| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
दृष्ट्वात्मानं प्रवयसं एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेष स्वानुसर्गः प्रजापतिः ॥ १ ॥
दृष्ट्वा आत्मानम् प्रवयसम् एकदा वैन्यः आत्मवान् । आत्मना वर्धित-अशेष-स्व-अनुसर्गः प्रजापतिः ॥ १ ॥
dṛṣṭvā ātmānam pravayasam ekadā vainyaḥ ātmavān . ātmanā vardhita-aśeṣa-sva-anusargaḥ prajāpatiḥ .. 1 ..
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् । निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
जगतः तस्थुषः च अपि वृत्ति-दः धर्म-भृत् सताम् । निष्पादित-ईश्वर-आदेशः यद्-अर्थम् इह जज्ञिवान् ॥ २ ॥
jagataḥ tasthuṣaḥ ca api vṛtti-daḥ dharma-bhṛt satām . niṣpādita-īśvara-ādeśaḥ yad-artham iha jajñivān .. 2 ..
आत्मजेष्वात्मजां न्यस्य विरहाद् रुदतीमिव । प्रजासु विमनःस्वेकः सदारोऽगात्तपोवनम् ॥ ३ ॥
आत्मजेषु आत्मजाम् न्यस्य विरहात् रुदतीम् इव । प्रजासु विमनःसु एकः स दारः अगात् तपः-वनम् ॥ ३ ॥
ātmajeṣu ātmajām nyasya virahāt rudatīm iva . prajāsu vimanaḥsu ekaḥ sa dāraḥ agāt tapaḥ-vanam .. 3 ..
तत्राप्यदाभ्यनियमो वैखानससुसम्मते । आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
तत्र अपि अदाभ्य-नियमः वैखानस-सु सम्मते । आरब्धः उग्र-तपसि यथा स्व-विजये पुरा ॥ ४ ॥
tatra api adābhya-niyamaḥ vaikhānasa-su sammate . ārabdhaḥ ugra-tapasi yathā sva-vijaye purā .. 4 ..
कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् । अब्भक्षः कतिचित्पक्षान् वायुभक्षस्ततः परम् ॥ ५ ॥
कन्द-मूल-फल-आहारः शुष्क-पर्ण-अशनः क्वचिद् । अब्भक्षः कतिचिद् पक्षान् वायुभक्षः ततस् परम् ॥ ५ ॥
kanda-mūla-phala-āhāraḥ śuṣka-parṇa-aśanaḥ kvacid . abbhakṣaḥ katicid pakṣān vāyubhakṣaḥ tatas param .. 5 ..
ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनिः । आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥
ग्रीष्मे पञ्चतपाः वीरः वर्षासु आसार-साह् मुनिः । आ कण्ठ-मग्नः शिशिरे उदके स्थण्डिलेशयः ॥ ६ ॥
grīṣme pañcatapāḥ vīraḥ varṣāsu āsāra-sāh muniḥ . ā kaṇṭha-magnaḥ śiśire udake sthaṇḍileśayaḥ .. 6 ..
तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिलः । आरिराधयिषुः कृष्णं अचरत् तप उत्तमम् ॥ ७ ॥
तितिक्षुः यत-वाच् दान्तः ऊर्ध्वरेताः जित-अनिलः । आरिराधयिषुः कृष्णम् अचरत् तपः उत्तमम् ॥ ७ ॥
titikṣuḥ yata-vāc dāntaḥ ūrdhvaretāḥ jita-anilaḥ . ārirādhayiṣuḥ kṛṣṇam acarat tapaḥ uttamam .. 7 ..
तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः । प्राणायामैः सन्निरुद्ध षड्वर्गश्छिन्नबन्धनः ॥ ८ ॥
तेन क्रम-अनुसिद्धेन ध्वस्त-कर्म-मल-आशयः । प्राणायामैः सन् निरुद्ध षड्वर्गः छिन्न-बन्धनः ॥ ८ ॥
tena krama-anusiddhena dhvasta-karma-mala-āśayaḥ . prāṇāyāmaiḥ san niruddha ṣaḍvargaḥ chinna-bandhanaḥ .. 8 ..
सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् । योगं तेनैव पुरुषं अभजत् पुरुषर्षभः ॥ ९ ॥
सनत्कुमारः भगवान् यत् आह आध्यात्मिकम् परम् । योगम् तेन एव पुरुषम् अभजत् पुरुष-ऋषभः ॥ ९ ॥
sanatkumāraḥ bhagavān yat āha ādhyātmikam param . yogam tena eva puruṣam abhajat puruṣa-ṛṣabhaḥ .. 9 ..
भगवद्धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर्भगवति ब्रह्मणि अनन्यविषयाभवत् ॥ १० ॥
भगवत्-धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिः भगवति ब्रह्मणि अनन्य-विषया भवत् ॥ १० ॥
bhagavat-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā . bhaktiḥ bhagavati brahmaṇi ananya-viṣayā bhavat .. 10 ..
तस्यानया भगवतः परिकर्मशुद्ध सत्त्वात्मनस्तदनु संस्मरणानुपूर्त्या । ज्ञानं विरक्तिमदभूत् निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
तस्य अनया भगवतः परिकर्म-शुद्ध सत्त्व-आत्मनः तदनु संस्मरण-अनुपूर्त्या । ज्ञानम् विरक्तिमत् अभूत् निशितेन येन चिच्छेद संशय-पदम् निज-जीव-कोशम् ॥ ११ ॥
tasya anayā bhagavataḥ parikarma-śuddha sattva-ātmanaḥ tadanu saṃsmaraṇa-anupūrtyā . jñānam viraktimat abhūt niśitena yena ciccheda saṃśaya-padam nija-jīva-kośam .. 11 ..
छिन्नान्यधीरधिगतात्मगतिर्निरीहः तत्तत्यजेऽच्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
छिन्न-अन्य-धीः अधिगत-आत्म-गतिः निरीहः तत् तत्यजे अच्छिनत् इदम् वयुनेन येन । तावत् न योग-गतिभिः यतिः अप्रमत्तः यावत् गदाग्रज-कथासु रतिम् न कुर्यात् ॥ १२ ॥
chinna-anya-dhīḥ adhigata-ātma-gatiḥ nirīhaḥ tat tatyaje acchinat idam vayunena yena . tāvat na yoga-gatibhiḥ yatiḥ apramattaḥ yāvat gadāgraja-kathāsu ratim na kuryāt .. 12 ..
(अनुष्टुप्)
एवं स वीरप्रवरः संयोज्यात्मानमात्मनि । ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
एवम् स वीर-प्रवरः संयोज्य आत्मानम् आत्मनि । ब्रह्म-भूतः दृढम् काले तत्याज स्वम् कलेवरम् ॥ १३ ॥
evam sa vīra-pravaraḥ saṃyojya ātmānam ātmani . brahma-bhūtaḥ dṛḍham kāle tatyāja svam kalevaram .. 13 ..
सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयन् शनैः । नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्ठशीर्षणि ॥ १४ ॥
सम्पीड्य पायुम् पार्ष्णिभ्याम् वायुम् उत्सारयन् शनैस् । नाभ्याम् कोष्ठेषु अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि ॥ १४ ॥
sampīḍya pāyum pārṣṇibhyām vāyum utsārayan śanais . nābhyām koṣṭheṣu avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi .. 14 ..
उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
उत्सर्पयन् तु तम् मूर्ध्नि क्रमेण आवेश्य निःस्पृहः । वायुम् वायौ क्षितौ कायम् तेजः तेजसि अयूयुजत् ॥ १५ ॥
utsarpayan tu tam mūrdhni krameṇa āveśya niḥspṛhaḥ . vāyum vāyau kṣitau kāyam tejaḥ tejasi ayūyujat .. 15 ..
खान्याकाशे द्रवं तोये यथास्थानं विभागशः । क्षितिमम्भसि तत्तेजसि अदो वायौ नभस्यमुम् ॥ १६ ॥
खानि आकाशे द्रवम् तोये यथास्थानम् विभागशः । क्षितिम् अम्भसि तत् तेजसि अदः वायौ नभसि अमुम् ॥ १६ ॥
khāni ākāśe dravam toye yathāsthānam vibhāgaśaḥ . kṣitim ambhasi tat tejasi adaḥ vāyau nabhasi amum .. 16 ..
इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् । भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
इन्द्रियेषु मनः तानि तन्मात्रेषु यथोद्भवम् । भूतादिना अमूनि उत्कृष्य महति आत्मनि सन्दधे ॥ १७ ॥
indriyeṣu manaḥ tāni tanmātreṣu yathodbhavam . bhūtādinā amūni utkṛṣya mahati ātmani sandadhe .. 17 ..
तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयमात्मस्थं असावनुशयी पुमान् ।
तम् सर्व-गुण-विन्यासम् जीवे माया-मये न्यधात् । तम् च अनुशयम् आत्म-स्थम् असौ अनुशयी पुमान् ।
tam sarva-guṇa-vinyāsam jīve māyā-maye nyadhāt . tam ca anuśayam ātma-stham asau anuśayī pumān .
अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् । सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥ १९ ॥
अर्चिः नाम महा-राज्ञी तद्-पत्नी अनुगता वनम् । सुकुमारी अतदर्हा च यत् पद्भ्याम् स्पर्शनम् भुवः ॥ १९ ॥
arciḥ nāma mahā-rājñī tad-patnī anugatā vanam . sukumārī atadarhā ca yat padbhyām sparśanam bhuvaḥ .. 19 ..
अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चारषदेहयात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ २० ॥
अतीव भर्तुः व्रत-धर्म-निष्ठया शुश्रूषया चारष-देहयात्रया । ना अविन्दत आर्तिम् परिकर्शिता अपि सा प्रेयस्कर-स्पर्शन-मान-निर्वृतिः ॥ २० ॥
atīva bhartuḥ vrata-dharma-niṣṭhayā śuśrūṣayā cāraṣa-dehayātrayā . nā avindata ārtim parikarśitā api sā preyaskara-sparśana-māna-nirvṛtiḥ .. 20 ..
देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥ २१ ॥
देहम् विपन्न-अखिल-चेतना-आदिकम् पत्युः पृथिव्याः दयितस्य च आत्मनः । आलक्ष्य किञ्चिद् च विलप्य सा सती चिताम् अथ आरोपयत् अद्रि-सानुनि ॥ २१ ॥
deham vipanna-akhila-cetanā-ādikam patyuḥ pṛthivyāḥ dayitasya ca ātmanaḥ . ālakṣya kiñcid ca vilapya sā satī citām atha āropayat adri-sānuni .. 21 ..
विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मणः । नत्वा दिविस्थांस्त्रिदशांस्त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
विधाय कृत्यम् ह्रदिनी-जल-आप्लुता दत्त्वा उदकम् भर्तुः उदार-कर्मणः । नत्वा दिवि-स्थान् त्रिदशान् त्रिस् परीत्य विवेश वह्निम् ध्यायती भर्तृ-पादौ ॥ २२ ॥
vidhāya kṛtyam hradinī-jala-āplutā dattvā udakam bhartuḥ udāra-karmaṇaḥ . natvā divi-sthān tridaśān tris parītya viveśa vahnim dhyāyatī bhartṛ-pādau .. 22 ..
(अनुष्ट्प्)
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् । तुष्टुवुर्वरदा देवैः देवपत्न्यः सहस्रशः ॥ २३ ॥
विलोक्य अनुगताम् साध्वीम् पृथुम् वीर-वरम् पतिम् । तुष्टुवुः वर-दाः देवैः देव-पत्न्यः सहस्रशस् ॥ २३ ॥
vilokya anugatām sādhvīm pṛthum vīra-varam patim . tuṣṭuvuḥ vara-dāḥ devaiḥ deva-patnyaḥ sahasraśas .. 23 ..
कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि । नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
कुर्वत्यः कुसुम-आसारम् तस्मिन् मन्दर-सानुनि । नदत्सु अमर-तूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
kurvatyaḥ kusuma-āsāram tasmin mandara-sānuni . nadatsu amara-tūryeṣu gṛṇanti sma parasparam .. 24 ..
देव्य ऊचुः -
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
अहो इयम् वधूः धन्या या च एवम् भूभुजाम् पतिम् । सर्व-आत्मना पतिम् भेजे यज्ञेशम् श्रीः वधूः इव ॥ २५ ॥
aho iyam vadhūḥ dhanyā yā ca evam bhūbhujām patim . sarva-ātmanā patim bheje yajñeśam śrīḥ vadhūḥ iva .. 25 ..
सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती । पश्यतास्मानतीत्यार्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥
सा एषा नूनम् व्रजति ऊर्ध्वम् अनु वैन्यम् पतिम् सती । पश्यत अस्मान् अतीत्य अर्चिः दुर्विभाव्येन कर्मणा ॥ २६ ॥
sā eṣā nūnam vrajati ūrdhvam anu vainyam patim satī . paśyata asmān atītya arciḥ durvibhāvyena karmaṇā .. 26 ..
तेषां दुरापं किं त्वन्यन् मर्त्यानां भगवत्पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
तेषाम् दुरापम् किम् तु अन्यत् मर्त्यानाम् भगवत्-पदम् । भुवि लोल-आयुषः ये वै नैष्कर्म्यम् साधयन्ति उत ॥ २७ ॥
teṣām durāpam kim tu anyat martyānām bhagavat-padam . bhuvi lola-āyuṣaḥ ye vai naiṣkarmyam sādhayanti uta .. 27 ..
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
स वञ्चितः बत आत्म-द्रुह् कृच्छ्रेण महता भुवि । लब्ध्वा आपवर्ग्यम् मानुष्यम् विषयेषु विषज्जते ॥ २८ ॥
sa vañcitaḥ bata ātma-druh kṛcchreṇa mahatā bhuvi . labdhvā āpavargyam mānuṣyam viṣayeṣu viṣajjate .. 28 ..
मैत्रेय उवाच -
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधूः । यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ २९ ॥
स्तुवतीषु अमर-स्त्रीषु पति-लोकम् गता वधूः । यम् वै आत्म-विदाम् धुर्यः वैन्यः प्राप अच्युत-आश्रयः ॥ २९ ॥
stuvatīṣu amara-strīṣu pati-lokam gatā vadhūḥ . yam vai ātma-vidām dhuryaḥ vainyaḥ prāpa acyuta-āśrayaḥ .. 29 ..
इत्थम्भूतानुभावोऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितं उद्दामचरितस्य ते ॥ ३० ॥
इत्थम् भूत-अनुभावः असौ पृथुः स भगवत्तमः । कीर्तितम् तस्य चरितम् उद्दाम-चरितस्य ते ॥ ३० ॥
ittham bhūta-anubhāvaḥ asau pṛthuḥ sa bhagavattamaḥ . kīrtitam tasya caritam uddāma-caritasya te .. 30 ..
य इदं सुमहत्पुण्यं श्रद्धयावहितः पठेत् । श्रावयेत् श्रुणुयाद्वापि स पृथोः पदवीमियात् ॥ ३१ ॥
यः इदम् सु महत् पुण्यम् श्रद्धया अवहितः पठेत् । श्रावयेत् श्रुणुयात् वा अपि स पृथोः पदवीम् इयात् ॥ ३१ ॥
yaḥ idam su mahat puṇyam śraddhayā avahitaḥ paṭhet . śrāvayet śruṇuyāt vā api sa pṛthoḥ padavīm iyāt .. 31 ..
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमतामियात् ॥ ३२ ॥
ब्राह्मणः ब्रह्म-वर्चस्वी राजन्यः जगतीपतिः । वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तम-ताम् इयात् ॥ ३२ ॥
brāhmaṇaḥ brahma-varcasvī rājanyaḥ jagatīpatiḥ . vaiśyaḥ paṭhan viṭpatiḥ syāt śūdraḥ sattama-tām iyāt .. 32 ..
त्रिकृत्व इदमाकर्ण्य नरो नार्यथवाऽऽदृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ ३३ ॥
त्रि-कृत्वस् इदम् आकर्ण्य नरः नारी अथवा आदृता । अप्रजः सुप्रजतमः निर्धनः धनवत्तमः ॥ ३३ ॥
tri-kṛtvas idam ākarṇya naraḥ nārī athavā ādṛtā . aprajaḥ suprajatamaḥ nirdhanaḥ dhanavattamaḥ .. 33 ..
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्ययनं पुंसां अमङ्गल्यनिवारणम् ॥ ३४ ॥
अस्पष्ट-कीर्तिः सु यशाः मूर्खः भवति पण्डितः । इदम् स्वस्त्ययनम् पुंसाम् अमङ्गल्य-निवारणम् ॥ ३४ ॥
aspaṣṭa-kīrtiḥ su yaśāḥ mūrkhaḥ bhavati paṇḍitaḥ . idam svastyayanam puṃsām amaṅgalya-nivāraṇam .. 34 ..
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् । धर्मार्थकाममोक्षाणां सम्यक् सिद्धिमभीप्सुभिः ॥ श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
धन्यम् यशस्यम् आयुष्यम् स्वर्ग्यम् कलि-मल-अपहम् । धर्म-अर्थ-काम-मोक्षाणाम् सम्यक् सिद्धिम् अभीप्सुभिः ॥ श्रद्धया एतत् अनुश्राव्यम् चतुर्णाम् कारणम् परम् ॥ ३५ ॥
dhanyam yaśasyam āyuṣyam svargyam kali-mala-apaham . dharma-artha-kāma-mokṣāṇām samyak siddhim abhīpsubhiḥ .. śraddhayā etat anuśrāvyam caturṇām kāraṇam param .. 35 ..
विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् । बलिं तस्मै हरन्त्यग्रे राजानः पृथवे यथा ॥ ३६ ॥
विजय-अभिमुखः राजा श्रुत्वा एतत् अभियाति यान् । बलिम् तस्मै हरन्ति अग्रे राजानः पृथवे यथा ॥ ३६ ॥
vijaya-abhimukhaḥ rājā śrutvā etat abhiyāti yān . balim tasmai haranti agre rājānaḥ pṛthave yathā .. 36 ..
मुक्तान्यसङ्गो भगवति अमलां भक्तिमुद्वहन् । वैन्यस्य चरितं पुण्यं श्रृणुयात् श्रावयेत्पठेत् ॥ ३७ ॥
मुक्त-अन्य-सङ्गः भगवति अमलाम् भक्तिम् उद्वहन् । वैन्यस्य चरितम् पुण्यम् श्रृणुयात् श्रावयेत् पठेत् ॥ ३७ ॥
mukta-anya-saṅgaḥ bhagavati amalām bhaktim udvahan . vainyasya caritam puṇyam śrṛṇuyāt śrāvayet paṭhet .. 37 ..
वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् । अस्मिन्कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
वैचित्रवीर्य-अभिहितम् महत् माहात्म्य-सूचकम् । अस्मिन् कृत-मति-मर्त्यम् पार्थवीम् गतिम् आप्नुयात् ॥ ३८ ॥
vaicitravīrya-abhihitam mahat māhātmya-sūcakam . asmin kṛta-mati-martyam pārthavīm gatim āpnuyāt .. 38 ..
अनुदिनमिदमादरेण श्रृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः । भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥ ३९ ॥
अनुदिनम् इदम् आदरेण श्रृण्वन् पृथु-चरितम् प्रथयन् विमुक्त-सङ्गः । भगवति भव-सिन्धु-पोत-पादे स च निपुणाम् लभते रतिम् मनुष्यः ॥ ३९ ॥
anudinam idam ādareṇa śrṛṇvan pṛthu-caritam prathayan vimukta-saṅgaḥ . bhagavati bhava-sindhu-pota-pāde sa ca nipuṇām labhate ratim manuṣyaḥ .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पृथुचरिते त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pṛthucarite trayoviṃśaḥ adhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In