| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
मौक्तिकैः कुसुमस्रग्भिः दुकूलैः स्वर्णतोरणैः । महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै ॥ १ ॥
मौक्तिकैः कुसुम-स्रग्भिः दुकूलैः स्वर्ण-तोरणैः । महा-सुरभिभिः धूपैः मण्डितम् तत्र तत्र वै ॥ १ ॥
mauktikaiḥ kusuma-sragbhiḥ dukūlaiḥ svarṇa-toraṇaiḥ . mahā-surabhibhiḥ dhūpaiḥ maṇḍitam tatra tatra vai .. 1 ..
चन्दनागुरुतोयार्द्र-रथ्याचत्वरमार्गवत् । पुष्पाक्षतफलैस्तोक्मैः लाजैरर्चिर्भिरर्चितम् ॥ २ ॥
चन्दन-अगुरु-तोय-आर्द्र-रथ्या-चत्वर-मार्गवत् । पुष्प-अक्षत-फलैः तोक्मैः लाजैः अर्चिर्भिः अर्चितम् ॥ २ ॥
candana-aguru-toya-ārdra-rathyā-catvara-mārgavat . puṣpa-akṣata-phalaiḥ tokmaiḥ lājaiḥ arcirbhiḥ arcitam .. 2 ..
सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् । तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥ ३ ॥
स वृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् । तरु-पल्लव-मालाभिः सर्वतस् समलङ्कृतम् ॥ ३ ॥
sa vṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam . taru-pallava-mālābhiḥ sarvatas samalaṅkṛtam .. 3 ..
प्रजास्तं दीपबलिभिः संभृताशेषमङ्गलैः । अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४ ॥
प्रजाः तम् दीप-बलिभिः संभृत-अशेष-मङ्गलैः । अभीयुः मृष्ट-कन्याः च मृष्ट-कुण्डल-मण्डिताः ॥ ४ ॥
prajāḥ tam dīpa-balibhiḥ saṃbhṛta-aśeṣa-maṅgalaiḥ . abhīyuḥ mṛṣṭa-kanyāḥ ca mṛṣṭa-kuṇḍala-maṇḍitāḥ .. 4 ..
शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् । विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५ ॥
शङ्ख-दुन्दुभि-घोषेण ब्रह्मघोषेण च ऋत्विजाम् । विवेश भवनम् वीरः स्तूयमानः गत-स्मयः ॥ ५ ॥
śaṅkha-dundubhi-ghoṣeṇa brahmaghoṣeṇa ca ṛtvijām . viveśa bhavanam vīraḥ stūyamānaḥ gata-smayaḥ .. 5 ..
पूजितः पूजयामास तत्र तत्र महायशाः । पौराञ्जानपदान् तांस्तान् प्रीतः प्रियवरप्रदः ॥ ६ ॥
पूजितः पूजयामास तत्र तत्र महा-यशाः । पौरान् जानपदान् तान् तान् प्रीतः प्रिय-वर-प्रदः ॥ ६ ॥
pūjitaḥ pūjayāmāsa tatra tatra mahā-yaśāḥ . paurān jānapadān tān tān prītaḥ priya-vara-pradaḥ .. 6 ..
स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान्महत्तमः । कुर्वन्शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥
सः एवमादीनि अनवद्य-चेष्टितः कर्माणि भूयांसि महान् महत्तमः । कुर्वन् शशास अवनि-मण्डलम् यशः स्फीतम् निधाय आरुरुहे परम् पदम् ॥ ७ ॥
saḥ evamādīni anavadya-ceṣṭitaḥ karmāṇi bhūyāṃsi mahān mahattamaḥ . kurvan śaśāsa avani-maṇḍalam yaśaḥ sphītam nidhāya āruruhe param padam .. 7 ..
सूत उवाच -
तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् । क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥
तत् आदिराजस्य यशः विजृम्भितम् गुणैः अशेषैः गुणवत्-सभाजितम् । क्षत्ता महा-भागवतः सदस्पते कौषारविम् प्राह गृणन्तम् अर्चयन् ॥ ८ ॥
tat ādirājasya yaśaḥ vijṛmbhitam guṇaiḥ aśeṣaiḥ guṇavat-sabhājitam . kṣattā mahā-bhāgavataḥ sadaspate kauṣāravim prāha gṛṇantam arcayan .. 8 ..
विदुर उवाच - (अनुष्टुप्)
सोऽभिषिक्तः पृथुर्विप्रैः लब्धाशेषसुरार्हणः । बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥ को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः ।
सः अभिषिक्तः पृथुः विप्रैः लब्ध-अशेष-सुर-अर्हणः । बिभ्रत् स वैष्णवम् तेजः बाह्वोः याभ्याम् दुदोह गाम् ॥ ९ ॥ कः नु अस्य कीर्तिम् न शृणोति अभिज्ञः यद्-विक्रम-उच्छिष्टम् अशेष-भूपाः ।
saḥ abhiṣiktaḥ pṛthuḥ vipraiḥ labdha-aśeṣa-sura-arhaṇaḥ . bibhrat sa vaiṣṇavam tejaḥ bāhvoḥ yābhyām dudoha gām .. 9 .. kaḥ nu asya kīrtim na śṛṇoti abhijñaḥ yad-vikrama-ucchiṣṭam aśeṣa-bhūpāḥ .
लोकाः सपाला उपजीवन्ति कामं अद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥
लोकाः स पालाः उपजीवन्ति कामम् अद्य अपि तत् मे वद कर्म शुद्धम् ॥ १० ॥
lokāḥ sa pālāḥ upajīvanti kāmam adya api tat me vada karma śuddham .. 10 ..
मैत्रेय उवाच - (अनुष्टुप्)
गङ्गायमुनयोर्नद्योः अन्तरा क्षेत्रमावसन् । आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥
गङ्गा-यमुनयोः नद्योः अन्तरा क्षेत्रम् आवसन् । आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया ॥ ११ ॥
gaṅgā-yamunayoḥ nadyoḥ antarā kṣetram āvasan . ārabdhān eva bubhuje bhogān puṇya-jihāsayā .. 11 ..
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् । अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः ॥ १२ ॥
सर्वत्र अस्खलित-आदेशः सप्तद्वीपा-एक-दण्ड-धृक् । अन्यत्र ब्राह्मण-कुलात् अन्यत्र अच्युत-गोत्रतः ॥ १२ ॥
sarvatra askhalita-ādeśaḥ saptadvīpā-eka-daṇḍa-dhṛk . anyatra brāhmaṇa-kulāt anyatra acyuta-gotrataḥ .. 12 ..
एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥
एकदा आसीत् महा-सत्र दीक्षा तत्र दिवौकसाम् । समाजः ब्रह्मर्षीणाम् च राजर्षीणाम् च सत्तम ॥ १३ ॥
ekadā āsīt mahā-satra dīkṣā tatra divaukasām . samājaḥ brahmarṣīṇām ca rājarṣīṇām ca sattama .. 13 ..
तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः । उत्थितः सदसो मध्ये ताराणां उडुराडिव ॥ १४ ॥
तस्मिन् अर्हत्सु सर्वेषु सु अर्चितेषु यथार्हतः । उत्थितः सदसः मध्ये ताराणाम् उडुराज् इव ॥ १४ ॥
tasmin arhatsu sarveṣu su arciteṣu yathārhataḥ . utthitaḥ sadasaḥ madhye tārāṇām uḍurāj iva .. 14 ..
प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः । सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५ ॥
प्रांशुः पीन-आयत-भुजः गौरः कञ्ज-अरुण-ईक्षणः । सु नासः सु मुखः सौम्यः पीन-अंसः सु द्विज-स्मितः ॥ १५ ॥
prāṃśuḥ pīna-āyata-bhujaḥ gauraḥ kañja-aruṇa-īkṣaṇaḥ . su nāsaḥ su mukhaḥ saumyaḥ pīna-aṃsaḥ su dvija-smitaḥ .. 15 ..
व्यूढवक्षा बृहच्छ्रोणिः वलिवल्गुदलोदरः । आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥
व्यूढ-वक्षाः बृहत्-श्रोणिः वलि-वल्गु-दल-उदरः । आवर्त-नाभिः ओजस्वी ॥ १६ ॥
vyūḍha-vakṣāḥ bṛhat-śroṇiḥ vali-valgu-dala-udaraḥ . āvarta-nābhiḥ ojasvī .. 16 ..
सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः । महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥
मूर्धजः कम्बु-कन्धरः । महाधने दुकूल-अग्र्ये परिधाय उपवीय च ॥ १७ ॥
mūrdhajaḥ kambu-kandharaḥ . mahādhane dukūla-agrye paridhāya upavīya ca .. 17 ..
व्यञ्जिताशेषगात्रश्रीः नियमे न्यस्तभूषणः । कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८ ॥
व्यञ्जित-अशेष-गात्र-श्रीः नियमे न्यस्त-भूषणः । कृष्ण-अजिन-धरः श्रीमान् कुश-पाणिः कृत-उचितः ॥ १८ ॥
vyañjita-aśeṣa-gātra-śrīḥ niyame nyasta-bhūṣaṇaḥ . kṛṣṇa-ajina-dharaḥ śrīmān kuśa-pāṇiḥ kṛta-ucitaḥ .. 18 ..
शिशिरस्निग्धताराक्षः समैक्षत समन्ततः । ऊचिवान् इदमुर्वीशः सदः संहर्षयन्निव ॥ १९ ॥
शिशिर-स्निग्ध-तारा-अक्षः समैक्षत समन्ततः । ऊचिवान् इदम् उर्वी-ईशः सदः संहर्षयन् इव ॥ १९ ॥
śiśira-snigdha-tārā-akṣaḥ samaikṣata samantataḥ . ūcivān idam urvī-īśaḥ sadaḥ saṃharṣayan iva .. 19 ..
चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् । सर्वेषां उपकारार्थं तदा अनुवदन्निव ॥ २० ॥
चारु चित्र-पदम् श्लक्ष्णम् मृष्टम् गूढम् अविक्लवम् । सर्वेषाम् उपकार-अर्थम् तदा अनुवदन् इव ॥ २० ॥
cāru citra-padam ślakṣṇam mṛṣṭam gūḍham aviklavam . sarveṣām upakāra-artham tadā anuvadan iva .. 20 ..
राजोवाच -
सभ्याः श्रृणुत भद्रं वः साधवो य इहागताः । सत्सु जिज्ञासुभिर्धर्मं आवेद्यं स्वमनीषितम् ॥ २१ ॥
सभ्याः श्रृणुत भद्रम् वः साधवः ये इह आगताः । सत्सु जिज्ञासुभिः धर्मम् आवेद्यम् स्व-मनीषितम् ॥ २१ ॥
sabhyāḥ śrṛṇuta bhadram vaḥ sādhavaḥ ye iha āgatāḥ . satsu jijñāsubhiḥ dharmam āvedyam sva-manīṣitam .. 21 ..
अहं दण्डधरो राजा प्रजानामिह योजितः । रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥
अहम् दण्ड-धरः राजा प्रजानाम् इह योजितः । रक्षिता वृत्ति-दः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥
aham daṇḍa-dharaḥ rājā prajānām iha yojitaḥ . rakṣitā vṛtti-daḥ sveṣu setuṣu sthāpitā pṛthak .. 22 ..
तस्य मे तदनुष्ठानाद् यानाहुर्ब्रह्मवादिनः । लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३ ॥
तस्य मे तद्-अनुष्ठानात् यान् आहुः ब्रह्म-वादिनः । लोकाः स्युः काम-सन्दोहाः यस्य तुष्यति दिष्ट-दृश् ॥ २३ ॥
tasya me tad-anuṣṭhānāt yān āhuḥ brahma-vādinaḥ . lokāḥ syuḥ kāma-sandohāḥ yasya tuṣyati diṣṭa-dṛś .. 23 ..
य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ २४ ॥
यः उद्धरेत् करम् राजा प्रजाः धर्मेषु अशिक्षयन् । प्रजानाम् शमलम् भुङ्क्ते भगम् च स्वम् जहाति सः ॥ २४ ॥
yaḥ uddharet karam rājā prajāḥ dharmeṣu aśikṣayan . prajānām śamalam bhuṅkte bhagam ca svam jahāti saḥ .. 24 ..
तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः । कुरुताधोक्षजधियः तर्हि मेऽनुग्रहः कृतः ॥ २५ ॥
तद्-प्रजाः भर्तृ-पिण्ड-अर्थम् स्व-अर्थम् एव अनसूयवः । कुरुत अधोक्षज-धियः तर्हि मे अनुग्रहः कृतः ॥ २५ ॥
tad-prajāḥ bhartṛ-piṇḍa-artham sva-artham eva anasūyavaḥ . kuruta adhokṣaja-dhiyaḥ tarhi me anugrahaḥ kṛtaḥ .. 25 ..
यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः । कर्तुः शास्तुरनुज्ञातुः तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥
यूयम् तत् अनुमोदध्वम् पितृ-देव-ऋषयः अमलाः । कर्तुः शास्तुः अनुज्ञातुः तुल्यम् यत् प्रेत्य तत् फलम् ॥ २६ ॥
yūyam tat anumodadhvam pitṛ-deva-ṛṣayaḥ amalāḥ . kartuḥ śāstuḥ anujñātuḥ tulyam yat pretya tat phalam .. 26 ..
अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः ॥ २७ ॥
अस्ति यज्ञपतिः नाम केषाञ्चिद् अर्ह-सत्तमाः । इह अमुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ २७ ॥
asti yajñapatiḥ nāma keṣāñcid arha-sattamāḥ . iha amutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ .. 27 ..
मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेः अङ्गस्यास्मत्पितुः पितुः ॥ २८ ॥
मनोः उत्तानपादस्य ध्रुवस्य अपि महीपतेः । प्रियव्रतस्य राजर्षेः अङ्गस्य अस्मद्-पितुः पितुः ॥ २८ ॥
manoḥ uttānapādasya dhruvasya api mahīpateḥ . priyavratasya rājarṣeḥ aṅgasya asmad-pituḥ pituḥ .. 28 ..
ईदृशानां अथान्येषां अजस्य च भवस्य च । प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥
ईदृशानाम् अथ अन्येषाम् अजस्य च भवस्य च । प्रह्लादस्य बलेः च अपि कृत्यम् अस्ति गदाभृता ॥ २९ ॥
īdṛśānām atha anyeṣām ajasya ca bhavasya ca . prahlādasya baleḥ ca api kṛtyam asti gadābhṛtā .. 29 ..
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् । वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥
दौहित्र-आदीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् । वर्ग-स्वर्ग-अपवर्गाणाम् प्रायेण ऐकात्म्य-हेतुना ॥ ३० ॥
dauhitra-ādīn ṛte mṛtyoḥ śocyān dharma-vimohitān . varga-svarga-apavargāṇām prāyeṇa aikātmya-hetunā .. 30 ..
यत्पादसेवाभिरुचिः तपस्विनां अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ३१ ॥
यद्-पाद-सेवा अभिरुचिः तपस्विनाम् अशेष-जन्म-उपचितम् मलम् धियः । सद्यस् क्षिणोति अन्वहम् एधती सती यथा पद-अङ्गुष्ठ-विनिःसृता सरित् ॥ ३१ ॥
yad-pāda-sevā abhiruciḥ tapasvinām aśeṣa-janma-upacitam malam dhiyaḥ . sadyas kṣiṇoti anvaham edhatī satī yathā pada-aṅguṣṭha-viniḥsṛtā sarit .. 31 ..
विनिर्धुताशेषमनोमलः पुमान् असङ्गविज्ञानविशेषवीर्यवान् । यदङ्घ्रिमूले कृतकेतनः पुनः न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥
विनिर्धुत-अशेष-मनः-मलः पुमान् असङ्ग-विज्ञान-विशेष-वीर्यवान् । यत् अङ्घ्रि-मूले कृत-केतनः पुनर् न संसृतिम् क्लेश-वहाम् प्रपद्यते ॥ ३२ ॥
vinirdhuta-aśeṣa-manaḥ-malaḥ pumān asaṅga-vijñāna-viśeṣa-vīryavān . yat aṅghri-mūle kṛta-ketanaḥ punar na saṃsṛtim kleśa-vahām prapadyate .. 32 ..
तमेव यूयं भजतात्मवृत्तिभिः मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः ॥ ३३ ॥
तम् एव यूयम् भजत आत्म-वृत्तिभिः मनः-वचः-काय-गुणैः स्व-कर्मभिः । अमायिनः कामदुघा-अङ्घ्रि-पङ्कजम् यथा अधिकाराः अवसित-अर्थ-सिद्धयः ॥ ३३ ॥
tam eva yūyam bhajata ātma-vṛttibhiḥ manaḥ-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥ . amāyinaḥ kāmadughā-aṅghri-paṅkajam yathā adhikārāḥ avasita-artha-siddhayaḥ .. 33 ..
असौ इहानेकगुणोऽगुणोऽध्वरः पृथक् विधद्रव्यगुणक्रियोक्तिभिः । सम्पद्यतेऽर्थाशयलिङ्गनामभिः विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४ ॥
असौ इह अनेक-गुणः अगुणः अध्वरः पृथक् विध-द्रव्य-गुण-क्रिया-उक्तिभिः । सम्पद्यते अर्थ-आशय-लिङ्ग-नामभिः विशुद्ध-विज्ञान-घनः स्व-रूपतः ॥ ३४ ॥
asau iha aneka-guṇaḥ aguṇaḥ adhvaraḥ pṛthak vidha-dravya-guṇa-kriyā-uktibhiḥ . sampadyate artha-āśaya-liṅga-nāmabhiḥ viśuddha-vijñāna-ghanaḥ sva-rūpataḥ .. 34 ..
प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः ॥ ३५ ॥
प्रधान-काल-आशय-धर्म-सङ्ग्रहे शरीरे एष प्रतिपद्य चेतनाम् । क्रिया-फल-त्वेन विभुः विभाव्यते यथा अनलः दारुषु तद्-गुण-आत्मकः ॥ ३५ ॥
pradhāna-kāla-āśaya-dharma-saṅgrahe śarīre eṣa pratipadya cetanām . kriyā-phala-tvena vibhuḥ vibhāvyate yathā analaḥ dāruṣu tad-guṇa-ātmakaḥ .. 35 ..
अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् । स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥ ३६ ॥
अहो मम अमी वितरन्ति अनुग्रहम् हरिम् गुरुम् यज्ञभुजाम् अधीश्वरम् । स्वधर्म-योगेन यजन्ति मामकाः निरन्तरम् क्षोणि-तले दृढ-व्रताः ॥ ३६ ॥
aho mama amī vitaranti anugraham harim gurum yajñabhujām adhīśvaram . svadharma-yogena yajanti māmakāḥ nirantaram kṣoṇi-tale dṛḍha-vratāḥ .. 36 ..
मा जातु तेजः प्रभवेन्महर्द्धिभिः तितिक्षया तपसा विद्यया च । देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥
मा जातु तेजः प्रभवेत् महा-ऋद्धिभिः तितिक्षया तपसा विद्यया च । देदीप्यमाने अजित-देवतानाम् कुले स्वयम् राज-कुलात् द्विजानाम् ॥ ३७ ॥
mā jātu tejaḥ prabhavet mahā-ṛddhibhiḥ titikṣayā tapasā vidyayā ca . dedīpyamāne ajita-devatānām kule svayam rāja-kulāt dvijānām .. 37 ..
ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् । अवाप लक्ष्मीं अनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८ ॥
ब्रह्मण्यदेवः पुरुषः पुरातनः नित्यम् हरिः यद्-चरण-अभिवन्दनात् । अवाप लक्ष्मीम् अनपायिनीम् यशः जगत्-पवित्रम् च महत्तम-अग्रणीः ॥ ३८ ॥
brahmaṇyadevaḥ puruṣaḥ purātanaḥ nityam hariḥ yad-caraṇa-abhivandanāt . avāpa lakṣmīm anapāyinīm yaśaḥ jagat-pavitram ca mahattama-agraṇīḥ .. 38 ..
यत्सेवयाशेषगुहाशयः स्वराड् विप्रप्रियस्तुष्यति काममीश्वरः । तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥
यद्-सेवया अशेष-गुहा-आशयः स्वराज् विप्र-प्रियः तुष्यति कामम् ईश्वरः । तत् एव तद्-धर्म-परैः विनीतैः सर्व-आत्मना ब्रह्म-कुलम् निषेव्यताम् ॥ ३९ ॥
yad-sevayā aśeṣa-guhā-āśayaḥ svarāj vipra-priyaḥ tuṣyati kāmam īśvaraḥ . tat eva tad-dharma-paraiḥ vinītaiḥ sarva-ātmanā brahma-kulam niṣevyatām .. 39 ..
पुमान् लभेतान् अतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् । यन्नित्यसंबन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥
पुमान् अतिवेलम् आत्मनः प्रसीदतः अत्यन्त-शमम् स्वतः स्वयम् । यत् नित्य-संबन्ध-निषेवया ततस् परम् किम् अत्र अस्ति मुखम् हविर्भुजाम् ॥ ४० ॥
pumān ativelam ātmanaḥ prasīdataḥ atyanta-śamam svataḥ svayam . yat nitya-saṃbandha-niṣevayā tatas param kim atra asti mukham havirbhujām .. 40 ..
अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः ॥ ४१ ॥
अश्नाति अनन्तः खलु तत्त्व-कोविदैः श्रद्धा-हुतम् यत् मुखे इज्य-नामभिः । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्य-पर्यगुः ॥ ४१ ॥
aśnāti anantaḥ khalu tattva-kovidaiḥ śraddhā-hutam yat mukhe ijya-nāmabhiḥ . na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsya-paryaguḥ .. 41 ..
यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गल मौनसंयमैः । समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते ॥ ४२ ॥
यत् ब्रह्म नित्यम् विरजम् सनातनम् श्रद्धा-तपः-मङ्गल मौन-संयमैः । समाधिना बिभ्रति ह अर्थ-दृष्टये यत्र इदम् आदर्शे इव अवभासते ॥ ४२ ॥
yat brahma nityam virajam sanātanam śraddhā-tapaḥ-maṅgala mauna-saṃyamaiḥ . samādhinā bibhrati ha artha-dṛṣṭaye yatra idam ādarśe iva avabhāsate .. 42 ..
तेषामहं पादसरोजरेणुं आर्या वहेयाधिकिरीटमाऽऽयुः । यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥
तेषाम् अहम् पाद-सरोज-रेणुम् आर्याः वहेय अधि किरीटम् । यम् नित्यदा बिभ्रतः आशु पापम् नश्यति अमुम् सर्व-गुणाः भजन्ति ॥ ४३ ॥
teṣām aham pāda-saroja-reṇum āryāḥ vaheya adhi kirīṭam . yam nityadā bibhrataḥ āśu pāpam naśyati amum sarva-guṇāḥ bhajanti .. 43 ..
गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पदः । प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम् ॥ ४४ ॥
गुणायनम् शील-धनम् कृतज्ञम् वृद्ध-आश्रयम् संवृणते अनु सम्पदः । प्रसीदताम् ब्रह्म-कुलम् गवाम् च जनार्दनः स अनुचरः च मह्यम् ॥ ४४ ॥
guṇāyanam śīla-dhanam kṛtajñam vṛddha-āśrayam saṃvṛṇate anu sampadaḥ . prasīdatām brahma-kulam gavām ca janārdanaḥ sa anucaraḥ ca mahyam .. 44 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः । तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६ ॥
इति ब्रुवाणम् नृपतिम् पितृ-देव-द्विजातयः । तुष्टुवुः हृष्ट-मनसः साधुवादेन साधवः ॥ ४६ ॥
iti bruvāṇam nṛpatim pitṛ-deva-dvijātayaḥ . tuṣṭuvuḥ hṛṣṭa-manasaḥ sādhuvādena sādhavaḥ .. 46 ..
पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७ ॥
पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्म-दण्ड-हतः पापः यत् वेनः अत्यतरत् तमः ॥ ४७ ॥
putreṇa jayate lokān iti satyavatī śrutiḥ . brahma-daṇḍa-hataḥ pāpaḥ yat venaḥ atyatarat tamaḥ .. 47 ..
हिरण्यकशिपुश्चापि भगवन् निन्दया तमः । विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८ ॥
हिरण्यकशिपुः च अपि भगवत् निन्दया तमः । विविक्षुः अत्यगात् सूनोः प्रह्लादस्य अनुभावतः ॥ ४८ ॥
hiraṇyakaśipuḥ ca api bhagavat nindayā tamaḥ . vivikṣuḥ atyagāt sūnoḥ prahlādasya anubhāvataḥ .. 48 ..
वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः । यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९ ॥
वीर-वर्य पितर् पृथ्व्याः समाः सन् जीव शाश्वतीः । यस्य ईदृशी अच्युते भक्तिः सर्व-लोक-एक-भर्तरि ॥ ४९ ॥
vīra-varya pitar pṛthvyāḥ samāḥ san jīva śāśvatīḥ . yasya īdṛśī acyute bhaktiḥ sarva-loka-eka-bhartari .. 49 ..
अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः । य उत्तमश्लोकतमस्य विष्णोः ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५० ॥
अहो वयम् हि अद्य पवित्र-कीर्ते त्वया एव नाथेन मुकुन्द-नाथाः । यः उत्तमश्लोकतमस्य विष्णोः ब्रह्मण्यदेवस्य कथाम् व्यनक्ति ॥ ५० ॥
aho vayam hi adya pavitra-kīrte tvayā eva nāthena mukunda-nāthāḥ . yaḥ uttamaślokatamasya viṣṇoḥ brahmaṇyadevasya kathām vyanakti .. 50 ..
नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१ ॥
न अति अद्भुतम् इदम् नाथ तव आजीव्य-अनुशासनम् । प्रजा-अनुरागः महताम् प्रकृतिः करुण-आत्मनाम् ॥ ५१ ॥
na ati adbhutam idam nātha tava ājīvya-anuśāsanam . prajā-anurāgaḥ mahatām prakṛtiḥ karuṇa-ātmanām .. 51 ..
अद्य नस्तमसः पारः त्वयोपासादितः प्रभो । भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२ ॥
अद्य नः तमसः पारः त्वया उपासादितः प्रभो । भ्राम्यताम् नष्ट-दृष्टीनाम् कर्मभिः दैव-संज्ञितैः ॥ ५२ ॥
adya naḥ tamasaḥ pāraḥ tvayā upāsāditaḥ prabho . bhrāmyatām naṣṭa-dṛṣṭīnām karmabhiḥ daiva-saṃjñitaiḥ .. 52 ..
नमो विवृद्धसत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३ ॥
नमः विवृद्ध-सत्त्वाय पुरुषाय महीयसे । यः ब्रह्म क्षत्रम् आविश्य बिभर्ति इदम् स्व-तेजसा ॥ ५३ ॥
namaḥ vivṛddha-sattvāya puruṣāya mahīyase . yaḥ brahma kṣatram āviśya bibharti idam sva-tejasā .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे एकविंशः अध्यायः ॥ २१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe ekaviṃśaḥ adhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In