| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् । तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः ॥ १ ॥
janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam . tatropajagmurmunayaḥ catvāraḥ sūryavarcasaḥ .. 1 ..
तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा । लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २ ॥
tāṃstu siddheśvarān rājā vyomno'vatarato'rciṣā . lokānapāpān kurvatyā sānugo'caṣṭa lakṣitān .. 2 ..
तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः । ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥
taddarśanodgatān prāṇān pratyāditsurivotthitaḥ . sasadasyānugo vainya indriyeśo guṇāniva .. 3 ..
गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः । विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥
gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ . vidhivatpūjayāṃ cakre gṛhītādhyarhaṇāsanān .. 4 ..
तत्पादशौचसलिलैः मार्जितालकबन्धनः । तत्र शीलवतां वृत्तं आचरन् मानयन्निव ॥ ५ ॥
tatpādaśaucasalilaiḥ mārjitālakabandhanaḥ . tatra śīlavatāṃ vṛttaṃ ācaran mānayanniva .. 5 ..
हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् । श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ॥ ६ ॥
hāṭakāsana āsīnān svadhiṣṇyeṣviva pāvakān . śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān .. .. 6 ..
पृथुरुवाच -
अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिः ॥ ७ ॥
aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ . yasya vo darśanaṃ hyāsīd durdarśānāṃ ca yogibhiḥ .. 7 ..
किं तस्य दुर्लभतरं इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८ ॥
kiṃ tasya durlabhataraṃ iha loke paratra ca . yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ .. 8 ..
नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् । यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
naiva lakṣayate loko lokān paryaṭato'pi yān . yathā sarvadṛśaṃ sarva ātmānaṃ ye'sya hetavaḥ .. 9 ..
अधना अपि ते धन्याः साधवो गृहमेधिनः । यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः ॥ १० ॥
adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ . yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ .. 10 ..
व्यालालयद्रुमा वै तेऽपि अरिक्ताखिलसम्पदः । यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ॥ ११ ॥
vyālālayadrumā vai te'pi ariktākhilasampadaḥ . yadgṛhāstīrthapādīya pādatīrthavivarjitāḥ .. 11 ..
स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥
svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ . caranti śraddhayā dhīrā bālā eva bṛhanti ca .. 12 ..
कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३ ॥
kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām . vyasanāvāpa etasmin patitānāṃ svakarmabhiḥ .. 13 ..
भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४ ॥
bhavatsu kuśalapraśna ātmārāmeṣu neṣyate . kuśalākuśalā yatra na santi mativṛttayaḥ .. 14 ..
तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५ ॥
tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām . sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet .. 15 ..
व्यक्तमात्मवतामात्मा भगवान् आत्मभावनः । स्वानां अनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १ ॥ ६ ॥
vyaktamātmavatāmātmā bhagavān ātmabhāvanaḥ . svānāṃ anugrahāyemāṃ siddharūpī caratyajaḥ .. 1 .. 6 ..
मैत्रेय उवाच -
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥
pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu . smayamāna iva prītyā kumāraḥ pratyuvāca ha .. 17 ..
सनत्कुमार उवाच -
साधु पृष्टं महाराज सर्वभूतहितात्मना । भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८ ॥
sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā . bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī .. 18 ..
सङ्गमः खलु साधूनां उभयेषां च सम्मतः । यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९ ॥
saṅgamaḥ khalu sādhūnāṃ ubhayeṣāṃ ca sammataḥ . yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam .. 19 ..
अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः ॥ २० ॥
astyeva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane . ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ .. 20 ..
शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः । असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ . asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā .. 21 ..
सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया । योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च ॥ २२ ॥
sā śraddhayā bhagavaddharmacaryayā jijñāsayā''dhyātmikayoganiṣṭhayā . yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca .. 22 ..
अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च । विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात् ॥ २३ ॥
arthendriyārāmasagoṣṭhyatṛṣṇayā tatsammatānāmaparigraheṇa ca . viviktarucyā paritoṣa ātman vinā harerguṇapīyūṣapānāt .. 23 ..
अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना । यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥
ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā . yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca .. 24 ..
हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
harermuhustatparakarṇapūra guṇābhidhānena vijṛmbhamāṇayā . bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ .. 25 ..
यदा रतिर्ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञानविरागरंहसा । दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
yadā ratirbrahmaṇi naiṣṭhikī pumān ācāryavān jñānavirāgaraṃhasā . dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito'gniḥ .. 26 ..
दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे । परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥
dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe . parātmanoryad vyavadhānaṃ purastāt svapne yathā puruṣastadvināśe .. 27 ..
(अनुष्टुप्)
आत्मानमिन्द्रियार्थं च परं यदुभयोरपि । सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥
ātmānamindriyārthaṃ ca paraṃ yadubhayorapi . satyāśaya upādhau vai pumān paśyati nānyadā .. 28 ..
निमित्ते सति सर्वत्र जलादौ अपि पूरुषः । आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥
nimitte sati sarvatra jalādau api pūruṣaḥ . ātmanaśca parasyāpi bhidāṃ paśyati nānyadā .. 29 ..
इन्द्रियैर्विषयाकृष्टैः आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥
indriyairviṣayākṛṣṭaiḥ ākṣiptaṃ dhyāyatāṃ manaḥ . cetanāṃ harate buddheḥ stambastoyamiva hradāt .. 30 ..
भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये । तद्रोधं कवयः प्राहुः आत्मापह्नवमात्मनः ॥ ३१ ॥
bhraśyatyanu smṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye . tadrodhaṃ kavayaḥ prāhuḥ ātmāpahnavamātmanaḥ .. 31 ..
नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । यदध्यन्यस्य प्रेयस्त्वं आत्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ . yadadhyanyasya preyastvaṃ ātmanaḥ svavyatikramāt .. 32 ..
अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ ३३ ॥
arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām . bhraṃśito jñānavijñānād yenāviśati mukhyatām .. 33 ..
न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः । धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ . dharmārthakāmamokṣāṇāṃ yadatyantavighātakam .. 34 ..
तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५ ॥
tatrāpi mokṣa evārtha ātyantikatayeṣyate . traivargyo'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ .. 35 ..
परेऽवरे च ये भावा गुणव्यतिकरादनु । न तेषां विद्यते क्षेमं ईशविध्वंसिताशिषाम् ॥ ३ ॥ ६ ॥
pare'vare ca ye bhāvā guṇavyatikarādanu . na teṣāṃ vidyate kṣemaṃ īśavidhvaṃsitāśiṣām .. 3 .. 6 ..
तत्त्वं नरेन्द्र जगतामथ तस्थूषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् । यः क्षेत्रवित्तपतया हृदि विश्वगाविः प्रत्यक् चकास्ति भगवान् तमवेहि सोऽस्मि ॥ ३७ ॥
tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhirāvṛtānām . yaḥ kṣetravittapatayā hṛdi viśvagāviḥ pratyak cakāsti bhagavān tamavehi so'smi .. 37 ..
यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्रजि वाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥
yasminnidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vāhibuddhiḥ . taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye .. 38 ..
यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः । तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥
yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ . tadvanna riktamatayo yatayo'pi ruddha srotogaṇāstamaraṇaṃ bhaja vāsudevam .. 39 ..
कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीरषन्ति । तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥
kṛcchro mahāniha bhavārṇavamaplaveśāṃ ṣaḍvarganakramasukhena titīraṣanti . tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam .. 40 ..
मैत्रेय उवाच - (अनुष्ट्प्)
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा । दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१ ॥
sa evaṃ brahmaputreṇa kumāreṇātmamedhasā . darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ .. 41 ..
राजोवाच -
कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना । तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२ ॥
kṛto me'nugrahaḥ pūrvaṃ hariṇā''rtānukampinā . tamāpādayituṃ brahman bhagavan yūyamāgatāḥ .. 42 ..
निष्पादितश्च कार्त्स्न्येन भगवद्भिः घृणालुभिः । साधूच्छिष्टं हि मे सर्वं आत्मना सह किं ददे ॥ ४३ ॥
niṣpāditaśca kārtsnyena bhagavadbhiḥ ghṛṇālubhiḥ . sādhūcchiṣṭaṃ hi me sarvaṃ ātmanā saha kiṃ dade .. 43 ..
प्राणा दाराः सुता ब्रह्मन् गुहाश्च सपरिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥
prāṇā dārāḥ sutā brahman guhāśca saparicchadāḥ . rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam .. 44 ..
सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च । सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥
saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca . sarva lokādhipatyaṃ ca vedaśāstravidarhati .. 45 ..
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६ ॥
svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca . tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ .. 46 ..
यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः । तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥
yairīdṛśī bhagavato gatirātmavāde ekāntato nigamibhiḥ pratipāditā naḥ . tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram .. 47 ..
मैत्रेय उवाच - (अनुष्ट्प्)
ते आत्मयोगपतय आदिराजेन पूजिताः । शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८ ॥
te ātmayogapataya ādirājena pūjitāḥ . śīlaṃ tadīyaṃ śaṃsantaḥ khe'bhūvan miṣatāṃ nṛṇām .. 48 ..
वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया । आप्तकामं इवात्मानं मेन आत्मन्यवस्थितः ॥ ४९ ॥
vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā . āptakāmaṃ ivātmānaṃ mena ātmanyavasthitaḥ .. 49 ..
कर्माणि च यथाकालं यथादेशं यथाबलम् । यथोचितं यथावित्तं अकरोद्ब्रह्मसात्कृतम् ॥ ५० ॥
karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam . yathocitaṃ yathāvittaṃ akarodbrahmasātkṛtam .. 50 ..
फलं ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१ ॥
phalaṃ brahmaṇi vinyasya nirviṣaṅgaḥ samāhitaḥ . karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param .. 51 ..
गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥
gṛheṣu vartamāno'pi sa sāmrājyaśriyānvitaḥ . nāsajjatendriyārtheṣu nirahaṃmatirarkavat .. 52 ..
एवं अध्यात्मयोगेन कर्माणि अनुसमाचरन् । पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥
evaṃ adhyātmayogena karmāṇi anusamācaran . putrān utpādayāmāsa pañcārciṣyātmasammatān .. 53 ..
विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४ ॥
vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam . sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān .. 54 ..
गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः । मनोवाग् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः ॥ ५५ ॥
gopīthāya jagatsṛṣṭeḥ kāle sve sve'cyutātmakaḥ . manovāg vṛttibhiḥ saumyaiḥ guṇaiḥ saṃrañjayan prajāḥ .. 55 ..
राजेत्यधान् नामधेयं सोमराज इवापरः । सूर्यवद्विसृजन्गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥
rājetyadhān nāmadheyaṃ somarāja ivāparaḥ . sūryavadvisṛjangṛhṇan pratapaṃśca bhuvo vasu .. 56 ..
दुर्धर्षस्तेजसेवाग्निः महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥
durdharṣastejasevāgniḥ mahendra iva durjayaḥ . titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām .. 57 ..
वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८ ॥
varṣati sma yathākāmaṃ parjanya iva tarpayan . samudra iva durbodhaḥ sattvenācalarāḍiva .. 58 ..
धर्मराडिव शिक्षायां आश्चर्ये हिमवानिव । कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥
dharmarāḍiva śikṣāyāṃ āścarye himavāniva . kuvera iva kośāḍhyo guptārtho varuṇo yathā .. 59 ..
मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूतराडिव । ॥ ६० ॥
mātariśveva sarvātmā balena mahasaujasā . aviṣahyatayā devo bhagavān bhūtarāḍiva . .. 60 ..
कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव । वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । ॥ ६१ ॥
kandarpa iva saundarye manasvī mṛgarāḍiva . vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ . .. 61 ..
बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रयशीलाभ्यां आत्मतुल्यः परोद्यमे । ॥ ६२ ॥
bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ . bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu . hriyā praśrayaśīlābhyāṃ ātmatulyaḥ parodyame . .. 62 ..
कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव । ॥ ६३ ॥
kīrtyordhvagītayā pumbhiḥ trailokye tatra tatra ha . praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva . .. 63 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe pṛthucarite dvāviṃśo'dhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In