| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
भगवानपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत ॥ १ ॥
भगवान् अपि वैकुण्ठः साकम् मघवता विभुः । यज्ञैः यज्ञपतिः तुष्टः यज्ञभुज् तम् अभाषत ॥ १ ॥
bhagavān api vaikuṇṭhaḥ sākam maghavatā vibhuḥ . yajñaiḥ yajñapatiḥ tuṣṭaḥ yajñabhuj tam abhāṣata .. 1 ..
श्रीभगवानुवाच -
एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह । क्षमापयत आत्मानं अमुष्य क्षन्तुमर्हसि ॥ २ ॥
एष ते अकार्षीत् भङ्गम् हयमेध-शतस्य ह । क्षमापयतः आत्मानम् अमुष्य क्षन्तुम् अर्हसि ॥ २ ॥
eṣa te akārṣīt bhaṅgam hayamedha-śatasya ha . kṣamāpayataḥ ātmānam amuṣya kṣantum arhasi .. 2 ..
सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥
सुधियः साधवः लोके नरदेव नर-उत्तमाः । न अभिद्रुह्यन्ति भूतेभ्यः यर्हि न आत्मा कलेवरम् ॥ ३ ॥
sudhiyaḥ sādhavaḥ loke naradeva nara-uttamāḥ . na abhidruhyanti bhūtebhyaḥ yarhi na ātmā kalevaram .. 3 ..
पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया । श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥
पुरुषाः यदि मुह्यन्ति त्वादृशाः देव-मायया । श्रमः एव परम् जातः दीर्घया वृद्ध-सेवया ॥ ४ ॥
puruṣāḥ yadi muhyanti tvādṛśāḥ deva-māyayā . śramaḥ eva param jātaḥ dīrghayā vṛddha-sevayā .. 4 ..
अतः कायमिमं विद्वान् अविद्याकामकर्मभिः । आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥
अतस् कायम् इमम् विद्वान् अविद्या-काम-कर्मभिः । आरब्धः इति न एव अस्मिन् प्रतिबुद्धः अनुषज्जते ॥ ५ ॥
atas kāyam imam vidvān avidyā-kāma-karmabhiḥ . ārabdhaḥ iti na eva asmin pratibuddhaḥ anuṣajjate .. 5 ..
असंसक्तः शरीरेऽस्मिन् अमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः ॥ ६ ॥
असंसक्तः शरीरे अस्मिन् अमुना उत्पादिते गृहे । अपत्ये द्रविणे वा अपि कः कुर्यात् ममताम् बुधः ॥ ६ ॥
asaṃsaktaḥ śarīre asmin amunā utpādite gṛhe . apatye draviṇe vā api kaḥ kuryāt mamatām budhaḥ .. 6 ..
एकः शुद्धः स्वयंज्योतिः निर्गुणोऽसौ गुणाश्रयः । सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः ॥ ७ ॥
एकः शुद्धः स्वयम् ज्योतिः निर्गुणः असौ गुण-आश्रयः । सर्वगः अनावृतः साक्षी निरात्मा आत्मा आत्मनः परः ॥ ७ ॥
ekaḥ śuddhaḥ svayam jyotiḥ nirguṇaḥ asau guṇa-āśrayaḥ . sarvagaḥ anāvṛtaḥ sākṣī nirātmā ātmā ātmanaḥ paraḥ .. 7 ..
य एवं सन्तमात्मानं आत्मस्थं वेद पूरुषः । नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः ॥ ८ ॥
यः एवम् सन्तम् आत्मानम् आत्म-स्थम् वेद पूरुषः । न अज्यते प्रकृति-स्थः अपि तद्-गुणैः स मयि स्थितः ॥ ८ ॥
yaḥ evam santam ātmānam ātma-stham veda pūruṣaḥ . na ajyate prakṛti-sthaḥ api tad-guṇaiḥ sa mayi sthitaḥ .. 8 ..
यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥
यः स्वधर्मेण माम् नित्यम् निराशीः श्रद्धया अन्वितः । भजते शनकैस् तस्य मनः राजन् प्रसीदति ॥ ९ ॥
yaḥ svadharmeṇa mām nityam nirāśīḥ śraddhayā anvitaḥ . bhajate śanakais tasya manaḥ rājan prasīdati .. 9 ..
परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥
परित्यक्त-गुणः सम्यक् दर्शनः विशद-आशयः । शान्तिम् मे समवस्थानम् ब्रह्म कैवल्यम् अश्नुते ॥ १० ॥
parityakta-guṇaḥ samyak darśanaḥ viśada-āśayaḥ . śāntim me samavasthānam brahma kaivalyam aśnute .. 10 ..
उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । कूटस्थं इममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥
उदासीनम् इव अध्यक्षम् द्रव्य-ज्ञान-क्रिया-आत्मनाम् । कूटस्थम् इमम् आत्मानम् यः वेद आप्नोति शोभनम् ॥ ११ ॥
udāsīnam iva adhyakṣam dravya-jñāna-kriyā-ātmanām . kūṭastham imam ātmānam yaḥ veda āpnoti śobhanam .. 11 ..
भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ १२ ॥
भिन्नस्य लिङ्गस्य गुण-प्रवाहः द्रव्य-क्रिया-कारक-चेतना-आत्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयः न विक्रियन्ते मयि बद्ध-सौहृदाः ॥ १२ ॥
bhinnasya liṅgasya guṇa-pravāhaḥ dravya-kriyā-kāraka-cetanā-ātmanaḥ . dṛṣṭāsu sampatsu vipatsu sūrayaḥ na vikriyante mayi baddha-sauhṛdāḥ .. 12 ..
समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥
समः समान-उत्तम-मध्यम-अधमः सुखे च दुःखे च जित-इन्द्रिय-आशयः । मया उपकॢप्त-अखिल-लोक-संयुतः विधत्स्व वीर अखिल-लोक-रक्षणम् ॥ १३ ॥
samaḥ samāna-uttama-madhyama-adhamaḥ sukhe ca duḥkhe ca jita-indriya-āśayaḥ . mayā upakḷpta-akhila-loka-saṃyutaḥ vidhatsva vīra akhila-loka-rakṣaṇam .. 13 ..
श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात् षष्ठमंशम् । हर्तान्यथा हृतपुण्यः प्रजानां अरक्षिता करहारोऽघमत्ति ॥ १४ ॥
श्रेयः प्रजा-पालनम् एव राज्ञः यत् साम्पराये सुकृतात् षष्ठम् अंशम् । हर्ता अन्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारः अघम् अत्ति ॥ १४ ॥
śreyaḥ prajā-pālanam eva rājñaḥ yat sāmparāye sukṛtāt ṣaṣṭham aṃśam . hartā anyathā hṛta-puṇyaḥ prajānām arakṣitā kara-hāraḥ agham atti .. 14 ..
एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः ॥ १५ ॥
एवम् द्विजाग्र्य-अनुमत-अनुवृत्त धर्म-प्रधानः अन्यतमः अविता अस्याः । ह्रस्वेन कालेन गृह-उपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः ॥ १५ ॥
evam dvijāgrya-anumata-anuvṛtta dharma-pradhānaḥ anyatamaḥ avitā asyāḥ . hrasvena kālena gṛha-upayātān draṣṭāsi siddhān anurakta-lokaḥ .. 15 ..
वरं च मत् कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः । नाहं मखैर्वै सुलभस्तपोभिः योगेन वा यत्समचित्तवर्ती ॥ १६ ॥
वरम् च मत् कञ्चन मानवेन्द्र वृणीष्व ते अहम् गुण-शील-यन्त्रितः । न अहम् मखैः वै सुलभः तपोभिः योगेन वा यत् सम-चित्त-वर्ती ॥ १६ ॥
varam ca mat kañcana mānavendra vṛṇīṣva te aham guṇa-śīla-yantritaḥ . na aham makhaiḥ vai sulabhaḥ tapobhiḥ yogena vā yat sama-citta-vartī .. 16 ..
मैत्रेय उवाच - (अनुष्टुप्)
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥ १७ ॥
सः इत्थम् लोकगुरुणा विष्वक्सेनेन विश्वजित् । अनुशासितः आदेशम् शिरसा जगृहे हरेः ॥ १७ ॥
saḥ ittham lokaguruṇā viṣvaksenena viśvajit . anuśāsitaḥ ādeśam śirasā jagṛhe hareḥ .. 17 ..
स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा । शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥
स्पृशन्तम् पादयोः प्रेम्णा व्रीडितम् स्वेन कर्मणा । शतक्रतुम् परिष्वज्य विद्वेषम् विससर्ज ह ॥ १८ ॥
spṛśantam pādayoḥ premṇā vrīḍitam svena karmaṇā . śatakratum pariṣvajya vidveṣam visasarja ha .. 18 ..
भगवानथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ १९ ॥
भगवान् अथ विश्वात्मा पृथुना उपहृत-अर्हणः । भक्त्या गृहीत-चरण-अम्बुजः ॥ १९ ॥
bhagavān atha viśvātmā pṛthunā upahṛta-arhaṇaḥ . bhaktyā gṛhīta-caraṇa-ambujaḥ .. 19 ..
प्रस्थानाभिमुखोऽप्येनं अनुग्रहविलम्बितः । पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥
प्रस्थान-अभिमुखः अपि एनम् अनुग्रह-विलम्बितः । पश्यन् पद्म-पलाश-अक्षः न प्रतस्थे सुहृद् सताम् ॥ २० ॥
prasthāna-abhimukhaḥ api enam anugraha-vilambitaḥ . paśyan padma-palāśa-akṣaḥ na pratasthe suhṛd satām .. 20 ..
स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः । न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः ॥ २१ ॥
सः आदिराजः रचित-अञ्जलिः हरिम् विलोकितुम् न अशकत् अश्रु-लोचनः । न किञ्चन उवाच स बाष्प-विक्लवः हृदा उपगुह्य अमुम् अधात् अवस्थितः ॥ २१ ॥
saḥ ādirājaḥ racita-añjaliḥ harim vilokitum na aśakat aśru-locanaḥ . na kiñcana uvāca sa bāṣpa-viklavaḥ hṛdā upaguhya amum adhāt avasthitaḥ .. 21 ..
अथावमृज्याश्रुकला विलोकयन् अतृप्तदृग्गोचरमाह पूरुषम् । पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः ॥ २२ ॥
अथ अवमृज्य अश्रु-कलाः विलोकयन् अतृप्त-दृश्-गोचरम् आह पूरुषम् । पदा स्पृशन्तम् क्षितिम् अंसे उन्नते विन्यस्त-हस्त-अग्रम् उरङ्ग-विद्विषः ॥ २२ ॥
atha avamṛjya aśru-kalāḥ vilokayan atṛpta-dṛś-gocaram āha pūruṣam . padā spṛśantam kṣitim aṃse unnate vinyasta-hasta-agram uraṅga-vidviṣaḥ .. 22 ..
पृथुरुवाच -
वरान् विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् । ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च ॥ २३ ॥
वरान् विभो त्वद्-वर-द-ईश्वरात् बुधः कथम् वृणीते गुण-विक्रिया-आत्मनाम् । ये नारकाणाम् अपि सन्ति देहिनाम् तान् ईश कैवल्य-पते वृणे न च ॥ २३ ॥
varān vibho tvad-vara-da-īśvarāt budhaḥ katham vṛṇīte guṇa-vikriyā-ātmanām . ye nārakāṇām api santi dehinām tān īśa kaivalya-pate vṛṇe na ca .. 23 ..
न कामये नाथ तदप्यहं क्वचित् न यत्र युष्मत् चरणाम्बुजासवः । महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः ॥ २४ ॥
न कामये नाथ तत् अपि अहम् क्वचिद् न यत्र युष्मत् चरण-अम्बुज-असवः । महत्तम-अन्तर् हृदयात् मुख-च्युतः विधत्स्व कर्ण-अयुतम् एष मे वरः ॥ २४ ॥
na kāmaye nātha tat api aham kvacid na yatra yuṣmat caraṇa-ambuja-asavaḥ . mahattama-antar hṛdayāt mukha-cyutaḥ vidhatsva karṇa-ayutam eṣa me varaḥ .. 24 ..
स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः । स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः ॥ २५ ॥
सः उत्तमश्लोक महत्-मुख-च्युतः भवत्-पद-अम्भोज-सुधा कणा-अनिलः । स्मृतिम् पुनर् विस्मृत-तत्त्व-वर्त्मनाम् कु योगिनाम् नः वितरति अलम् वरैः ॥ २५ ॥
saḥ uttamaśloka mahat-mukha-cyutaḥ bhavat-pada-ambhoja-sudhā kaṇā-anilaḥ . smṛtim punar vismṛta-tattva-vartmanām ku yoginām naḥ vitarati alam varaiḥ .. 25 ..
यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६ ॥
यशः शिवम् सु श्रवः आर्य-सङ्गमे यदृच्छया च उपशृणोति ते सकृत् । कथम् गुण-ज्ञः विरमेत् विना पशुम् श्रीः यत् प्रवव्रे गुण-सङ्ग्रह-इच्छया ॥ २६ ॥
yaśaḥ śivam su śravaḥ ārya-saṅgame yadṛcchayā ca upaśṛṇoti te sakṛt . katham guṇa-jñaḥ viramet vinā paśum śrīḥ yat pravavre guṇa-saṅgraha-icchayā .. 26 ..
अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः । अप्यावयोरेकपतिस्पृधोः कलिः न स्यात्कृतत्वच्चरणैकतानयोः ॥ २७ ॥
अथ आभजे त्वा अखिल-पूरुषोत्तमम् गुण-आलयम् पद्मकरा इव लालसः । अपि आवयोः एक-पति-स्पृधोः कलिः न स्यात् कृत-त्वद्-चरण-एकतानयोः ॥ २७ ॥
atha ābhaje tvā akhila-pūruṣottamam guṇa-ālayam padmakarā iva lālasaḥ . api āvayoḥ eka-pati-spṛdhoḥ kaliḥ na syāt kṛta-tvad-caraṇa-ekatānayoḥ .. 27 ..
जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम् । करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥
जगत्-जनन्याम् जगदीश वैशसम् स्यात् एव यत् कर्मणि नः समीहितम् । करोषि फल्गु अपि उरु दीन-वत्सलः स्वे एव धिष्ण्ये अभिरतस्य किम् तया ॥ २८ ॥
jagat-jananyām jagadīśa vaiśasam syāt eva yat karmaṇi naḥ samīhitam . karoṣi phalgu api uru dīna-vatsalaḥ sve eva dhiṣṇye abhiratasya kim tayā .. 28 ..
भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे ॥ २९ ॥
भजन्ति अथ त्वाम् अतस् एव साधवः व्युदस्त-माया-गुण-विभ्रम-उदयम् । भवत्-पद-अनुस्मरणात् ऋते सताम् निमित्तम् अन्यत् भगवन् न विद्महे ॥ २९ ॥
bhajanti atha tvām atas eva sādhavaḥ vyudasta-māyā-guṇa-vibhrama-udayam . bhavat-pada-anusmaraṇāt ṛte satām nimittam anyat bhagavan na vidmahe .. 29 ..
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् । वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः ॥ ३० ॥
मन्ये गिरम् ते जगताम् विमोहिनीम् वरम् वृणीष्व इति भजन्तम् आत्थ यत् । वाचा नु तन्त्या यदि ते जनः अ सितः कथम् पुनर् कर्म करोति मोहितः ॥ ३० ॥
manye giram te jagatām vimohinīm varam vṛṇīṣva iti bhajantam āttha yat . vācā nu tantyā yadi te janaḥ a sitaḥ katham punar karma karoti mohitaḥ .. 30 ..
त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः । यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम् ॥ ३१ ॥
त्वद्-मायया अद्धा जनः ईश खण्डितः यत् अन्यत् आशास्ते ऋत-आत्मनः अबुधः । यथा चरेत् बाल-हितम् पिता स्वयम् तथा त्वम् एव अर्हसि नः समीहितुम् ॥ ३१ ॥
tvad-māyayā addhā janaḥ īśa khaṇḍitaḥ yat anyat āśāste ṛta-ātmanaḥ abudhaḥ . yathā caret bāla-hitam pitā svayam tathā tvam eva arhasi naḥ samīhitum .. 31 ..
मैत्रेय उवाच -
इत्यादिराजेन नुतः स विश्वदृक् तमाह राजन् मयि भक्तिरस्तु ते । दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥
इति आदिराजेन नुतः स विश्व-दृश् तम् आह राजन् मयि भक्तिः अस्तु ते । दिष्ट्या ईदृशी धीः मयि ते कृता यया मायाम् मदीयाम् तरति स्म दुस्त्यजाम् ॥ ३२ ॥
iti ādirājena nutaḥ sa viśva-dṛś tam āha rājan mayi bhaktiḥ astu te . diṣṭyā īdṛśī dhīḥ mayi te kṛtā yayā māyām madīyām tarati sma dustyajām .. 32 ..
(अनुष्टुप्)
तत्त्वं कुरु मयादिष्टं अप्रमत्तः प्रजापते । मदादेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ ३३ ॥
तत् त्वम् कुरु मया आदिष्टम् अप्रमत्तः प्रजापते । मद्-आदेश-करः लोकः सर्वत्र आप्नोति शोभनम् ॥ ३३ ॥
tat tvam kuru mayā ādiṣṭam apramattaḥ prajāpate . mad-ādeśa-karaḥ lokaḥ sarvatra āpnoti śobhanam .. 33 ..
मैत्रेय उवाच -
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः । पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥
इति वैन्यस्य राजर्षेः प्रतिनन्द्य अर्थवत् वचः । पूजितः अनुगृहीत्वा एनम् गन्तुम् चक्रे अच्युतः मतिम् ॥ ३४ ॥
iti vainyasya rājarṣeḥ pratinandya arthavat vacaḥ . pūjitaḥ anugṛhītvā enam gantum cakre acyutaḥ matim .. 34 ..
देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः ॥ ३५ ॥
देव-ऋषि-पितृ-गन्धर्व-सिद्ध-चारण-पन्नगाः । किन्नर-अप्सरसः मर्त्याः खगाः भूतानि अनेकशस् ॥ ३५ ॥
deva-ṛṣi-pitṛ-gandharva-siddha-cāraṇa-pannagāḥ . kinnara-apsarasaḥ martyāḥ khagāḥ bhūtāni anekaśas .. 35 ..
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः ॥ ३६ ॥
यज्ञेश्वर-धिया राज्ञा वाच्-वित्त-अञ्जलि-भक्तितः । सभाजिताः ययुः सर्वे वैकुण्ठ-अनुगताः ततस् ॥ ३६ ॥
yajñeśvara-dhiyā rājñā vāc-vitta-añjali-bhaktitaḥ . sabhājitāḥ yayuḥ sarve vaikuṇṭha-anugatāḥ tatas .. 36 ..
भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥
भगवान् अपि राजर्षेः स उपाध्यायस्य च अच्युतः । हरन् इव मनः अमुष्य स्व-धाम प्रत्यपद्यत ॥ ३७ ॥
bhagavān api rājarṣeḥ sa upādhyāyasya ca acyutaḥ . haran iva manaḥ amuṣya sva-dhāma pratyapadyata .. 37 ..
अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥
अदृष्टाय नमस्कृत्य नृपः सन्दर्शित-आत्मने । अव्यक्ताय च देवानाम् देवाय स्व-पुरम् ययौ ॥ ३८ ॥
adṛṣṭāya namaskṛtya nṛpaḥ sandarśita-ātmane . avyaktāya ca devānām devāya sva-puram yayau .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुचरिते विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthucarite viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In