| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् । पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥
इत्थम् पृथुम् अभिष्टूय रुषा प्रस्फुरित-अधरम् । पुनर् आह अवनिः भीता संस्तभ्य आत्मानम् आत्मना ॥ १ ॥
ittham pṛthum abhiṣṭūya ruṣā prasphurita-adharam . punar āha avaniḥ bhītā saṃstabhya ātmānam ātmanā .. 1 ..
सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारमादत्ते यथा मधुकरो बुधः ॥ २ ॥
सन् नियच्छ अभिभो मन्युम् निबोध श्रावितम् च मे । सर्वतस् सारम् आदत्ते यथा मधुकरः बुधः ॥ २ ॥
san niyaccha abhibho manyum nibodha śrāvitam ca me . sarvatas sāram ādatte yathā madhukaraḥ budhaḥ .. 2 ..
अस्मिन् लोकेऽथवामुष्मिन् मुनिभिः तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये ॥ ३ ॥
अस्मिन् लोके अथवा अमुष्मिन् मुनिभिः तत्त्व-दर्शिभिः । दृष्टाः योगाः प्रयुक्ताः च पुंसाम् श्रेयः-प्रसिद्धये ॥ ३ ॥
asmin loke athavā amuṣmin munibhiḥ tattva-darśibhiḥ . dṛṣṭāḥ yogāḥ prayuktāḥ ca puṃsām śreyaḥ-prasiddhaye .. 3 ..
तानातिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥
तान् आतिष्ठति यः सम्यक् उपायान् पूर्व-दर्शितान् । अवरः श्रद्धया उपेतः उपेयान् विन्दते अञ्जसा ॥ ४ ॥
tān ātiṣṭhati yaḥ samyak upāyān pūrva-darśitān . avaraḥ śraddhayā upetaḥ upeyān vindate añjasā .. 4 ..
तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुनः पुनः ॥ ५ ॥
तान् अन् आदृत्य यः अ विद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्ति अर्थाः आरब्धाः च पुनर् पुनर् ॥ ५ ॥
tān an ādṛtya yaḥ a vidvān arthān ārabhate svayam . tasya vyabhicaranti arthāḥ ārabdhāḥ ca punar punar .. 5 ..
पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्भिः अधृतव्रतैः ॥ ॥ ६ ॥
पुरा सृष्टाः हि ओषधयः ब्रह्मणा याः विशाम् पते । भुज्यमानाः मया दृष्टाः असद्भिः अ धृत-व्रतैः ॥ ॥ ६ ॥
purā sṛṣṭāḥ hi oṣadhayaḥ brahmaṇā yāḥ viśām pate . bhujyamānāḥ mayā dṛṣṭāḥ asadbhiḥ a dhṛta-vrataiḥ .. .. 6 ..
अपालितानादृता च भवद्भिः लोकपालकैः । चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधीः ॥ ७ ॥
अ पालिता अन् आदृता च भवद्भिः लोकपालकैः । चोरीभूते अथ लोके अहम् यज्ञ-अर्थे अग्रसम् ओषधीः ॥ ७ ॥
a pālitā an ādṛtā ca bhavadbhiḥ lokapālakaiḥ . corībhūte atha loke aham yajña-arthe agrasam oṣadhīḥ .. 7 ..
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥
नूनम् ताः वीरुधः क्षीणाः मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति ॥ ८ ॥
nūnam tāḥ vīrudhaḥ kṣīṇāḥ mayi kālena bhūyasā . tatra yogena dṛṣṭena bhavān ādātum arhati .. 8 ..
वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ ९ ॥
वत्सम् कल्पय मे वीर येन अहम् वत्सला तव । धोक्ष्ये क्षीर-मयान् कामान् अनुरूपम् च दोहनम् ॥ ९ ॥
vatsam kalpaya me vīra yena aham vatsalā tava . dhokṣye kṣīra-mayān kāmān anurūpam ca dohanam .. 9 ..
दोग्धारं च महाबाहो भूतानां भूतभावन । अन्नं ईप्सितमूर्जस्वद् भगवान् वाञ्छते यदि ॥ १० ॥
दोग्धारम् च महा-बाहो भूतानाम् भूत-भावन । अन्नम् ईप्सितम् ऊर्जस्वत् भगवान् वाञ्छते यदि ॥ १० ॥
dogdhāram ca mahā-bāho bhūtānām bhūta-bhāvana . annam īpsitam ūrjasvat bhagavān vāñchate yadi .. 10 ..
समां च कुरु मां राजन् देववृष्टं यथा पयः । अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥
समाम् च कुरु माम् राजन् देव-वृष्टम् यथा पयः । अपर्तौ अपि भद्रम् ते उपावर्तेत मे विभो ॥ ११ ॥
samām ca kuru mām rājan deva-vṛṣṭam yathā payaḥ . apartau api bhadram te upāvarteta me vibho .. 11 ..
इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणौ अदुहत्सकलौषधीः ॥ १२ ॥
इति प्रियम् हितम् वाक्यम् भुवः आदाय भूपतिः । वत्सम् कृत्वा मनुम् पाणौ अदुहत् सकल-ओषधीः ॥ १२ ॥
iti priyam hitam vākyam bhuvaḥ ādāya bhūpatiḥ . vatsam kṛtvā manum pāṇau aduhat sakala-oṣadhīḥ .. 12 ..
तथापरे च सर्वत्र सारमाददते बुधाः । ततोऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ १३ ॥
तथा अपरे च सर्वत्र सारम् आददते बुधाः । ततस् अन्ये च यथाकामम् दुदुहुः पृथु-भाविताम् ॥ १३ ॥
tathā apare ca sarvatra sāram ādadate budhāḥ . tatas anye ca yathākāmam duduhuḥ pṛthu-bhāvitām .. 13 ..
ऋषयो दुदुहुर्देवीं इन्द्रियेष्वथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥
ऋषयः दुदुहुः देवीम् इन्द्रियेषु अथ सत्तम । वत्सम् बृहस्पतिम् कृत्वा पयः छन्दः-मयम् शुचि ॥ १४ ॥
ṛṣayaḥ duduhuḥ devīm indriyeṣu atha sattama . vatsam bṛhaspatim kṛtvā payaḥ chandaḥ-mayam śuci .. 14 ..
कृत्वा वत्सं सुरगणा इन्द्रं सोमं अदूदुहन् । हिरण्मयेन पात्रेण वीर्यमोजो बलं पयः ॥ १५ ॥
कृत्वा वत्सम् सुर-गणाः इन्द्रम् सोमम् अदूदुहन् । हिरण्मयेन पात्रेण वीर्यम् ओजः बलम् पयः ॥ १५ ॥
kṛtvā vatsam sura-gaṇāḥ indram somam adūduhan . hiraṇmayena pātreṇa vīryam ojaḥ balam payaḥ .. 15 ..
दैतेया दानवा वत्सं प्रह्लादं असुरर्षभम् । विधायादूदुहन् क्षीरमयःपात्रे सुरासवम् ॥ १६ ॥
दैतेयाः दानवाः वत्सम् प्रह्लादम् असुर-ऋषभम् । विधाय अदूदुहन् क्षीरम् अयः-पात्रे सुरासवम् ॥ १६ ॥
daiteyāḥ dānavāḥ vatsam prahlādam asura-ṛṣabham . vidhāya adūduhan kṣīram ayaḥ-pātre surāsavam .. 16 ..
गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥
गन्धर्व-अप्सरसः अधुक्षन् पात्रे पद्म-मये पयः । वत्सम् विश्वावसुम् कृत्वा गान्धर्वम् मधु सौभगम् ॥ १७ ॥
gandharva-apsarasaḥ adhukṣan pātre padma-maye payaḥ . vatsam viśvāvasum kṛtvā gāndharvam madhu saubhagam .. 17 ..
वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत । आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥
वत्सेन पितरः अर्यम्णा कव्यम् क्षीरम् अधुक्षत । आम-पात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ १८ ॥
vatsena pitaraḥ aryamṇā kavyam kṣīram adhukṣata . āma-pātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ .. 18 ..
प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ १९ ॥
प्रकल्प्य वत्सम् कपिलम् सिद्धाः सङ्कल्पना-मयीम् । सिद्धिम् नभसि विद्याम् च ये च विद्याधर-आदयः ॥ १९ ॥
prakalpya vatsam kapilam siddhāḥ saṅkalpanā-mayīm . siddhim nabhasi vidyām ca ye ca vidyādhara-ādayaḥ .. 19 ..
अन्ये च मायिनो मायां अन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥
अन्ये च मायिनः मायाम् अन्तर्धान-अद्भुत-आत्मनाम् । मयम् प्रकल्प्य वत्सम् ते दुदुहुः धारणा-मयीम् ॥ २० ॥
anye ca māyinaḥ māyām antardhāna-adbhuta-ātmanām . mayam prakalpya vatsam te duduhuḥ dhāraṇā-mayīm .. 20 ..
यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ २१ ॥
यक्ष-रक्षांसि भूतानि पिशाचाः पिशित-अशनाः । भूतेश-वत्साः दुदुहुः कपाले क्षतज-आसवम् ॥ २१ ॥
yakṣa-rakṣāṃsi bhūtāni piśācāḥ piśita-aśanāḥ . bhūteśa-vatsāḥ duduhuḥ kapāle kṣataja-āsavam .. 21 ..
तथाहयो दन्दशूकाः सर्पा नागाश्च तक्षकम् । विधाय वत्सं दुदुहुः बिलपात्रे विषं पयः ॥ २२ ॥
तथा अहयः दन्दशूकाः सर्पाः नागाः च तक्षकम् । विधाय वत्सम् दुदुहुः बिल-पात्रे विषम् पयः ॥ २२ ॥
tathā ahayaḥ dandaśūkāḥ sarpāḥ nāgāḥ ca takṣakam . vidhāya vatsam duduhuḥ bila-pātre viṣam payaḥ .. 22 ..
पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥
पशवः यवसम् क्षीरम् वत्सम् कृत्वा च गो-वृषम् । अरण्य-पात्रे च अधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ २३ ॥
paśavaḥ yavasam kṣīram vatsam kṛtvā ca go-vṛṣam . araṇya-pātre ca adhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ .. 23 ..
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाः चरं च अचरमेव च ॥ २४ ॥
क्रव्यादाः प्राणिनः क्रव्यम् दुदुहुः स्वे कलेवरे । सुपर्ण-वत्साः विहगाः चरम् च अचरम् एव च ॥ २४ ॥
kravyādāḥ prāṇinaḥ kravyam duduhuḥ sve kalevare . suparṇa-vatsāḥ vihagāḥ caram ca acaram eva ca .. 24 ..
वटवत्सा वनस्पतयः पृथग्रसमयं पयः । गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥
वट-वत्साः वनस्पतयः पृथक् रस-मयम् पयः । गिरयः हिमवत्-वत्साः नाना धातून् स्व-सानुषु ॥ २५ ॥
vaṭa-vatsāḥ vanaspatayaḥ pṛthak rasa-mayam payaḥ . girayaḥ himavat-vatsāḥ nānā dhātūn sva-sānuṣu .. 25 ..
सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक्पयः । सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ २६ ॥
सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्व-काम-दुघाम् पृथ्वीम् दुदुहुः पृथु-भाविताम् ॥ २६ ॥
sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ . sarva-kāma-dughām pṛthvīm duduhuḥ pṛthu-bhāvitām .. 26 ..
एवं पृथ्वादयः पृथ्वीं अन्नादाः स्वन्नमात्मनः । दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥
एवम् पृथु-आदयः पृथ्वीम् अन्न-आदाः सु अन्नम् आत्मनः । दोह-वत्स-आदि-भेदेन क्षीर-भेदम् कुरु-उद्वह ॥ २७ ॥
evam pṛthu-ādayaḥ pṛthvīm anna-ādāḥ su annam ātmanaḥ . doha-vatsa-ādi-bhedena kṣīra-bhedam kuru-udvaha .. 27 ..
ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ २८ ॥
ततस् महीपतिः प्रीतः सर्व-काम-दुघाम् पृथुः । दुहितृ-त्वे चकार इमाम् प्रेम्णा दुहितृ-वत्सलः ॥ २८ ॥
tatas mahīpatiḥ prītaḥ sarva-kāma-dughām pṛthuḥ . duhitṛ-tve cakāra imām premṇā duhitṛ-vatsalaḥ .. 28 ..
चूर्णयन्स्वधनुष्कोट्या गिरिकूटानि राजराट् । भूमण्डलं इदं वैन्यः प्रायश्चक्रे समं विभुः ॥ २९ ॥
चूर्णयन् स्व-धनुष्कोट्या गिरि-कूटानि राज-राज् । भू-मण्डलम् इदम् वैन्यः प्रायस् चक्रे समम् विभुः ॥ २९ ॥
cūrṇayan sva-dhanuṣkoṭyā giri-kūṭāni rāja-rāj . bhū-maṇḍalam idam vainyaḥ prāyas cakre samam vibhuḥ .. 29 ..
अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ ३० ॥
अथ अस्मिन् भगवान् वैन्यः प्रजानाम् वृत्ति-दः पिता । निवासान् तत्र तत्र यथार्हतः ॥ ३० ॥
atha asmin bhagavān vainyaḥ prajānām vṛtti-daḥ pitā . nivāsān tatra tatra yathārhataḥ .. 30 ..
ग्रामान्पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् ॥ ३१ ॥
ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् स शिबिरान् आकरान् खेट-खर्वटान् ॥ ३१ ॥
grāmān puraḥ pattanāni durgāṇi vividhāni ca . ghoṣān vrajān sa śibirān ākarān kheṭa-kharvaṭān .. 31 ..
प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ ३२ ॥
प्राक् पृथोः इह ना एव एषा पुर-ग्राम-आदि-कल्पना । यथासुखम् वसन्ति स्म तत्र तत्र अकुतोभयाः ॥ ३२ ॥
prāk pṛthoḥ iha nā eva eṣā pura-grāma-ādi-kalpanā . yathāsukham vasanti sma tatra tatra akutobhayāḥ .. 32 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे अष्टादशः अध्यायः ॥ १८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In