| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् । तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः ॥ १ ॥
जनेषु प्रगृणत्सु एवम् पृथुम् पृथुल-विक्रमम् । तत्र उपजग्मुः मुनयः चत्वारः सूर्य-वर्चसः ॥ १ ॥
janeṣu pragṛṇatsu evam pṛthum pṛthula-vikramam . tatra upajagmuḥ munayaḥ catvāraḥ sūrya-varcasaḥ .. 1 ..
तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा । लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २ ॥
तान् तु सिद्ध-ईश्वरान् राजा व्योम्नः अवतरतः अर्चिषा । लोकान् अपापान् कुर्वत्या स अनुगः अचष्ट लक्षितान् ॥ २ ॥
tān tu siddha-īśvarān rājā vyomnaḥ avatarataḥ arciṣā . lokān apāpān kurvatyā sa anugaḥ acaṣṭa lakṣitān .. 2 ..
तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः । ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥
तद्-दर्शन-उद्गतान् प्राणान् प्रत्यादित्सुः इव उत्थितः । स सदस्य-अनुगः वैन्यः इन्द्रिय-ईशः गुणान् इव ॥ ३ ॥
tad-darśana-udgatān prāṇān pratyāditsuḥ iva utthitaḥ . sa sadasya-anugaḥ vainyaḥ indriya-īśaḥ guṇān iva .. 3 ..
गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः । विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥
गौरवात् यन्त्रितः सभ्यः प्रश्रय-आनत-कन्धरः । विधिवत् चक्रे गृहीत-अधि अर्हण-आसनान् ॥ ४ ॥
gauravāt yantritaḥ sabhyaḥ praśraya-ānata-kandharaḥ . vidhivat cakre gṛhīta-adhi arhaṇa-āsanān .. 4 ..
तत्पादशौचसलिलैः मार्जितालकबन्धनः । तत्र शीलवतां वृत्तं आचरन् मानयन्निव ॥ ५ ॥
तद्-पाद-शौच-सलिलैः मार्जित-अलक-बन्धनः । तत्र शीलवताम् वृत्तम् आचरन् मानयन् इव ॥ ५ ॥
tad-pāda-śauca-salilaiḥ mārjita-alaka-bandhanaḥ . tatra śīlavatām vṛttam ācaran mānayan iva .. 5 ..
हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् । श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ॥ ६ ॥
हाटक-आसने आसीनान् स्व-धिष्ण्येषु इव पावकान् । श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भव-अग्रजान् ॥ ॥ ६ ॥
hāṭaka-āsane āsīnān sva-dhiṣṇyeṣu iva pāvakān . śraddhā-saṃyama-saṃyuktaḥ prītaḥ prāha bhava-agrajān .. .. 6 ..
पृथुरुवाच -
अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिः ॥ ७ ॥
अहो आचरितम् किम् मे मङ्गलम् मङ्गलायनाः । यस्य वः दर्शनम् हि आसीत् दुर्दर्शानाम् च योगिभिः ॥ ७ ॥
aho ācaritam kim me maṅgalam maṅgalāyanāḥ . yasya vaḥ darśanam hi āsīt durdarśānām ca yogibhiḥ .. 7 ..
किं तस्य दुर्लभतरं इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८ ॥
किम् तस्य दुर्लभतरम् इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवः विष्णुः च स अनुगः ॥ ८ ॥
kim tasya durlabhataram iha loke paratra ca . yasya viprāḥ prasīdanti śivaḥ viṣṇuḥ ca sa anugaḥ .. 8 ..
नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् । यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
ना एव लक्षयते लोकः लोकान् पर्यटतः अपि यान् । यथा सर्व-दृशम् सर्वे आत्मानम् ये अस्य हेतवः ॥ ९ ॥
nā eva lakṣayate lokaḥ lokān paryaṭataḥ api yān . yathā sarva-dṛśam sarve ātmānam ye asya hetavaḥ .. 9 ..
अधना अपि ते धन्याः साधवो गृहमेधिनः । यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः ॥ १० ॥
अधनाः अपि ते धन्याः साधवः गृहमेधिनः । यद्-गृहाः हि अर्ह-वर्य-अम्बु तृण-भूमि-ईश्वर-अवराः ॥ १० ॥
adhanāḥ api te dhanyāḥ sādhavaḥ gṛhamedhinaḥ . yad-gṛhāḥ hi arha-varya-ambu tṛṇa-bhūmi-īśvara-avarāḥ .. 10 ..
व्यालालयद्रुमा वै तेऽपि अरिक्ताखिलसम्पदः । यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ॥ ११ ॥
व्याल-आलय-द्रुमाः वै ते अपि अरिक्त-अखिल-सम्पदः । यद्-गृहाः तीर्थपादीय पाद-तीर्थ-विवर्जिताः ॥ ११ ॥
vyāla-ālaya-drumāḥ vai te api arikta-akhila-sampadaḥ . yad-gṛhāḥ tīrthapādīya pāda-tīrtha-vivarjitāḥ .. 11 ..
स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥
स्वागतम् वः द्विजश्रेष्ठाः यत् व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीराः बालाः एव बृहन्ति च ॥ १२ ॥
svāgatam vaḥ dvijaśreṣṭhāḥ yat vratāni mumukṣavaḥ . caranti śraddhayā dhīrāḥ bālāḥ eva bṛhanti ca .. 12 ..
कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३ ॥
कच्चित् नः कुशलम् नाथाः इन्द्रिय-अर्थ-अर्थ-वेदिनाम् । व्यसन-आवापे एतस्मिन् पतितानाम् स्व-कर्मभिः ॥ १३ ॥
kaccit naḥ kuśalam nāthāḥ indriya-artha-artha-vedinām . vyasana-āvāpe etasmin patitānām sva-karmabhiḥ .. 13 ..
भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४ ॥
भवत्सु कुशल-प्रश्नः आत्म-आरामेषु न इष्यते । कुशल-अकुशलाः यत्र न सन्ति मति-वृत्तयः ॥ १४ ॥
bhavatsu kuśala-praśnaḥ ātma-ārāmeṣu na iṣyate . kuśala-akuśalāḥ yatra na santi mati-vṛttayaḥ .. 14 ..
तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५ ॥
तत् अहम् कृत-विश्रम्भः सुहृदः वः तपस्विनाम् । सम्पृच्छे भवे एतस्मिन् क्षेमः केन अञ्जसा भवेत् ॥ १५ ॥
tat aham kṛta-viśrambhaḥ suhṛdaḥ vaḥ tapasvinām . sampṛcche bhave etasmin kṣemaḥ kena añjasā bhavet .. 15 ..
व्यक्तमात्मवतामात्मा भगवान् आत्मभावनः । स्वानां अनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १ ॥ ६ ॥
व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः । स्वानाम् अनुग्रहाय इमाम् सिद्ध-रूपी चरति अजः ॥ १ ॥ ६ ॥
vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ . svānām anugrahāya imām siddha-rūpī carati ajaḥ .. 1 .. 6 ..
मैत्रेय उवाच -
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥
पृथोः तत् सूक्तम् आकर्ण्य सारम् सुष्ठु मितम् मधु । स्मयमानः इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥
pṛthoḥ tat sūktam ākarṇya sāram suṣṭhu mitam madhu . smayamānaḥ iva prītyā kumāraḥ pratyuvāca ha .. 17 ..
सनत्कुमार उवाच -
साधु पृष्टं महाराज सर्वभूतहितात्मना । भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८ ॥
साधु पृष्टम् महा-राज सर्व-भूत-हित-आत्मना । भवता विदुषा च अपि साधूनाम् मतिः ईदृशी ॥ १८ ॥
sādhu pṛṣṭam mahā-rāja sarva-bhūta-hita-ātmanā . bhavatā viduṣā ca api sādhūnām matiḥ īdṛśī .. 18 ..
सङ्गमः खलु साधूनां उभयेषां च सम्मतः । यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९ ॥
सङ्गमः खलु साधूनाम् उभयेषाम् च सम्मतः । यत् सम्भाषण-सम्प्रश्नः सर्वेषाम् वितनोति शम् ॥ १९ ॥
saṅgamaḥ khalu sādhūnām ubhayeṣām ca sammataḥ . yat sambhāṣaṇa-sampraśnaḥ sarveṣām vitanoti śam .. 19 ..
अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥ २० ॥
अस्ति एव राजन् भवतः मधुद्विषः पाद-अरविन्दस्य गुण-अनुवादने । रतिः दुरापा विधुनोति नैष्ठिकी कामम् कषायम् मलम् अन्तरात्मनः ॥ २० ॥
asti eva rājan bhavataḥ madhudviṣaḥ pāda-aravindasya guṇa-anuvādane . ratiḥ durāpā vidhunoti naiṣṭhikī kāmam kaṣāyam malam antarātmanaḥ .. 20 ..
शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः । असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
शास्त्रेषु इयान् एव सु निश्चितः नृणाम् क्षेमस्य सध्रि-अग्वि मृश इषु हेतुः । असङ्गे आत्म-व्यतिरिक्ते आत्मनि दृढा रतिः ब्रह्मणि निर्गुणे च या ॥ २१ ॥
śāstreṣu iyān eva su niścitaḥ nṛṇām kṣemasya sadhri-agvi mṛśa iṣu hetuḥ . asaṅge ātma-vyatirikte ātmani dṛḍhā ratiḥ brahmaṇi nirguṇe ca yā .. 21 ..
सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया । योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च ॥ २२ ॥
सा श्रद्धया भगवत्-धर्म-चर्यया जिज्ञासया आध्यात्मिक-योग-निष्ठया । योग-ईश्वर-उपासनया च नित्यम् पुण्य-श्रवः-कथया पुण्यया च ॥ २२ ॥
sā śraddhayā bhagavat-dharma-caryayā jijñāsayā ādhyātmika-yoga-niṣṭhayā . yoga-īśvara-upāsanayā ca nityam puṇya-śravaḥ-kathayā puṇyayā ca .. 22 ..
अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च । विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात् ॥ २३ ॥
अर्थ-इन्द्रिय-आराम-सगोष्ठी-अतृष्णया तद्-सम्मताः नाम-परिग्रहेण च । विविक्त-रुच्या परितोषः आत्मन् विना हरेः गुण-पीयूष-पानात् ॥ २३ ॥
artha-indriya-ārāma-sagoṣṭhī-atṛṣṇayā tad-sammatāḥ nāma-parigraheṇa ca . vivikta-rucyā paritoṣaḥ ātman vinā hareḥ guṇa-pīyūṣa-pānāt .. 23 ..
अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना । यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥
अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्द-आचरित-अग्र्य-सीधुना । यमैः अकामैः नियमैः च अपि अनिन्दया निरीहया द्वन्द्व-तितिक्षया च ॥ २४ ॥
ahiṃsayā pāramahaṃsya-caryayā smṛtyā mukunda-ācarita-agrya-sīdhunā . yamaiḥ akāmaiḥ niyamaiḥ ca api anindayā nirīhayā dvandva-titikṣayā ca .. 24 ..
हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
हरेः मुहुर् तद्-पर-कर्णपूर गुण-अभिधानेन विजृम्भमाणया । भक्त्या हि असङ्गः सत्-असति अनात्मनि स्यात् निर्गुणे ब्रह्मणि च अञ्जसा रतिः ॥ २५ ॥
hareḥ muhur tad-para-karṇapūra guṇa-abhidhānena vijṛmbhamāṇayā . bhaktyā hi asaṅgaḥ sat-asati anātmani syāt nirguṇe brahmaṇi ca añjasā ratiḥ .. 25 ..
यदा रतिर्ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञानविरागरंहसा । दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
यदा रतिः ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान-विराग-रंहसा । दहति अवीर्यम् हृदयम् जीव-कोशम् पञ्च-आत्मकम् योनिम् इव उत्थितः अग्निः ॥ २६ ॥
yadā ratiḥ brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṃhasā . dahati avīryam hṛdayam jīva-kośam pañca-ātmakam yonim iva utthitaḥ agniḥ .. 26 ..
दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे । परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥
दग्ध-आशयः मुक्त-समस्त-तद्-गुणः न एव आत्मनः बहिस् अन्तर् विचष्टे । पर-आत्मनोः यत् व्यवधानम् पुरस्तात् स्वप्ने यथा पुरुषः तद्-विनाशे ॥ २७ ॥
dagdha-āśayaḥ mukta-samasta-tad-guṇaḥ na eva ātmanaḥ bahis antar vicaṣṭe . para-ātmanoḥ yat vyavadhānam purastāt svapne yathā puruṣaḥ tad-vināśe .. 27 ..
(अनुष्टुप्)
आत्मानमिन्द्रियार्थं च परं यदुभयोरपि । सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥
आत्मानम् इन्द्रिय-अर्थम् च परम् यत् उभयोः अपि । सत्य-आशये उपाधौ वै पुमान् पश्यति न अन्यदा ॥ २८ ॥
ātmānam indriya-artham ca param yat ubhayoḥ api . satya-āśaye upādhau vai pumān paśyati na anyadā .. 28 ..
निमित्ते सति सर्वत्र जलादौ अपि पूरुषः । आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥
निमित्ते सति सर्वत्र जल-आदौ अपि पूरुषः । आत्मनः च परस्य अपि भिदाम् पश्यति न अन्यदा ॥ २९ ॥
nimitte sati sarvatra jala-ādau api pūruṣaḥ . ātmanaḥ ca parasya api bhidām paśyati na anyadā .. 29 ..
इन्द्रियैर्विषयाकृष्टैः आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥
इन्द्रियैः विषय-आकृष्टैः आक्षिप्तम् ध्यायताम् मनः । चेतनाम् हरते बुद्धेः स्तम्बः तोयम् इव ह्रदात् ॥ ३० ॥
indriyaiḥ viṣaya-ākṛṣṭaiḥ ākṣiptam dhyāyatām manaḥ . cetanām harate buddheḥ stambaḥ toyam iva hradāt .. 30 ..
भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये । तद्रोधं कवयः प्राहुः आत्मापह्नवमात्मनः ॥ ३१ ॥
भ्रश्यति अनु स्मृतिः चित्तम् ज्ञान-भ्रंशः स्मृति-क्षये । तद्-रोधम् कवयः प्राहुः आत्म-अपह्नवम् आत्मनः ॥ ३१ ॥
bhraśyati anu smṛtiḥ cittam jñāna-bhraṃśaḥ smṛti-kṣaye . tad-rodham kavayaḥ prāhuḥ ātma-apahnavam ātmanaḥ .. 31 ..
नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । यदध्यन्यस्य प्रेयस्त्वं आत्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
न अतस् परतरः लोके पुंसः स्व-अर्थ-व्यतिक्रमः । यत् अधि अन्यस्य प्रेयः-त्वम् आत्मनः स्व-व्यतिक्रमात् ॥ ३२ ॥
na atas parataraḥ loke puṃsaḥ sva-artha-vyatikramaḥ . yat adhi anyasya preyaḥ-tvam ātmanaḥ sva-vyatikramāt .. 32 ..
अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ ३३ ॥
अर्थ-इन्द्रिय-अर्थ-अभिध्यानम् सर्व-अर्थ-अपह्नवः नृणाम् । भ्रंशितः ज्ञान-विज्ञानात् येन आविशति मुख्य-ताम् ॥ ३३ ॥
artha-indriya-artha-abhidhyānam sarva-artha-apahnavaḥ nṛṇām . bhraṃśitaḥ jñāna-vijñānāt yena āviśati mukhya-tām .. 33 ..
न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः । धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
न कुर्यात् कर्हिचित् सङ्गम् तमः तीव्रम् तितीरिषुः । धर्म-अर्थ-काम-मोक्षाणाम् यत् अत्यन्त-विघातकम् ॥ ३४ ॥
na kuryāt karhicit saṅgam tamaḥ tīvram titīriṣuḥ . dharma-artha-kāma-mokṣāṇām yat atyanta-vighātakam .. 34 ..
तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५ ॥
तत्र अपि मोक्षः एव अर्थः आत्यन्तिक-तया इष्यते । त्रैवर्ग्यः अर्थः यतस् नित्यम् कृतान्त-भय-संयुतः ॥ ३५ ॥
tatra api mokṣaḥ eva arthaḥ ātyantika-tayā iṣyate . traivargyaḥ arthaḥ yatas nityam kṛtānta-bhaya-saṃyutaḥ .. 35 ..
परेऽवरे च ये भावा गुणव्यतिकरादनु । न तेषां विद्यते क्षेमं ईशविध्वंसिताशिषाम् ॥ ३ ॥ ६ ॥
परे अवरे च ये भावाः गुण-व्यतिकरात् अनु । न तेषाम् विद्यते क्षेमम् ईश-विध्वंसित-आशिषाम् ॥ ३ ॥ ६ ॥
pare avare ca ye bhāvāḥ guṇa-vyatikarāt anu . na teṣām vidyate kṣemam īśa-vidhvaṃsita-āśiṣām .. 3 .. 6 ..
तत्त्वं नरेन्द्र जगतामथ तस्थूषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । यः क्षेत्रवित्तपतया हृदि विश्वगाविः प्रत्यक् चकास्ति भगवान् तमवेहि सोऽस्मि ॥ ३७ ॥
तत् त्वम् नरेन्द्र जगताम् अथ च आवृतानाम् । यः क्षेत्र-वित्तप-तया हृदि विश्वक् आविस् प्रत्यक् चकास्ति भगवान् तम् अवेहि सः अस्मि ॥ ३७ ॥
tat tvam narendra jagatām atha ca āvṛtānām . yaḥ kṣetra-vittapa-tayā hṛdi viśvak āvis pratyak cakāsti bhagavān tam avehi saḥ asmi .. 37 ..
यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्रजि वाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥
यस्मिन् इदम् सत्-असत्-आत्म-तया विभाति माया विवेक-विधुति स्रजि वाहि-बुद्धिः । तम् नित्यम् उक्त-परिशुद्ध-विशुद्ध-तत्त्वम् प्रत्यूढ-कर्म-कलिल-प्रकृतिम् प्रपद्ये ॥ ३८ ॥
yasmin idam sat-asat-ātma-tayā vibhāti māyā viveka-vidhuti sraji vāhi-buddhiḥ . tam nityam ukta-pariśuddha-viśuddha-tattvam pratyūḍha-karma-kalila-prakṛtim prapadye .. 38 ..
यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥
यद्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्म-आशयम् ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वत् न रिक्त-मतयः यतयः अपि रुद्ध स्रोतः-गण-अस्त-मरणम् भज वासुदेवम् ॥ ३९ ॥
yad-pāda-paṅkaja-palāśa-vilāsa-bhaktyā karma-āśayam grathitam udgrathayanti santaḥ . tadvat na rikta-matayaḥ yatayaḥ api ruddha srotaḥ-gaṇa-asta-maraṇam bhaja vāsudevam .. 39 ..
कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीरषन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥
कृच्छ्रः महान् इह भव-अर्णवम् अप्लव-ईशाम् षड्वर्ग-नक्रम् असुखेन तितीरषन्ति । तत् त्वम् हरेः भगवतः भजनीयम् अङ्घ्रिम् कृत्वा उडुपम् व्यसनम् उत्तर दुस्तर-अर्णम् ॥ ४० ॥
kṛcchraḥ mahān iha bhava-arṇavam aplava-īśām ṣaḍvarga-nakram asukhena titīraṣanti . tat tvam hareḥ bhagavataḥ bhajanīyam aṅghrim kṛtvā uḍupam vyasanam uttara dustara-arṇam .. 40 ..
मैत्रेय उवाच - (अनुष्ट्प्)
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा । दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१ ॥
सः एवम् ब्रह्म-पुत्रेण कुमारेण आत्म-मेधसा । दर्शित-आत्म-गतिः सम्यक् प्रशस्य उवाच तम् नृपः ॥ ४१ ॥
saḥ evam brahma-putreṇa kumāreṇa ātma-medhasā . darśita-ātma-gatiḥ samyak praśasya uvāca tam nṛpaḥ .. 41 ..
राजोवाच -
कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना । तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२ ॥
कृतः मे अनुग्रहः पूर्वम् हरिणा आर्त-अनुकम्पिना । तम् आपादयितुम् ब्रह्मन् भगवन् यूयम् आगताः ॥ ४२ ॥
kṛtaḥ me anugrahaḥ pūrvam hariṇā ārta-anukampinā . tam āpādayitum brahman bhagavan yūyam āgatāḥ .. 42 ..
निष्पादितश्च कार्त्स्न्येन भगवद्भिः घृणालुभिः । साधूच्छिष्टं हि मे सर्वं आत्मना सह किं ददे ॥ ४३ ॥
निष्पादितः च कार्त्स्न्येन भगवद्भिः घृणालुभिः । साधु-उच्छिष्टम् हि मे सर्वम् आत्मना सह किम् ददे ॥ ४३ ॥
niṣpāditaḥ ca kārtsnyena bhagavadbhiḥ ghṛṇālubhiḥ . sādhu-ucchiṣṭam hi me sarvam ātmanā saha kim dade .. 43 ..
प्राणा दाराः सुता ब्रह्मन् गुहाश्च सपरिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥
प्राणाः दाराः सुताः ब्रह्मन् गुहाः च स परिच्छदाः । राज्यम् बलम् मही कोशः इति सर्वम् निवेदितम् ॥ ४४ ॥
prāṇāḥ dārāḥ sutāḥ brahman guhāḥ ca sa paricchadāḥ . rājyam balam mahī kośaḥ iti sarvam niveditam .. 44 ..
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥
सैनापत्यम् च राज्यम् च दण्ड-नेतृ-त्वम् एव च । सर्व-लोक-आधिपत्यम् च वेद-शास्त्र-विद् अर्हति ॥ ४५ ॥
saināpatyam ca rājyam ca daṇḍa-netṛ-tvam eva ca . sarva-loka-ādhipatyam ca veda-śāstra-vid arhati .. 45 ..
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६ ॥
स्वम् एव ब्राह्मणः भुङ्क्ते स्वम् वस्ते स्वम् ददाति च । तस्य एव अनुग्रहेण अन्नम् भुञ्जते क्षत्रिय-आदयः ॥ ४६ ॥
svam eva brāhmaṇaḥ bhuṅkte svam vaste svam dadāti ca . tasya eva anugraheṇa annam bhuñjate kṣatriya-ādayaḥ .. 46 ..
यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः । तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥
यैः ईदृशी भगवतः गतिः आत्म-वादे एकान्ततः निगमिभिः प्रतिपादिता नः । तुष्यन्तु अदभ्र-करुणाः स्व-कृतेन नित्यम् कः नाम तत् प्रतिकरोति विनोद-पात्रम् ॥ ४७ ॥
yaiḥ īdṛśī bhagavataḥ gatiḥ ātma-vāde ekāntataḥ nigamibhiḥ pratipāditā naḥ . tuṣyantu adabhra-karuṇāḥ sva-kṛtena nityam kaḥ nāma tat pratikaroti vinoda-pātram .. 47 ..
मैत्रेय उवाच - (अनुष्ट्प्)
ते आत्मयोगपतय आदिराजेन पूजिताः । शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८ ॥
ते आत्म-योग-पतयः आदिराजेन पूजिताः । शीलम् तदीयम् शंसन्तः खे अभूवन् मिषताम् नृणाम् ॥ ४८ ॥
te ātma-yoga-patayaḥ ādirājena pūjitāḥ . śīlam tadīyam śaṃsantaḥ khe abhūvan miṣatām nṛṇām .. 48 ..
वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया । आप्तकामं इवात्मानं मेन आत्मन्यवस्थितः ॥ ४९ ॥
वैन्यः तु धुर्यः महताम् संस्थित्य अध्यात्म-शिक्षया । आप्त-कामम् इव आत्मानम् मेने आत्मनि अवस्थितः ॥ ४९ ॥
vainyaḥ tu dhuryaḥ mahatām saṃsthitya adhyātma-śikṣayā . āpta-kāmam iva ātmānam mene ātmani avasthitaḥ .. 49 ..
कर्माणि च यथाकालं यथादेशं यथाबलम् । यथोचितं यथावित्तं अकरोद्ब्रह्मसात्कृतम् ॥ ५० ॥
कर्माणि च यथाकालम् यथादेशम् यथाबलम् । यथोचितम् यथावित्तम् अकरोत् ब्रह्मसात्कृतम् ॥ ५० ॥
karmāṇi ca yathākālam yathādeśam yathābalam . yathocitam yathāvittam akarot brahmasātkṛtam .. 50 ..
फलं ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१ ॥
फलम् ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः । कर्म-अध्यक्षम् च मन्वानः आत्मानम् प्रकृतेः परम् ॥ ५१ ॥
phalam brahmaṇi vinyasya nirviṣaṅgaḥ samāhitaḥ . karma-adhyakṣam ca manvānaḥ ātmānam prakṛteḥ param .. 51 ..
गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥
गृहेषु वर्तमानः अपि स साम्राज्य-श्रिया अन्वितः । न असज्जत इन्द्रिय-अर्थेषु निरहंमतिः अर्क-वत् ॥ ५२ ॥
gṛheṣu vartamānaḥ api sa sāmrājya-śriyā anvitaḥ . na asajjata indriya-artheṣu nirahaṃmatiḥ arka-vat .. 52 ..
एवं अध्यात्मयोगेन कर्माणि अनुसमाचरन् । पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥
एवम् अध्यात्म-योगेन कर्माणि अनुसमाचरन् । पुत्रान् उत्पादयामास पञ्च अर्चिषि आत्म-सम्मतान् ॥ ५३ ॥
evam adhyātma-yogena karmāṇi anusamācaran . putrān utpādayāmāsa pañca arciṣi ātma-sammatān .. 53 ..
विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४ ॥
विजिताश्वम् धूम्रकेशम् हर्यक्षम् द्रविणम् वृकम् । सर्वेषाम् लोकपालानाम् दधार एकः पृथुः गुणान् ॥ ५४ ॥
vijitāśvam dhūmrakeśam haryakṣam draviṇam vṛkam . sarveṣām lokapālānām dadhāra ekaḥ pṛthuḥ guṇān .. 54 ..
गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः । मनोवाग् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः ॥ ५५ ॥
गोपीथाय जगत्-सृष्टेः काले स्वे स्वे अच्युत-आत्मकः । मनः-वाच्-वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः ॥ ५५ ॥
gopīthāya jagat-sṛṣṭeḥ kāle sve sve acyuta-ātmakaḥ . manaḥ-vāc-vṛttibhiḥ saumyaiḥ guṇaiḥ saṃrañjayan prajāḥ .. 55 ..
राजेत्यधान् नामधेयं सोमराज इवापरः । सूर्यवद्विसृजन्गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥
राजा इति अधात् नामधेयम् सोमराजः इव अपरः । सूर्य-वत् विसृजन् गृह्णन् प्रतपन् च भुवः वसु ॥ ५६ ॥
rājā iti adhāt nāmadheyam somarājaḥ iva aparaḥ . sūrya-vat visṛjan gṛhṇan pratapan ca bhuvaḥ vasu .. 56 ..
दुर्धर्षस्तेजसेवाग्निः महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥
दुर्धर्षः तेजसा इव अग्निः महा-इन्द्रः इव दुर्जयः । तितिक्षया धरित्री इव द्यौः इव अभीष्ट-दः नृणाम् ॥ ५७ ॥
durdharṣaḥ tejasā iva agniḥ mahā-indraḥ iva durjayaḥ . titikṣayā dharitrī iva dyauḥ iva abhīṣṭa-daḥ nṛṇām .. 57 ..
वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८ ॥
वर्षति स्म यथाकामम् पर्जन्यः इव तर्पयन् । समुद्रः इव दुर्बोधः सत्त्वेन अचल-राज् इव ॥ ५८ ॥
varṣati sma yathākāmam parjanyaḥ iva tarpayan . samudraḥ iva durbodhaḥ sattvena acala-rāj iva .. 58 ..
धर्मराडिव शिक्षायां आश्चर्ये हिमवानिव । कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥
धर्मराज् इव शिक्षायाम् आश्चर्ये हिमवान् इव । कुवेरः इव कोश-आढ्यः गुप्त-अर्थः वरुणः यथा ॥ ५९ ॥
dharmarāj iva śikṣāyām āścarye himavān iva . kuveraḥ iva kośa-āḍhyaḥ gupta-arthaḥ varuṇaḥ yathā .. 59 ..
मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूतराडिव । ॥ ६० ॥
मातरिश्वा इव सर्व-आत्मा बलेन महसा ओजसा । अविषह्य-तया देवः भगवान् भूत-राज् इव । ॥ ६० ॥
mātariśvā iva sarva-ātmā balena mahasā ojasā . aviṣahya-tayā devaḥ bhagavān bhūta-rāj iva . .. 60 ..
कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव । वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । ॥ ६१ ॥
कन्दर्पः इव सौन्दर्ये मनस्वी मृगराज् इव । वात्सल्ये मनु-वत् नॄणाम् प्रभु-त्वे भगवान् अजः । ॥ ६१ ॥
kandarpaḥ iva saundarye manasvī mṛgarāj iva . vātsalye manu-vat nṝṇām prabhu-tve bhagavān ajaḥ . .. 61 ..
बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रयशीलाभ्यां आत्मतुल्यः परोद्यमे । ॥ ६२ ॥
बृहस्पतिः ब्रह्म-वादे आत्मवत्-त्वे स्वयम् हरिः । भक्त्या गो गुरु-विप्रेषु विष्वक्सेन-अनुवर्तिषु । ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः पर-उद्यमे । ॥ ६२ ॥
bṛhaspatiḥ brahma-vāde ātmavat-tve svayam hariḥ . bhaktyā go guru-vipreṣu viṣvaksena-anuvartiṣu . hriyā praśraya-śīlābhyām ātma-tulyaḥ para-udyame . .. 62 ..
कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव । ॥ ६३ ॥
कीर्त्या ऊर्ध्व-गीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणाम् रामः सताम् इव । ॥ ६३ ॥
kīrtyā ūrdhva-gītayā pumbhiḥ trailokye tatra tatra ha . praviṣṭaḥ karṇa-randhreṣu strīṇām rāmaḥ satām iva . .. 63 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुचरिते द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthucarite dvāviṃśaḥ adhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In