम् श्रेष्ठः लोकम् धर्मे अनुवर्तयन् । गोप्ता च धर्म-सेतूनाम् शास्ता तद्-परिपन्थिनाम् ॥ ४ ॥
eṣa dharma-bhṛtām śreṣṭhaḥ lokam dharme anuvartayan . goptā ca dharma-setūnām śāstā tad-paripanthinām .. 4 ..
एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः । काले काले यथाभागं लोकयोः उभयोर्हितम् ॥ ५ ॥
एष वै लोकपालानाम् बिभर्ति एकः तनौ तनूः । काले काले यथाभागम् लोकयोः उभयोः हितम् ॥ ५ ॥
eṣa vai lokapālānām bibharti ekaḥ tanau tanūḥ . kāle kāle yathābhāgam lokayoḥ ubhayoḥ hitam .. 5 ..
वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ॥ ६ ॥
वसु काले उपादत्ते काले च अयम् विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्य-वत् विभुः ॥ ॥ ६ ॥
vasu kāle upādatte kāle ca ayam vimuñcati . samaḥ sarveṣu bhūteṣu pratapan sūrya-vat vibhuḥ .. .. 6 ..
तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि । भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ ७ ॥
तितिक्षति अक्रमम् वैन्यः उपरि आक्रमताम् अपि । भूतानाम् करुणः शश्वत् आर्तानाम् क्षिति-वृत्तिमान् ॥ ७ ॥
titikṣati akramam vainyaḥ upari ākramatām api . bhūtānām karuṇaḥ śaśvat ārtānām kṣiti-vṛttimān .. 7 ..
देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः । कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत् ॥ ८ ॥
देवे अ वर्षति असौ देवः नरदेव-वपुः हरिः । कृच्छ्र-प्राणाः प्रजाः हि एष रक्षिष्यति अञ्जसा इन्द्र-वत् ॥ ८ ॥
deve a varṣati asau devaḥ naradeva-vapuḥ hariḥ . kṛcchra-prāṇāḥ prajāḥ hi eṣa rakṣiṣyati añjasā indra-vat .. 8 ..
आप्याययत्यसौ लोकं वदनामृतमूर्तिना । सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
आप्याययति असौ लोकम् वदन-अमृत-मूर्तिना । स अनुराग-अवलोकेन विशद-स्मित-चारुणा ॥ ९ ॥
āpyāyayati asau lokam vadana-amṛta-mūrtinā . sa anurāga-avalokena viśada-smita-cāruṇā .. 9 ..
अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः । अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥
अव्यक्त-वर्त्मा एष निगूढ-कार्यः गम्भीर-वेधाः उपगुप्त-वित्तः । अनन्त-माहात्म्य-गुण-एक-धामा पृथुः प्रचेताः इव संवृत-आत्मा ॥ १० ॥
avyakta-vartmā eṣa nigūḍha-kāryaḥ gambhīra-vedhāḥ upagupta-vittaḥ . ananta-māhātmya-guṇa-eka-dhāmā pṛthuḥ pracetāḥ iva saṃvṛta-ātmā .. 10 ..
(अनुष्टुप्)
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥
दुरासदः दुर्विषहः आसन्नः अपि विदूर-वत् । न एव अभिभवितुम् शक्यः वेन अरणि-उत्थितः अनलः ॥ ११ ॥
durāsadaḥ durviṣahaḥ āsannaḥ api vidūra-vat . na eva abhibhavitum śakyaḥ vena araṇi-utthitaḥ analaḥ .. 11 ..
अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
अन्तर् बहिस् च भूतानाम् पश्यन् कर्माणि चारणैः । उदासीनः इव अध्यक्षः वायुः आत्मा इव देहिनाम् ॥ १२ ॥
antar bahis ca bhūtānām paśyan karmāṇi cāraṇaiḥ . udāsīnaḥ iva adhyakṣaḥ vāyuḥ ātmā iva dehinām .. 12 ..
नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि । दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥
न अ दण्ड्यम् दण्डयति एष सुतम् आत्म-द्विषाम् अपि । दण्डयति आत्मजम् अपि दण्ड्यम् धर्म-पथे स्थितः ॥ १३ ॥
na a daṇḍyam daṇḍayati eṣa sutam ātma-dviṣām api . daṇḍayati ātmajam api daṇḍyam dharma-pathe sthitaḥ .. 13 ..
अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥
अस्य अप्रतिहतम् चक्रम् पृथोः आ मानस-अचलात् । वर्तते भगवान् अर्कः यावत् तपति गो गणैः ॥ १४ ॥
asya apratihatam cakram pṛthoḥ ā mānasa-acalāt . vartate bhagavān arkaḥ yāvat tapati go gaṇaiḥ .. 14 ..
रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः । अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥
रञ्जयिष्यति यत् लोकम् अयम् आत्म-विचेष्टितैः । अथ अमुम् आहुः राजानम् मनः-रञ्जनकैः प्रजाः ॥ १५ ॥
rañjayiṣyati yat lokam ayam ātma-viceṣṭitaiḥ . atha amum āhuḥ rājānam manaḥ-rañjanakaiḥ prajāḥ .. 15 ..
दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥
दृढ-व्रतः सत्य-सन्धः ब्रह्मण्यः वृद्ध-सेवकः । शरण्यः सर्व-भूतानाम् मानदः दीन-वत्सलः ॥ १६ ॥
dṛḍha-vrataḥ satya-sandhaḥ brahmaṇyaḥ vṛddha-sevakaḥ . śaraṇyaḥ sarva-bhūtānām mānadaḥ dīna-vatsalaḥ .. 16 ..
मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥
मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्धः इव आत्मनः । प्रजासु पितृ-वत् स्निग्धः किङ्करः ब्रह्म-वादिनाम् ॥ १७ ॥
mātṛ-bhaktiḥ para-strīṣu patnyām ardhaḥ iva ātmanaḥ . prajāsu pitṛ-vat snigdhaḥ kiṅkaraḥ brahma-vādinām .. 17 ..
देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः । मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिः असाधुषु ॥ १८ ॥
देहिनाम् आत्म-वत् प्रेष्ठः सुहृदाम् नन्दि-वर्धनः । मुक्त-सङ्ग-प्रसङ्गः अयम् दण्ड-पाणिः असाधुषु ॥ १८ ॥
dehinām ātma-vat preṣṭhaḥ suhṛdām nandi-vardhanaḥ . mukta-saṅga-prasaṅgaḥ ayam daṇḍa-pāṇiḥ asādhuṣu .. 18 ..
अयं तु साक्षाद्भगवान् त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः । यस्मिन् अविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
अयम् तु साक्षात् भगवान् त्र्यधीशः कूटस्थः आत्मा कलया अवतीर्णः । यस्मिन् अविद्या-रचितम् निरर्थकम् पश्यन्ति नानात्वम् अपि प्रतीतम् ॥ १९ ॥
ayam tu sākṣāt bhagavān tryadhīśaḥ kūṭasthaḥ ātmā kalayā avatīrṇaḥ . yasmin avidyā-racitam nirarthakam paśyanti nānātvam api pratītam .. 19 ..
अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नरदेवनाथः । आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥
अयम् भुवः मण्डलम् ओदयाद्रेः गोप्ता एक-वीरः नरदेव-नाथः । आस्थाय जैत्रम् रथम् आत्त-चापः पर्यस्यते दक्षिणतस् यथा अर्कः ॥ २० ॥
ayam bhuvaḥ maṇḍalam odayādreḥ goptā eka-vīraḥ naradeva-nāthaḥ . āsthāya jaitram ratham ātta-cāpaḥ paryasyate dakṣiṇatas yathā arkaḥ .. 20 ..
अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः । मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥
अस्मै नृपालाः किल तत्र तत्र बलिम् हरिष्यन्ति स लोकपालाः । मंस्यन्ते एषाम् स्त्रियः आदि-राजम् चक्रायुधम् तद्-यशः उद्धरन्त्यः ॥ २१ ॥
asmai nṛpālāḥ kila tatra tatra balim hariṣyanti sa lokapālāḥ . maṃsyante eṣām striyaḥ ādi-rājam cakrāyudham tad-yaśaḥ uddharantyaḥ .. 21 ..
अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥
अयम् महीम् गाम् दुदुहे अधिराजः प्रजापतिः वृत्ति-करः प्रजानाम् । यः लीलया अद्रीन् स्व-शरास-कोट्या भिन्दन् समाम् गाम् अकरोत् यथा इन्द्रः ॥ २२ ॥
ayam mahīm gām duduhe adhirājaḥ prajāpatiḥ vṛtti-karaḥ prajānām . yaḥ līlayā adrīn sva-śarāsa-koṭyā bhindan samām gām akarot yathā indraḥ .. 22 ..
विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
विस्फूर्जयन् आजगवम् धनुः स्वयम् यत् आचरत् क्ष्माम् अविषह्यम् आजौ । तदा निलिल्युः दिशि दिशि असन्तः लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
visphūrjayan ājagavam dhanuḥ svayam yat ācarat kṣmām aviṣahyam ājau . tadā nililyuḥ diśi diśi asantaḥ lāṅgūlam udyamya yathā mṛgendraḥ .. 23 ..
एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुरभावि यत्र । अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
एषः अश्वमेधान् शतम् आजहार सरस्वती प्रादुरभावि यत्र । अहारषीत् यस्य हयम् पुरन्दरः शतक्रतुः चरमे वर्तमाने ॥ २४ ॥
eṣaḥ aśvamedhān śatam ājahāra sarasvatī prādurabhāvi yatra . ahāraṣīt yasya hayam purandaraḥ śatakratuḥ carame vartamāne .. 24 ..
एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तद् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
एष स्व-सद्म-उपवने समेत्य सनत्कुमारम् भगवन्तम् एकम् । आराध्य भक्त्या लभताम् अलम् तत् ज्ञानम् यतस् ब्रह्म परम् विदन्ति ॥ २५ ॥
eṣa sva-sadma-upavane sametya sanatkumāram bhagavantam ekam . ārādhya bhaktyā labhatām alam tat jñānam yatas brahma param vidanti .. 25 ..
(अनुष्टुप्)
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः । श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥
तत्र तत्र गिरः ताः ताः इति विश्रुत-विक्रमः । श्रोष्यति आत्म-आश्रिताः गाथाः पृथुः पृथु-पराक्रमः ॥ २६ ॥
tatra tatra giraḥ tāḥ tāḥ iti viśruta-vikramaḥ . śroṣyati ātma-āśritāḥ gāthāḥ pṛthuḥ pṛthu-parākramaḥ .. 26 ..
दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः । सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः ॥ २७ ॥
दिशः विजित्य अ प्रतिरुद्ध-चक्रः स्व-तेजसा उत्पाटित-लोक-शल्यः । सुर-असुर-इन्द्रैः उपगीयमान महा-अनुभावः भविता पतिः भुवः ॥ २७ ॥
diśaḥ vijitya a pratiruddha-cakraḥ sva-tejasā utpāṭita-loka-śalyaḥ . sura-asura-indraiḥ upagīyamāna mahā-anubhāvaḥ bhavitā patiḥ bhuvaḥ .. 27 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In