| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः । छन्दयामास तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ १ ॥
एवम् स भगवान् वैन्यः ख्यापितः गुण-कर्मभिः । छन्दयामास तान् कामैः प्रतिपूज्य अभिनन्द्य च ॥ १ ॥
evam sa bhagavān vainyaḥ khyāpitaḥ guṇa-karmabhiḥ . chandayāmāsa tān kāmaiḥ pratipūjya abhinandya ca .. 1 ..
ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः । पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
ब्राह्मण-प्रमुखान् वर्णान् भृत्य-अमात्य-पुरोधसः । पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ २ ॥
brāhmaṇa-pramukhān varṇān bhṛtya-amātya-purodhasaḥ . paurān jānapadān śreṇīḥ prakṛtīḥ samapūjayat .. 2 ..
विदुर उवाच -
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥
कस्मात् दधार गो-रूपम् धरित्री बहु-रूपिणी । याम् दुदोह पृथुः तत्र कः वत्सः दोहनम् च किम् ॥ ३ ॥
kasmāt dadhāra go-rūpam dharitrī bahu-rūpiṇī . yām dudoha pṛthuḥ tatra kaḥ vatsaḥ dohanam ca kim .. 3 ..
प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोरपाहरत् ॥ ४ ॥
प्रकृत्याः विषमा देवी कृता तेन समा कथम् । तस्य मेध्यम् हयम् देवः कस्य हेतोः अपाहरत् ॥ ४ ॥
prakṛtyāḥ viṣamā devī kṛtā tena samā katham . tasya medhyam hayam devaḥ kasya hetoḥ apāharat .. 4 ..
सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् । लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ ५ ॥
सनत्कुमारात् भगवतः ब्रह्मन् ब्रह्म-विद्-उत्तमात् । लब्ध्वा ज्ञानम् स विज्ञानम् राजर्षिः काम् गतिम् गतः ॥ ५ ॥
sanatkumārāt bhagavataḥ brahman brahma-vid-uttamāt . labdhvā jñānam sa vijñānam rājarṣiḥ kām gatim gataḥ .. 5 ..
यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥
यत् च अन्यत् अपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यम् पूर्व-देह-कथा-आश्रयम् ॥ ६ ॥
yat ca anyat api kṛṣṇasya bhavān bhagavataḥ prabhoḥ . śravaḥ suśravasaḥ puṇyam pūrva-deha-kathā-āśrayam .. 6 ..
भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुमर्हसि योऽदुह्यद् वैन्यरूपेण गामिमाम् ॥ ७ ॥
भक्ताय मे अनुरक्ताय तव च अधोक्षजस्य च । वक्तुम् अर्हसि यः अदुह्यत् वैन्य-रूपेण गाम् इमाम् ॥ ७ ॥
bhaktāya me anuraktāya tava ca adhokṣajasya ca . vaktum arhasi yaḥ aduhyat vainya-rūpeṇa gām imām .. 7 ..
सूत उवाच -
चोदितो विदुरेणैवं वासुदेवकथां प्रति । प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ ८ ॥
चोदितः विदुरेण एवम् वासुदेव-कथाम् प्रति । प्रशस्य तम् प्रीत-मनाः मैत्रेयः प्रत्यभाषत ॥ ८ ॥
coditaḥ vidureṇa evam vāsudeva-kathām prati . praśasya tam prīta-manāḥ maitreyaḥ pratyabhāṣata .. 8 ..
मैत्रेय उवाच -
यदाभिषिक्तः पृथुरङ्ग विप्रैः आमंत्रितो जनतायाश्च पालः । प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन् ॥ ९ ॥
यदा अभिषिक्तः पृथुः अङ्ग विप्रैः आमंत्रितः जनतायाः च पालः । प्रजाः निरन्ने क्षिति-पृष्ठे एत्य क्षुध्-क्षाम-देहाः पतिम् अभ्यवोचन् ॥ ९ ॥
yadā abhiṣiktaḥ pṛthuḥ aṅga vipraiḥ āmaṃtritaḥ janatāyāḥ ca pālaḥ . prajāḥ niranne kṣiti-pṛṣṭhe etya kṣudh-kṣāma-dehāḥ patim abhyavocan .. 9 ..
वयं राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः । त्वामद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर्नः ॥ १० ॥
वयम् राजन् जाठरेण अभितप्ताः यथा अग्निना कोटर-स्थेन वृक्षाः । त्वाम् अद्य याताः शरणम् शरण्यम् यः साधितः वृत्ति-करः पतिः नः ॥ १० ॥
vayam rājan jāṭhareṇa abhitaptāḥ yathā agninā koṭara-sthena vṛkṣāḥ . tvām adya yātāḥ śaraṇam śaraṇyam yaḥ sādhitaḥ vṛtti-karaḥ patiḥ naḥ .. 10 ..
तन्नो भवानीहतु रातवेऽन्नं क्षुधार्दितानां नरदेवदेव । यावन्न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः ॥ ११ ॥
तत् नः भवान् ईहतु रातवे अन्नम् क्षुधा-अर्दितानाम् नरदेव-देव । यावत् न नङ्क्ष्यामहे उज्झित-ऊर्जाः वार्ता-पतिः त्वम् किल लोकपालः ॥ ११ ॥
tat naḥ bhavān īhatu rātave annam kṣudhā-arditānām naradeva-deva . yāvat na naṅkṣyāmahe ujjhita-ūrjāḥ vārtā-patiḥ tvam kila lokapālaḥ .. 11 ..
मैत्रेय उवाच - (अनुष्टुप्)
पृथुः प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥
पृथुः प्रजानाम् करुणम् निशम्य परिदेवितम् । दीर्घम् दध्यौ कुरुश्रेष्ठ निमित्तम् सः अन्वपद्यत ॥ १२ ॥
pṛthuḥ prajānām karuṇam niśamya paridevitam . dīrgham dadhyau kuruśreṣṭha nimittam saḥ anvapadyata .. 12 ..
इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः । सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥
इति व्यवसितः बुद्ध्या प्रगृहीत-शरासनः । सन्दधे विशिखम् भूमेः क्रुद्धः त्रिपुर-हा यथा ॥ १३ ॥
iti vyavasitaḥ buddhyā pragṛhīta-śarāsanaḥ . sandadhe viśikham bhūmeḥ kruddhaḥ tripura-hā yathā .. 13 ..
प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौः सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४ ॥
प्रवेपमाना धरणी निशाम्य उदायुधम् च तम् । गौः सती अपाद्रवत् भीता मृगी इव मृगयु-द्रुता ॥ १४ ॥
pravepamānā dharaṇī niśāmya udāyudham ca tam . gauḥ satī apādravat bhītā mṛgī iva mṛgayu-drutā .. 14 ..
तामन्वधावत्तद्वैन्यः कुपितोऽत्यरुणेक्षणः । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥
ताम् अन्वधावत् तत् वैन्यः कुपितः अति अरुण-ईक्षणः । शरम् धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥
tām anvadhāvat tat vainyaḥ kupitaḥ ati aruṇa-īkṣaṇaḥ . śaram dhanuṣi sandhāya yatra yatra palāyate .. 15 ..
सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥
सा दिशः विदिशः देवी रोदसी च अन्तरम् तयोः । धावन्ती तत्र तत्र एनम् ददर्श अनूद्यत-आयुधम् ॥ १६ ॥
sā diśaḥ vidiśaḥ devī rodasī ca antaram tayoḥ . dhāvantī tatra tatra enam dadarśa anūdyata-āyudham .. 16 ..
लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥
लोके न अविन्दत त्राणम् वैन्यात् मृत्योः इव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥
loke na avindata trāṇam vainyāt mṛtyoḥ iva prajāḥ . trastā tadā nivavṛte hṛdayena vidūyatā .. 17 ..
उवाच च महाभागं धर्मज्ञापन्नवत्सल । त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥
उवाच च महाभागम् धर्म-ज्ञ आपन्न-वत्सल । त्राहि माम् अपि भूतानाम् पालने अवस्थितः भवान् ॥ १८ ॥
uvāca ca mahābhāgam dharma-jña āpanna-vatsala . trāhi mām api bhūtānām pālane avasthitaḥ bhavān .. 18 ..
स त्वं जिघांससे कस्माद् दीनामकृतकिल्बिषाम् । अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः ॥ १९ ॥
स त्वम् जिघांससे कस्मात् दीनाम् अकृत-किल्बिषाम् । अहनिष्यत् कथम् योषाम् धर्म-ज्ञः इति यः मतः ॥ १९ ॥
sa tvam jighāṃsase kasmāt dīnām akṛta-kilbiṣām . ahaniṣyat katham yoṣām dharma-jñaḥ iti yaḥ mataḥ .. 19 ..
प्रहरन्ति न वै स्त्रीषु कृतागःस्वपि जन्तवः । किमुत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ २० ॥
प्रहरन्ति न वै स्त्रीषु कृत-आगःसु अपि जन्तवः । किम् उत त्वद्विधाः राजन् करुणाः दीन-वत्सलाः ॥ २० ॥
praharanti na vai strīṣu kṛta-āgaḥsu api jantavaḥ . kim uta tvadvidhāḥ rājan karuṇāḥ dīna-vatsalāḥ .. 20 ..
मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश्चेमाः कथं अम्भसि धास्यसि ॥ २१ ॥
माम् विपाट्य अजराम् नावम् यत्र विश्वम् प्रतिष्ठितम् । आत्मानम् च प्रजाः च इमाः कथम् अम्भसि धास्यसि ॥ २१ ॥
mām vipāṭya ajarām nāvam yatra viśvam pratiṣṭhitam . ātmānam ca prajāḥ ca imāḥ katham ambhasi dhāsyasi .. 21 ..
पृथुरुवाच -
वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ २२ ॥
वसुधे त्वाम् वधिष्यामि मद्-शासन-पराङ्मुखीम् । भागम् बर्हिषि या वृङ्क्ते न तनोति च नः वसु ॥ २२ ॥
vasudhe tvām vadhiṣyāmi mad-śāsana-parāṅmukhīm . bhāgam barhiṣi yā vṛṅkte na tanoti ca naḥ vasu .. 22 ..
यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः । तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥
यवसम् जग्धि अनुदिनम् न एव दोग्धि औधसम् पयः । तस्याम् एवम् हि दुष्टायाम् दण्डः न अत्र न शस्यते ॥ २३ ॥
yavasam jagdhi anudinam na eva dogdhi audhasam payaḥ . tasyām evam hi duṣṭāyām daṇḍaḥ na atra na śasyate .. 23 ..
त्वं खल्वोषधिबीजानि प्राक्सृष्टानि स्वयम्भुवा । न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः ॥ २४ ॥
त्वम् खलु ओषधि-बीजानि प्राच्-सृष्टानि स्वयम्भुवा । न मुञ्चसि आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः ॥ २४ ॥
tvam khalu oṣadhi-bījāni prāc-sṛṣṭāni svayambhuvā . na muñcasi ātma-ruddhāni mām avajñāya manda-dhīḥ .. 24 ..
अमूषां क्षुत्परीतानां आर्तानां परिदेवितम् । शमयिष्यामि मद्बाणैः भिन्नायास्तव मेदसा ॥ २५ ॥
अमूषाम् क्षुध्-परीतानाम् आर्तानाम् परिदेवितम् । शमयिष्यामि मद्-बाणैः भिन्नायाः तव मेदसा ॥ २५ ॥
amūṣām kṣudh-parītānām ārtānām paridevitam . śamayiṣyāmi mad-bāṇaiḥ bhinnāyāḥ tava medasā .. 25 ..
पुमान्योषिदुत क्लीब आत्मसम्भावनोऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवधः ॥ २६ ॥
पुमान् योषित् उत क्लीबः आत्म-सम्भावनः अधमः । भूतेषु निरनुक्रोशः नृपाणाम् तद्-वधः अवधः ॥ २६ ॥
pumān yoṣit uta klībaḥ ātma-sambhāvanaḥ adhamaḥ . bhūteṣu niranukrośaḥ nṛpāṇām tad-vadhaḥ avadhaḥ .. 26 ..
त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः । आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ २७ ॥
त्वाम् स्तब्धाम् दुर्मदाम् नीत्वा माया-गाम् तिलशस् शरैः । आत्म-योग-बलेन इमाः धारयिष्यामि अहम् प्रजाः ॥ २७ ॥
tvām stabdhām durmadām nītvā māyā-gām tilaśas śaraiḥ . ātma-yoga-balena imāḥ dhārayiṣyāmi aham prajāḥ .. 27 ..
एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् । प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ २८ ॥
एवम् मन्यु-मयीम् मूर्तिम् कृतान्तम् इव बिभ्रतम् । प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः ॥ २८ ॥
evam manyu-mayīm mūrtim kṛtāntam iva bibhratam . praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ .. 28 ..
धरोवाच -
नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुत द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥
नमः परस्मै पुरुषाय मायया विन्यस्त-नाना तनवे गुण-आत्मने । नमः स्व-रूप-अनुभवेन निर्धुत द्रव्य-क्रिया-कारक-विभ्रम-ऊर्मये ॥ २९ ॥
namaḥ parasmai puruṣāya māyayā vinyasta-nānā tanave guṇa-ātmane . namaḥ sva-rūpa-anubhavena nirdhuta dravya-kriyā-kāraka-vibhrama-ūrmaye .. 29 ..
येनाहमात्मायतनं विनिर्मिता धात्रा यतोऽयं गुणसर्गसङ्ग्रहः । स एव मां हन्तुमुदायुधः स्वराड् उपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥
येन अहम् आत्म-आयतनम् विनिर्मिता धात्रा यतस् अयम् गुण-सर्ग-सङ्ग्रहः । सः एव माम् हन्तुम् उदायुधः स्वराज् उपस्थितः अन्यम् शरणम् कम् आश्रये ॥ ३० ॥
yena aham ātma-āyatanam vinirmitā dhātrā yatas ayam guṇa-sarga-saṅgrahaḥ . saḥ eva mām hantum udāyudhaḥ svarāj upasthitaḥ anyam śaraṇam kam āśraye .. 30 ..
य एतदादावसृजच्चराचरं स्वमाययात्माश्रययावितर्क्यया । तयैव सोऽयं किल गोप्तुमुद्यतः कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥
यः एतत् आदौ असृजत् चराचरम् स्व-मायया आत्म-आश्रयया अ वितर्क्यया । तया एव सः अयम् किल गोप्तुम् उद्यतः कथम् नु माम् धर्म-परः जिघांसति ॥ ३१ ॥
yaḥ etat ādau asṛjat carācaram sva-māyayā ātma-āśrayayā a vitarkyayā . tayā eva saḥ ayam kila goptum udyataḥ katham nu mām dharma-paraḥ jighāṃsati .. 31 ..
नूनं बतेशस्य समीहितं जनैः तन्मायया दुर्जययाकृतात्मभिः । न लक्ष्यते यस्त्वकरोदकारयद् योऽनेक एकः परतश्च ईश्वरः ॥ ३२ ॥
नूनम् बत ईशस्य समीहितम् जनैः तद्-मायया दुर्जयया अकृतात्मभिः । न लक्ष्यते यः तु अकरोत् अकारयत् यः अनेकः एकः परतस् च ईश्वरः ॥ ३२ ॥
nūnam bata īśasya samīhitam janaiḥ tad-māyayā durjayayā akṛtātmabhiḥ . na lakṣyate yaḥ tu akarot akārayat yaḥ anekaḥ ekaḥ paratas ca īśvaraḥ .. 32 ..
सर्गादि योऽस्यानुरुणद्धि शक्तिभिः द्रव्यक्रियाकारक चेतनात्मभिः । तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥
सर्ग-आदि यः अस्य अनुरुणद्धि शक्तिभिः चेतना-आत्मभिः । तस्मै समुन्नद्ध-निरुद्ध-शक्तये नमः परस्मै पुरुषाय वेधसे ॥ ३३ ॥
sarga-ādi yaḥ asya anuruṇaddhi śaktibhiḥ cetanā-ātmabhiḥ . tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase .. 33 ..
स वै भवानात्मविनिर्मितं जगद् भूतेन्द्रियान्तःकरणात्मकं विभो । संस्थापयिष्यन्नज मां रसातलाद् अभ्युज्जहाराम्भस आदिसूकरः ॥ ३४ ॥
स वै भवान् आत्म-विनिर्मितम् जगत् भूत-इन्द्रिय-अन्तःकरण-आत्मकम् विभो । संस्थापयिष्यन् अज माम् रसातलात् अभ्युज्जहार अम्भसः आदि-सूकरः ॥ ३४ ॥
sa vai bhavān ātma-vinirmitam jagat bhūta-indriya-antaḥkaraṇa-ātmakam vibho . saṃsthāpayiṣyan aja mām rasātalāt abhyujjahāra ambhasaḥ ādi-sūkaraḥ .. 34 ..
अपामुपस्थे मयि नाव्यवस्थिताः प्रजा भवानद्य रिरक्षिषुः किल । स वीरमूर्तिः समभूद् धराधरो यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥
अपाम् उपस्थे मयि नावि अवस्थिताः प्रजाः भवान् अद्य रिरक्षिषुः किल । स वीर-मूर्तिः समभूत् धराधरः यः माम् पयसि उग्र-शरः जिघांससि ॥ ३५ ॥
apām upasthe mayi nāvi avasthitāḥ prajāḥ bhavān adya rirakṣiṣuḥ kila . sa vīra-mūrtiḥ samabhūt dharādharaḥ yaḥ mām payasi ugra-śaraḥ jighāṃsasi .. 35 ..
नूनं जनैरीहितमीश्वराणां अस्मद्विधैस्तद्गुणसर्गमायया । न ज्ञायते मोहितचित्तवर्त्मभिः तेभ्यो नमो वीरयशस्करेभ्यः ॥ ३६ ॥
नूनम् जनैः ईहितम् ईश्वराणाम् अस्मद्विधैः तद्-गुण-सर्ग-मायया । न ज्ञायते मोहित-चित्त-वर्त्मभिः तेभ्यः नमः वीर-यशस्करेभ्यः ॥ ३६ ॥
nūnam janaiḥ īhitam īśvarāṇām asmadvidhaiḥ tad-guṇa-sarga-māyayā . na jñāyate mohita-citta-vartmabhiḥ tebhyaḥ namaḥ vīra-yaśaskarebhyaḥ .. 36 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुविजये धरित्रीनिग्रहः नाम सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthuvijaye dharitrīnigrahaḥ nāma saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In