| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच -(अनुष्टुप्)
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः । विद्वेषं अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ १ ॥
भवे शीलवताम् श्रेष्ठे दक्षः दुहितृ-वत्सलः । विद्वेषम् अकरोत् कस्मात् अन् आदृत्य आत्मजाम् सतीम् ॥ १ ॥
bhave śīlavatām śreṣṭhe dakṣaḥ duhitṛ-vatsalaḥ . vidveṣam akarot kasmāt an ādṛtya ātmajām satīm .. 1 ..
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
कः तम् चराचर-गुरुम् निर्वैरम् शान्त-विग्रहम् । आत्म-आरामम् कथम् द्वेष्टि जगतः दैवतम् महत् ॥ २ ॥
kaḥ tam carācara-gurum nirvairam śānta-vigraham . ātma-ārāmam katham dveṣṭi jagataḥ daivatam mahat .. 2 ..
एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषस्तु यतः प्राणान् तत्यजे दुस्त्यजान्सती ॥ ३ ॥
एतत् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषः तु यतस् प्राणान् तत्यजे दुस्त्यजान् सती ॥ ३ ॥
etat ākhyāhi me brahman jāmātuḥ śvaśurasya ca . vidveṣaḥ tu yatas prāṇān tatyaje dustyajān satī .. 3 ..
मैत्रेय उवाच -
पुरा विश्वसृजां सत्रे समेताः परमर्षयः । तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४ ॥
पुरा विश्व-सृजाम् सत्रे समेताः परम-ऋषयः । तथा अमर-गणाः सर्वे स अनुगाः मुनयः अग्नयः ॥ ४ ॥
purā viśva-sṛjām satre sametāḥ parama-ṛṣayaḥ . tathā amara-gaṇāḥ sarve sa anugāḥ munayaḥ agnayaḥ .. 4 ..
तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५ ॥
तत्र प्रविष्टम् ऋषयः दृष्ट्वा अर्कम् इव रोचिषा । भ्राजमानम् वितिमिरम् कुर्वन्तम् तत् महत् सदः ॥ ५ ॥
tatra praviṣṭam ṛṣayaḥ dṛṣṭvā arkam iva rociṣā . bhrājamānam vitimiram kurvantam tat mahat sadaḥ .. 5 ..
उदतिष्ठन् सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः । ऋते विरिञ्चं शर्वं च तद्भासाक्षिप्तचेतसः ॥ ६ ॥
उदतिष्ठन् सदस्याः ते स्व-धिष्ण्येभ्यः सह अग्नयः । ऋते विरिञ्चम् शर्वम् च तद्-भासा आक्षिप्त-चेतसः ॥ ६ ॥
udatiṣṭhan sadasyāḥ te sva-dhiṣṇyebhyaḥ saha agnayaḥ . ṛte viriñcam śarvam ca tad-bhāsā ākṣipta-cetasaḥ .. 6 ..
सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः । अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥
सदसस्पतिभिः दक्षः भगवान् साधु सत्कृतः । अजम् लोक-गुरुम् नत्वा निषसाद तद्-आज्ञया ॥ ७ ॥
sadasaspatibhiḥ dakṣaḥ bhagavān sādhu satkṛtaḥ . ajam loka-gurum natvā niṣasāda tad-ājñayā .. 7 ..
प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत् तद् अनादृतः । उवाच वामं चक्षुर्भ्यां अभिवीक्ष्य दहन्निव ॥ ८ ॥
प्राच्-निषण्णम् मृडम् दृष्ट्वा न अमृष्यत् तत् अन् आदृतः । उवाच वामम् चक्षुर्भ्याम् अभिवीक्ष्य दहन् इव ॥ ८ ॥
prāc-niṣaṇṇam mṛḍam dṛṣṭvā na amṛṣyat tat an ādṛtaḥ . uvāca vāmam cakṣurbhyām abhivīkṣya dahan iva .. 8 ..
श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं न अज्ञानात् न च मत्सरात् ॥ ९ ॥
श्रूयताम् ब्रह्मर्षयः मे सह देवाः सह अग्नयः । साधूनाम् ब्रुवतः वृत्तम् न अज्ञानात् न च मत्सरात् ॥ ९ ॥
śrūyatām brahmarṣayaḥ me saha devāḥ saha agnayaḥ . sādhūnām bruvataḥ vṛttam na ajñānāt na ca matsarāt .. 9 ..
अयं तु लोकपालानां यशोघ्नो निरपत्रपः । सद्भिः आचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥
अयम् तु लोकपालानाम् यशः-घ्नः निरपत्रपः । सद्भिः आचरितः पन्था येन स्तब्धेन दूषितः ॥ १० ॥
ayam tu lokapālānām yaśaḥ-ghnaḥ nirapatrapaḥ . sadbhiḥ ācaritaḥ panthā yena stabdhena dūṣitaḥ .. 10 ..
एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् । पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११ ॥
एष मे शिष्य-ताम् प्राप्तः यत् मे दुहितुः अग्रहीत् । पाणिम् विप्र-अग्नि-मुखतः सावित्र्याः इव साधु-वत् ॥ ११ ॥
eṣa me śiṣya-tām prāptaḥ yat me duhituḥ agrahīt . pāṇim vipra-agni-mukhataḥ sāvitryāḥ iva sādhu-vat .. 11 ..
गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः । प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥
गृहीत्वा मृगशावाक्ष्याः पाणिम् मर्कट-लोचनः । प्रत्युत्थान-अभिवाद-अर्हे वाचा अपि अकृत न उचितम् ॥ १२ ॥
gṛhītvā mṛgaśāvākṣyāḥ pāṇim markaṭa-locanaḥ . pratyutthāna-abhivāda-arhe vācā api akṛta na ucitam .. 12 ..
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे । अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥
लुप्त-क्रियाय अशुचये मानिने भिन्न-सेतवे । अन् इच्छन् अपि अदाम् बालाम् शूद्राय इव उशतीम् गिरम् ॥ १३ ॥
lupta-kriyāya aśucaye mānine bhinna-setave . an icchan api adām bālām śūdrāya iva uśatīm giram .. 13 ..
प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः । अटतु उन्मत्तवत् नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
प्रेत-आवासेषु घोरेषु प्रेतैः भूत-गणैः वृतः । अटतु उन्मत्त-वत् नग्नः व्युप्त-केशः हसन् रुदन् ॥ १४ ॥
preta-āvāseṣu ghoreṣu pretaiḥ bhūta-gaṇaiḥ vṛtaḥ . aṭatu unmatta-vat nagnaḥ vyupta-keśaḥ hasan rudan .. 14 ..
चिताभस्मकृतस्नानः प्रेतस्रङ् अस्थिभूषणः । शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः । पतिः प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥
चिता-भस्म-कृत-स्नानः प्रेत-स्रज् अस्थि-भूषणः । शिव-अपदेशः हि अशिवः मत्तः मत्त-जन-प्रियः । पतिः प्रमथ-नाथानाम् तमः-मात्र-आत्मक-आत्मनाम् ॥ १५ ॥
citā-bhasma-kṛta-snānaḥ preta-sraj asthi-bhūṣaṇaḥ . śiva-apadeśaḥ hi aśivaḥ mattaḥ matta-jana-priyaḥ . patiḥ pramatha-nāthānām tamaḥ-mātra-ātmaka-ātmanām .. 15 ..
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥
तस्मै उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥
tasmai unmāda-nāthāya naṣṭa-śaucāya durhṛde . dattā bata mayā sādhvī codite parameṣṭhinā .. 16 ..
मैत्रेय उवाच -
विनिन्द्यैवं स गिरिशं अप्रतीपमवस्थितम् । दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७ ॥
विनिन्द्य एवम् स गिरिशम् अप्रतीपम् अवस्थितम् । दक्षः अथ अपः उपस्पृश्य क्रुद्धः शप्तुम् प्रचक्रमे ॥ १७ ॥
vinindya evam sa giriśam apratīpam avasthitam . dakṣaḥ atha apaḥ upaspṛśya kruddhaḥ śaptum pracakrame .. 17 ..
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः । सह भागं न लभतां देवैर्देवगणाधमः ॥ १८ ॥
अयम् तु देव-यजने इन्द्र-उपेन्द्र-आदिभिः भवः । सह भागम् न लभताम् देवैः देव-गण-अधमः ॥ १८ ॥
ayam tu deva-yajane indra-upendra-ādibhiḥ bhavaḥ . saha bhāgam na labhatām devaiḥ deva-gaṇa-adhamaḥ .. 18 ..
निषिध्यमानः स सदस्यमुख्यैः दक्षो गिरित्राय विसृज्य शापम् । तस्माद् विनिष्क्रम्य विवृद्धमन्युः जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥
निषिध्यमानः स सदस्य-मुख्यैः दक्षः गिरित्राय विसृज्य शापम् । तस्मात् विनिष्क्रम्य विवृद्ध-मन्युः जगाम कौरव्य निजम् निकेतनम् ॥ १९ ॥
niṣidhyamānaḥ sa sadasya-mukhyaiḥ dakṣaḥ giritrāya visṛjya śāpam . tasmāt viniṣkramya vivṛddha-manyuḥ jagāma kauravya nijam niketanam .. 19 ..
विज्ञाय शापं गिरिशानुगाग्रणीः नन्दीश्वरो रोषकषायदूषितः । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदन् तदवाच्यतां द्विजाः ॥ २० ॥
विज्ञाय शापम् गिरिश-अनुगा अग्रणीः नन्दीश्वरः रोष-कषाय-दूषितः । दक्षाय शापम् विससर्ज दारुणम् ये च अन्वमोदन् तद्-अवाच्य-ताम् द्विजाः ॥ २० ॥
vijñāya śāpam giriśa-anugā agraṇīḥ nandīśvaraḥ roṣa-kaṣāya-dūṣitaḥ . dakṣāya śāpam visasarja dāruṇam ye ca anvamodan tad-avācya-tām dvijāḥ .. 20 ..
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि । द्रुह्यत्यज्ञः पृथग्दृष्टिः तत्त्वतो विमुखो भवेत् ॥ २१ ॥
यः एतत् मर्त्यम् उद्दिश्य भगवति अ प्रतिद्रुहि । द्रुह्यति अज्ञः पृथक् दृष्टिः तत्त्वतः विमुखः भवेत् ॥ २१ ॥
yaḥ etat martyam uddiśya bhagavati a pratidruhi . druhyati ajñaḥ pṛthak dṛṣṭiḥ tattvataḥ vimukhaḥ bhavet .. 21 ..
(अनुष्टुप्)
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२ ॥
गृहेषु कूट-धर्मेषु सक्तः ग्राम्य-सुख-इच्छया । कर्म-तन्त्रम् वितनुते वेद-वाद-विपन्न-धीः ॥ २२ ॥
gṛheṣu kūṭa-dharmeṣu saktaḥ grāmya-sukha-icchayā . karma-tantram vitanute veda-vāda-vipanna-dhīḥ .. 22 ..
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः । स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥
बुद्ध्या पर-अभिध्यायिन्या विस्मृत-आत्म-गतिः पशुः । स्त्री-कामः सः अस्तु अतितराम् दक्षः बस्त-मुखः अचिरात् ॥ २३ ॥
buddhyā para-abhidhyāyinyā vismṛta-ātma-gatiḥ paśuḥ . strī-kāmaḥ saḥ astu atitarām dakṣaḥ basta-mukhaḥ acirāt .. 23 ..
विद्याबुद्धिः अविद्यायां कर्ममय्यामसौ जडः । संसरन्त्विह ये चामुं अनु शर्वावमानिनम् ॥ २४ ॥
विद्या-बुद्धिः अविद्यायाम् कर्म-मय्याम् असौ जडः । संसरन्तु इह ये च अमुम् अनु शर्व-अवमानिनम् ॥ २४ ॥
vidyā-buddhiḥ avidyāyām karma-mayyām asau jaḍaḥ . saṃsarantu iha ye ca amum anu śarva-avamāninam .. 24 ..
गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५ ॥
गिरः श्रुतायाः पुष्पिण्याः मधु-गन्धेन भूरिणा । च उन्मथित-आत्मानः सम्मुह्यन्तु हर-द्विषः ॥ २५ ॥
giraḥ śrutāyāḥ puṣpiṇyāḥ madhu-gandhena bhūriṇā . ca unmathita-ātmānaḥ sammuhyantu hara-dviṣaḥ .. 25 ..
सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रताः । वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २ ॥ ६ ॥
सर्व-भक्षाः द्विजाः वृत्त्यै धृत-विद्या-तपः-व्रताः । वित्त-देह-इन्द्रिय-आरामाः याचकाः विचरन्तु इह ॥ २ ॥ ६ ॥
sarva-bhakṣāḥ dvijāḥ vṛttyai dhṛta-vidyā-tapaḥ-vratāḥ . vitta-deha-indriya-ārāmāḥ yācakāḥ vicarantu iha .. 2 .. 6 ..
तस्यैवं वदतः शापं श्रुत्वा द्विजकुलाय वै । भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥
तस्य एवम् वदतः शापम् श्रुत्वा द्विज-कुलाय वै । भृगुः प्रत्यसृजत् शापम् ब्रह्मदण्डम् दुरत्ययम् ॥ २७ ॥
tasya evam vadataḥ śāpam śrutvā dvija-kulāya vai . bhṛguḥ pratyasṛjat śāpam brahmadaṇḍam duratyayam .. 27 ..
भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८ ॥
भव-व्रत-धराः ये च ये च तान् समनुव्रताः । पाषण्डिनः ते भवन्तु सत्-शास्त्र-परिपन्थिनः ॥ २८ ॥
bhava-vrata-dharāḥ ye ca ye ca tān samanuvratāḥ . pāṣaṇḍinaḥ te bhavantu sat-śāstra-paripanthinaḥ .. 28 ..
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः । विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥
नष्ट-शौचाः मूढ-धियः जटा-भस्म-अस्थि-धारिणः । विशन्तु शिव-दीक्षायाम् यत्र दैवम् सुरासवम् ॥ २९ ॥
naṣṭa-śaucāḥ mūḍha-dhiyaḥ jaṭā-bhasma-asthi-dhāriṇaḥ . viśantu śiva-dīkṣāyām yatra daivam surāsavam .. 29 ..
ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ । सेतुं विधारणं पुंसां अतः पाषण्डमाश्रिताः ॥ ३० ॥
ब्रह्म च ब्राह्मणान् च एव यत् यूयम् परिनिन्दथ । सेतुम् विधारणम् पुंसाम् अतस् पाषण्डम् आश्रिताः ॥ ३० ॥
brahma ca brāhmaṇān ca eva yat yūyam parinindatha . setum vidhāraṇam puṃsām atas pāṣaṇḍam āśritāḥ .. 30 ..
एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुः यत्प्रमाणं जनार्दनः ॥ ३१ ॥
एषः एव हि लोकानाम् शिवः पन्थाः सनातनः । यम् पूर्वे च अनुसन्तस्थुः यद्-प्रमाणम् जनार्दनः ॥ ३१ ॥
eṣaḥ eva hi lokānām śivaḥ panthāḥ sanātanaḥ . yam pūrve ca anusantasthuḥ yad-pramāṇam janārdanaḥ .. 31 ..
तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥
तत् ब्रह्म परमम् शुद्धम् सताम् वर्त्म सनातनम् । विगर्ह्य यात पाषण्डम् दैवम् वः यत्र भूत-राज् ॥ ३२ ॥
tat brahma paramam śuddham satām vartma sanātanam . vigarhya yāta pāṣaṇḍam daivam vaḥ yatra bhūta-rāj .. 32 ..
मैत्रेय उवाच -
तस्यैवं वदतः शापं भृगोः स भगवान्भवः । निश्चक्राम ततः किञ्चित् विमना इव सानुगः ॥ ३३ ॥
तस्य एवम् वदतः शापम् भृगोः स भगवान् भवः । निश्चक्राम ततस् किञ्चिद् विमनाः इव स अनुगः ॥ ३३ ॥
tasya evam vadataḥ śāpam bhṛgoḥ sa bhagavān bhavaḥ . niścakrāma tatas kiñcid vimanāḥ iva sa anugaḥ .. 33 ..
तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४ ॥
ते अपि विश्व-सृजः सत्रम् सहस्र-परिवत्सरान् । संविधाय महा-इष्वास यत्र इज्यः ऋषभः हरिः ॥ ३४ ॥
te api viśva-sṛjaḥ satram sahasra-parivatsarān . saṃvidhāya mahā-iṣvāsa yatra ijyaḥ ṛṣabhaḥ hariḥ .. 34 ..
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५ ॥
आप्लुत्य अवभृथम् यत्र गङ्गा यमुनया अन्विता । विरजेन आत्मना सर्वे स्वम् स्वम् धाम ययुः ततस् ॥ ३५ ॥
āplutya avabhṛtham yatra gaṅgā yamunayā anvitā . virajena ātmanā sarve svam svam dhāma yayuḥ tatas .. 35 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोऽध्यायः ॥ २ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे दक्षशापः नाम द्वितीयः अध्यायः ॥ २ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dakṣaśāpaḥ nāma dvitīyaḥ adhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In