| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथादीक्षत राजा तु हयमेधशतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥
अथा अदीक्षत राजा तु हयमेध-शतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥
athā adīkṣata rājā tu hayamedha-śatena saḥ . brahmāvarte manoḥ kṣetre yatra prācī sarasvatī .. 1 ..
तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः । शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥
तत् अभिप्रेत्य भगवान् कर्म-अतिशयम् आत्मनः । शतक्रतुः न ममृषे पृथोः यज्ञ-महा-उत्सवम् ॥ २ ॥
tat abhipretya bhagavān karma-atiśayam ātmanaḥ . śatakratuḥ na mamṛṣe pṛthoḥ yajña-mahā-utsavam .. 2 ..
यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः । अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ ३ ॥
यत्र यज्ञपतिः साक्षात् भगवान् हरिः ईश्वरः । अन्वभूयत सर्व-आत्मा सर्व-लोक-गुरुः प्रभुः ॥ ३ ॥
yatra yajñapatiḥ sākṣāt bhagavān hariḥ īśvaraḥ . anvabhūyata sarva-ātmā sarva-loka-guruḥ prabhuḥ .. 3 ..
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः । उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः ॥ ४ ॥
अन्वितः ब्रह्म-शर्वाभ्याम् लोकपालैः सह अनुगैः । उपगीयमानः गन्धर्वैः मुनिभिः च अप्सरः-गणैः ॥ ४ ॥
anvitaḥ brahma-śarvābhyām lokapālaiḥ saha anugaiḥ . upagīyamānaḥ gandharvaiḥ munibhiḥ ca apsaraḥ-gaṇaiḥ .. 4 ..
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः । सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ ५ ॥
सिद्धाः विद्याधराः दैत्याः दानवाः गुह्यक-आदयः । सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवराः हरेः ॥ ५ ॥
siddhāḥ vidyādharāḥ daityāḥ dānavāḥ guhyaka-ādayaḥ . sunanda-nanda-pramukhāḥ pārṣada-pravarāḥ hareḥ .. 5 ..
कपिलो नारदो दत्तो योगेशाः सनकादयः । तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥ ६ ॥
कपिलः नारदः दत्तः योग-ईशाः सनक-आदयः । तम् अन्वीयुः भागवताः ये च तद्-सेवन-उत्सुकाः ॥ ६ ॥
kapilaḥ nāradaḥ dattaḥ yoga-īśāḥ sanaka-ādayaḥ . tam anvīyuḥ bhāgavatāḥ ye ca tad-sevana-utsukāḥ .. 6 ..
यत्र धर्मदुघा भूमिः सर्वकामदुघा सती । दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ ७ ॥
यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती । दोग्धि स्म अभीप्सितान् अर्थान् यजमानस्य भारत ॥ ७ ॥
yatra dharma-dughā bhūmiḥ sarva-kāma-dughā satī . dogdhi sma abhīpsitān arthān yajamānasya bhārata .. 7 ..
ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् । तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ ८ ॥
ऊहुः सर्व-रसान् नद्यः क्षीर-दधि-अन्न-गोरसान् । तरवः भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः ॥ ८ ॥
ūhuḥ sarva-rasān nadyaḥ kṣīra-dadhi-anna-gorasān . taravaḥ bhūri-varṣmāṇaḥ prāsūyanta madhu-cyutaḥ .. 8 ..
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् । उपायनं उपाजह्रुः सर्वे लोकाः सपालकाः ॥ ९ ॥
सिन्धवः रत्न-निकरान् गिरयः अन्नम् चतुर्विधम् । उपायनम् उपाजह्रुः सर्वे लोकाः स पालकाः ॥ ९ ॥
sindhavaḥ ratna-nikarān girayaḥ annam caturvidham . upāyanam upājahruḥ sarve lokāḥ sa pālakāḥ .. 9 ..
इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् । असूयन् भगवान् इन्द्रः प्रतिघातमचीकरत् ॥ १० ॥
इति च अधोक्षज-ईशस्य पृथोः तु परम-उदयम् । असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् ॥ १० ॥
iti ca adhokṣaja-īśasya pṛthoḥ tu parama-udayam . asūyan bhagavān indraḥ pratighātam acīkarat .. 10 ..
चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैन्ये यज्ञपशुं स्पर्धन् अपोवाह तिरोहितः ॥ ११ ॥
चरमेण अश्वमेधेन यजमाने यजुष्पतिम् । वैन्ये यज्ञ-पशुम् स्पर्धन् अपोवाह तिरोहितः ॥ ११ ॥
carameṇa aśvamedhena yajamāne yajuṣpatim . vainye yajña-paśum spardhan apovāha tirohitaḥ .. 11 ..
तं अत्रिर्भगवानैक्षत् त्वरमाणं विहायसा । आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः ॥ १२ ॥
तम् अत्रिः भगवान् ऐक्षत् त्वरमाणम् विहायसा । आमुक्तम् इव पाखण्डम् यः अधर्मे धर्म-विभ्रमः ॥ १२ ॥
tam atriḥ bhagavān aikṣat tvaramāṇam vihāyasā . āmuktam iva pākhaṇḍam yaḥ adharme dharma-vibhramaḥ .. 12 ..
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः । अन्वधावत सङ्क्रुद्धः तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥
अत्रिणा चोदितः हन्तुम् पृथु-पुत्रः महा-रथः । अन्वधावत सङ्क्रुद्धः तिष्ठ तिष्ठ इति च अब्रवीत् ॥ १३ ॥
atriṇā coditaḥ hantum pṛthu-putraḥ mahā-rathaḥ . anvadhāvata saṅkruddhaḥ tiṣṭha tiṣṭha iti ca abravīt .. 13 ..
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥
तम् तादृश्-आकृतिम् वीक्ष्य मेने धर्मम् शरीरिणम् । जटिलम् भस्मना आच्छन्नम् तस्मै बाणम् न मुञ्चति ॥ १४ ॥
tam tādṛś-ākṛtim vīkṣya mene dharmam śarīriṇam . jaṭilam bhasmanā ācchannam tasmai bāṇam na muñcati .. 14 ..
वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् । जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥
वधात् निवृत्तम् तम् भूयस् हन्तवे अत्रिः अचोदयत् । जहि यज्ञ-हनम् तात महा-इन्द्रम् विबुध-अधमम् ॥ १५ ॥
vadhāt nivṛttam tam bhūyas hantave atriḥ acodayat . jahi yajña-hanam tāta mahā-indram vibudha-adhamam .. 15 ..
एवं वैन्यसुतः प्रोक्तः त्वरमाणं विहायसा । अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
एवम् वैन्य-सुतः प्रोक्तः त्वरमाणम् विहायसा । अन्वद्रवत् अभिक्रुद्धः रावणम् गृध्र-राज् इव ॥ १६ ॥
evam vainya-sutaḥ proktaḥ tvaramāṇam vihāyasā . anvadravat abhikruddhaḥ rāvaṇam gṛdhra-rāj iva .. 16 ..
सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् । वीरः स्वपशुमादाय पितुर्यज्ञं उपेयिवान् ॥ १७ ॥
सः अश्वम् रूपम् च तत् हित्वा तस्मै अन्तर्हितः स्वराज् । वीरः स्व-पशुम् आदाय पितुः यज्ञम् उपेयिवान् ॥ १७ ॥
saḥ aśvam rūpam ca tat hitvā tasmai antarhitaḥ svarāj . vīraḥ sva-paśum ādāya pituḥ yajñam upeyivān .. 17 ..
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः । नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥
तत् तस्य च अद्भुतम् कर्म विचक्ष्य परम-ऋषयः । नामधेयम् ददुः तस्मै विजित-अश्वः इति प्रभो ॥ १८ ॥
tat tasya ca adbhutam karma vicakṣya parama-ṛṣayaḥ . nāmadheyam daduḥ tasmai vijita-aśvaḥ iti prabho .. 18 ..
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः । चषालयूपतश्छन्नो हिरण्यरशनं विभुः ॥ १९ ॥
उपसृज्य तमः तीव्रम् जहार अश्वम् पुनर् हरिः । चषाल-यूपतः छन्नः हिरण्य-रशनम् विभुः ॥ १९ ॥
upasṛjya tamaḥ tīvram jahāra aśvam punar hariḥ . caṣāla-yūpataḥ channaḥ hiraṇya-raśanam vibhuḥ .. 19 ..
अत्रिः सन्दर्शयामास त्वरमाणं विहायसा । कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥ २० ॥
अत्रिः सन्दर्शयामास त्वरमाणम् विहायसा । कपाल-खट्वाङ्ग-धरम् वीरः न एनम् अबाधत ॥ २० ॥
atriḥ sandarśayāmāsa tvaramāṇam vihāyasā . kapāla-khaṭvāṅga-dharam vīraḥ na enam abādhata .. 20 ..
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा । सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट् ॥ २१ ॥
अत्रिणा चोदितः तस्मै सन्दधे विशिखम् रुषा । सः अश्वम् रूपम् च तत् हित्वा तस्थौ अन्तर्हितः स्वराज् ॥ २१ ॥
atriṇā coditaḥ tasmai sandadhe viśikham ruṣā . saḥ aśvam rūpam ca tat hitvā tasthau antarhitaḥ svarāj .. 21 ..
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् । तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः ॥ २२ ॥
वीरः च अश्वम् उपादाय पितृ-यज्ञम् अथ अव्रजत् । तत् अवद्यम् हरे रूपम् जगृहुः ज्ञान-दुर्बलाः ॥ २२ ॥
vīraḥ ca aśvam upādāya pitṛ-yajñam atha avrajat . tat avadyam hare rūpam jagṛhuḥ jñāna-durbalāḥ .. 22 ..
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३ ॥
यानि रूपाणि जगृहे इन्द्रः हय-जिहीर्षया । तानि पापस्य खण्डानि लिङ्गम् खण्डम् इह उच्यते ॥ २३ ॥
yāni rūpāṇi jagṛhe indraḥ haya-jihīrṣayā . tāni pāpasya khaṇḍāni liṅgam khaṇḍam iha ucyate .. 23 ..
एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया । तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥
एवम् इन्द्रे हरति अश्वम् वैन्य-यज्ञ-जिघांसया । तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिः नृणाम् ॥ २४ ॥
evam indre harati aśvam vainya-yajña-jighāṃsayā . tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matiḥ nṛṇām .. 24 ..
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
धर्मः इति उपधर्मेषु नग्न-रक्त-पट-आदिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
dharmaḥ iti upadharmeṣu nagna-rakta-paṭa-ādiṣu . prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu .. 25 ..
तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः । इन्द्राय कुपितो बाणं आदत्तोद्यतकार्मुकः ॥ २६ ॥
तत् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः । इन्द्राय कुपितः बाणम् आदत्त उद्यत-कार्मुकः ॥ २६ ॥
tat abhijñāya bhagavān pṛthuḥ pṛthu-parākramaḥ . indrāya kupitaḥ bāṇam ādatta udyata-kārmukaḥ .. 26 ..
तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् । निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात् ॥ २७ ॥
तम् ऋत्विजः शक्र-वध-अभिसन्धितम् विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् । निवारयामासुः अहो महामते न युज्यते अत्र अन्य-वधः प्रचोदितात् ॥ २७ ॥
tam ṛtvijaḥ śakra-vadha-abhisandhitam vicakṣya duṣprekṣyam asahya-raṃhasam . nivārayāmāsuḥ aho mahāmate na yujyate atra anya-vadhaḥ pracoditāt .. 27 ..
वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् । अयातयामोपहवैरनन्तरं प्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥
वयम् मरुत्वन्तम् इह अर्थ-नाशनम् ह्वयामहे त्वद्-श्रवसा हत-त्विषम् । अयातयाम-उपहवैः अनन्तरम् प्रसह्य राजन् जुहवाम ते अहितम् ॥ २८ ॥
vayam marutvantam iha artha-nāśanam hvayāmahe tvad-śravasā hata-tviṣam . ayātayāma-upahavaiḥ anantaram prasahya rājan juhavāma te ahitam .. 28 ..
(अनुष्टुप्)
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा । स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९ ॥
इति आमन्त्र्य क्रतु-पतिम् विदुर-अस्य ऋत्विजः रुषा । स्रुच्-हस्तान् जुह्वतः अभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ २९ ॥
iti āmantrya kratu-patim vidura-asya ṛtvijaḥ ruṣā . sruc-hastān juhvataḥ abhyetya svayambhūḥ pratyaṣedhata .. 29 ..
न वध्यो भवतां इन्द्रो यद्यज्ञो भगवत्तनुः । यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः ॥ ३० ॥
न वध्यः भवताम् इन्द्रः यद्-यज्ञः भगवत्-तनुः । यम् जिघांसथ यज्ञेन यस्य इष्टाः तनवः सुराः ॥ ३० ॥
na vadhyaḥ bhavatām indraḥ yad-yajñaḥ bhagavat-tanuḥ . yam jighāṃsatha yajñena yasya iṣṭāḥ tanavaḥ surāḥ .. 30 ..
तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः । इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता ॥ ३१ ॥
तत् इदम् पश्यत महत् धर्म-व्यतिकरम् द्विजाः । इन्द्रेण अनुष्ठितम् राज्ञः कर्म एतत् विजिघांसता ॥ ३१ ॥
tat idam paśyata mahat dharma-vyatikaram dvijāḥ . indreṇa anuṣṭhitam rājñaḥ karma etat vijighāṃsatā .. 31 ..
पृथुकीर्तेः पृथोर्भूयात् तर्ह्येकोनशतक्रतुः । अलं ते क्रतुभिः स्विष्टैः यद्भवान् मोक्षधर्मवित् ॥ ३२ ॥
पृथु-कीर्तेः पृथोः भूयात् तर्हि एक-ऊन-शतक्रतुः । अलम् ते क्रतुभिः सु इष्टैः यत् भवान् मोक्ष-धर्म-विद् ॥ ३२ ॥
pṛthu-kīrteḥ pṛthoḥ bhūyāt tarhi eka-ūna-śatakratuḥ . alam te kratubhiḥ su iṣṭaiḥ yat bhavān mokṣa-dharma-vid .. 32 ..
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि । उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥
न एव आत्मने महा-इन्द्राय रोषम् आहर्तुम् अर्हसि । उभौ अपि हि भद्रम् ते उत्तमश्लोक-विग्रहौ ॥ ३३ ॥
na eva ātmane mahā-indrāya roṣam āhartum arhasi . ubhau api hi bhadram te uttamaśloka-vigrahau .. 33 ..
मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥
मा अस्मिन् महा-राज कृथाः स्म चिन्ताम् निशामय अस्मद्-वचः आदृत-आत्मा । यत् ध्यायतः दैव-हतम् नु कर्तुम् मनः अति रुष्टम् विशते तमः-अन्धम् ॥ ३४ ॥
mā asmin mahā-rāja kṛthāḥ sma cintām niśāmaya asmad-vacaḥ ādṛta-ātmā . yat dhyāyataḥ daiva-hatam nu kartum manaḥ ati ruṣṭam viśate tamaḥ-andham .. 34 ..
(अनुष्टुप्)
क्रतुर्विरमतामेष देवेषु दुरवग्रहः । धर्मव्यतिकरो यत्र पाखण्डैः इन्द्रनिर्मितैः ॥ ३५ ॥
क्रतुः विरमताम् एष देवेषु दुरवग्रहः । धर्म-व्यतिकरः यत्र पाखण्डैः इन्द्र-निर्मितैः ॥ ३५ ॥
kratuḥ viramatām eṣa deveṣu duravagrahaḥ . dharma-vyatikaraḥ yatra pākhaṇḍaiḥ indra-nirmitaiḥ .. 35 ..
एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् । ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥
एभिः इन्द्र-उपसंसृष्टैः पाखण्डैः हारिभिः जनम् । ह्रियमाणम् विचक्ष्व एनम् यः ते यज्ञ-द्रुह् अश्व-मुष् ॥ ३६ ॥
ebhiḥ indra-upasaṃsṛṣṭaiḥ pākhaṇḍaiḥ hāribhiḥ janam . hriyamāṇam vicakṣva enam yaḥ te yajña-druh aśva-muṣ .. 36 ..
भवान्परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥
भवान् परित्रातुम् इह अवतीर्णः धर्मम् जनानाम् समय-अनुरूपम् । वेन-अपचारात् अवलुप्तम् अद्य तद्-देहतः विष्णु-कला असि वैन्य ॥ ३७ ॥
bhavān paritrātum iha avatīrṇaḥ dharmam janānām samaya-anurūpam . vena-apacārāt avaluptam adya tad-dehataḥ viṣṇu-kalā asi vainya .. 37 ..
स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि । ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥
स त्वम् विमृश्य अस्य भवम् प्रजापते सङ्कल्पनम् विश्वसृजाम् पिपीपृहि । ऐन्द्रीम् च मायाम् उपधर्म-मातरम् प्रचण्ड-पाखण्ड-पथम् प्रभो जहि ॥ ३८ ॥
sa tvam vimṛśya asya bhavam prajāpate saṅkalpanam viśvasṛjām pipīpṛhi . aindrīm ca māyām upadharma-mātaram pracaṇḍa-pākhaṇḍa-patham prabho jahi .. 38 ..
मैत्रेय उवाच -
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥
इत्थम् स लोकगुरुणा समादिष्टः विशाम् पतिः । तथा च कृत्वा वात्सल्यम् मघोना अपि च सन्दधे ॥ ३९ ॥
ittham sa lokaguruṇā samādiṣṭaḥ viśām patiḥ . tathā ca kṛtvā vātsalyam maghonā api ca sandadhe .. 39 ..
कृतावभृथस्नानाय पृथवे भूरिकर्मणे । वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः ॥ ४० ॥
कृत-अवभृथ-स्नानाय पृथवे भूरि-कर्मणे । वरान् ददुः ते वर-दाः ये तद्-बर्हिषि तर्पिताः ॥ ४० ॥
kṛta-avabhṛtha-snānāya pṛthave bhūri-karmaṇe . varān daduḥ te vara-dāḥ ye tad-barhiṣi tarpitāḥ .. 40 ..
विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः । आशिषो युयुजुः क्षत्तः आदिराजाय सत्कृताः ॥ ४१ ॥
विप्राः सत्य-आशिषः तुष्टाः श्रद्धया लब्ध-दक्षिणाः । आशिषः युयुजुः क्षत्तर् आदिराजाय सत्कृताः ॥ ४१ ॥
viprāḥ satya-āśiṣaḥ tuṣṭāḥ śraddhayā labdha-dakṣiṇāḥ . āśiṣaḥ yuyujuḥ kṣattar ādirājāya satkṛtāḥ .. 41 ..
त्वयाऽऽहूता महाबाहो सर्व एव समागताः । पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ ४२ ॥
त्वया आहूताः महा-बाहो सर्वे एव समागताः । पूजिताः दान-मानाभ्याम् पितृ-देव-ऋषि-मानवाः ॥ ४२ ॥
tvayā āhūtāḥ mahā-bāho sarve eva samāgatāḥ . pūjitāḥ dāna-mānābhyām pitṛ-deva-ṛṣi-mānavāḥ .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे एकोनविंशः अध्यायः ॥ १९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In